Sūkta 63
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurigārṣīpaṅkti (1, 7-9); virāṭtrisṭup (2, 4); virāṭpaṅkti (3); bhurigbṛhatī (5); svarāḍārṣībṛhatī (6)
2nd set of styles triṣṭubh
-
Ṛk 1
त्वं म॒हाँ इं॑द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ॥त्वम् महां इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः |
यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृऌहासः किरणा नैजन् ||tvám mahā́m̐ indra yó ha śúṣmairdyā́vā jajñānáḥ pṛthivī́ áme dhāḥ ǀ
yáddha te víśvā giráyaścidábhvā bhiyā́ dṛḷhā́saḥ kiráṇā náijan ǁtvam mahāṃ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ |
yad dha te viśvā girayaś cid abhvā bhiyā dṛḷhāsaḥ kiraṇā naijan ||त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः॑ । द्यावा॑ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति॑ । अमे॑ । धाः॒ ।
यत् । ह॒ । ते॒ । विश्वा॑ । गि॒रयः॑ । चि॒त् । अभ्वा॑ । भि॒या । दृ॒ळ्हासः॑ । कि॒रणाः॑ । न । ऐज॑न् ॥त्वम् । महान् । इन्द्र । यः । ह । शुष्मैः । द्यावा । जज्ञानः । पृथिवी इति । अमे । धाः ।
यत् । ह । ते । विश्वा । गिरयः । चित् । अभ्वा । भिया । दृळ्हासः । किरणाः । न । ऐजन् ॥tvám ǀ mahā́n ǀ indra ǀ yáḥ ǀ ha ǀ śúṣmaiḥ ǀ dyā́vā ǀ jajñānáḥ ǀ pṛthivī́ íti ǀ áme ǀ dhāḥ ǀ
yát ǀ ha ǀ te ǀ víśvā ǀ giráyaḥ ǀ cit ǀ ábhvā ǀ bhiyā́ ǀ dṛḷhā́saḥ ǀ kiráṇāḥ ǀ ná ǀ áijan ǁtvam ǀ mahān ǀ indra ǀ yaḥ ǀ ha ǀ śuṣmaiḥ ǀ dyāvā ǀ jajñānaḥ ǀ pṛthivī iti ǀ ame ǀ dhāḥ ǀ
yat ǀ ha ǀ te ǀ viśvā ǀ girayaḥ ǀ cit ǀ abhvā ǀ bhiyā ǀ dṛḷhāsaḥ ǀ kiraṇāḥ ǀ na ǀ aijan ǁ1.63.1 Aṣṭaka 1.5.4.0
-
Ṛk 2
आ यद्धरी॑ इंद्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥आ यद् धरी इन्द्र विव्रता वेर् आ ते वज्रं जरिता बाह्वोर् धात् |
येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ||ā́ yáddhárī indra vívratā vérā́ te vájram jaritā́ bāhvórdhāt ǀ
yénāviharyatakrato amítrānpúra iṣṇā́si puruhūta pūrvī́ḥ ǁā yad dharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt |
yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ ||आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् ।
येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥आ । यत् । हरी इति । इन्द्र । विऽव्रता । वेः । आ । ते । वज्रम् । जरिता । बाह्वोः । धात् ।
येन । अविहर्यतक्रतो इत्यविहर्यतऽक्रतो । अमित्रान् । पुरः । इष्णासि । पुरुऽहूत । पूर्वीः ॥ā́ ǀ yát ǀ hárī íti ǀ indra ǀ ví-vratā ǀ véḥ ǀ ā́ ǀ te ǀ vájram ǀ jaritā́ ǀ bāhvóḥ ǀ dhāt ǀ
yéna ǀ aviharyatakrato ítyaviharyata-krato ǀ amítrān ǀ púraḥ ǀ iṣṇā́si ǀ puru-hūta ǀ pūrvī́ḥ ǁā ǀ yat ǀ harī iti ǀ indra ǀ vi-vratā ǀ veḥ ǀ ā ǀ te ǀ vajram ǀ jaritā ǀ bāhvoḥ ǀ dhāt ǀ
yena ǀ aviharyatakrato ityaviharyata-krato ǀ amitrān ǀ puraḥ ǀ iṣṇāsi ǀ puru-hūta ǀ pūrvīḥ ǁ1.63.2 Aṣṭaka 1.5.4.0
-
Ṛk 3
त्वं स॒त्य इं॑द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षाट् |
त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ||tvám satyá indra dhṛṣṇúretā́ntvámṛbhukṣā́ náryastvám ṣā́ṭ ǀ
tvám śúṣṇam vṛjáne pṛkṣá āṇáu yū́ne kútsāya dyumáte sácāhan ǁtvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ |
tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan ||त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः॑ । त्वम् । षाट् ।
त्वम् । शुष्ण॑म् । वृ॒जने॑ । पृ॒क्षे । आ॒णौ । यूने॑ । कुत्सा॑य । द्यु॒ऽमते॑ । सचा॑ । अ॒ह॒न् ॥त्वम् । सत्यः । इन्द्र । धृष्णुः । एतान् । त्वम् । ऋभुक्षाः । नर्यः । त्वम् । षाट् ।
त्वम् । शुष्णम् । वृजने । पृक्षे । आणौ । यूने । कुत्साय । द्युऽमते । सचा । अहन् ॥tvám ǀ satyáḥ ǀ indra ǀ dhṛṣṇúḥ ǀ etā́n ǀ tvám ǀ ṛbhukṣā́ḥ ǀ náryaḥ ǀ tvám ǀ ṣā́ṭ ǀ
tvám ǀ śúṣṇam ǀ vṛjáne ǀ pṛkṣé ǀ āṇáu ǀ yū́ne ǀ kútsāya ǀ dyu-máte ǀ sácā ǀ ahan ǁtvam ǀ satyaḥ ǀ indra ǀ dhṛṣṇuḥ ǀ etān ǀ tvam ǀ ṛbhukṣāḥ ǀ naryaḥ ǀ tvam ǀ ṣāṭ ǀ
tvam ǀ śuṣṇam ǀ vṛjane ǀ pṛkṣe ǀ āṇau ǀ yūne ǀ kutsāya ǀ dyu-mate ǀ sacā ǀ ahan ǁ1.63.3 Aṣṭaka 1.5.4.0
-
Ṛk 4
त्वं ह॒ त्यदिं॑द्र चोदीः॒ सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः |
यद् ध शूर वृषमणः पराचैर् वि दस्यूंर् योनाव् अकृतो वृथाषाट् ||tvám ha tyádindra codīḥ sákhā vṛtrám yádvajrinvṛṣakarmannubhnā́ḥ ǀ
yáddha śūra vṛṣamaṇaḥ parācáirví dásyūm̐ryónāvákṛto vṛthāṣā́ṭ ǁtvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ |
yad dha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ ||त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा॑ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒ऽक॒र्म॒न् । उ॒भ्नाः ।
यत् । ह॒ । शू॒र॒ । वृ॒ष॒ऽम॒नः॒ । प॒रा॒चैः । वि । दस्यू॑न् । योनौ॑ । अकृ॑तः । वृ॒था॒षाट् ॥त्वम् । ह । त्यत् । इन्द्र । चोदीः । सखा । वृत्रम् । यत् । वज्रिन् । वृषऽकर्मन् । उभ्नाः ।
यत् । ह । शूर । वृषऽमनः । पराचैः । वि । दस्यून् । योनौ । अकृतः । वृथाषाट् ॥tvám ǀ ha ǀ tyát ǀ indra ǀ codīḥ ǀ sákhā ǀ vṛtrám ǀ yát ǀ vajrin ǀ vṛṣa-karman ǀ ubhnā́ḥ ǀ
yát ǀ ha ǀ śūra ǀ vṛṣa-manaḥ ǀ parācáiḥ ǀ ví ǀ dásyūn ǀ yónau ǀ ákṛtaḥ ǀ vṛthāṣā́ṭ ǁtvam ǀ ha ǀ tyat ǀ indra ǀ codīḥ ǀ sakhā ǀ vṛtram ǀ yat ǀ vajrin ǀ vṛṣa-karman ǀ ubhnāḥ ǀ
yat ǀ ha ǀ śūra ǀ vṛṣa-manaḥ ǀ parācaiḥ ǀ vi ǀ dasyūn ǀ yonau ǀ akṛtaḥ ǀ vṛthāṣāṭ ǁ1.63.4 Aṣṭaka 1.5.4.0
-
Ṛk 5
त्वं ह॒ त्यदिं॒द्रारि॑षण्यंदृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिंछ्नथिह्य॒मित्रा॑न् ॥त्वं ह त्यद् इन्द्रारिषण्यन् दृऌहस्य चिन् मर्तानाम् अजुष्टौ |
व्य् अस्मद् आ काष्ठा अर्वते वर् घनेव वज्रिञ् छ्नथिह्य् अमित्रान् ||tvám ha tyádindrā́riṣaṇyandṛḷhásya cinmártānāmájuṣṭau ǀ
vyásmádā́ kā́ṣṭhā árvate varghanéva vajriñchnathihyamítrān ǁtvaṃ ha tyad indrāriṣaṇyan dṛḷhasya cin martānām ajuṣṭau |
vy asmad ā kāṣṭhā arvate var ghaneva vajriñ chnathihy amitrān ||त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि॑षण्यन् । दृ॒ळ्हस्य॑ । चि॒त् । मर्ता॑नाम् । अजु॑ष्टौ ।
वि । अ॒स्मत् । आ । काष्ठाः॑ । अर्व॑ते । वः॒ । घ॒नाऽइ॑व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा॑न् ॥त्वम् । ह । त्यत् । इन्द्र । अरिषण्यन् । दृळ्हस्य । चित् । मर्तानाम् । अजुष्टौ ।
वि । अस्मत् । आ । काष्ठाः । अर्वते । वः । घनाऽइव । वज्रिन् । श्नथिहि । अमित्रान् ॥tvám ǀ ha ǀ tyát ǀ indra ǀ áriṣaṇyan ǀ dṛḷhásya ǀ cit ǀ mártānām ǀ ájuṣṭau ǀ
ví ǀ asmát ǀ ā́ ǀ kā́ṣṭhāḥ ǀ árvate ǀ vaḥ ǀ ghanā́-iva ǀ vajrin ǀ śnathihi ǀ amítrān ǁtvam ǀ ha ǀ tyat ǀ indra ǀ ariṣaṇyan ǀ dṛḷhasya ǀ cit ǀ martānām ǀ ajuṣṭau ǀ
vi ǀ asmat ǀ ā ǀ kāṣṭhāḥ ǀ arvate ǀ vaḥ ǀ ghanā-iva ǀ vajrin ǀ śnathihi ǀ amitrān ǁ1.63.5 Aṣṭaka 1.5.4.0
-
Ṛk 6
त्वां ह॒ त्यदिं॒द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वंते ।
तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥त्वां ह त्यद् इन्द्रार्णसातौ स्वर्मीऌहे नर आजा हवन्ते |
तव स्वधाव इयम् आ समर्य ऊतिर् वाजेष्व् अतसाय्या भूत् ||tvā́m ha tyádindrā́rṇasātau svármīḷhe nára ājā́ havante ǀ
táva svadhāva iyámā́ samaryá ūtírvā́jeṣvatasā́yyā bhūt ǁtvāṃ ha tyad indrārṇasātau svarmīḷhe nara ājā havante |
tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt ||त्वाम् । ह॒ । त्यत् । इ॒न्द्र॒ । अर्ण॑ऽसातौ । स्वः॑ऽमीळ्हे । नरः॑ । आ॒जा । ह॒व॒न्ते॒ ।
तव॑ । स्व॒धा॒ऽवः॒ । इ॒यम् । आ । स॒ऽम॒र्ये । ऊ॒तिः । वाजे॑षु । अ॒त॒साय्या॑ । भू॒त् ॥त्वाम् । ह । त्यत् । इन्द्र । अर्णऽसातौ । स्वःऽमीळ्हे । नरः । आजा । हवन्ते ।
तव । स्वधाऽवः । इयम् । आ । सऽमर्ये । ऊतिः । वाजेषु । अतसाय्या । भूत् ॥tvā́m ǀ ha ǀ tyát ǀ indra ǀ árṇa-sātau ǀ sváḥ-mīḷhe ǀ náraḥ ǀ ājā́ ǀ havante ǀ
táva ǀ svadhā-vaḥ ǀ iyám ǀ ā́ ǀ sa-maryé ǀ ūtíḥ ǀ vā́jeṣu ǀ atasā́yyā ǀ bhūt ǁtvām ǀ ha ǀ tyat ǀ indra ǀ arṇa-sātau ǀ svaḥ-mīḷhe ǀ naraḥ ǀ ājā ǀ havante ǀ
tava ǀ svadhā-vaḥ ǀ iyam ǀ ā ǀ sa-marye ǀ ūtiḥ ǀ vājeṣu ǀ atasāyyā ǀ bhūt ǁ1.63.6 Aṣṭaka 1.5.5.0
-
Ṛk 7
त्वं ह॒ त्यदिं॑द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।
ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥त्वं ह त्यद् इन्द्र सप्त युध्यन् पुरो वज्रिन् पुरुकुत्साय दर्दः |
बर्हिर् न यत् सुदासे वृथा वर्ग् अंहो राजन् वरिवः पूरवे कः ||tvám ha tyádindra saptá yúdhyanpúro vajrinpurukútsāya dardaḥ ǀ
barhírná yátsudā́se vṛ́thā várgaṃhó rājanvárivaḥ pūráve kaḥ ǁtvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ |
barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ ||त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । स॒प्त । युध्य॑न् । पुरः॑ । व॒ज्रि॒न् । पु॒रु॒ऽकुत्सा॑य । द॒र्द॒रिति॑ दर्दः ।
ब॒र्हिः । न । यत् । सु॒ऽदासे॑ । वृथा॑ । वर्क् । अं॒होः । रा॒ज॒न् । वरि॑वः । पू॒रवे॑ । कः ॥त्वम् । ह । त्यत् । इन्द्र । सप्त । युध्यन् । पुरः । वज्रिन् । पुरुऽकुत्साय । दर्दरिति दर्दः ।
बर्हिः । न । यत् । सुऽदासे । वृथा । वर्क् । अंहोः । राजन् । वरिवः । पूरवे । कः ॥tvám ǀ ha ǀ tyát ǀ indra ǀ saptá ǀ yúdhyan ǀ púraḥ ǀ vajrin ǀ puru-kútsāya ǀ dardaríti dardaḥ ǀ
barhíḥ ǀ ná ǀ yát ǀ su-dā́se ǀ vṛ́thā ǀ várk ǀ aṃhóḥ ǀ rājan ǀ várivaḥ ǀ pūráve ǀ káḥ ǁtvam ǀ ha ǀ tyat ǀ indra ǀ sapta ǀ yudhyan ǀ puraḥ ǀ vajrin ǀ puru-kutsāya ǀ dardariti dardaḥ ǀ
barhiḥ ǀ na ǀ yat ǀ su-dāse ǀ vṛthā ǀ vark ǀ aṃhoḥ ǀ rājan ǀ varivaḥ ǀ pūrave ǀ kaḥ ǁ1.63.7 Aṣṭaka 1.5.5.0
-
Ṛk 8
त्वं त्यां न॑ इंद्र देव चि॒त्रामिष॒मापो॒ न पी॑पयः॒ परि॑ज्मन् ।
यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥त्वं त्यां न इन्द्र देव चित्राम् इषम् आपो न पीपयः परिज्मन् |
यया शूर प्रत्य् अस्मभ्यं यंसि त्मनम् ऊर्जं न विश्वध क्षरध्यै ||tvám tyā́m na indra deva citrā́míṣamā́po ná pīpayaḥ párijman ǀ
yáyā śūra prátyasmábhyam yáṃsi tmánamū́rjam ná viśvádha kṣáradhyai ǁtvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman |
yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai ||त्वम् । त्याम् । नः॒ । इ॒न्द्र॒ । दे॒व॒ । चि॒त्राम् । इष॑म् । आपः॑ । न । पी॒प॒यः॒ । परि॑ऽज्मन् ।
यया॑ । शू॒र॒ । प्रति॑ । अ॒स्मभ्य॑म् । यंसि॑ । त्मन॑म् । ऊर्ज॑म् । न । वि॒श्वध॑ । क्षर॑ध्यै ॥त्वम् । त्याम् । नः । इन्द्र । देव । चित्राम् । इषम् । आपः । न । पीपयः । परिऽज्मन् ।
यया । शूर । प्रति । अस्मभ्यम् । यंसि । त्मनम् । ऊर्जम् । न । विश्वध । क्षरध्यै ॥tvám ǀ tyā́m ǀ naḥ ǀ indra ǀ deva ǀ citrā́m ǀ íṣam ǀ ā́paḥ ǀ ná ǀ pīpayaḥ ǀ pári-jman ǀ
yáyā ǀ śūra ǀ práti ǀ asmábhyam ǀ yáṃsi ǀ tmánam ǀ ū́rjam ǀ ná ǀ viśvádha ǀ kṣáradhyai ǁtvam ǀ tyām ǀ naḥ ǀ indra ǀ deva ǀ citrām ǀ iṣam ǀ āpaḥ ǀ na ǀ pīpayaḥ ǀ pari-jman ǀ
yayā ǀ śūra ǀ prati ǀ asmabhyam ǀ yaṃsi ǀ tmanam ǀ ūrjam ǀ na ǀ viśvadha ǀ kṣaradhyai ǁ1.63.8 Aṣṭaka 1.5.5.0
-
Ṛk 9
अका॑रि त इंद्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्यां ।
सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥अकारि त इन्द्र गोतमेभिर् ब्रह्माण्य् ओक्ता नमसा हरिभ्याम् |
सुपेशसं वाजम् आ भरा नः प्रातर् मक्षू धियावसुर् जगम्यात् ||ákāri ta indra gótamebhirbráhmāṇyóktā námasā háribhyām ǀ
supéśasam vā́jamā́ bharā naḥ prātármakṣū́ dhiyā́vasurjagamyāt ǁakāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām |
supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt ||अका॑रि । ते॒ । इ॒न्द्र॒ । गोत॑मेभिः । ब्रह्मा॑णि । आऽउ॑क्ता । नम॑सा । हरि॑ऽभ्याम् ।
सु॒ऽपेश॑सम् । वाज॑म् । आ । भ॒र॒ । नः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥अकारि । ते । इन्द्र । गोतमेभिः । ब्रह्माणि । आऽउक्ता । नमसा । हरिऽभ्याम् ।
सुऽपेशसम् । वाजम् । आ । भर । नः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥ákāri ǀ te ǀ indra ǀ gótamebhiḥ ǀ bráhmāṇi ǀ ā́-uktā ǀ námasā ǀ hári-bhyām ǀ
su-péśasam ǀ vā́jam ǀ ā́ ǀ bhara ǀ naḥ ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁakāri ǀ te ǀ indra ǀ gotamebhiḥ ǀ brahmāṇi ǀ ā-uktā ǀ namasā ǀ hari-bhyām ǀ
su-peśasam ǀ vājam ǀ ā ǀ bhara ǀ naḥ ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ1.63.9 Aṣṭaka 1.5.5.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.