Sūkta 111
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1-4); triṣṭup (5)
2nd set of styles jagatī (1-4); triṣṭubh (5)
-
Ṛk 1
तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इंद्र॒वाहा॒ वृष॑ण्वसू ।
तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुवं॑ ॥तक्षन् रथं सुवृतं विद्मनापसस् तक्षन् हरी इन्द्रवाहा वृषण्वसू |
तक्षन् पितृभ्याम् ऋभवो युवद् वयस् तक्षन् वत्साय मातरं सचाभुवम् ||tákṣanrátham suvṛ́tam vidmanā́pasastákṣanhárī indravā́hā vṛ́ṣaṇvasū ǀ
tákṣanpitṛ́bhyāmṛbhávo yúvadváyastákṣanvatsā́ya mātáram sacābhúvam ǁtakṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū |
takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam ||तक्ष॑न् । रथ॑म् । सु॒ऽवृत॑म् । वि॒द्म॒नाऽअ॑पसः । तक्ष॑न् । हरी॒ इति॑ । इ॒न्द्र॒ऽवाहा॑ । वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू ।
तक्ष॑न् । पि॒तृऽभ्या॑म् । ऋ॒भवः॑ । युव॑त् । वयः॑ । तक्ष॑न् । व॒त्साय॑ । मा॒तर॑म् । स॒चा॒ऽभुव॑म् ॥तक्षन् । रथम् । सुऽवृतम् । विद्मनाऽअपसः । तक्षन् । हरी इति । इन्द्रऽवाहा । वृषण्वसू इति वृषण्ऽवसू ।
तक्षन् । पितृऽभ्याम् । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरम् । सचाऽभुवम् ॥tákṣan ǀ rátham ǀ su-vṛ́tam ǀ vidmanā́-apasaḥ ǀ tákṣan ǀ hárī íti ǀ indra-vā́hā ǀ vṛ́ṣaṇvasū íti vṛ́ṣaṇ-vasū ǀ
tákṣan ǀ pitṛ́-bhyām ǀ ṛbhávaḥ ǀ yúvat ǀ váyaḥ ǀ tákṣan ǀ vatsā́ya ǀ mātáram ǀ sacā-bhúvam ǁtakṣan ǀ ratham ǀ su-vṛtam ǀ vidmanā-apasaḥ ǀ takṣan ǀ harī iti ǀ indra-vāhā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
takṣan ǀ pitṛ-bhyām ǀ ṛbhavaḥ ǀ yuvat ǀ vayaḥ ǀ takṣan ǀ vatsāya ǀ mātaram ǀ sacā-bhuvam ǁ1.111.1 Aṣṭaka 1.7.32.1Anuvāka 1.16.41
-
Ṛk 2
आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिषं॑ ।
यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्विं॑द्रि॒यं ॥आ नो यज्ञाय तक्षत ऋभुमद् वयः क्रत्वे दक्षाय सुप्रजावतीम् इषम् |
यथा क्षयाम सर्ववीरया विशा तन् नः शर्धाय धासथा स्व् इन्द्रियम् ||ā́ no yajñā́ya takṣata ṛbhumádváyaḥ krátve dákṣāya suprajā́vatīmíṣam ǀ
yáthā kṣáyāma sárvavīrayā viśā́ tánnaḥ śárdhāya dhāsathā svíndriyám ǁā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam |
yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam ||आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । क्रत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् ।
यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥आ । नः । यज्ञाय । तक्षत । ऋभुऽमत् । वयः । क्रत्वे । दक्षाय । सुऽप्रजावतीम् । इषम् ।
यथा । क्षयाम । सर्वऽवीरया । विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम् ॥ā́ ǀ naḥ ǀ yajñā́ya ǀ takṣata ǀ ṛbhu-mát ǀ váyaḥ ǀ krátve ǀ dákṣāya ǀ su-prajā́vatīm ǀ íṣam ǀ
yáthā ǀ kṣáyāma ǀ sárva-vīrayā ǀ viśā́ ǀ tát ǀ naḥ ǀ śárdhāya ǀ dhāsatha ǀ sú ǀ indriyám ǁā ǀ naḥ ǀ yajñāya ǀ takṣata ǀ ṛbhu-mat ǀ vayaḥ ǀ kratve ǀ dakṣāya ǀ su-prajāvatīm ǀ iṣam ǀ
yathā ǀ kṣayāma ǀ sarva-vīrayā ǀ viśā ǀ tat ǀ naḥ ǀ śardhāya ǀ dhāsatha ǀ su ǀ indriyam ǁ1.111.2 Aṣṭaka 1.7.32.2Anuvāka 1.16.42
-
Ṛk 3
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणिं॑ ॥आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः |
सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ||ā́ takṣata sātímasmábhyamṛbhavaḥ sātím ráthāya sātímárvate naraḥ ǀ
sātím no jáitrīm sám maheta viśváhā jāmímájāmim pṛ́tanāsu sakṣáṇim ǁā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ |
sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim ||आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ ।
सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः ।
सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥ā́ ǀ takṣata ǀ sātím ǀ asmábhyam ǀ ṛbhavaḥ ǀ sātím ǀ ráthāya ǀ sātím ǀ árvate ǀ naraḥ ǀ
sātím ǀ naḥ ǀ jáitrīm ǀ sám ǀ maheta ǀ viśváhā ǀ jāmím ǀ ájāmim ǀ pṛ́tanāsu ǀ sakṣáṇim ǁā ǀ takṣata ǀ sātim ǀ asmabhyam ǀ ṛbhavaḥ ǀ sātim ǀ rathāya ǀ sātim ǀ arvate ǀ naraḥ ǀ
sātim ǀ naḥ ǀ jaitrīm ǀ sam ǀ maheta ǀ viśvahā ǀ jāmim ǀ ajāmim ǀ pṛtanāsu ǀ sakṣaṇim ǁ1.111.3 Aṣṭaka 1.7.32.3Anuvāka 1.16.43
-
Ṛk 4
ऋ॒भु॒क्षण॒मिंद्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।
उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वंतु सा॒तये॑ धि॒ये जि॒षे ॥ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये |
उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ||ṛbhukṣáṇamíndramā́ huva ūtáya ṛbhū́nvā́jānmarútaḥ sómapītaye ǀ
ubhā́ mitrā́váruṇā nūnámaśvínā té no hinvantu sātáye dhiyé jiṣé ǁṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye |
ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe ||ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒भा । मि॒त्रावरु॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥ऋभुक्षणम् । इन्द्रम् । आ । हुवे । ऊतये । ऋभून् । वाजान् । मरुतः । सोमऽपीतये ।
उभा । मित्रावरुणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे ॥ṛbhukṣáṇam ǀ índram ǀ ā́ ǀ huve ǀ ūtáye ǀ ṛbhū́n ǀ vā́jān ǀ marútaḥ ǀ sóma-pītaye ǀ
ubhā́ ǀ mitrā́váruṇā ǀ nūnám ǀ aśvínā ǀ té ǀ naḥ ǀ hinvantu ǀ sātáye ǀ dhiyé ǀ jiṣé ǁṛbhukṣaṇam ǀ indram ǀ ā ǀ huve ǀ ūtaye ǀ ṛbhūn ǀ vājān ǀ marutaḥ ǀ soma-pītaye ǀ
ubhā ǀ mitrāvaruṇā ǀ nūnam ǀ aśvinā ǀ te ǀ naḥ ǀ hinvantu ǀ sātaye ǀ dhiye ǀ jiṣe ǁ1.111.4 Aṣṭaka 1.7.32.4Anuvāka 1.16.44
-
Ṛk 5
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥ऋभुर् भराय सं शिशातु सातिं समर्यजिद् वाजो अस्मां अविष्टु |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||ṛbhúrbhárāya sám śiśātu sātím samaryajídvā́jo asmā́m̐ aviṣṭu ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṃ aviṣṭu |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥ऋभुः । भराय । सम् । शिशातु । सातिम् । समर्यऽजित् । वाजः । अस्मान् । अविष्टु ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥ṛbhúḥ ǀ bhárāya ǀ sám ǀ śiśātu ǀ sātím ǀ samarya-jít ǀ vā́jaḥ ǀ asmā́n ǀ aviṣṭu ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁṛbhuḥ ǀ bharāya ǀ sam ǀ śiśātu ǀ sātim ǀ samarya-jit ǀ vājaḥ ǀ asmān ǀ aviṣṭu ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.111.5 Aṣṭaka 1.7.32.5Anuvāka 1.16.45
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.