Ṛgveda · Maṇḍala 1

Sūkta 38

Maruts · Kaṇva Ghaura · 15 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Kaṇva Ghaura
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles nicṛdgāyatrī (2, 4, 6, 7, 9, 10); gāyatrī (1, 8, 11, 13, 15); pipīlikāmadhyānicṛdgāyatrī (5, 12); gāyatrī (pādanicṛdgāyatrī) (3); yavamadhyāvirāḍgāyatrī (14)

2nd set of styles gāyatrī

  1. Ṛk 1

    कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
    द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥

    कद् ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः |
    दधिध्वे वृक्तबर्हिषः ||

    káddha nūnám kadhapriyaḥ pitā́ putrám ná hástayoḥ ǀ
    dadhidhvé vṛktabarhiṣaḥ ǁ

    kad dha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ |
    dadhidhve vṛktabarhiṣaḥ ||

    कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । पि॒ता । पु॒त्रम् । न । हस्त॑योः ।
    द॒धि॒ध्वे । वृ॒क्त॒ऽब॒र्हि॒षः॒ ॥

    कत् । ह । नूनम् । कधऽप्रियः । पिता । पुत्रम् । न । हस्तयोः ।
    दधिध्वे । वृक्तऽबर्हिषः ॥

    kát ǀ ha ǀ nūnám ǀ kadha-priyaḥ ǀ pitā́ ǀ putrám ǀ ná ǀ hástayoḥ ǀ
    dadhidhvé ǀ vṛkta-barhiṣaḥ ǁ

    kat ǀ ha ǀ nūnam ǀ kadha-priyaḥ ǀ pitā ǀ putram ǀ na ǀ hastayoḥ ǀ
    dadhidhve ǀ vṛkta-barhiṣaḥ ǁ

    1.38.1 Aṣṭaka 1.3.15.1Anuvāka 1.8.36

  2. Ṛk 2

    क्व॑ नू॒नं कद्वो॒ अर्थं॒ गंता॑ दि॒वो न पृ॑थि॒व्याः ।
    क्व॑ वो॒ गावो॒ न र॑ण्यंति ॥

    क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः |
    क्व वो गावो न रण्यन्ति ||

    kvá nūnám kádvo ártham gántā divó ná pṛthivyā́ḥ ǀ
    kvá vo gā́vo ná raṇyanti ǁ

    kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ |
    kva vo gāvo na raṇyanti ||

    क्व॑ । नू॒नम् । कत् । वः॒ । अर्थ॑म् । गन्ता॑ । दि॒वः । न । पृ॒थि॒व्याः ।
    क्व॑ । वः॒ । गावः॑ । न । र॒ण्य॒न्ति॒ ॥

    क्व । नूनम् । कत् । वः । अर्थम् । गन्ता । दिवः । न । पृथिव्याः ।
    क्व । वः । गावः । न । रण्यन्ति ॥

    kvá ǀ nūnám ǀ kát ǀ vaḥ ǀ ártham ǀ gántā ǀ diváḥ ǀ ná ǀ pṛthivyā́ḥ ǀ
    kvá ǀ vaḥ ǀ gā́vaḥ ǀ ná ǀ raṇyanti ǁ

    kva ǀ nūnam ǀ kat ǀ vaḥ ǀ artham ǀ gantā ǀ divaḥ ǀ na ǀ pṛthivyāḥ ǀ
    kva ǀ vaḥ ǀ gāvaḥ ǀ na ǀ raṇyanti ǁ

    1.38.2 Aṣṭaka 1.3.15.2Anuvāka 1.8.37

  3. Ṛk 3

    क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता ।
    क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥

    क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता |
    क्वो विश्वानि सौभगा ||

    kvá vaḥ sumnā́ návyāṃsi márutaḥ kvá suvitā́ ǀ
    kvó víśvāni sáubhagā ǁ

    kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā |
    kvo viśvāni saubhagā ||

    क्व॑ । वः॒ । सु॒म्ना । नव्यां॑सि । मरु॑तः । क्व॑ । सु॒वि॒ता ।
    क्वो॒३॒॑ इति॑ । विश्वा॑नि । सौभ॑गा ॥

    क्व । वः । सुम्ना । नव्यांसि । मरुतः । क्व । सुविता ।
    क्वो इति । विश्वानि । सौभगा ॥

    kvá ǀ vaḥ ǀ sumnā́ ǀ návyāṃsi ǀ márutaḥ ǀ kvá ǀ suvitā́ ǀ
    kvó íti ǀ víśvāni ǀ sáubhagā ǁ

    kva ǀ vaḥ ǀ sumnā ǀ navyāṃsi ǀ marutaḥ ǀ kva ǀ suvitā ǀ
    kvo iti ǀ viśvāni ǀ saubhagā ǁ

    1.38.3 Aṣṭaka 1.3.15.3Anuvāka 1.8.38

  4. Ṛk 4

    यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न ।
    स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥

    यद् यूयम् पृश्निमातरो मर्तासः स्यातन |
    स्तोता वो अमृतः स्यात् ||

    yádyūyám pṛśnimātaro mártāsaḥ syā́tana ǀ
    stotā́ vo amṛ́taḥ syāt ǁ

    yad yūyam pṛśnimātaro martāsaḥ syātana |
    stotā vo amṛtaḥ syāt ||

    यत् । यू॒यम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । मर्ता॑सः । स्यात॑न ।
    स्तो॒ता । वः॒ । अ॒मृतः॑ । स्या॒त् ॥

    यत् । यूयम् । पृश्निऽमातरः । मर्तासः । स्यातन ।
    स्तोता । वः । अमृतः । स्यात् ॥

    yát ǀ yūyám ǀ pṛśni-mātaraḥ ǀ mártāsaḥ ǀ syā́tana ǀ
    stotā́ ǀ vaḥ ǀ amṛ́taḥ ǀ syāt ǁ

    yat ǀ yūyam ǀ pṛśni-mātaraḥ ǀ martāsaḥ ǀ syātana ǀ
    stotā ǀ vaḥ ǀ amṛtaḥ ǀ syāt ǁ

    1.38.4 Aṣṭaka 1.3.15.4Anuvāka 1.8.39

  5. Ṛk 5

    मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
    प॒था य॒मस्य॑ गा॒दुप॑ ॥

    मा वो मृगो न यवसे जरिता भूद् अजोष्यः |
    पथा यमस्य गाद् उप ||

    mā́ vo mṛgó ná yávase jaritā́ bhūdájoṣyaḥ ǀ
    pathā́ yamásya gādúpa ǁ

    mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ |
    pathā yamasya gād upa ||

    मा । वः॒ । मृ॒गः । न । यव॑से । ज॒रि॒ता । भू॒त् । अजो॑ष्यः ।
    प॒था । य॒मस्य॑ । गा॒त् । उप॑ ॥

    मा । वः । मृगः । न । यवसे । जरिता । भूत् । अजोष्यः ।
    पथा । यमस्य । गात् । उप ॥

    mā́ ǀ vaḥ ǀ mṛgáḥ ǀ ná ǀ yávase ǀ jaritā́ ǀ bhūt ǀ ájoṣyaḥ ǀ
    pathā́ ǀ yamásya ǀ gāt ǀ úpa ǁ

    mā ǀ vaḥ ǀ mṛgaḥ ǀ na ǀ yavase ǀ jaritā ǀ bhūt ǀ ajoṣyaḥ ǀ
    pathā ǀ yamasya ǀ gāt ǀ upa ǁ

    1.38.5 Aṣṭaka 1.3.15.5Anuvāka 1.8.40

  6. Ṛk 6

    मो षु णः॒ परा॑परा॒ निर्ऋ॑तिर्दु॒र्हणा॑ वधीत् ।
    प॒दी॒ष्ट तृष्ण॑या स॒ह ॥

    मो षु णः परा-परा निरृतिर् दुर्हणा वधीत् |
    पदीष्ट तृष्णया सह ||

    mó ṣú ṇaḥ párāparā nírṛtirdurháṇā vadhīt ǀ
    padīṣṭá tṛ́ṣṇayā sahá ǁ

    mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt |
    padīṣṭa tṛṣṇayā saha ||

    मो इति॑ । सु । नः॒ । परा॑ऽपरा । निःऽऋ॑तिः । दुः॒ऽहना॑ । व॒धी॒त् ।
    प॒दी॒ष्ट । तृष्ण॑या । स॒ह ॥

    मो इति । सु । नः । पराऽपरा । निःऽऋतिः । दुःऽहना । वधीत् ।
    पदीष्ट । तृष्णया । सह ॥

    mó íti ǀ sú ǀ naḥ ǀ párā-parā ǀ níḥ-ṛtiḥ ǀ duḥ-hánā ǀ vadhīt ǀ
    padīṣṭá ǀ tṛ́ṣṇayā ǀ sahá ǁ

    mo iti ǀ su ǀ naḥ ǀ parā-parā ǀ niḥ-ṛtiḥ ǀ duḥ-hanā ǀ vadhīt ǀ
    padīṣṭa ǀ tṛṣṇayā ǀ saha ǁ

    1.38.6 Aṣṭaka 1.3.16.1Anuvāka 1.8.41

  7. Ṛk 7

    स॒त्यं त्वे॒षा अम॑वंतो॒ धन्वं॑चि॒दा रु॒द्रिया॑सः ।
    मिहं॑ कृण्वंत्यवा॒तां ॥

    सत्यं त्वेषा अमवन्तो धन्वञ् चिद् आ रुद्रियासः |
    मिहं कृण्वन्त्य् अवाताम् ||

    satyám tveṣā́ ámavanto dhánvañcidā́ rudríyāsaḥ ǀ
    míham kṛṇvantyavātā́m ǁ

    satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ |
    mihaṃ kṛṇvanty avātām ||

    स॒त्यम् । त्वे॒षाः । अम॑ऽवन्तः । धन्व॑न् । चि॒त् । आ । रु॒द्रिया॑सः ।
    मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम् ॥

    सत्यम् । त्वेषाः । अमऽवन्तः । धन्वन् । चित् । आ । रुद्रियासः ।
    मिहम् । कृण्वन्ति । अवाताम् ॥

    satyám ǀ tveṣā́ḥ ǀ áma-vantaḥ ǀ dhánvan ǀ cit ǀ ā́ ǀ rudríyāsaḥ ǀ
    míham ǀ kṛṇvanti ǀ avātā́m ǁ

    satyam ǀ tveṣāḥ ǀ ama-vantaḥ ǀ dhanvan ǀ cit ǀ ā ǀ rudriyāsaḥ ǀ
    miham ǀ kṛṇvanti ǀ avātām ǁ

    1.38.7 Aṣṭaka 1.3.16.2Anuvāka 1.8.42

  8. Ṛk 8

    वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
    यदे॑षां वृ॒ष्टिरस॑र्जि ॥

    वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति |
    यद् एषां वृष्टिर् असर्जि ||

    vāśréva vidyúnmimāti vatsám ná mātā́ siṣakti ǀ
    yádeṣām vṛṣṭírásarji ǁ

    vāśreva vidyun mimāti vatsaṃ na mātā siṣakti |
    yad eṣāṃ vṛṣṭir asarji ||

    वा॒श्राऽइ॑व । वि॒ऽद्युत् । मि॒मा॒ति॒ । व॒त्सम् । न । मा॒ता । सि॒स॒क्ति॒ ।
    यत् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि ॥

    वाश्राऽइव । विऽद्युत् । मिमाति । वत्सम् । न । माता । सिसक्ति ।
    यत् । एषाम् । वृष्टिः । असर्जि ॥

    vāśrā́-iva ǀ vi-dyút ǀ mimāti ǀ vatsám ǀ ná ǀ mātā́ ǀ sisakti ǀ
    yát ǀ eṣām ǀ vṛṣṭíḥ ǀ ásarji ǁ

    vāśrā-iva ǀ vi-dyut ǀ mimāti ǀ vatsam ǀ na ǀ mātā ǀ sisakti ǀ
    yat ǀ eṣām ǀ vṛṣṭiḥ ǀ asarji ǁ

    1.38.8 Aṣṭaka 1.3.16.3Anuvāka 1.8.43

  9. Ṛk 9

    दिवा॑ चि॒त्तमः॑ कृण्वंति प॒र्जन्ये॑नोदवा॒हेन॑ ।
    यत्पृ॑थि॒वीं व्युं॒दंति॑ ॥

    दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन |
    यत् पृथिवीं व्युन्दन्ति ||

    dívā cittámaḥ kṛṇvanti parjányenodavāhéna ǀ
    yátpṛthivī́m vyundánti ǁ

    divā cit tamaḥ kṛṇvanti parjanyenodavāhena |
    yat pṛthivīṃ vyundanti ||

    दिवा॑ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒ऽवा॒हेन॑ ।
    यत् । पृ॒थि॒वीम् । वि॒ऽउ॒न्दन्ति॑ ॥

    दिवा । चित् । तमः । कृण्वन्ति । पर्जन्येन । उदऽवाहेन ।
    यत् । पृथिवीम् । विऽउन्दन्ति ॥

    dívā ǀ cit ǀ támaḥ ǀ kṛṇvanti ǀ parjányena ǀ uda-vāhéna ǀ
    yát ǀ pṛthivī́m ǀ vi-undánti ǁ

    divā ǀ cit ǀ tamaḥ ǀ kṛṇvanti ǀ parjanyena ǀ uda-vāhena ǀ
    yat ǀ pṛthivīm ǀ vi-undanti ǁ

    1.38.9 Aṣṭaka 1.3.16.4Anuvāka 1.8.44

  10. Ṛk 10

    अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वं ।
    अरे॑जंत॒ प्र मानु॑षाः ॥

    अध स्वनान् मरुतां विश्वम् आ सद्म पार्थिवम् |
    अरेजन्त प्र मानुषाः ||

    ádha svanā́nmarútām víśvamā́ sádma pā́rthivam ǀ
    árejanta prá mā́nuṣāḥ ǁ

    adha svanān marutāṃ viśvam ā sadma pārthivam |
    arejanta pra mānuṣāḥ ||

    अध॑ । स्व॒नात् । म॒रुता॑म् । विश्व॑म् । आ । सद्म॑ । पार्थि॑वम् ।
    अरे॑जन्त । प्र । मानु॑षाः ॥

    अध । स्वनात् । मरुताम् । विश्वम् । आ । सद्म । पार्थिवम् ।
    अरेजन्त । प्र । मानुषाः ॥

    ádha ǀ svanā́t ǀ marútām ǀ víśvam ǀ ā́ ǀ sádma ǀ pā́rthivam ǀ
    árejanta ǀ prá ǀ mā́nuṣāḥ ǁ

    adha ǀ svanāt ǀ marutām ǀ viśvam ǀ ā ǀ sadma ǀ pārthivam ǀ
    arejanta ǀ pra ǀ mānuṣāḥ ǁ

    1.38.10 Aṣṭaka 1.3.16.5Anuvāka 1.8.45

  11. Ṛk 11

    मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
    या॒तेमखि॑द्रयामभिः ॥

    मरुतो वीऌउपाणिभिश् चित्रा रोधस्वतीर् अनु |
    यातेम् अखिद्रयामभिः ||

    máruto vīḷupāṇíbhiścitrā́ ródhasvatīránu ǀ
    yātémákhidrayāmabhiḥ ǁ

    maruto vīḷupāṇibhiś citrā rodhasvatīr anu |
    yātem akhidrayāmabhiḥ ||

    मरु॑तः । वी॒ळु॒पा॒णिऽभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ ।
    या॒त । ई॒म् । अखि॑द्रयामऽभिः ॥

    मरुतः । वीळुपाणिऽभिः । चित्राः । रोधस्वतीः । अनु ।
    यात । ईम् । अखिद्रयामऽभिः ॥

    márutaḥ ǀ vīḷupāṇí-bhiḥ ǀ citrā́ḥ ǀ ródhasvatīḥ ǀ ánu ǀ
    yātá ǀ īm ǀ ákhidrayāma-bhiḥ ǁ

    marutaḥ ǀ vīḷupāṇi-bhiḥ ǀ citrāḥ ǀ rodhasvatīḥ ǀ anu ǀ
    yāta ǀ īm ǀ akhidrayāma-bhiḥ ǁ

    1.38.11 Aṣṭaka 1.3.17.1Anuvāka 1.8.46

  12. Ṛk 12

    स्थि॒रा वः॑ संतु ने॒मयो॒ रथा॒ अश्वा॑स एषां ।
    सुसं॑स्कृता अ॒भीश॑वः ॥

    स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् |
    सुसंस्कृता अभीशवः ||

    sthirā́ vaḥ santu nemáyo ráthā áśvāsa eṣām ǀ
    súsaṃskṛtā abhī́śavaḥ ǁ

    sthirā vaḥ santu nemayo rathā aśvāsa eṣām |
    susaṃskṛtā abhīśavaḥ ||

    स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् ।
    सुऽसं॑स्कृताः । अ॒भीश॑वः ॥

    स्थिराः । वः । सन्तु । नेमयः । रथाः । अश्वासः । एषाम् ।
    सुऽसंस्कृताः । अभीशवः ॥

    sthirā́ḥ ǀ vaḥ ǀ santu ǀ nemáyaḥ ǀ ráthāḥ ǀ áśvāsaḥ ǀ eṣām ǀ
    sú-saṃskṛtāḥ ǀ abhī́śavaḥ ǁ

    sthirāḥ ǀ vaḥ ǀ santu ǀ nemayaḥ ǀ rathāḥ ǀ aśvāsaḥ ǀ eṣām ǀ
    su-saṃskṛtāḥ ǀ abhīśavaḥ ǁ

    1.38.12 Aṣṭaka 1.3.17.2Anuvāka 1.8.47

  13. Ṛk 13

    अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पतिं॑ ।
    अ॒ग्निं मि॒त्रं न द॑र्श॒तं ॥

    अच्छा वदा तना गिरा जरायै ब्रह्मणस् पतिम् |
    अग्निम् मित्रं न दर्शतम् ||

    ácchā vadā tánā girā́ jarā́yai bráhmaṇaspátim ǀ
    agním mitrám ná darśatám ǁ

    acchā vadā tanā girā jarāyai brahmaṇas patim |
    agnim mitraṃ na darśatam ||

    अच्छ॑ । व॒द॒ । तना॑ । गि॒रा । ज॒रायै॑ । ब्रह्म॑णः । पति॑म् ।
    अ॒ग्निम् । मि॒त्रम् । न । द॒र्श॒तम् ॥

    अच्छ । वद । तना । गिरा । जरायै । ब्रह्मणः । पतिम् ।
    अग्निम् । मित्रम् । न । दर्शतम् ॥

    áccha ǀ vada ǀ tánā ǀ girā́ ǀ jarā́yai ǀ bráhmaṇaḥ ǀ pátim ǀ
    agním ǀ mitrám ǀ ná ǀ darśatám ǁ

    accha ǀ vada ǀ tanā ǀ girā ǀ jarāyai ǀ brahmaṇaḥ ǀ patim ǀ
    agnim ǀ mitram ǀ na ǀ darśatam ǁ

    1.38.13 Aṣṭaka 1.3.17.3Anuvāka 1.8.48

  14. Ṛk 14

    मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
    गाय॑ गाय॒त्रमु॒क्थ्यं॑ ॥

    मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः |
    गाय गायत्रम् उक्थ्यम् ||

    mimīhí ślókamāsyé parjánya iva tatanaḥ ǀ
    gā́ya gāyatrámukthyám ǁ

    mimīhi ślokam āsye parjanya iva tatanaḥ |
    gāya gāyatram ukthyam ||

    मि॒मी॒हि । श्लोक॑म् । आ॒स्ये॑ । प॒र्जन्यः॑ऽइव । त॒त॒नः॒ ।
    गाय॑ । गा॒य॒त्रम् । उ॒क्थ्य॑म् ॥

    मिमीहि । श्लोकम् । आस्ये । पर्जन्यःऽइव । ततनः ।
    गाय । गायत्रम् । उक्थ्यम् ॥

    mimīhí ǀ ślókam ǀ āsyé ǀ parjányaḥ-iva ǀ tatanaḥ ǀ
    gā́ya ǀ gāyatrám ǀ ukthyám ǁ

    mimīhi ǀ ślokam ǀ āsye ǀ parjanyaḥ-iva ǀ tatanaḥ ǀ
    gāya ǀ gāyatram ǀ ukthyam ǁ

    1.38.14 Aṣṭaka 1.3.17.4Anuvāka 1.8.49

  15. Ṛk 15

    वंद॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किणं॑ ।
    अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥

    वन्दस्व मारुतं गणं त्वेषम् पनस्युम् अर्किणम् |
    अस्मे वृद्धा असन्न् इह ||

    vándasva mā́rutam gaṇám tveṣám panasyúmarkíṇam ǀ
    asmé vṛddhā́ asannihá ǁ

    vandasva mārutaṃ gaṇaṃ tveṣam panasyum arkiṇam |
    asme vṛddhā asann iha ||

    वन्द॑स्व । मारु॑तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण॑म् ।
    अ॒स्मे इति॑ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥

    वन्दस्व । मारुतम् । गणम् । त्वेषम् । पनस्युम् । अर्किणम् ।
    अस्मे इति । वृद्धाः । असन् । इह ॥

    vándasva ǀ mā́rutam ǀ gaṇám ǀ tveṣám ǀ panasyúm ǀ arkíṇam ǀ
    asmé íti ǀ vṛddhā́ḥ ǀ asan ǀ ihá ǁ

    vandasva ǀ mārutam ǀ gaṇam ǀ tveṣam ǀ panasyum ǀ arkiṇam ǀ
    asme iti ǀ vṛddhāḥ ǀ asan ǀ iha ǁ

    1.38.15 Aṣṭaka 1.3.17.5Anuvāka 1.8.50

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.38 · Maruts

Interpretations

Kapali Shastri

Ṛk 1

Commentary

When will ye, lovers of praise, hold in both hands us who have spread out the sacred grass, as the father does his son ?

Ṛk 2

Translation

For the Maruts, as Gods, it is easy to move from heaven, but difficult to appear and move from the earth which is inert and full of obstructiors. Hence the prayer that their movement from earth be as easy as from heaven.

Commentary

Where, indeed, are ye (gone)? When will ye arrive? Move from earth, as from heaven, to where they call ye as cows do.

Ṛk 3

Translation

With all these be disposed towards us.

Commentary

O Maruts, where are your new felicities? Where are the right-goings? Where all the auspicious gifts ?

Ṛk 4

Commentary

Sons of Prishni, be ye mortals so that your singer (of praise) becomes immortal.

Ṛk 5

Commentary

May not your praiser be insatiable as the deer in its pasture; may he walk the path of the Controller.

Ṛk 6

Commentary

May not the Sin-spirit, highly powerful, difficulto overcome, strike me down; may she be consumed by unholy thirst.

Ṛk 7

Translation

Though impetuous in their movement, avoiding rain-dispelling wind, they pour down the rain. The import is that the Maruts create the rasa (of life) even in the sapless, inert, physical body.

Commentary

True, indeed, that these Rudras, luminous, strong, cause windless rain even in the desert.

Ṛk 8

Translation

As the inner sacrifice proceeds, there come states of visions of light, hearings of the celestial sound, downpour of bliss, by the grace of the Maruts.

Commentary

Like the bellowing cow, the lightning roars; the mother-cow tends its calf. Hence the rain of the Maruts.

Ṛk 9

Translation

Even though there is constant illumination in the inner sacrifice, at times, due to excessive shower of bliss, all appears covered with darkness; this is due to the fast movement of the Maruts at the moment.

Commentary

They cause darkness even in day time by the raincloud, when they inundate the earth.

Ṛk 10

Translation

The earthly dwelling is the body of the sacrificer; even the indwelling being trembles, not merely the outer body. Such is the velocity of the Maruts.

Commentary

At the reverberation of the Maruts, every earthly dwelling shakes, men too tremble.

Ṛk 11

Translation

The embankment is the body. The streams are life-energies channelling the flow of Force.

Commentary

O Maruts, strong-armed, come hither along the bright embanked streams with unhindered motion.

Ṛk 12

Translation

The reins stand for rays, rays of consciousness to control the movement of life-forces signified by horses attached to the carriage. May they be polished and clean.

Commentary

May the fellies of your wheels be firm, steady your cars and their steeds. May the reins be well-fashioned.

Ṛk 13

Translation

The Rishi calls upon himself to utter the speech that is vouchsafed by Agni, companion of the Maruts, to reveal the own form of the host of Maruts.

Though Agni is especially the voice of the summoner, he is the Deity of all speech. Agni who is all the Gods becomes the Lord of the Word, Brahmanaspati, in a special Mantra.

Commentary

Speak to Agni with the revealing words of praise, Agni the Lord of the Word, fair as friend.

Ṛk 14

Translation

Here too the Rishi addressed himself.

Speech brings out the glory of the utterance of praise, and pleases the Deity.

Commentary

Uiter the prayer, spread it out like a cloud, chant the expressive word of Gayatri.

Ṛk 15

Translation

This is an exhortation to all God-lovers.

Commentary

Glorify the host of Maruts, luminous, avid of praise, adored with chants of illumination. May they increase here in us.