Ṛk 1.63.3
Saṃhitā
त्वं स॒त्य इं॑द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥
त्वं सत्य इन्द्र धृष्णुर् एतान् त्वम् ऋभुक्षा नर्यस् त्वं षाट् |
त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ||
tvám satyá indra dhṛṣṇúretā́ntvámṛbhukṣā́ náryastvám ṣā́ṭ ǀ
tvám śúṣṇam vṛjáne pṛkṣá āṇáu yū́ne kútsāya dyumáte sácāhan ǁ
tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ |
tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan ||
Padapāṭha
त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः॑ । त्वम् । षाट् ।
त्वम् । शुष्ण॑म् । वृ॒जने॑ । पृ॒क्षे । आ॒णौ । यूने॑ । कुत्सा॑य । द्यु॒ऽमते॑ । सचा॑ । अ॒ह॒न् ॥
त्वम् । सत्यः । इन्द्र । धृष्णुः । एतान् । त्वम् । ऋभुक्षाः । नर्यः । त्वम् । षाट् ।
त्वम् । शुष्णम् । वृजने । पृक्षे । आणौ । यूने । कुत्साय । द्युऽमते । सचा । अहन् ॥
tvám ǀ satyáḥ ǀ indra ǀ dhṛṣṇúḥ ǀ etā́n ǀ tvám ǀ ṛbhukṣā́ḥ ǀ náryaḥ ǀ tvám ǀ ṣā́ṭ ǀ
tvám ǀ śúṣṇam ǀ vṛjáne ǀ pṛkṣé ǀ āṇáu ǀ yū́ne ǀ kútsāya ǀ dyu-máte ǀ sácā ǀ ahan ǁ
tvam ǀ satyaḥ ǀ indra ǀ dhṛṣṇuḥ ǀ etān ǀ tvam ǀ ṛbhukṣāḥ ǀ naryaḥ ǀ tvam ǀ ṣāṭ ǀ
tvam ǀ śuṣṇam ǀ vṛjane ǀ pṛkṣe ǀ āṇau ǀ yūne ǀ kutsāya ǀ dyu-mate ǀ sacā ǀ ahan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.063.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.04.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.