Sūkta 142
- Devatā देवता
- 1-4: Agni; 5: Barhis; 6: Devīr Dvāraḥ; 7: Uṣāsānaktā; 8: Daiva Hotāra; 9: Sarasvatī, Īḷā, Bhārata; 10: Tvaṣṭṛ; 11: Agni, Vanaspati; 12: Svāhā Kṛtiḥ; 13: Indra
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2, 5, 6, 8, 9); anuṣṭup (3, 7, 10-12); svarāḍanuṣṭup (4); bhuriguṣṇik (13)
2nd set of styles anuṣṭubh
-
Ṛk 1
समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।
तंतुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥समिद्धो अग्न आ वह देवां अद्य यतस्रुचे |
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ||sámiddho agna ā́ vaha devā́m̐ adyá yatásruce ǀ
tántum tanuṣva pūrvyám sutásomāya dāśúṣe ǁsamiddho agna ā vaha devāṃ adya yatasruce |
tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe ||सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒तऽस्रु॑चे ।
तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒तऽसो॑माय । दा॒शुषे॑ ॥सम्ऽइद्धः । अग्ने । आ । वह । देवान् । अद्य । यतऽस्रुचे ।
तन्तुम् । तनुष्व । पूर्व्यम् । सुतऽसोमाय । दाशुषे ॥sám-iddhaḥ ǀ agne ǀ ā́ ǀ vaha ǀ devā́n ǀ adyá ǀ yatá-sruce ǀ
tántum ǀ tanuṣva ǀ pūrvyám ǀ sutá-somāya ǀ dāśúṣe ǁsam-iddhaḥ ǀ agne ǀ ā ǀ vaha ǀ devān ǀ adya ǀ yata-sruce ǀ
tantum ǀ tanuṣva ǀ pūrvyam ǀ suta-somāya ǀ dāśuṣe ǁ1.142.1 Aṣṭaka 2.2.10.1Anuvāka 1.21.27
-
Ṛk 2
घृ॒तवं॑त॒मुप॑ मासि॒ मधु॑मंतं तनूनपात् ।
य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥घृतवन्तम् उप मासि मधुमन्तं तनूनपात् |
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ||ghṛtávantamúpa māsi mádhumantam tanūnapāt ǀ
yajñám víprasya mā́vataḥ śaśamānásya dāśúṣaḥ ǁghṛtavantam upa māsi madhumantaṃ tanūnapāt |
yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ ||घृ॒तऽव॑न्तम् । उप॑ । मा॒सि॒ । मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् ।
य॒ज्ञम् । विप्र॑स्य । माऽव॑तः । श॒श॒मा॒नस्य॑ । दा॒शुषः॑ ॥घृतऽवन्तम् । उप । मासि । मधुऽमन्तम् । तनूऽनपात् ।
यज्ञम् । विप्रस्य । माऽवतः । शशमानस्य । दाशुषः ॥ghṛtá-vantam ǀ úpa ǀ māsi ǀ mádhu-mantam ǀ tanū-napāt ǀ
yajñám ǀ víprasya ǀ mā́-vataḥ ǀ śaśamānásya ǀ dāśúṣaḥ ǁghṛta-vantam ǀ upa ǀ māsi ǀ madhu-mantam ǀ tanū-napāt ǀ
yajñam ǀ viprasya ǀ mā-vataḥ ǀ śaśamānasya ǀ dāśuṣaḥ ǁ1.142.2 Aṣṭaka 2.2.10.2Anuvāka 1.21.28
-
Ṛk 3
शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।
नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥शुचिः पावको अद्भुतो मध्वा यज्ञम् मिमिक्षति |
नराशंसस् त्रिर् आ दिवो देवो देवेषु यज्ञियः ||śúciḥ pāvakó ádbhuto mádhvā yajñám mimikṣati ǀ
nárāśáṃsastrírā́ divó devó devéṣu yajñíyaḥ ǁśuciḥ pāvako adbhuto madhvā yajñam mimikṣati |
narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ ||शुचिः॑ । पा॒व॒कः । अद्भु॑तः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ ।
नरा॒शंसः॑ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥शुचिः । पावकः । अद्भुतः । मध्वा । यज्ञम् । मिमिक्षति ।
नराशंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः ॥śúciḥ ǀ pāvakáḥ ǀ ádbhutaḥ ǀ mádhvā ǀ yajñám ǀ mimikṣati ǀ
nárāśáṃsaḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ deváḥ ǀ devéṣu ǀ yajñíyaḥ ǁśuciḥ ǀ pāvakaḥ ǀ adbhutaḥ ǀ madhvā ǀ yajñam ǀ mimikṣati ǀ
narāśaṃsaḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ devaḥ ǀ deveṣu ǀ yajñiyaḥ ǁ1.142.3 Aṣṭaka 2.2.10.3Anuvāka 1.21.29
-
Ṛk 4
ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं ।
इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥ईऌइतो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् |
इयं हि त्वा मतिर् ममाच्छा सुजिह्व वच्यते ||īḷitó agna ā́ vahéndram citrámihá priyám ǀ
iyám hí tvā matírmámā́cchā sujihva vacyáte ǁīḷito agna ā vahendraṃ citram iha priyam |
iyaṃ hi tvā matir mamācchā sujihva vacyate ||ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।
इ॒यम् । हि । त्वा॒ । म॒तिः । मम॑ । अच्छ॑ । सु॒ऽजि॒ह्व॒ । व॒च्यते॑ ॥ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् ।
इयम् । हि । त्वा । मतिः । मम । अच्छ । सुऽजिह्व । वच्यते ॥īḷitáḥ ǀ agne ǀ ā́ ǀ vaha ǀ índram ǀ citrám ǀ ihá ǀ priyám ǀ
iyám ǀ hí ǀ tvā ǀ matíḥ ǀ máma ǀ áccha ǀ su-jihva ǀ vacyáte ǁīḷitaḥ ǀ agne ǀ ā ǀ vaha ǀ indram ǀ citram ǀ iha ǀ priyam ǀ
iyam ǀ hi ǀ tvā ǀ matiḥ ǀ mama ǀ accha ǀ su-jihva ǀ vacyate ǁ1.142.4 Aṣṭaka 2.2.10.4Anuvāka 1.21.30
-
Ṛk 5
स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।
वृं॒जे दे॒वव्य॑चस्तम॒मिंद्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥स्तृणानासो यतस्रुचो बर्हिर् यज्ञे स्वध्वरे |
वृञ्जे देवव्यचस्तमम् इन्द्राय शर्म सप्रथः ||stṛṇānā́so yatásruco barhíryajñé svadhvaré ǀ
vṛñjé devávyacastamamíndrāya śárma sapráthaḥ ǁstṛṇānāso yatasruco barhir yajñe svadhvare |
vṛñje devavyacastamam indrāya śarma saprathaḥ ||स्तृ॒णा॒नासः॑ । य॒तऽस्रु॑चः । ब॒र्हिः । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ।
वृ॒ञ्जे । दे॒वव्य॑चःऽतमम् । इन्द्रा॑य । शर्म॑ । स॒ऽप्रथः॑ ॥स्तृणानासः । यतऽस्रुचः । बर्हिः । यज्ञे । सुऽअध्वरे ।
वृञ्जे । देवव्यचःऽतमम् । इन्द्राय । शर्म । सऽप्रथः ॥stṛṇānā́saḥ ǀ yatá-srucaḥ ǀ barhíḥ ǀ yajñé ǀ su-adhvaré ǀ
vṛñjé ǀ devávyacaḥ-tamam ǀ índrāya ǀ śárma ǀ sa-práthaḥ ǁstṛṇānāsaḥ ǀ yata-srucaḥ ǀ barhiḥ ǀ yajñe ǀ su-adhvare ǀ
vṛñje ǀ devavyacaḥ-tamam ǀ indrāya ǀ śarma ǀ sa-prathaḥ ǁ1.142.5 Aṣṭaka 2.2.10.5Anuvāka 1.21.31
-
Ṛk 6
वि श्र॑यंतामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।
पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥वि श्रयन्ताम् ऋतावृधः प्रयै देवेभ्यो महीः |
पावकासः पुरुस्पृहो द्वारो देवीर् असश्चतः ||ví śrayantāmṛtāvṛ́dhaḥ prayái devébhyo mahī́ḥ ǀ
pāvakā́saḥ puruspṛ́ho dvā́ro devī́rasaścátaḥ ǁvi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ |
pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ ||वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । प्र॒ऽयै । दे॒वेभ्यः॑ । म॒हीः ।
पा॒व॒कासः॑ । पु॒रु॒ऽस्पृहः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ॥वि । श्रयन्ताम् । ऋतऽवृधः । प्रऽयै । देवेभ्यः । महीः ।
पावकासः । पुरुऽस्पृहः । द्वारः । देवीः । असश्चतः ॥ví ǀ śrayantām ǀ ṛta-vṛ́dhaḥ ǀ pra-yái ǀ devébhyaḥ ǀ mahī́ḥ ǀ
pāvakā́saḥ ǀ puru-spṛ́haḥ ǀ dvā́raḥ ǀ devī́ḥ ǀ asaścátaḥ ǁvi ǀ śrayantām ǀ ṛta-vṛdhaḥ ǀ pra-yai ǀ devebhyaḥ ǀ mahīḥ ǀ
pāvakāsaḥ ǀ puru-spṛhaḥ ǀ dvāraḥ ǀ devīḥ ǀ asaścataḥ ǁ1.142.6 Aṣṭaka 2.2.10.6Anuvāka 1.21.32
-
Ṛk 7
आ भंद॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।
य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥आ भन्दमाने उपाके नक्तोषासा सुपेशसा |
यह्वी ऋतस्य मातरा सीदताम् बर्हिर् आ सुमत् ||ā́ bhándamāne úpāke náktoṣā́sā supéśasā ǀ
yahvī́ ṛtásya mātárā sī́datām barhírā́ sumát ǁā bhandamāne upāke naktoṣāsā supeśasā |
yahvī ṛtasya mātarā sīdatām barhir ā sumat ||आ । भन्द॑माने॒ इति॑ । उपा॑के॒ इति॑ । नक्तो॒षसा॑ । सु॒ऽपेश॑सा ।
य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । सीद॑ताम् । ब॒र्हिः । आ । सु॒ऽमत् ॥आ । भन्दमाने इति । उपाके इति । नक्तोषसा । सुऽपेशसा ।
यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सुऽमत् ॥ā́ ǀ bhándamāne íti ǀ úpāke íti ǀ náktoṣásā ǀ su-péśasā ǀ
yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ sī́datām ǀ barhíḥ ǀ ā́ ǀ su-mát ǁā ǀ bhandamāne iti ǀ upāke iti ǀ naktoṣasā ǀ su-peśasā ǀ
yahvī iti ǀ ṛtasya ǀ mātarā ǀ sīdatām ǀ barhiḥ ǀ ā ǀ su-mat ǁ1.142.7 Aṣṭaka 2.2.11.1Anuvāka 1.21.33
-
Ṛk 8
मं॒द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ॥मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी |
यज्ञं नो यक्षताम् इमं सिध्रम् अद्य दिविस्पृशम् ||mandrájihvā jugurváṇī hótārā dáivyā kavī́ ǀ
yajñám no yakṣatāmimám sidhrámadyá divispṛ́śam ǁmandrajihvā jugurvaṇī hotārā daivyā kavī |
yajñaṃ no yakṣatām imaṃ sidhram adya divispṛśam ||म॒न्द्रऽजि॑ह्वा । जु॒गु॒र्वणी॒ इति॑ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ॥मन्द्रऽजिह्वा । जुगुर्वणी इति । होतारा । दैव्या । कवी इति ।
यज्ञम् । नः । यक्षताम् । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ॥mandrá-jihvā ǀ jugurváṇī íti ǀ hótārā ǀ dáivyā ǀ kavī́ íti ǀ
yajñám ǀ naḥ ǀ yakṣatām ǀ imám ǀ sidhrám ǀ adyá ǀ divi-spṛ́śam ǁmandra-jihvā ǀ jugurvaṇī iti ǀ hotārā ǀ daivyā ǀ kavī iti ǀ
yajñam ǀ naḥ ǀ yakṣatām ǀ imam ǀ sidhram ǀ adya ǀ divi-spṛśam ǁ1.142.8 Aṣṭaka 2.2.11.2Anuvāka 1.21.34
-
Ṛk 9
शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।
इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दंतु य॒ज्ञियाः॑ ॥शुचिर् देवेष्व् अर्पिता होत्रा मरुत्सु भारती |
इऌआ सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ||śúcirdevéṣvárpitā hótrā marútsu bhā́ratī ǀ
íḷā sárasvatī mahī́ barhíḥ sīdantu yajñíyāḥ ǁśucir deveṣv arpitā hotrā marutsu bhāratī |
iḷā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ||शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती ।
इळा॑ । सर॑स्वती । म॒ही । ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥शुचिः । देवेषु । अर्पिता । होत्रा । मरुत्ऽसु । भारती ।
इळा । सरस्वती । मही । बर्हिः । सीदन्तु । यज्ञियाः ॥śúciḥ ǀ devéṣu ǀ árpitā ǀ hótrā ǀ marút-su ǀ bhā́ratī ǀ
íḷā ǀ sárasvatī ǀ mahī́ ǀ barhíḥ ǀ sīdantu ǀ yajñíyāḥ ǁśuciḥ ǀ deveṣu ǀ arpitā ǀ hotrā ǀ marut-su ǀ bhāratī ǀ
iḷā ǀ sarasvatī ǀ mahī ǀ barhiḥ ǀ sīdantu ǀ yajñiyāḥ ǁ1.142.9 Aṣṭaka 2.2.11.3Anuvāka 1.21.35
-
Ṛk 10
तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।
त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥तन् नस् तुरीपम् अद्भुतम् पुरु वारम् पुरु त्मना |
त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ||tánnasturī́pamádbhutam purú vā́ram purú tmánā ǀ
tváṣṭā póṣāya ví ṣyatu rāyé nā́bhā no asmayúḥ ǁtan nas turīpam adbhutam puru vāram puru tmanā |
tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ ||तत् । नः॒ । तु॒रीप॑म् । अद्भु॑तम् । पु॒रु । वा॒ । अर॑म् । त्मना॑ ।
त्वष्टा॑ । पोषा॑य । वि । स्य॒तु॒ । रा॒ये । नाभा॑ । नः॒ । अ॒स्म॒ऽयुः ॥तत् । नः । तुरीपम् । अद्भुतम् । पुरु । वा । अरम् । त्मना ।
त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्मऽयुः ॥tát ǀ naḥ ǀ turī́pam ǀ ádbhutam ǀ purú ǀ vā ǀ áram ǀ tmánā ǀ
tváṣṭā ǀ póṣāya ǀ ví ǀ syatu ǀ rāyé ǀ nā́bhā ǀ naḥ ǀ asma-yúḥ ǁtat ǀ naḥ ǀ turīpam ǀ adbhutam ǀ puru ǀ vā ǀ aram ǀ tmanā ǀ
tvaṣṭā ǀ poṣāya ǀ vi ǀ syatu ǀ rāye ǀ nābhā ǀ naḥ ǀ asma-yuḥ ǁ1.142.10 Aṣṭaka 2.2.11.4Anuvāka 1.21.36
-
Ṛk 11
अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥अवसृजन्न् उप त्मना देवान् यक्षि वनस्पते |
अग्निर् हव्या सुषूदति देवो देवेषु मेधिरः ||avasṛjánnúpa tmánā devā́nyakṣi vanaspate ǀ
agnírhavyā́ suṣūdati devó devéṣu médhiraḥ ǁavasṛjann upa tmanā devān yakṣi vanaspate |
agnir havyā suṣūdati devo deveṣu medhiraḥ ||अ॒व॒ऽसृ॒जन् । उप॑ । त्मना॑ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः ॥अवऽसृजन् । उप । त्मना । देवान् । यक्षि । वनस्पते ।
अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः ॥ava-sṛján ǀ úpa ǀ tmánā ǀ devā́n ǀ yakṣi ǀ vanaspate ǀ
agníḥ ǀ havyā́ ǀ susūdati ǀ deváḥ ǀ devéṣu ǀ médhiraḥ ǁava-sṛjan ǀ upa ǀ tmanā ǀ devān ǀ yakṣi ǀ vanaspate ǀ
agniḥ ǀ havyā ǀ susūdati ǀ devaḥ ǀ deveṣu ǀ medhiraḥ ǁ1.142.11 Aṣṭaka 2.2.11.5Anuvāka 1.21.37
-
Ṛk 12
पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।
स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिंद्रा॑य कर्तन ॥पूषण्वते मरुत्वते विश्वदेवाय वायवे |
स्वाहा गायत्रवेपसे हव्यम् इन्द्राय कर्तन ||pūṣaṇváte marútvate viśvádevāya vāyáve ǀ
svā́hā gāyatrávepase havyámíndrāya kartana ǁpūṣaṇvate marutvate viśvadevāya vāyave |
svāhā gāyatravepase havyam indrāya kartana ||पू॒ष॒ण्ऽवते॑ । म॒रुत्व॑ते । वि॒श्वऽदे॑वाय । वा॒यवे॑ ।
स्वाहा॑ । गा॒य॒त्रऽवे॑पसे । ह॒व्यम् । इन्द्रा॑य । क॒र्त॒न॒ ॥पूषण्ऽवते । मरुत्वते । विश्वऽदेवाय । वायवे ।
स्वाहा । गायत्रऽवेपसे । हव्यम् । इन्द्राय । कर्तन ॥pūṣaṇ-váte ǀ marútvate ǀ viśvá-devāya ǀ vāyáve ǀ
svā́hā ǀ gāyatrá-vepase ǀ havyám ǀ índrāya ǀ kartana ǁpūṣaṇ-vate ǀ marutvate ǀ viśva-devāya ǀ vāyave ǀ
svāhā ǀ gāyatra-vepase ǀ havyam ǀ indrāya ǀ kartana ǁ1.142.12 Aṣṭaka 2.2.11.6Anuvāka 1.21.38
-
Ṛk 13
स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।
इंद्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वंते अध्व॒रे ॥स्वाहाकृतान्य् आ गह्य् उप हव्यानि वीतये |
इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ||svā́hākṛtānyā́ gahyúpa havyā́ni vītáye ǀ
índrā́ gahi śrudhī́ hávam tvā́m havante adhvaré ǁsvāhākṛtāny ā gahy upa havyāni vītaye |
indrā gahi śrudhī havaṃ tvāṃ havante adhvare ||स्वाहा॑ऽकृतानि । आ । ग॒हि॒ । उप॑ । ह॒व्यानि॑ । वी॒तये॑ ।
इन्द्र॑ । आ । ग॒हि॒ । श्रु॒धि । हव॑म् । त्वाम् । ह॒व॒न्ते॒ । अ॒ध्व॒रे ॥स्वाहाऽकृतानि । आ । गहि । उप । हव्यानि । वीतये ।
इन्द्र । आ । गहि । श्रुधि । हवम् । त्वाम् । हवन्ते । अध्वरे ॥svā́hā-kṛtāni ǀ ā́ ǀ gahi ǀ úpa ǀ havyā́ni ǀ vītáye ǀ
índra ǀ ā́ ǀ gahi ǀ śrudhí ǀ hávam ǀ tvā́m ǀ havante ǀ adhvaré ǁsvāhā-kṛtāni ǀ ā ǀ gahi ǀ upa ǀ havyāni ǀ vītaye ǀ
indra ǀ ā ǀ gahi ǀ śrudhi ǀ havam ǀ tvām ǀ havante ǀ adhvare ǁ1.142.13 Aṣṭaka 2.2.11.7Anuvāka 1.21.39
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.