Ṛgveda · Maṇḍala 1 · Sūkta 165
Ṛk 1.165.3
Saṃhitā
कुत॒स्त्वमिं॑द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥
कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था |
सम् पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते अस्मे ||
kútastvámindra mā́hinaḥ sánnéko yāsi satpate kím ta itthā́ ǀ
sám pṛcchase samarāṇáḥ śubhānáirvocéstánno harivo yátte asmé ǁ
kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā |
sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme ||
Padapāṭha
कुतः॑ । त्वम् । इ॒न्द्र॒ । माहि॑नः । सन् । एकः॑ । या॒सि॒ । स॒त्ऽप॒ते॒ । किम् । ते॒ । इ॒त्था ।
सम् । पृ॒च्छ॒से॒ । स॒म्ऽअ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒ऽवः॒ । यत् । ते॒ । अ॒स्मे इति॑ ॥
कुतः । त्वम् । इन्द्र । माहिनः । सन् । एकः । यासि । सत्ऽपते । किम् । ते । इत्था ।
सम् । पृच्छसे । सम्ऽअराणः । शुभानैः । वोचेः । तत् । नः । हरिऽवः । यत् । ते । अस्मे इति ॥
kútaḥ ǀ tvám ǀ indra ǀ mā́hinaḥ ǀ sán ǀ ékaḥ ǀ yāsi ǀ sat-pate ǀ kím ǀ te ǀ itthā́ ǀ
sám ǀ pṛcchase ǀ sam-arāṇáḥ ǀ śubhānáiḥ ǀ vocéḥ ǀ tát ǀ naḥ ǀ hari-vaḥ ǀ yát ǀ te ǀ asmé íti ǁ
kutaḥ ǀ tvam ǀ indra ǀ māhinaḥ ǀ san ǀ ekaḥ ǀ yāsi ǀ sat-pate ǀ kim ǀ te ǀ itthā ǀ
sam ǀ pṛcchase ǀ sam-arāṇaḥ ǀ śubhānaiḥ ǀ voceḥ ǀ tat ǀ naḥ ǀ hari-vaḥ ǀ yat ǀ te ǀ asme iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.165.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.24.03
- Maṇḍala · Anuvāka · Ṛk
- 1.23.003
- Devatā देवता
- 1, 2, 6, 8, 10-15: Maruts; 3-5, 7, 9: Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.