Sūkta 157
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (2, 4); triṣṭup (1); nicṛjjagatī (3); nicṛttriṣṭup (5); virāṭtrisṭup (6)
2nd set of styles jagatī (1-4); triṣṭubh (5-6)
-
Ṛk 1
अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्चं॒द्रा म॒ह्या॑वो अ॒र्चिषा॑ ।
आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो अर्चिषा |
आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ||ábodhyagnírjmá údeti sū́ryo vyúṣā́ścandrā́ mahyā́vo arcíṣā ǀ
ā́yukṣātāmaśvínā yā́tave rátham prā́sāvīddeváḥ savitā́ jágatpṛ́thak ǁabodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā |
āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak ||अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ ।
अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा ।
अयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥ábodhi ǀ agníḥ ǀ jmáḥ ǀ út ǀ eti ǀ sū́ryaḥ ǀ ví ǀ uṣā́ḥ ǀ candrā́ ǀ mahī́ ǀ āvaḥ ǀ arcíṣā ǀ
áyukṣātām ǀ aśvínā ǀ yā́tave ǀ rátham ǀ prá ǀ asāvīt ǀ deváḥ ǀ savitā́ ǀ jágat ǀ pṛ́thak ǁabodhi ǀ agniḥ ǀ jmaḥ ǀ ut ǀ eti ǀ sūryaḥ ǀ vi ǀ uṣāḥ ǀ candrā ǀ mahī ǀ āvaḥ ǀ arciṣā ǀ
ayukṣātām ǀ aśvinā ǀ yātave ǀ ratham ǀ pra ǀ asāvīt ǀ devaḥ ǀ savitā ǀ jagat ǀ pṛthak ǁ1.157.1 Aṣṭaka 2.2.27.1Anuvāka 1.22.1
-
Ṛk 2
यद्युं॒जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतं ।
अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥यद् युञ्जाथे वृषणम् अश्विना रथं घृतेन नो मधुना क्षत्रम् उक्षतम् |
अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ||yádyuñjā́the vṛ́ṣaṇamaśvinā rátham ghṛténa no mádhunā kṣatrámukṣatam ǀ
asmā́kam bráhma pṛ́tanāsu jinvatam vayám dhánā śū́rasātā bhajemahi ǁyad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam |
asmākam brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi ||यत् । यु॒ञ्जाथे॒ इति॑ । वृष॑णम् । अ॒श्वि॒ना॒ । रथ॑म् । घृ॒तेन॑ । नः॒ । मधु॑ना । क्ष॒त्रम् । उ॒क्ष॒त॒म् ।
अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । जि॒न्व॒त॒म् । व॒यम् । धना॑ । शूर॑ऽसाता । भ॒जे॒म॒हि॒ ॥यत् । युञ्जाथे इति । वृषणम् । अश्विना । रथम् । घृतेन । नः । मधुना । क्षत्रम् । उक्षतम् ।
अस्माकम् । ब्रह्म । पृतनासु । जिन्वतम् । वयम् । धना । शूरऽसाता । भजेमहि ॥yát ǀ yuñjā́the íti ǀ vṛ́ṣaṇam ǀ aśvinā ǀ rátham ǀ ghṛténa ǀ naḥ ǀ mádhunā ǀ kṣatrám ǀ ukṣatam ǀ
asmā́kam ǀ bráhma ǀ pṛ́tanāsu ǀ jinvatam ǀ vayám ǀ dhánā ǀ śū́ra-sātā ǀ bhajemahi ǁyat ǀ yuñjāthe iti ǀ vṛṣaṇam ǀ aśvinā ǀ ratham ǀ ghṛtena ǀ naḥ ǀ madhunā ǀ kṣatram ǀ ukṣatam ǀ
asmākam ǀ brahma ǀ pṛtanāsu ǀ jinvatam ǀ vayam ǀ dhanā ǀ śūra-sātā ǀ bhajemahi ǁ1.157.2 Aṣṭaka 2.2.27.2Anuvāka 1.22.2
-
Ṛk 3
अ॒र्वाङ् त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः ।
त्रि॒वं॒धु॒रो म॒घवा॑ वि॒श्वसौ॑भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः |
त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदे ||arvā́ṅ tricakró madhuvā́hano rátho jīrā́śvo aśvínoryātu súṣṭutaḥ ǀ
trivandhuró maghávā viśvásaubhagaḥ śám na ā́ vakṣaddvipáde cátuṣpade ǁarvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ |
trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade ||अ॒र्वाङ् । त्रि॒ऽच॒क्रः । म॒धु॒ऽवाह॑नः । रथः॑ । जी॒रऽअ॑श्वः । अ॒श्विनोः॑ । या॒तु॒ । सुऽस्तु॑तः ।
त्रि॒ऽव॒न्धु॒रः । म॒घऽवा॑ । वि॒श्वऽसौ॑भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ॥अर्वाङ् । त्रिऽचक्रः । मधुऽवाहनः । रथः । जीरऽअश्वः । अश्विनोः । यातु । सुऽस्तुतः ।
त्रिऽवन्धुरः । मघऽवा । विश्वऽसौभगः । शम् । नः । आ । वक्षत् । द्विऽपदे । चतुःऽपदे ॥arvā́ṅ ǀ tri-cakráḥ ǀ madhu-vā́hanaḥ ǀ ráthaḥ ǀ jīrá-aśvaḥ ǀ aśvínoḥ ǀ yātu ǀ sú-stutaḥ ǀ
tri-vandhuráḥ ǀ maghá-vā ǀ viśvá-saubhagaḥ ǀ śám ǀ naḥ ǀ ā́ ǀ vakṣat ǀ dvi-páde ǀ cátuḥ-pade ǁarvāṅ ǀ tri-cakraḥ ǀ madhu-vāhanaḥ ǀ rathaḥ ǀ jīra-aśvaḥ ǀ aśvinoḥ ǀ yātu ǀ su-stutaḥ ǀ
tri-vandhuraḥ ǀ magha-vā ǀ viśva-saubhagaḥ ǀ śam ǀ naḥ ǀ ā ǀ vakṣat ǀ dvi-pade ǀ catuḥ-pade ǁ1.157.3 Aṣṭaka 2.2.27.3Anuvāka 1.22.3
-
Ṛk 4
आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतं ।
प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् |
प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ||ā́ na ū́rjam vahatamaśvinā yuvám mádhumatyā naḥ káśayā mimikṣatam ǀ
prā́yustā́riṣṭam nī́ rápāṃsi mṛkṣatam sédhatam dvéṣo bhávatam sacābhúvā ǁā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam |
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु॑ऽमत्या । नः॒ । कश॑या । मि॒मि॒क्ष॒त॒म् ।
प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् । मधुऽमत्या । नः । कशया । मिमिक्षतम् ।
प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाऽभुवा ॥ā́ ǀ naḥ ǀ ū́rjam ǀ vahatam ǀ aśvinā ǀ yuvám ǀ mádhu-matyā ǀ naḥ ǀ káśayā ǀ mimikṣatam ǀ
prá ǀ ā́yuḥ ǀ tā́riṣṭam ǀ níḥ ǀ rápāṃsi ǀ mṛkṣatam ǀ sédhatam ǀ dvéṣaḥ ǀ bhávatam ǀ sacā-bhúvā ǁā ǀ naḥ ǀ ūrjam ǀ vahatam ǀ aśvinā ǀ yuvam ǀ madhu-matyā ǀ naḥ ǀ kaśayā ǀ mimikṣatam ǀ
pra ǀ āyuḥ ǀ tāriṣṭam ǀ niḥ ǀ rapāṃsi ǀ mṛkṣatam ǀ sedhatam ǀ dveṣaḥ ǀ bhavatam ǀ sacā-bhuvā ǁ1.157.4 Aṣṭaka 2.2.27.4Anuvāka 1.22.4
-
Ṛk 5
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्वं॒तः ।
यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथां ॥युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्व् अन्तः |
युवम् अग्निं च वृषणाव् अपश् च वनस्पतींर् अश्विनाव् ऐरयेथाम् ||yuvám ha gárbham jágatīṣu dhattho yuvám víśveṣu bhúvaneṣvantáḥ ǀ
yuvámagním ca vṛṣaṇāvapáśca vánaspátīm̐raśvināváirayethām ǁyuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ |
yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām ||यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।
यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥युवम् । ह । गर्भम् । जगतीषु । धत्थः । युवम् । विश्वेषु । भुवनेषु । अन्तरिति ।
युवम् । अग्निम् । च । वृषणौ । अपः । च । वनस्पतीन् । अश्विनौ । ऐरयेथाम् ॥yuvám ǀ ha ǀ gárbham ǀ jágatīṣu ǀ dhatthaḥ ǀ yuvám ǀ víśveṣu ǀ bhúvaneṣu ǀ antáríti ǀ
yuvám ǀ agním ǀ ca ǀ vṛṣaṇau ǀ apáḥ ǀ ca ǀ vánaspátīn ǀ aśvinau ǀ áirayethām ǁyuvam ǀ ha ǀ garbham ǀ jagatīṣu ǀ dhatthaḥ ǀ yuvam ǀ viśveṣu ǀ bhuvaneṣu ǀ antariti ǀ
yuvam ǀ agnim ǀ ca ǀ vṛṣaṇau ǀ apaḥ ǀ ca ǀ vanaspatīn ǀ aśvinau ǀ airayethām ǁ1.157.5 Aṣṭaka 2.2.27.5Anuvāka 1.22.5
-
Ṛk 6
यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः ।
अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या राथ्येभिः |
अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाश ||yuvám ha stho bhiṣájā bheṣajébhirátho ha stho rathyā́ rā́thyebhiḥ ǀ
átho ha kṣatrámádhi dhattha ugrā yó vām havíṣmānmánasā dadā́śa ǁyuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ |
atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa ||यु॒वम् । ह॒ । स्थः॒ । भि॒षजा॑ । भे॒ष॒जेभिः॑ । अथो॒ इति॑ । ह॒ । स्थः॒ । र॒थ्या॑ । रथ्ये॑भि॒रिति॒ रथ्ये॑भिः ।
अथो॒ इति॑ । ह॒ । क्ष॒त्रम् । अधि॑ । ध॒त्थ॒ । उ॒ग्रा॒ । यः । वा॒म् । ह॒विष्मा॑न् । मन॑सा । द॒दाश॑ ॥युवम् । ह । स्थः । भिषजा । भेषजेभिः । अथो इति । ह । स्थः । रथ्या । रथ्येभिरिति रथ्येभिः ।
अथो इति । ह । क्षत्रम् । अधि । धत्थ । उग्रा । यः । वाम् । हविष्मान् । मनसा । ददाश ॥yuvám ǀ ha ǀ sthaḥ ǀ bhiṣájā ǀ bheṣajébhiḥ ǀ átho íti ǀ ha ǀ sthaḥ ǀ rathyā́ ǀ ráthyebhiríti ráthyebhiḥ ǀ
átho íti ǀ ha ǀ kṣatrám ǀ ádhi ǀ dhattha ǀ ugrā ǀ yáḥ ǀ vām ǀ havíṣmān ǀ mánasā ǀ dadā́śa ǁyuvam ǀ ha ǀ sthaḥ ǀ bhiṣajā ǀ bheṣajebhiḥ ǀ atho iti ǀ ha ǀ sthaḥ ǀ rathyā ǀ rathyebhiriti rathyebhiḥ ǀ
atho iti ǀ ha ǀ kṣatram ǀ adhi ǀ dhattha ǀ ugrā ǀ yaḥ ǀ vām ǀ haviṣmān ǀ manasā ǀ dadāśa ǁ1.157.6 Aṣṭaka 2.2.27.6Anuvāka 1.22.6
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.