Sūkta 29
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles virāṭpaṅkti (2, 3, 6, 7); nicṛtpaṅkti (1, 4, 5)
2nd set of styles paṅkti
-
Ṛk 1
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥यच् चिद् धि सत्य सोमपा अनाशस्ता इव स्मसि |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||yácciddhí satya somapā anāśastā́ iva smási ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁyac cid dhi satya somapā anāśastā iva smasi |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥यत् । चित् । हि । सत्य । सोमऽपाः । अनाशस्ताःऽइव । स्मसि ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥yát ǀ cit ǀ hí ǀ satya ǀ soma-pāḥ ǀ anāśastā́ḥ-iva ǀ smási ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁyat ǀ cit ǀ hi ǀ satya ǀ soma-pāḥ ǀ anāśastāḥ-iva ǀ smasi ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.1 Aṣṭaka 1.2.27.1Anuvāka 1.6.69
-
Ṛk 2
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥शिप्रिन् वाजानाम् पते शचीवस् तव दंसना |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||śíprinvājānām pate śácīvastáva daṃsánā ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁśiprin vājānām pate śacīvas tava daṃsanā |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥शिप्रिन् । वाजानाम् । पते । शचीऽवः । तव । दंसना ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥śíprin ǀ vājānām ǀ pate ǀ śácī-vaḥ ǀ táva ǀ daṃsánā ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁśiprin ǀ vājānām ǀ pate ǀ śacī-vaḥ ǀ tava ǀ daṃsanā ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.2 Aṣṭaka 1.2.27.2Anuvāka 1.6.70
-
Ṛk 3
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥नि ष्वापया मिथूदृशा सस्ताम् अबुध्यमाने |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||ní ṣvāpayā mithūdṛ́śā sastā́mábudhyamāne ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁni ṣvāpayā mithūdṛśā sastām abudhyamāne |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||नि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥नि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने इति ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥ní ǀ svāpaya ǀ mithu-dṛ́śā ǀ sastā́m ǀ ábudhyamāne íti ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁni ǀ svāpaya ǀ mithu-dṛśā ǀ sastām ǀ abudhyamāne iti ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.3 Aṣṭaka 1.2.27.3Anuvāka 1.6.71
-
Ṛk 4
स॒संतु॒ त्या अरा॑तयो॒ बोधं॑तु शूर रा॒तयः॑ ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ससन्तु त्या अरातयो बोधन्तु शूर रातयः |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||sasántu tyā́ árātayo bódhantu śūra rātáyaḥ ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁsasantu tyā arātayo bodhantu śūra rātayaḥ |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥ससन्तु । त्याः । अरातयः । बोधन्तु । शूर । रातयः ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥sasántu ǀ tyā́ḥ ǀ árātayaḥ ǀ bódhantu ǀ śūra ǀ rātáyaḥ ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁsasantu ǀ tyāḥ ǀ arātayaḥ ǀ bodhantu ǀ śūra ǀ rātayaḥ ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.4 Aṣṭaka 1.2.27.4Anuvāka 1.6.72
-
Ṛk 5
समिं॑द्र गर्द॒भं मृ॑ण नु॒वंतं॑ पा॒पया॑मु॒या ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥सम् इन्द्र गर्दभम् मृण नुवन्तम् पापयामुया |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||sámindra gardabhám mṛṇa nuvántam pāpáyāmuyā́ ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁsam indra gardabham mṛṇa nuvantam pāpayāmuyā |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥सम् । इन्द्र । गर्दभम् । मृण । नुवन्तम् । पापया । अमुया ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥sám ǀ indra ǀ gardabhám ǀ mṛṇa ǀ nuvántam ǀ pāpáyā ǀ amuyā́ ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁsam ǀ indra ǀ gardabham ǀ mṛṇa ǀ nuvantam ǀ pāpayā ǀ amuyā ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.5 Aṣṭaka 1.2.27.5Anuvāka 1.6.73
-
Ṛk 6
पता॑ति कुंडृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥पताति कुण्डृणाच्या दूरं वातो वनाद् अधि |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||pátāti kuṇḍṛṇā́cyā dūrám vā́to vánādádhi ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁpatāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥पताति । कुण्डृणाच्या । दूरम् । वातः । वनात् । अधि ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥pátāti ǀ kuṇḍṛṇā́cyā ǀ dūrám ǀ vā́taḥ ǀ vánāt ǀ ádhi ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁpatāti ǀ kuṇḍṛṇācyā ǀ dūram ǀ vātaḥ ǀ vanāt ǀ adhi ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.6 Aṣṭaka 1.2.27.6Anuvāka 1.6.74
-
Ṛk 7
सर्वं॑ परिक्रो॒शं ज॑हि जं॒भया॑ कृकदा॒श्वं॑ ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥सर्वम् परिक्रोशं जहि जम्भया कृकदाश्वम् |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||sárvam parikrośám jahi jambháyā kṛkadāśvám ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁsarvam parikrośaṃ jahi jambhayā kṛkadāśvam |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥सर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदाश्वम् ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥sárvam ǀ pari-krośám ǀ jahi ǀ jambháya ǀ kṛkadāśvám ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁsarvam ǀ pari-krośam ǀ jahi ǀ jambhaya ǀ kṛkadāśvam ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ1.29.7 Aṣṭaka 1.2.27.7Anuvāka 1.6.75
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.