Ṛk 1.91.6
Saṃhitā
त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे ।
प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ॥
त्वं च सोम नो वशो जीवातुं न मरामहे |
प्रियस्तोत्रो वनस्पतिः ||
tvám ca soma no váśo jīvā́tum ná marāmahe ǀ
priyástotro vánaspátiḥ ǁ
tvaṃ ca soma no vaśo jīvātuṃ na marāmahe |
priyastotro vanaspatiḥ ||
Padapāṭha
त्वम् । च॒ । सो॒म॒ । नः॒ । वशः॑ । जी॒वातु॑म् । न । म॒रा॒म॒हे॒ ।
प्रि॒यऽस्तो॑त्रः । वन॒स्पतिः॑ ॥
त्वम् । च । सोम । नः । वशः । जीवातुम् । न । मरामहे ।
प्रियऽस्तोत्रः । वनस्पतिः ॥
tvám ǀ ca ǀ soma ǀ naḥ ǀ váśaḥ ǀ jīvā́tum ǀ ná ǀ marāmahe ǀ
priyá-stotraḥ ǀ vánaspátiḥ ǁ
tvam ǀ ca ǀ soma ǀ naḥ ǀ vaśaḥ ǀ jīvātum ǀ na ǀ marāmahe ǀ
priya-stotraḥ ǀ vanaspatiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.091.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.20.01
- Maṇḍala · Anuvāka · Ṛk
- 1.14.059
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Uṣṇih
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.