Ṛgveda · Maṇḍala 1

Sūkta 10

Indra · Madhucchandas Vaiśvāmitra · 12 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Madhucchandas Vaiśvāmitra
Chandas छन्दस्
Anuṣṭubh
Metres by ṛk

1st set of styles anuṣṭup (7, 9-12); virāḍnuṣṭup (1-3); nicṛdanuṣṭup (6, 8); bhuriguṣṇik (4); virāḍanuṣṭup (5)

2nd set of styles anuṣṭubh

  1. Ṛk 1

    गायं॑ति त्वा गाय॒त्रिणोऽर्चं॑त्य॒र्कम॒र्किणः॑ ।
    ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥

    गायन्ति त्वा गायत्रिणो ऽर्चन्त्य् अर्कम् अर्किणः |
    ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे ||

    gā́yanti tvā gāyatríṇó’rcantyarkámarkíṇaḥ ǀ
    brahmā́ṇastvā śatakrata údvaṃśámiva yemire ǁ

    gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ |
    brahmāṇas tvā śatakrata ud vaṃśam iva yemire ||

    गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ ।
    ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥

    गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः ।
    ब्रह्माणः । त्वा । शतक्रतो इति शतऽक्रतो । उत् । वंशम्ऽइव । येमिरे ॥

    gā́yanti ǀ tvā ǀ gāyatríṇaḥ ǀ árcanti ǀ arkám ǀ arkíṇaḥ ǀ
    brahmā́ṇaḥ ǀ tvā ǀ śatakrato íti śata-krato ǀ út ǀ vaṃśám-iva ǀ yemire ǁ

    gāyanti ǀ tvā ǀ gāyatriṇaḥ ǀ arcanti ǀ arkam ǀ arkiṇaḥ ǀ
    brahmāṇaḥ ǀ tvā ǀ śatakrato iti śata-krato ǀ ut ǀ vaṃśam-iva ǀ yemire ǁ

    1.10.1 Aṣṭaka 1.1.19.1Anuvāka 1.3.21

  2. Ṛk 2

    यत्सानोः॒ सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्वं॑ ।
    तदिंद्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥

    यत् सानोः सानुम् आरुहद् भूर्य् अस्पष्ट कर्त्वम् |
    तद् इन्द्रो अर्थं चेतति यूथेन वृष्णिर् एजति ||

    yátsā́noḥ sā́numā́ruhadbhū́ryáspaṣṭa kártvam ǀ
    tádíndro ártham cetati yūthéna vṛṣṇírejati ǁ

    yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam |
    tad indro arthaṃ cetati yūthena vṛṣṇir ejati ||

    यत् । सानोः॑ । सानु॑म् । आ । अरु॑हत् । भूरि॑ । अस्प॑ष्ट । कर्त्व॑म् ।
    तत् । इन्द्रः॑ । अर्थ॑म् । चे॒त॒ति॒ । यू॒थेन॑ । वृ॒ष्णिः । ए॒ज॒ति॒ ॥

    यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कर्त्वम् ।
    तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥

    yát ǀ sā́noḥ ǀ sā́num ǀ ā́ ǀ áruhat ǀ bhū́ri ǀ áspaṣṭa ǀ kártvam ǀ
    tát ǀ índraḥ ǀ ártham ǀ cetati ǀ yūthéna ǀ vṛṣṇíḥ ǀ ejati ǁ

    yat ǀ sānoḥ ǀ sānum ǀ ā ǀ aruhat ǀ bhūri ǀ aspaṣṭa ǀ kartvam ǀ
    tat ǀ indraḥ ǀ artham ǀ cetati ǀ yūthena ǀ vṛṣṇiḥ ǀ ejati ǁ

    1.10.2 Aṣṭaka 1.1.19.2Anuvāka 1.3.22

  3. Ṛk 3

    यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।
    अथा॑ न इंद्र सोमपा गि॒रामुप॑श्रुतिं चर ॥

    युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा |
    अथा न इन्द्र सोमपा गिराम् उपश्रुतिं चर ||

    yukṣvā́ hí keśínā hárī vṛ́ṣaṇā kakṣyaprā́ ǀ
    áthā na indra somapā girā́múpaśrutim cara ǁ

    yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
    athā na indra somapā girām upaśrutiṃ cara ||

    यु॒क्ष्व । हि । के॒शिना॑ । हरी॒ इति॑ । वृष॑णा । क॒क्ष्य॒ऽप्रा ।
    अथ॑ । नः॒ । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ । गि॒राम् । उप॑ऽश्रुतिम् । च॒र॒ ॥

    युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्यऽप्रा ।
    अथ । नः । इन्द्र । सोमऽपाः । गिराम् । उपऽश्रुतिम् । चर ॥

    yukṣvá ǀ hí ǀ keśínā ǀ hárī íti ǀ vṛ́ṣaṇā ǀ kakṣya-prā́ ǀ
    átha ǀ naḥ ǀ indra ǀ soma-pāḥ ǀ girā́m ǀ úpa-śrutim ǀ cara ǁ

    yukṣva ǀ hi ǀ keśinā ǀ harī iti ǀ vṛṣaṇā ǀ kakṣya-prā ǀ
    atha ǀ naḥ ǀ indra ǀ soma-pāḥ ǀ girām ǀ upa-śrutim ǀ cara ǁ

    1.10.3 Aṣṭaka 1.1.19.3Anuvāka 1.3.23

  4. Ṛk 4

    एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।
    ब्रह्म॑ च नो वसो॒ सचेंद्र॑ य॒ज्ञं च॑ वर्धय ॥

    एहि स्तोमां अभि स्वराभि गृणीह्य् आ रुव |
    ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ||

    éhi stómām̐ abhí svarābhí gṛṇīhyā́ ruva ǀ
    bráhma ca no vaso sácéndra yajñám ca vardhaya ǁ

    ehi stomāṃ abhi svarābhi gṛṇīhy ā ruva |
    brahma ca no vaso sacendra yajñaṃ ca vardhaya ||

    आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ ।
    ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥

    आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव ।
    ब्रह्म । च । नः । वसो इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥

    ā́ ǀ ihi ǀ stómān ǀ abhí ǀ svara ǀ abhí ǀ gṛṇīhi ǀ ā́ ǀ ruva ǀ
    bráhma ǀ ca ǀ naḥ ǀ vaso íti ǀ sácā ǀ índra ǀ yajñám ǀ ca ǀ vardhaya ǁ

    ā ǀ ihi ǀ stomān ǀ abhi ǀ svara ǀ abhi ǀ gṛṇīhi ǀ ā ǀ ruva ǀ
    brahma ǀ ca ǀ naḥ ǀ vaso iti ǀ sacā ǀ indra ǀ yajñam ǀ ca ǀ vardhaya ǁ

    1.10.4 Aṣṭaka 1.1.19.4Anuvāka 1.3.24

  5. Ṛk 5

    उ॒क्थमिंद्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।
    श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥

    उक्थम् इन्द्राय शंस्यं वर्धनम् पुरुनिष्षिधे |
    शक्रो यथा सुतेषु णो रारणत् सख्येषु च ||

    ukthámíndrāya śáṃsyam várdhanam puruniṣṣídhe ǀ
    śakró yáthā sutéṣu ṇo rāráṇatsakhyéṣu ca ǁ

    uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe |
    śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca ||

    उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् । वर्ध॑नम् । पु॒रु॒निः॒ऽसिधे॑ ।
    श॒क्रः । यथा॑ । सु॒तेषु॑ । नः॒ । र॒रण॑त् । स॒ख्येषु॑ । च॒ ॥

    उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरुनिःऽसिधे ।
    शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥

    ukthám ǀ índrāya ǀ śáṃsyam ǀ várdhanam ǀ puruniḥ-sídhe ǀ
    śakráḥ ǀ yáthā ǀ sutéṣu ǀ naḥ ǀ raráṇat ǀ sakhyéṣu ǀ ca ǁ

    uktham ǀ indrāya ǀ śaṃsyam ǀ vardhanam ǀ puruniḥ-sidhe ǀ
    śakraḥ ǀ yathā ǀ suteṣu ǀ naḥ ǀ raraṇat ǀ sakhyeṣu ǀ ca ǁ

    1.10.5 Aṣṭaka 1.1.19.5Anuvāka 1.3.25

  6. Ṛk 6

    तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ ।
    स श॒क्र उ॒त नः॑ शक॒दिंद्रो॒ वसु॒ दय॑मानः ॥

    तम् इत् सखित्व ईमहे तं राये तं सुवीर्ये |
    स शक्र उत नः शकद् इन्द्रो वसु दयमानः ||

    támítsakhitvá īmahe tám rāyé tám suvī́rye ǀ
    sá śakrá utá naḥ śakadíndro vásu dáyamānaḥ ǁ

    tam it sakhitva īmahe taṃ rāye taṃ suvīrye |
    sa śakra uta naḥ śakad indro vasu dayamānaḥ ||

    तम् । इत् । स॒खि॒ऽत्वे । ई॒म॒हे॒ । तम् । रा॒ये । तम् । सु॒ऽवीर्ये॑ ।
    सः । श॒क्रः । उ॒त । नः॒ । श॒क॒त् । इन्द्रः॑ । वसु॑ । दय॑मानः ॥

    तम् । इत् । सखिऽत्वे । ईमहे । तम् । राये । तम् । सुऽवीर्ये ।
    सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥

    tám ǀ ít ǀ sakhi-tvé ǀ īmahe ǀ tám ǀ rāyé ǀ tám ǀ su-vī́rye ǀ
    sáḥ ǀ śakráḥ ǀ utá ǀ naḥ ǀ śakat ǀ índraḥ ǀ vásu ǀ dáyamānaḥ ǁ

    tam ǀ it ǀ sakhi-tve ǀ īmahe ǀ tam ǀ rāye ǀ tam ǀ su-vīrye ǀ
    saḥ ǀ śakraḥ ǀ uta ǀ naḥ ǀ śakat ǀ indraḥ ǀ vasu ǀ dayamānaḥ ǁ

    1.10.6 Aṣṭaka 1.1.19.6Anuvāka 1.3.26

  7. Ṛk 7

    सु॒वि॒वृतं॑ सुनि॒रज॒मिंद्र॒ त्वादा॑त॒मिद्यशः॑ ।
    गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥

    सुविवृतं सुनिरजम् इन्द्र त्वादातम् इद् यशः |
    गवाम् अप व्रजं वृधि कृणुष्व राधो अद्रिवः ||

    suvivṛ́tam sunirájamíndra tvā́dātamídyáśaḥ ǀ
    gávāmápa vrajám vṛdhi kṛṇuṣvá rā́dho adrivaḥ ǁ

    suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ |
    gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ ||

    सु॒ऽवि॒वृत॑म् । सु॒निः॒ऽअज॑म् । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ।
    गवा॑म् । अप॑ । व्र॒जम् । वृ॒धि॒ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ॥

    सुऽविवृतम् । सुनिःऽअजम् । इन्द्र । त्वाऽदातम् । इत् । यशः ।
    गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिऽवः ॥

    su-vivṛ́tam ǀ suniḥ-ájam ǀ índra ǀ tvā́-dātam ǀ ít ǀ yáśaḥ ǀ
    gávām ǀ ápa ǀ vrajám ǀ vṛdhi ǀ kṛṇuṣvá ǀ rā́dhaḥ ǀ adri-vaḥ ǁ

    su-vivṛtam ǀ suniḥ-ajam ǀ indra ǀ tvā-dātam ǀ it ǀ yaśaḥ ǀ
    gavām ǀ apa ǀ vrajam ǀ vṛdhi ǀ kṛṇuṣva ǀ rādhaḥ ǀ adri-vaḥ ǁ

    1.10.7 Aṣṭaka 1.1.20.1Anuvāka 1.3.27

  8. Ṛk 8

    न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः ।
    जेषः॒ स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥

    नहि त्वा रोदसी उभे ऋघायमाणम् इन्वतः |
    जेषः स्वर्वतीर् अपः सं गा अस्मभ्यं धूनुहि ||

    nahí tvā ródasī ubhé ṛghāyámāṇamínvataḥ ǀ
    jéṣaḥ svárvatīrapáḥ sám gā́ asmábhyam dhūnuhi ǁ

    nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ |
    jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi ||

    न॒हि । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । ऋ॒घा॒यमा॑णम् । इन्व॑तः ।
    जेषः॑ । स्वः॑ऽवतीः । अ॒पः । सम् । गाः । अ॒स्मभ्य॑म् । धू॒नु॒हि॒ ॥

    नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः ।
    जेषः । स्वःऽवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥

    nahí ǀ tvā ǀ ródasī íti ǀ ubhé íti ǀ ṛghāyámāṇam ǀ ínvataḥ ǀ
    jéṣaḥ ǀ sváḥ-vatīḥ ǀ apáḥ ǀ sám ǀ gā́ḥ ǀ asmábhyam ǀ dhūnuhi ǁ

    nahi ǀ tvā ǀ rodasī iti ǀ ubhe iti ǀ ṛghāyamāṇam ǀ invataḥ ǀ
    jeṣaḥ ǀ svaḥ-vatīḥ ǀ apaḥ ǀ sam ǀ gāḥ ǀ asmabhyam ǀ dhūnuhi ǁ

    1.10.8 Aṣṭaka 1.1.20.2Anuvāka 1.3.28

  9. Ṛk 9

    आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ ।
    इंद्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दंत॑रं ॥

    आश्रुत्कर्ण श्रुधी हवं नू चिद् दधिष्व मे गिरः |
    इन्द्र स्तोमम् इमम् मम कृष्वा युजश् चिद् अन्तरम् ||

    ā́śrutkarṇa śrudhī́ hávam nū́ ciddadhiṣva me gíraḥ ǀ
    índra stómamimám máma kṛṣvā́ yujáścidántaram ǁ

    āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ |
    indra stomam imam mama kṛṣvā yujaś cid antaram ||

    आश्रु॑त्ऽकर्ण । श्रु॒धि । हव॑म् । नु । चि॒त् । द॒धि॒ष्व॒ । मे॒ । गिरः॑ ।
    इन्द्र॑ । स्तोम॑म् । इ॒मम् । मम॑ । कृ॒ष्व । यु॒जः । चि॒त् । अन्त॑रम् ॥

    आश्रुत्ऽकर्ण । श्रुधि । हवम् । नु । चित् । दधिष्व । मे । गिरः ।
    इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥

    ā́śrut-karṇa ǀ śrudhí ǀ hávam ǀ nú ǀ cit ǀ dadhiṣva ǀ me ǀ gíraḥ ǀ
    índra ǀ stómam ǀ imám ǀ máma ǀ kṛṣvá ǀ yujáḥ ǀ cit ǀ ántaram ǁ

    āśrut-karṇa ǀ śrudhi ǀ havam ǀ nu ǀ cit ǀ dadhiṣva ǀ me ǀ giraḥ ǀ
    indra ǀ stomam ǀ imam ǀ mama ǀ kṛṣva ǀ yujaḥ ǀ cit ǀ antaram ǁ

    1.10.9 Aṣṭaka 1.1.20.3Anuvāka 1.3.29

  10. Ṛk 10

    वि॒द्मा हि त्वा॒ वृषं॑तमं॒ वाजे॑षु हवन॒श्रुतं॑ ।
    वृषं॑तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑मां ॥

    विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् |
    वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ||

    vidmā́ hí tvā vṛ́ṣantamam vā́jeṣu havanaśrútam ǀ
    vṛ́ṣantamasya hūmaha ūtím sahasrasā́tamām ǁ

    vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam |
    vṛṣantamasya hūmaha ūtiṃ sahasrasātamām ||

    वि॒द्म । हि । त्वा॒ । वृष॑न्ऽतमम् । वाजे॑षु । ह॒व॒न॒ऽश्रुत॑म् ।
    वृष॑न्ऽतमस्य । हू॒म॒हे॒ । ऊ॒तिम् । स॒ह॒स्र॒ऽसात॑माम् ॥

    विद्म । हि । त्वा । वृषन्ऽतमम् । वाजेषु । हवनऽश्रुतम् ।
    वृषन्ऽतमस्य । हूमहे । ऊतिम् । सहस्रऽसातमाम् ॥

    vidmá ǀ hí ǀ tvā ǀ vṛ́ṣan-tamam ǀ vā́jeṣu ǀ havana-śrútam ǀ
    vṛ́ṣan-tamasya ǀ hūmahe ǀ ūtím ǀ sahasra-sā́tamām ǁ

    vidma ǀ hi ǀ tvā ǀ vṛṣan-tamam ǀ vājeṣu ǀ havana-śrutam ǀ
    vṛṣan-tamasya ǀ hūmahe ǀ ūtim ǀ sahasra-sātamām ǁ

    1.10.10 Aṣṭaka 1.1.20.4Anuvāka 1.3.30

  11. Ṛk 11

    आ तू न॑ इंद्र कौशिक मंदसा॒नः सु॒तं पि॑ब ।
    नव्य॒मायुः॒ प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषिं॑ ॥

    आ तू न इन्द्र कौशिक मन्दसानः सुतम् पिब |
    नव्यम् आयुः प्र सू तिर कृधी सहस्रसाम् ऋषिम् ||

    ā́ tū́ na indra kauśika mandasānáḥ sutám piba ǀ
    návyamā́yuḥ prá sū́ tira kṛdhī́ sahasrasā́mṛ́ṣim ǁ

    ā tū na indra kauśika mandasānaḥ sutam piba |
    navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim ||

    आ । तु । नः॒ । इ॒न्द्र॒ । कौ॒शि॒क॒ । म॒न्द॒सा॒नः । सु॒तम् । पि॒ब॒ ।
    नव्य॑म् । आयुः॑ । प्र । सु । ति॒र॒ । कृ॒धि । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥

    आ । तु । नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब ।
    नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥

    ā́ ǀ tú ǀ naḥ ǀ indra ǀ kauśika ǀ mandasānáḥ ǀ sutám ǀ piba ǀ
    návyam ǀ ā́yuḥ ǀ prá ǀ sú ǀ tira ǀ kṛdhí ǀ sahasra-sā́m ǀ ṛ́ṣim ǁ

    ā ǀ tu ǀ naḥ ǀ indra ǀ kauśika ǀ mandasānaḥ ǀ sutam ǀ piba ǀ
    navyam ǀ āyuḥ ǀ pra ǀ su ǀ tira ǀ kṛdhi ǀ sahasra-sām ǀ ṛṣim ǁ

    1.10.11 Aṣṭaka 1.1.20.5Anuvāka 1.3.31

  12. Ṛk 12

    परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वंतु वि॒श्वतः॑ ।
    वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवंतु॒ जुष्ट॑यः ॥

    परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः |
    वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ||

    pári tvā girvaṇo gíra imā́ bhavantu viśvátaḥ ǀ
    vṛddhā́yumánu vṛ́ddhayo júṣṭā bhavantu júṣṭayaḥ ǁ

    pari tvā girvaṇo gira imā bhavantu viśvataḥ |
    vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

    परि॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इ॒माः । भ॒व॒न्तु॒ । वि॒श्वतः॑ ।
    वृ॒द्धऽआ॑युम् । अनु॑ । वृद्ध॑यः । जुष्टाः॑ । भ॒व॒न्तु॒ । जुष्ट॑यः ॥

    परि । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः ।
    वृद्धऽआयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः ॥

    pári ǀ tvā ǀ girvaṇaḥ ǀ gíraḥ ǀ imā́ḥ ǀ bhavantu ǀ viśvátaḥ ǀ
    vṛddhá-āyum ǀ ánu ǀ vṛ́ddhayaḥ ǀ júṣṭāḥ ǀ bhavantu ǀ júṣṭayaḥ ǁ

    pari ǀ tvā ǀ girvaṇaḥ ǀ giraḥ ǀ imāḥ ǀ bhavantu ǀ viśvataḥ ǀ
    vṛddha-āyum ǀ anu ǀ vṛddhayaḥ ǀ juṣṭāḥ ǀ bhavantu ǀ juṣṭayaḥ ǁ

    1.10.12 Aṣṭaka 1.1.20.6Anuvāka 1.3.32

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.10 · Indra

Interpretations

Sri Aurobindo

Ṛk 1

Thee the Gayatrins (devatas of mind) chant, the Arkins (also devatas of mind) begin their action; the mind movements, O Shatakratu, strive up by thee as they that climb a trunk.

Ṛk 2

When one climbeth from plateau to plateau, a rich activity expresses itself, then Indra bringeth the substance of thought into consciousness, he moves a lover (master) with his mate (or vibrates with the force and mastery of his action).1

Ṛk 3

Yoke thou thy maned steeds, covering with mastery fill the containing soul, then, O Indra, drinker of the nectar, respond with the Sruti to our words.

Ṛk 4

Come, answer to our songs of praise, speak them out as they rise, cry out thy response; attach thyself to our mind, O King, O Indra, and increase in us the Yajna.

Ṛk 5

I form fully the prayer I have to declare towards Indra, the prayer (ishita) that giveth increase, that potent Indra may have ecstasy in our nectar-yieldings and in our friendlinesses (acts of friendship).

Ṛk 6

Him we desire in comradeship, him in delight, him in strong energy; therefore this puissant Indra in his kindliness hath power to give us his substance (or simply, hath power to distribute to us of his substance).

Ṛk 7

O Indra, wide and untroubled (or undarkened) success has been won, remove the veil2 over those rays, create delight, O dweller on the hill.

Ṛk 8

Over thee the two obstructing firmaments have no power when thou goest stiffly upward (or when thou goest straight); victorious pour down for us on our earths the waters of heaven

Ṛk 9

Lend attentive ear and hear my call, now uphold (or heed) my words; O Indra, draw this my song of praise into thy innermost part of the state of Yoga.

Ṛk 10

We know thee for most supreme in the substantial strengths of being, a hearer of our call; because thou art thus supreme we call to thee for expansion of being strong in stability.

Ṛk 11

O Indra of the sheaths, drink then the Soma, be steadfast in delight, give us wholly a new being and create for us the Knowledge that preserveth utterly our force.

Ṛk 12

O delighter in our words, may these our words be all around thee; may all increase follow the increase of our being and all love cling to it.