Ṛk 1.63.5
Saṃhitā
त्वं ह॒ त्यदिं॒द्रारि॑षण्यंदृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिंछ्नथिह्य॒मित्रा॑न् ॥
त्वं ह त्यद् इन्द्रारिषण्यन् दृऌहस्य चिन् मर्तानाम् अजुष्टौ |
व्य् अस्मद् आ काष्ठा अर्वते वर् घनेव वज्रिञ् छ्नथिह्य् अमित्रान् ||
tvám ha tyádindrā́riṣaṇyandṛḷhásya cinmártānāmájuṣṭau ǀ
vyásmádā́ kā́ṣṭhā árvate varghanéva vajriñchnathihyamítrān ǁ
tvaṃ ha tyad indrāriṣaṇyan dṛḷhasya cin martānām ajuṣṭau |
vy asmad ā kāṣṭhā arvate var ghaneva vajriñ chnathihy amitrān ||
Padapāṭha
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि॑षण्यन् । दृ॒ळ्हस्य॑ । चि॒त् । मर्ता॑नाम् । अजु॑ष्टौ ।
वि । अ॒स्मत् । आ । काष्ठाः॑ । अर्व॑ते । वः॒ । घ॒नाऽइ॑व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा॑न् ॥
त्वम् । ह । त्यत् । इन्द्र । अरिषण्यन् । दृळ्हस्य । चित् । मर्तानाम् । अजुष्टौ ।
वि । अस्मत् । आ । काष्ठाः । अर्वते । वः । घनाऽइव । वज्रिन् । श्नथिहि । अमित्रान् ॥
tvám ǀ ha ǀ tyát ǀ indra ǀ áriṣaṇyan ǀ dṛḷhásya ǀ cit ǀ mártānām ǀ ájuṣṭau ǀ
ví ǀ asmát ǀ ā́ ǀ kā́ṣṭhāḥ ǀ árvate ǀ vaḥ ǀ ghanā́-iva ǀ vajrin ǀ śnathihi ǀ amítrān ǁ
tvam ǀ ha ǀ tyat ǀ indra ǀ ariṣaṇyan ǀ dṛḷhasya ǀ cit ǀ martānām ǀ ajuṣṭau ǀ
vi ǀ asmat ǀ ā ǀ kāṣṭhāḥ ǀ arvate ǀ vaḥ ǀ ghanā-iva ǀ vajrin ǀ śnathihi ǀ amitrān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.063.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.04.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.