Ṛgveda · Maṇḍala 1

Sūkta 91

Soma · Gotama Rāhūgaṇa · 23 ṛks

Link
Devatā देवता
Soma
Ṛṣi ऋषि
Gotama Rāhūgaṇa
Chandas छन्दस्
Gāyatrī, Triṣṭubh, Uṣṇih
Metres by ṛk

1st set of styles nicṛdgāyatrī (6, 8, 9, 11); svarāṭpaṅkti (1, 3, 4); nicṛttriṣṭup (19, 21, 23); gāyatrī (10, 12); virāḍgāyatrī (13, 14); pipīlikāmadhyānicṛdgāyatrī (15, 16); bhurikpaṅkti (18, 20); paṅktiḥ (2); gāyatrī (pādanicṛdgāyatrī) (5); vardhamānā gāyatrī (7); paroṣnik (17); virāṭpaṅkti (22)

2nd set of styles gāyatrī (5-16); triṣṭubh (1-4, 18-23); uṣṇih (17)

  1. Ṛk 1

    त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पंथां॑ ।
    तव॒ प्रणी॑ती पि॒तरो॑ न इंदो दे॒वेषु॒ रत्न॑मभजंत॒ धीराः॑ ॥

    त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् |
    तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ||

    tvám soma prá cikito manīṣā́ tvám rájiṣṭhamánu neṣi pánthām ǀ
    táva práṇītī pitáro na indo devéṣu rátnamabhajanta dhī́rāḥ ǁ

    tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām |
    tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ ||

    त्वम् । सो॒म॒ । प्र । चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि॑ष्ठम् । अनु॑ । ने॒षि॒ । पन्था॑म् ।
    तव॑ । प्रऽनी॑ती । पि॒तरः॑ । नः॒ । इ॒न्दो॒ इति॑ । दे॒वेषु॑ । रत्न॑म् । अ॒भ॒ज॒न्त॒ । धीराः॑ ॥

    त्वम् । सोम । प्र । चिकितः । मनीषा । त्वम् । रजिष्ठम् । अनु । नेषि । पन्थाम् ।
    तव । प्रऽनीती । पितरः । नः । इन्दो इति । देवेषु । रत्नम् । अभजन्त । धीराः ॥

    tvám ǀ soma ǀ prá ǀ cikitaḥ ǀ manīṣā́ ǀ tvám ǀ rájiṣṭham ǀ ánu ǀ neṣi ǀ pánthām ǀ
    táva ǀ prá-nītī ǀ pitáraḥ ǀ naḥ ǀ indo íti ǀ devéṣu ǀ rátnam ǀ abhajanta ǀ dhī́rāḥ ǁ

    tvam ǀ soma ǀ pra ǀ cikitaḥ ǀ manīṣā ǀ tvam ǀ rajiṣṭham ǀ anu ǀ neṣi ǀ panthām ǀ
    tava ǀ pra-nītī ǀ pitaraḥ ǀ naḥ ǀ indo iti ǀ deveṣu ǀ ratnam ǀ abhajanta ǀ dhīrāḥ ǁ

    1.91.1 Aṣṭaka 1.6.19.1Anuvāka 1.14.54

  2. Ṛk 2

    त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः॑ सु॒दक्षो॑ वि॒श्ववे॑दाः ।
    त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः॑ ॥

    त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः |
    त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ||

    tvám soma krátubhiḥ sukráturbhūstvám dákṣaiḥ sudákṣo viśvávedāḥ ǀ
    tvám vṛ́ṣā vṛṣatvébhirmahitvā́ dyumnébhirdyumnyábhavo nṛcákṣāḥ ǁ

    tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ |
    tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ ||

    त्वम् । सो॒म॒ । क्रतु॑ऽभिः । सु॒ऽक्रतुः॑ । भूः॒ । त्वम् । दक्षैः॑ । सु॒ऽदक्षः॑ । वि॒श्वऽवे॑दाः ।
    त्वम् । वृषा॑ । वृ॒ष॒ऽत्वेभिः॑ । म॒हि॒ऽत्वा । द्यु॒म्नेभिः॑ । द्यु॒म्नी । अ॒भ॒वः॒ । नृ॒ऽचक्षाः॑ ॥

    त्वम् । सोम । क्रतुऽभिः । सुऽक्रतुः । भूः । त्वम् । दक्षैः । सुऽदक्षः । विश्वऽवेदाः ।
    त्वम् । वृषा । वृषऽत्वेभिः । महिऽत्वा । द्युम्नेभिः । द्युम्नी । अभवः । नृऽचक्षाः ॥

    tvám ǀ soma ǀ krátu-bhiḥ ǀ su-krátuḥ ǀ bhūḥ ǀ tvám ǀ dákṣaiḥ ǀ su-dákṣaḥ ǀ viśvá-vedāḥ ǀ
    tvám ǀ vṛ́ṣā ǀ vṛṣa-tvébhiḥ ǀ mahi-tvā́ ǀ dyumnébhiḥ ǀ dyumnī́ ǀ abhavaḥ ǀ nṛ-cákṣāḥ ǁ

    tvam ǀ soma ǀ kratu-bhiḥ ǀ su-kratuḥ ǀ bhūḥ ǀ tvam ǀ dakṣaiḥ ǀ su-dakṣaḥ ǀ viśva-vedāḥ ǀ
    tvam ǀ vṛṣā ǀ vṛṣa-tvebhiḥ ǀ mahi-tvā ǀ dyumnebhiḥ ǀ dyumnī ǀ abhavaḥ ǀ nṛ-cakṣāḥ ǁ

    1.91.2 Aṣṭaka 1.6.19.2Anuvāka 1.14.55

  3. Ṛk 3

    राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ ।
    शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो॑ अर्य॒मेवा॑सि सोम ॥

    राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरं तव सोम धाम |
    शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ||

    rā́jño nú te váruṇasya vratā́ni bṛhádgabhīrám táva soma dhā́ma ǀ
    śúciṣṭvámasi priyó ná mitró dakṣā́yyo aryamévāsi soma ǁ

    rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma |
    śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma ||

    राज्ञः॑ । नु । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृ॒हत् । ग॒भी॒रम् । तव॑ । सो॒म॒ । धाम॑ ।
    शुचिः॑ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः॑ । अ॒र्य॒माऽइ॑व । अ॒सि॒ । सो॒म॒ ॥

    राज्ञः । नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम ।
    शुचिः । त्वम् । असि । प्रियः । न । मित्रः । दक्षाय्यः । अर्यमाऽइव । असि । सोम ॥

    rā́jñaḥ ǀ nú ǀ te ǀ váruṇasya ǀ vratā́ni ǀ bṛhát ǀ gabhīrám ǀ táva ǀ soma ǀ dhā́ma ǀ
    śúciḥ ǀ tvám ǀ asi ǀ priyáḥ ǀ ná ǀ mitráḥ ǀ dakṣā́yyaḥ ǀ aryamā́-iva ǀ asi ǀ soma ǁ

    rājñaḥ ǀ nu ǀ te ǀ varuṇasya ǀ vratāni ǀ bṛhat ǀ gabhīram ǀ tava ǀ soma ǀ dhāma ǀ
    śuciḥ ǀ tvam ǀ asi ǀ priyaḥ ǀ na ǀ mitraḥ ǀ dakṣāyyaḥ ǀ aryamā-iva ǀ asi ǀ soma ǁ

    1.91.3 Aṣṭaka 1.6.19.3Anuvāka 1.14.56

  4. Ṛk 4

    या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
    तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ळ॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥

    या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु |
    तेभिर् नो विश्वैः सुमना अहेऌअन् राजन् सोम प्रति हव्या गृभाय ||

    yā́ te dhā́māni diví yā́ pṛthivyā́m yā́ párvateṣvóṣadhīṣvapsú ǀ
    tébhirno víśvaiḥ sumánā áheḷanrā́jantsoma práti havyā́ gṛbhāya ǁ

    yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu |
    tebhir no viśvaiḥ sumanā aheḷan rājan soma prati havyā gṛbhāya ||

    या । ते॒ । धामा॑नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु ।
    तेभिः॑ । नः॒ । विश्वैः॑ । सु॒ऽमनाः॑ । अहे॑ळन् । राज॑न् । सो॒म॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥

    या । ते । धामानि । दिवि । या । पृथिव्याम् । या । पर्वतेषु । ओषधीषु । अप्ऽसु ।
    तेभिः । नः । विश्वैः । सुऽमनाः । अहेळन् । राजन् । सोम । प्रति । हव्या । गृभाय ॥

    yā́ ǀ te ǀ dhā́māni ǀ diví ǀ yā́ ǀ pṛthivyā́m ǀ yā́ ǀ párvateṣu ǀ óṣadhīṣu ǀ ap-sú ǀ
    tébhiḥ ǀ naḥ ǀ víśvaiḥ ǀ su-mánāḥ ǀ áheḷan ǀ rā́jan ǀ soma ǀ práti ǀ havyā́ ǀ gṛbhāya ǁ

    yā ǀ te ǀ dhāmāni ǀ divi ǀ yā ǀ pṛthivyām ǀ yā ǀ parvateṣu ǀ oṣadhīṣu ǀ ap-su ǀ
    tebhiḥ ǀ naḥ ǀ viśvaiḥ ǀ su-manāḥ ǀ aheḷan ǀ rājan ǀ soma ǀ prati ǀ havyā ǀ gṛbhāya ǁ

    1.91.4 Aṣṭaka 1.6.19.4Anuvāka 1.14.57

  5. Ṛk 5

    त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा ।
    त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥

    त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा |
    त्वम् भद्रो असि क्रतुः ||

    tvám somāsi sátpatistvám rā́jotá vṛtrahā́ ǀ
    tvám bhadró asi krátuḥ ǁ

    tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā |
    tvam bhadro asi kratuḥ ||

    त्वम् । सो॒म॒ । अ॒सि॒ । सत्ऽप॑तिः । त्वम् । राजा॑ । उ॒त । वृ॒त्र॒ऽहा ।
    त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः॑ ॥

    त्वम् । सोम । असि । सत्ऽपतिः । त्वम् । राजा । उत । वृत्रऽहा ।
    त्वम् । भद्रः । असि । क्रतुः ॥

    tvám ǀ soma ǀ asi ǀ sát-patiḥ ǀ tvám ǀ rā́jā ǀ utá ǀ vṛtra-hā́ ǀ
    tvám ǀ bhadráḥ ǀ asi ǀ krátuḥ ǁ

    tvam ǀ soma ǀ asi ǀ sat-patiḥ ǀ tvam ǀ rājā ǀ uta ǀ vṛtra-hā ǀ
    tvam ǀ bhadraḥ ǀ asi ǀ kratuḥ ǁ

    1.91.5 Aṣṭaka 1.6.19.5Anuvāka 1.14.58

  6. Ṛk 6

    त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे ।
    प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ॥

    त्वं च सोम नो वशो जीवातुं न मरामहे |
    प्रियस्तोत्रो वनस्पतिः ||

    tvám ca soma no váśo jīvā́tum ná marāmahe ǀ
    priyástotro vánaspátiḥ ǁ

    tvaṃ ca soma no vaśo jīvātuṃ na marāmahe |
    priyastotro vanaspatiḥ ||

    त्वम् । च॒ । सो॒म॒ । नः॒ । वशः॑ । जी॒वातु॑म् । न । म॒रा॒म॒हे॒ ।
    प्रि॒यऽस्तो॑त्रः । वन॒स्पतिः॑ ॥

    त्वम् । च । सोम । नः । वशः । जीवातुम् । न । मरामहे ।
    प्रियऽस्तोत्रः । वनस्पतिः ॥

    tvám ǀ ca ǀ soma ǀ naḥ ǀ váśaḥ ǀ jīvā́tum ǀ ná ǀ marāmahe ǀ
    priyá-stotraḥ ǀ vánaspátiḥ ǁ

    tvam ǀ ca ǀ soma ǀ naḥ ǀ vaśaḥ ǀ jīvātum ǀ na ǀ marāmahe ǀ
    priya-stotraḥ ǀ vanaspatiḥ ǁ

    1.91.6 Aṣṭaka 1.6.20.1Anuvāka 1.14.59

  7. Ṛk 7

    त्वं सो॑म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते ।
    दक्षं॑ दधासि जी॒वसे॑ ॥

    त्वं सोम महे भगं त्वं यून ऋतायते |
    दक्षं दधासि जीवसे ||

    tvám soma mahé bhágam tvám yū́na ṛtāyaté ǀ
    dákṣam dadhāsi jīváse ǁ

    tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate |
    dakṣaṃ dadhāsi jīvase ||

    त्वम् । सो॒म॒ । म॒हे । भग॑म् । त्वम् । यूने॑ । ऋ॒त॒ऽय॒ते ।
    दक्ष॑म् । द॒धा॒सि॒ । जी॒वसे॑ ॥

    त्वम् । सोम । महे । भगम् । त्वम् । यूने । ऋतऽयते ।
    दक्षम् । दधासि । जीवसे ॥

    tvám ǀ soma ǀ mahé ǀ bhágam ǀ tvám ǀ yū́ne ǀ ṛta-yaté ǀ
    dákṣam ǀ dadhāsi ǀ jīváse ǁ

    tvam ǀ soma ǀ mahe ǀ bhagam ǀ tvam ǀ yūne ǀ ṛta-yate ǀ
    dakṣam ǀ dadhāsi ǀ jīvase ǁ

    1.91.7 Aṣṭaka 1.6.20.2Anuvāka 1.14.60

  8. Ṛk 8

    त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः ।
    न रि॑ष्ये॒त्त्वाव॑तः॒ सखा॑ ॥

    त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः |
    न रिष्येत् त्वावतः सखा ||

    tvám naḥ soma viśváto rákṣā rājannaghāyatáḥ ǀ
    ná riṣyettvā́vataḥ sákhā ǁ

    tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ |
    na riṣyet tvāvataḥ sakhā ||

    त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । रक्ष॑ । रा॒ज॒न् । अ॒घ॒ऽय॒तः ।
    न । रि॒ष्ये॒त् । त्वाऽव॑तः । सखा॑ ॥

    त्वम् । नः । सोम । विश्वतः । रक्ष । राजन् । अघऽयतः ।
    न । रिष्येत् । त्वाऽवतः । सखा ॥

    tvám ǀ naḥ ǀ soma ǀ viśvátaḥ ǀ rákṣa ǀ rājan ǀ agha-yatáḥ ǀ
    ná ǀ riṣyet ǀ tvā́-vataḥ ǀ sákhā ǁ

    tvam ǀ naḥ ǀ soma ǀ viśvataḥ ǀ rakṣa ǀ rājan ǀ agha-yataḥ ǀ
    na ǀ riṣyet ǀ tvā-vataḥ ǀ sakhā ǁ

    1.91.8 Aṣṭaka 1.6.20.3Anuvāka 1.14.61

  9. Ṛk 9

    सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ संति॑ दा॒शुषे॑ ।
    ताभि॑र्नोऽवि॒ता भ॑व ॥

    सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे |
    ताभिर् नो ऽविता भव ||

    sóma yā́ste mayobhúva ūtáyaḥ sánti dāśúṣe ǀ
    tā́bhirno’vitā́ bhava ǁ

    soma yās te mayobhuva ūtayaḥ santi dāśuṣe |
    tābhir no 'vitā bhava ||

    सोम॑ । याः । ते॒ । म॒यः॒ऽभुवः॑ । ऊ॒तयः॑ । सन्ति॑ । दा॒शुषे॑ ।
    ताभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥

    सोम । याः । ते । मयःऽभुवः । ऊतयः । सन्ति । दाशुषे ।
    ताभिः । नः । अविता । भव ॥

    sóma ǀ yā́ḥ ǀ te ǀ mayaḥ-bhúvaḥ ǀ ūtáyaḥ ǀ sánti ǀ dāśúṣe ǀ
    tā́bhiḥ ǀ naḥ ǀ avitā́ ǀ bhava ǁ

    soma ǀ yāḥ ǀ te ǀ mayaḥ-bhuvaḥ ǀ ūtayaḥ ǀ santi ǀ dāśuṣe ǀ
    tābhiḥ ǀ naḥ ǀ avitā ǀ bhava ǁ

    1.91.9 Aṣṭaka 1.6.20.4Anuvāka 1.14.62

  10. Ṛk 10

    इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
    सोम॒ त्वं नो॑ वृ॒धे भ॑व ॥

    इमं यज्ञम् इदं वचो जुजुषाण उपागहि |
    सोम त्वं नो वृधे भव ||

    imám yajñámidám váco jujuṣāṇá upā́gahi ǀ
    sóma tvám no vṛdhé bhava ǁ

    imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi |
    soma tvaṃ no vṛdhe bhava ||

    इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि ।
    सोम॑ । त्वम् । नः॒ । वृ॒धे । भ॒व॒ ॥

    इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उपऽआगहि ।
    सोम । त्वम् । नः । वृधे । भव ॥

    imám ǀ yajñám ǀ idám ǀ vácaḥ ǀ jujuṣāṇáḥ ǀ upa-ā́gahi ǀ
    sóma ǀ tvám ǀ naḥ ǀ vṛdhé ǀ bhava ǁ

    imam ǀ yajñam ǀ idam ǀ vacaḥ ǀ jujuṣāṇaḥ ǀ upa-āgahi ǀ
    soma ǀ tvam ǀ naḥ ǀ vṛdhe ǀ bhava ǁ

    1.91.10 Aṣṭaka 1.6.20.5Anuvāka 1.14.63

  11. Ṛk 11

    सोम॑ गी॒र्भिष्ट्वा॑ व॒यं व॒र्धया॑मो वचो॒विदः॑ ।
    सु॒मृ॒ळी॒को न॒ आ वि॑श ॥

    सोम गीर्भिष् ट्वा वयं वर्धयामो वचोविदः |
    सुमृऌईको न आ विश ||

    sóma gīrbhíṣṭvā vayám vardháyāmo vacovídaḥ ǀ
    sumṛḷīkó na ā́ viśa ǁ

    soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ |
    sumṛḷīko na ā viśa ||

    सोम॑ । गीः॒ऽभिः । त्वा॒ । व॒यम् । व॒र्धया॑मः । व॒चः॒ऽविदः॑ ।
    सु॒ऽमृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥

    सोम । गीःऽभिः । त्वा । वयम् । वर्धयामः । वचःऽविदः ।
    सुऽमृळीकः । नः । आ । विश ॥

    sóma ǀ gīḥ-bhíḥ ǀ tvā ǀ vayám ǀ vardháyāmaḥ ǀ vacaḥ-vídaḥ ǀ
    su-mṛḷīkáḥ ǀ naḥ ǀ ā́ ǀ viśa ǁ

    soma ǀ gīḥ-bhiḥ ǀ tvā ǀ vayam ǀ vardhayāmaḥ ǀ vacaḥ-vidaḥ ǀ
    su-mṛḷīkaḥ ǀ naḥ ǀ ā ǀ viśa ǁ

    1.91.11 Aṣṭaka 1.6.21.1Anuvāka 1.14.64

  12. Ṛk 12

    ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
    सु॒मि॒त्रः सो॑म नो भव ॥

    गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः |
    सुमित्रः सोम नो भव ||

    gayasphā́no amīvahā́ vasuvítpuṣṭivárdhanaḥ ǀ
    sumitráḥ soma no bhava ǁ

    gayasphāno amīvahā vasuvit puṣṭivardhanaḥ |
    sumitraḥ soma no bhava ||

    ग॒य॒ऽस्फानः॑ । अ॒मी॒व॒ऽहा । व॒सु॒ऽवित् । पु॒ष्टि॒ऽवर्ध॑नः ।
    सु॒ऽमि॒त्रः । सो॒म॒ । नः॒ । भ॒व॒ ॥

    गयऽस्फानः । अमीवऽहा । वसुऽवित् । पुष्टिऽवर्धनः ।
    सुऽमित्रः । सोम । नः । भव ॥

    gaya-sphā́naḥ ǀ amīva-hā́ ǀ vasu-vít ǀ puṣṭi-várdhanaḥ ǀ
    su-mitráḥ ǀ soma ǀ naḥ ǀ bhava ǁ

    gaya-sphānaḥ ǀ amīva-hā ǀ vasu-vit ǀ puṣṭi-vardhanaḥ ǀ
    su-mitraḥ ǀ soma ǀ naḥ ǀ bhava ǁ

    1.91.12 Aṣṭaka 1.6.21.2Anuvāka 1.14.65

  13. Ṛk 13

    सोम॑ रारं॒धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा ।
    मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥

    सोम रारन्धि नो हृदि गावो न यवसेष्व् आ |
    मर्य इव स्व ओक्ये ||

    sóma rārandhí no hṛdí gā́vo ná yávaseṣvā́ ǀ
    márya iva svá okyé ǁ

    soma rārandhi no hṛdi gāvo na yavaseṣv ā |
    marya iva sva okye ||

    सोम॑ । र॒र॒न्धि । नः॒ । हृ॒दि । गावः॑ । न । यव॑सेषु । आ ।
    मर्यः॑ऽइव । स्वे । ओ॒क्ये॑ ॥

    सोम । ररन्धि । नः । हृदि । गावः । न । यवसेषु । आ ।
    मर्यःऽइव । स्वे । ओक्ये ॥

    sóma ǀ rarandhí ǀ naḥ ǀ hṛdí ǀ gā́vaḥ ǀ ná ǀ yávaseṣu ǀ ā́ ǀ
    máryaḥ-iva ǀ své ǀ okyé ǁ

    soma ǀ rarandhi ǀ naḥ ǀ hṛdi ǀ gāvaḥ ǀ na ǀ yavaseṣu ǀ ā ǀ
    maryaḥ-iva ǀ sve ǀ okye ǁ

    1.91.13 Aṣṭaka 1.6.21.3Anuvāka 1.14.66

  14. Ṛk 14

    यः सो॑म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ ।
    तं दक्षः॑ सचते क॒विः ॥

    यः सोम सख्ये तव रारणद् देव मर्त्यः |
    तं दक्षः सचते कविः ||

    yáḥ soma sakhyé táva rāráṇaddeva mártyaḥ ǀ
    tám dákṣaḥ sacate kavíḥ ǁ

    yaḥ soma sakhye tava rāraṇad deva martyaḥ |
    taṃ dakṣaḥ sacate kaviḥ ||

    यः । सो॒म॒ । स॒ख्ये । तव॑ । र॒रण॑त् । दे॒व॒ । मर्त्यः॑ ।
    तम् । दक्षः॑ । स॒च॒ते॒ । क॒विः ॥

    यः । सोम । सख्ये । तव । ररणत् । देव । मर्त्यः ।
    तम् । दक्षः । सचते । कविः ॥

    yáḥ ǀ soma ǀ sakhyé ǀ táva ǀ raráṇat ǀ deva ǀ mártyaḥ ǀ
    tám ǀ dákṣaḥ ǀ sacate ǀ kavíḥ ǁ

    yaḥ ǀ soma ǀ sakhye ǀ tava ǀ raraṇat ǀ deva ǀ martyaḥ ǀ
    tam ǀ dakṣaḥ ǀ sacate ǀ kaviḥ ǁ

    1.91.14 Aṣṭaka 1.6.21.4Anuvāka 1.14.67

  15. Ṛk 15

    उ॒रु॒ष्या णो॑ अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः ।
    सखा॑ सु॒शेव॑ एधि नः ॥

    उरुष्या णो अभिशस्तेः सोम नि पाह्य् अंहसः |
    सखा सुशेव एधि नः ||

    uruṣyā́ ṇo abhíśasteḥ sóma ní pāhyáṃhasaḥ ǀ
    sákhā suśéva edhi naḥ ǁ

    uruṣyā ṇo abhiśasteḥ soma ni pāhy aṃhasaḥ |
    sakhā suśeva edhi naḥ ||

    उ॒रु॒ष्य । नः॒ । अ॒भिऽश॑स्तेः । सोम॑ । नि । पा॒हि॒ । अंह॑सः ।
    सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥

    उरुष्य । नः । अभिऽशस्तेः । सोम । नि । पाहि । अंहसः ।
    सखा । सुऽशेवः । एधि । नः ॥

    uruṣyá ǀ naḥ ǀ abhí-śasteḥ ǀ sóma ǀ ní ǀ pāhi ǀ áṃhasaḥ ǀ
    sákhā ǀ su-śévaḥ ǀ edhi ǀ naḥ ǁ

    uruṣya ǀ naḥ ǀ abhi-śasteḥ ǀ soma ǀ ni ǀ pāhi ǀ aṃhasaḥ ǀ
    sakhā ǀ su-śevaḥ ǀ edhi ǀ naḥ ǁ

    1.91.15 Aṣṭaka 1.6.21.5Anuvāka 1.14.68

  16. Ṛk 16

    आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं॑ ।
    भवा॒ वाज॑स्य संग॒थे ॥

    आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् |
    भवा वाजस्य संगथे ||

    ā́ pyāyasva sámetu te viśvátaḥ soma vṛ́ṣṇyam ǀ
    bhávā vā́jasya saṃgathé ǁ

    ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam |
    bhavā vājasya saṃgathe ||

    आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् ।
    भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥

    आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् ।
    भव । वाजस्य । सम्ऽगथे ॥

    ā́ ǀ pyāyasva ǀ sám ǀ etu ǀ te ǀ viśvátaḥ ǀ soma ǀ vṛ́ṣṇyam ǀ
    bháva ǀ vā́jasya ǀ sam-gathé ǁ

    ā ǀ pyāyasva ǀ sam ǀ etu ǀ te ǀ viśvataḥ ǀ soma ǀ vṛṣṇyam ǀ
    bhava ǀ vājasya ǀ sam-gathe ǁ

    1.91.16 Aṣṭaka 1.6.22.1Anuvāka 1.14.69

  17. Ṛk 17

    आ प्या॑यस्व मदिंतम॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
    भवा॑ नः सु॒श्रव॑स्तमः॒ सखा॑ वृ॒धे ॥

    आ प्यायस्व मदिन्तम सोम विश्वेभिर् अंशुभिः |
    भवा नः सुश्रवस्तमः सखा वृधे ||

    ā́ pyāyasva madintama sóma víśvebhiraṃśúbhiḥ ǀ
    bhávā naḥ suśrávastamaḥ sákhā vṛdhé ǁ

    ā pyāyasva madintama soma viśvebhir aṃśubhiḥ |
    bhavā naḥ suśravastamaḥ sakhā vṛdhe ||

    आ । प्या॒य॒स्व॒ । म॒दि॒न्ऽत॒म॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ ।
    भव॑ । नः॒ । सु॒श्रवः॑ऽतमः । सखा॑ । वृ॒धे ॥

    आ । प्यायस्व । मदिन्ऽतम । सोम । विश्वेभिः । अंशुऽभिः ।
    भव । नः । सुश्रवःऽतमः । सखा । वृधे ॥

    ā́ ǀ pyāyasva ǀ madin-tama ǀ sóma ǀ víśvebhiḥ ǀ aṃśú-bhiḥ ǀ
    bháva ǀ naḥ ǀ suśrávaḥ-tamaḥ ǀ sákhā ǀ vṛdhé ǁ

    ā ǀ pyāyasva ǀ madin-tama ǀ soma ǀ viśvebhiḥ ǀ aṃśu-bhiḥ ǀ
    bhava ǀ naḥ ǀ suśravaḥ-tamaḥ ǀ sakhā ǀ vṛdhe ǁ

    1.91.17 Aṣṭaka 1.6.22.2Anuvāka 1.14.70

  18. Ṛk 18

    सं ते॒ पयां॑सि॒ समु॑ यंतु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ ।
    आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥

    सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः |
    आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ||

    sám te páyāṃsi sámu yantu vā́jāḥ sám vṛ́ṣṇyānyabhimātiṣā́haḥ ǀ
    āpyā́yamāno amṛ́tāya soma diví śrávāṃsyuttamā́ni dhiṣva ǁ

    saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ |
    āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva ||

    सम् । ते॒ । पयां॑सि । सम् । ऊं॒ इति॑ । य॒न्तु॒ । वाजाः॑ । सम् । वृष्ण्या॑नि । अ॒भि॒मा॒ति॒ऽसहः॑ ।
    आ॒ऽप्याय॑मानः । अ॒मृता॑य । सो॒म॒ । दि॒वि । श्रवां॑सि । उ॒त्ऽत॒मानि॑ । धि॒ष्व॒ ॥

    सम् । ते । पयांसि । सम् । ऊं इति । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमातिऽसहः ।
    आऽप्यायमानः । अमृताय । सोम । दिवि । श्रवांसि । उत्ऽतमानि । धिष्व ॥

    sám ǀ te ǀ páyāṃsi ǀ sám ǀ ūṃ íti ǀ yantu ǀ vā́jāḥ ǀ sám ǀ vṛ́ṣṇyāni ǀ abhimāti-sáhaḥ ǀ
    ā-pyā́yamānaḥ ǀ amṛ́tāya ǀ soma ǀ diví ǀ śrávāṃsi ǀ ut-tamā́ni ǀ dhiṣva ǁ

    sam ǀ te ǀ payāṃsi ǀ sam ǀ ūṃ iti ǀ yantu ǀ vājāḥ ǀ sam ǀ vṛṣṇyāni ǀ abhimāti-sahaḥ ǀ
    ā-pyāyamānaḥ ǀ amṛtāya ǀ soma ǀ divi ǀ śravāṃsi ǀ ut-tamāni ǀ dhiṣva ǁ

    1.91.18 Aṣṭaka 1.6.22.3Anuvāka 1.14.71

  19. Ṛk 19

    या ते॒ धामा॑नि ह॒विषा॒ यजं॑ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञं ।
    ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥

    या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् |
    गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ||

    yā́ te dhā́māni havíṣā yájanti tā́ te víśvā paribhū́rastu yajñám ǀ
    gayasphā́naḥ pratáraṇaḥ suvī́ró’vīrahā prá carā soma dúryān ǁ

    yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam |
    gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān ||

    या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒ऽभूः । अ॒स्तु॒ । य॒ज्ञम् ।
    ग॒य॒ऽस्फानः॑ । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । अवी॑रऽहा । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ॥

    या । ते । धामानि । हविषा । यजन्ति । ता । ते । विश्वा । परिऽभूः । अस्तु । यज्ञम् ।
    गयऽस्फानः । प्रऽतरणः । सुऽवीरः । अवीरऽहा । प्र । चर । सोम । दुर्यान् ॥

    yā́ ǀ te ǀ dhā́māni ǀ havíṣā ǀ yájanti ǀ tā́ ǀ te ǀ víśvā ǀ pari-bhū́ḥ ǀ astu ǀ yajñám ǀ
    gaya-sphā́naḥ ǀ pra-táraṇaḥ ǀ su-vī́raḥ ǀ ávīra-hā ǀ prá ǀ cara ǀ soma ǀ dúryān ǁ

    yā ǀ te ǀ dhāmāni ǀ haviṣā ǀ yajanti ǀ tā ǀ te ǀ viśvā ǀ pari-bhūḥ ǀ astu ǀ yajñam ǀ
    gaya-sphānaḥ ǀ pra-taraṇaḥ ǀ su-vīraḥ ǀ avīra-hā ǀ pra ǀ cara ǀ soma ǀ duryān ǁ

    1.91.19 Aṣṭaka 1.6.22.4Anuvāka 1.14.72

  20. Ṛk 20

    सोमो॑ धे॒नुं सोमो॒ अर्वं॑तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति ।
    सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥

    सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति |
    सादन्यं विदथ्यं सभेयम् पितृश्रवणं यो ददाशद् अस्मै ||

    sómo dhenúm sómo árvantamāśúm sómo vīrám karmaṇyám dadāti ǀ
    sādanyám vidathyám sabhéyam pitṛśrávaṇam yó dádāśadasmai ǁ

    somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti |
    sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai ||

    सोमः॑ । धे॒नुम् । सोमः॑ । अर्व॑न्तम् । आ॒शुम् । सोमः॑ । वी॒रम् । क॒र्म॒ण्य॑म् । द॒दा॒ति॒ ।
    स॒द॒न्य॑म् । वि॒द॒थ्य॑म् । स॒भेय॑म् । पि॒तृ॒ऽश्रव॑णम् । यः । ददा॑शत् । अ॒स्मै॒ ॥

    सोमः । धेनुम् । सोमः । अर्वन्तम् । आशुम् । सोमः । वीरम् । कर्मण्यम् । ददाति ।
    सदन्यम् । विदथ्यम् । सभेयम् । पितृऽश्रवणम् । यः । ददाशत् । अस्मै ॥

    sómaḥ ǀ dhenúm ǀ sómaḥ ǀ árvantam ǀ āśúm ǀ sómaḥ ǀ vīrám ǀ karmaṇyám ǀ dadāti ǀ
    sadanyám ǀ vidathyám ǀ sabhéyam ǀ pitṛ-śrávaṇam ǀ yáḥ ǀ dádāśat ǀ asmai ǁ

    somaḥ ǀ dhenum ǀ somaḥ ǀ arvantam ǀ āśum ǀ somaḥ ǀ vīram ǀ karmaṇyam ǀ dadāti ǀ
    sadanyam ǀ vidathyam ǀ sabheyam ǀ pitṛ-śravaṇam ǀ yaḥ ǀ dadāśat ǀ asmai ǁ

    1.91.20 Aṣṭaka 1.6.22.5Anuvāka 1.14.73

  21. Ṛk 21

    अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पां ।
    भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जयं॑तं॒ त्वामनु॑ मदेम सोम ॥

    अषाऌहं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् |
    भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ||

    áṣāḷham yutsú pṛ́tanāsu páprim svarṣā́mapsā́m vṛjánasya gopā́m ǀ
    bhareṣujā́m sukṣitím suśrávasam jáyantam tvā́mánu madema soma ǁ

    aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām |
    bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma ||

    अषा॑ळ्हम् । यु॒त्ऽसु । पृत॑नासु । पप्रि॑म् । स्वः॒ऽसाम् । अ॒प्साम् । वृ॒जन॑स्य । गो॒पाम् ।
    भ॒रे॒षु॒ऽजाम् । सु॒ऽक्षि॒तिम् । सु॒ऽश्रव॑सम् । जय॑न्तम् । त्वाम् । अनु॑ । म॒दे॒म॒ । सो॒म॒ ॥

    अषाळ्हम् । युत्ऽसु । पृतनासु । पप्रिम् । स्वःऽसाम् । अप्साम् । वृजनस्य । गोपाम् ।
    भरेषुऽजाम् । सुऽक्षितिम् । सुऽश्रवसम् । जयन्तम् । त्वाम् । अनु । मदेम । सोम ॥

    áṣāḷham ǀ yut-sú ǀ pṛ́tanāsu ǀ páprim ǀ svaḥ-sā́m ǀ apsā́m ǀ vṛjánasya ǀ gopā́m ǀ
    bhareṣu-jā́m ǀ su-kṣitím ǀ su-śrávasam ǀ jáyantam ǀ tvā́m ǀ ánu ǀ madema ǀ soma ǁ

    aṣāḷham ǀ yut-su ǀ pṛtanāsu ǀ paprim ǀ svaḥ-sām ǀ apsām ǀ vṛjanasya ǀ gopām ǀ
    bhareṣu-jām ǀ su-kṣitim ǀ su-śravasam ǀ jayantam ǀ tvām ǀ anu ǀ madema ǀ soma ǁ

    1.91.21 Aṣṭaka 1.6.23.1Anuvāka 1.14.74

  22. Ṛk 22

    त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
    त्वमा त॑तंथो॒र्वं१॒॑तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥

    त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः |
    त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ||

    tvámimā́ óṣadhīḥ soma víśvāstvámapó ajanayastvám gā́ḥ ǀ
    tvámā́ tatanthorvántárikṣam tvám jyótiṣā ví támo vavartha ǁ

    tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ |
    tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha ||

    त्वम् । इ॒माः । ओष॑धीः । सो॒म॒ । विश्वाः॑ । त्वम् । अ॒पः । अ॒ज॒न॒यः॒ । त्वम् । गाः ।
    त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । त्वम् । ज्योति॑षा । वि । तमः॑ । व॒व॒र्थ॒ ॥

    त्वम् । इमाः । ओषधीः । सोम । विश्वाः । त्वम् । अपः । अजनयः । त्वम् । गाः ।
    त्वम् । आ । ततन्थ । उरु । अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः । ववर्थ ॥

    tvám ǀ imā́ḥ ǀ óṣadhīḥ ǀ soma ǀ víśvāḥ ǀ tvám ǀ apáḥ ǀ ajanayaḥ ǀ tvám ǀ gā́ḥ ǀ
    tvám ǀ ā́ ǀ tatantha ǀ urú ǀ antárikṣam ǀ tvám ǀ jyótiṣā ǀ ví ǀ támaḥ ǀ vavartha ǁ

    tvam ǀ imāḥ ǀ oṣadhīḥ ǀ soma ǀ viśvāḥ ǀ tvam ǀ apaḥ ǀ ajanayaḥ ǀ tvam ǀ gāḥ ǀ
    tvam ǀ ā ǀ tatantha ǀ uru ǀ antarikṣam ǀ tvam ǀ jyotiṣā ǀ vi ǀ tamaḥ ǀ vavartha ǁ

    1.91.22 Aṣṭaka 1.6.23.2Anuvāka 1.14.75

  23. Ṛk 23

    दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य ।
    मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ॥

    देवेन नो मनसा देव सोम रायो भागं सहसावन्न् अभि युध्य |
    मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ||

    devéna no mánasā deva soma rāyó bhāgám sahasāvannabhí yudhya ǀ
    mā́ tvā́ tanadī́śiṣe vīryásyobháyebhyaḥ prá cikitsā gáviṣṭau ǁ

    devena no manasā deva soma rāyo bhāgaṃ sahasāvann abhi yudhya |
    mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau ||

    दे॒वेन॑ । नः॒ । मन॑सा । दे॒व॒ । सो॒म॒ । रा॒यः । भा॒गम् । स॒ह॒सा॒ऽव॒न् । अ॒भि । यु॒ध्य॒ ।
    मा । त्वा॒ । आ । त॒न॒त् । ईशि॑षे । वी॒र्य॑स्य । उ॒भये॑भ्यः । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ ॥

    देवेन । नः । मनसा । देव । सोम । रायः । भागम् । सहसाऽवन् । अभि । युध्य ।
    मा । त्वा । आ । तनत् । ईशिषे । वीर्यस्य । उभयेभ्यः । प्र । चिकित्स । गोऽइष्टौ ॥

    devéna ǀ naḥ ǀ mánasā ǀ deva ǀ soma ǀ rāyáḥ ǀ bhāgám ǀ sahasā-van ǀ abhí ǀ yudhya ǀ
    mā́ ǀ tvā ǀ ā́ ǀ tanat ǀ ī́śiṣe ǀ vīryásya ǀ ubháyebhyaḥ ǀ prá ǀ cikitsa ǀ gó-iṣṭau ǁ

    devena ǀ naḥ ǀ manasā ǀ deva ǀ soma ǀ rāyaḥ ǀ bhāgam ǀ sahasā-van ǀ abhi ǀ yudhya ǀ
    mā ǀ tvā ǀ ā ǀ tanat ǀ īśiṣe ǀ vīryasya ǀ ubhayebhyaḥ ǀ pra ǀ cikitsa ǀ go-iṣṭau ǁ

    1.91.23 Aṣṭaka 1.6.23.3Anuvāka 1.14.76

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.91 · Soma

Interpretations

Sri Aurobindo

Ṛk 1

Thou, O Soma, becomest subject to perception by the intelligence; thou leadest us along a path of utter straightness. By thy leadings our fathers, O lord of delight, were established in thought and enjoyed ecstasy in the gods.

Ṛk 2

Thou, O Soma, by our willings becomest strong in will, thou by our discernments perfect in discernment and universal in knowledge, thou by our strong abundances strong and abundant in thy might, thou by our illuminations luminous and of puissant vision.

Ṛk 3

Thine now are the activities of Varuna the King, vast and profound, O Soma, is thy seat; pure art thou and delightful like Mitra; thou art powerful like Aryaman, O Soma.

Ṛk 4

The seats that are thine in our heaven and on our earth and on the hills of being and in its growths and in its waters, in those, even all of them, do thou, well-minded and free from wrath, receive to thyself, O Soma, O King, our offerings.

Ṛk 5

Thou, O Soma, art master of Being; King art thou and slayer of the Coverer; thou a blissful power of Will.

Ṛk 6

And thou, O Soma, hast control to make us live, that we should not die,—the lord of pleasure who has delight in the song of his affirmation.

Ṛk 7

Thou, O Soma, both for him who is already great in the Truth and for him who is young in the Truth, establishes Bhaga in joyaunce that has power for life.

Ṛk 8

Keep us, O Soma, O King, from all that seeks to become evil in us; let not him come to hurt who is a friend of such a one as thou.

Ṛk 9

O Soma, with those thy increasings that are creative of the Bliss for the giver, become the preserver of our being.

Ṛk 10

Come to us taking pleasure in this sacrifice, in this Word; be in us, O Soma, for our increase.

Ṛk 11

We, O Soma, know how to find expression and we increase thee by our Words; then with a gentle kindness enter into us.

Ṛk 12

Become in us, O Soma, a distender of luminous movements, a slayer of unfriendly powers, a finder of substance, an increaser of growth, a perfect friend.

Ṛk 13

O Soma, take thy delight in our hearts as the Herds in their pastures, as the Man in his own dwelling.

Ṛk 14

He, O Soma, who, a mortal, has delight in thy friendship, a god’s, to him cleaveth the discerning Seer of things.

Ṛk 15

Keep us far from the attack that divides, O Soma, protect us from the evil; flourish in us, a friend taking the ease of his perfect pleasure.

Ṛk 16

Yea, nourish thyself in us, let strong abundance come together to thee from all things and do thou become in the meeting-place of that plenty.

Ṛk 17

Grow full in us with all thy rays, O Soma of the complete ecstasy; be in us full of perfect inspirations that we may grow.

Ṛk 18

Together may they come, thy nourishments, and thy plenties and the abundances of thy strength while thou overcomes the attack that would obstruct; so growing in fullness towards Immortality, O Soma, hold for us the highest inspirations in the heaven of the mind.

Ṛk 19

Those thy seats that they effect by sacrifice by the offering, may they all be encompassed by the action of the sacrifice;15 distending the movement, pushing ever onward, perfect in energy, slaying all weakness travel forward to the gates of the mansions, O Soma.

Ṛk 20

Soma giveth the fostering Cow, Soma giveth the swift Steed, Soma giveth the active Hero within who holdeth the seat, who winneth the knowledge, who is fit for the Wisdom, who hath the inspiration of the Father,—these he giveth to the man who divideth for him the offering.

Ṛk 21

Unconquered thou in our battles and art satisfied in the throngs of war, winner of Heaven, winner of the Waters and our defender in the Crookedness (or of our strength); born in our fullnesses, firmly dwelling in us thou art rich in inspirations and victorious,—by thy raptures, O Soma, may we be intoxicated.

Ṛk 22

Thou hast created all these growths of earth, O Soma, thou theWaters, thou the Rays; thou hast extended wide the midworld,— thou by the Light hast smitten apart the covering darkness.

Ṛk 23

With the divine mind in us, thou who art divine, O Soma, O forceful fighter, war towards our enjoyment of the felicity. Let none extend thee in grossness,16 thou hast power over all energy; do thou have the perceiving vision for gods and men in their seeking of the Light.