Sūkta 74
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 4, 9); gāyatrī (3, 5, 6); virāḍgāyatrī (7); svarāḍarcīgāyatrī (8)
2nd set of styles gāyatrī
-
Ṛk 1
उ॒प॒प्र॒यंतो॑ अध्व॒रं मंत्रं॑ वोचेमा॒ग्नये॑ ।
आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये |
आरे अस्मे च शृण्वते ||upaprayánto adhvarám mántram vocemāgnáye ǀ
āré asmé ca śṛṇvaté ǁupaprayanto adhvaram mantraṃ vocemāgnaye |
āre asme ca śṛṇvate ||उ॒प॒ऽप्र॒यन्तः॑ । अ॒ध्व॒रम् । मन्त्र॑म् । वो॒चे॒म॒ । अ॒ग्नये॑ ।
आ॒रे । अ॒स्मे इति॑ । च॒ । शृ॒ण्व॒ते ॥उपऽप्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये ।
आरे । अस्मे इति । च । शृण्वते ॥upa-prayántaḥ ǀ adhvarám ǀ mántram ǀ vocema ǀ agnáye ǀ
āré ǀ asmé íti ǀ ca ǀ śṛṇvaté ǁupa-prayantaḥ ǀ adhvaram ǀ mantram ǀ vocema ǀ agnaye ǀ
āre ǀ asme iti ǀ ca ǀ śṛṇvate ǁ1.74.1 Aṣṭaka 1.5.21.1Anuvāka 1.13.1
-
Ṛk 2
यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ ।
अर॑क्षद्दा॒शुषे॒ गयं॑ ॥यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु |
अरक्षद् दाशुषे गयम् ||yáḥ snī́hitīṣu pūrvyáḥ saṃjagmānā́su kṛṣṭíṣu ǀ
árakṣaddāśúṣe gáyam ǁyaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu |
arakṣad dāśuṣe gayam ||यः । स्नीहि॑तीषु । पू॒र्व्यः । स॒म्ऽज॒ग्मा॒नासु॑ । कृ॒ष्टिषु॑ ।
अर॑क्षत् । दा॒शुषे॑ । गय॑म् ॥यः । स्नीहितीषु । पूर्व्यः । सम्ऽजग्मानासु । कृष्टिषु ।
अरक्षत् । दाशुषे । गयम् ॥yáḥ ǀ snī́hitīṣu ǀ pūrvyáḥ ǀ sam-jagmānā́su ǀ kṛṣṭíṣu ǀ
árakṣat ǀ dāśúṣe ǀ gáyam ǁyaḥ ǀ snīhitīṣu ǀ pūrvyaḥ ǀ sam-jagmānāsu ǀ kṛṣṭiṣu ǀ
arakṣat ǀ dāśuṣe ǀ gayam ǁ1.74.2 Aṣṭaka 1.5.21.2Anuvāka 1.13.2
-
Ṛk 3
उ॒त ब्रु॑वंतु जं॒तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
ध॒नं॒ज॒यो रणे॑रणे ॥उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि |
धनञ्जयो रणे-रणे ||utá bruvantu jantáva údagnírvṛtrahā́jani ǀ
dhanaṃjayó ráṇeraṇe ǁuta bruvantu jantava ud agnir vṛtrahājani |
dhanañjayo raṇe-raṇe ||उ॒त । ब्रु॒व॒न्तु॒ । ज॒न्तवः॑ । उत् । अ॒ग्निः । वृ॒त्र॒ऽहा । अ॒ज॒नि॒ ।
ध॒न॒म्ऽज॒यः । रणे॑ऽरणे ॥उत । ब्रुवन्तु । जन्तवः । उत् । अग्निः । वृत्रऽहा । अजनि ।
धनम्ऽजयः । रणेऽरणे ॥utá ǀ bruvantu ǀ jantávaḥ ǀ út ǀ agníḥ ǀ vṛtra-hā́ ǀ ajani ǀ
dhanam-jayáḥ ǀ ráṇe-raṇe ǁuta ǀ bruvantu ǀ jantavaḥ ǀ ut ǀ agniḥ ǀ vṛtra-hā ǀ ajani ǀ
dhanam-jayaḥ ǀ raṇe-raṇe ǁ1.74.3 Aṣṭaka 1.5.21.3Anuvāka 1.13.3
-
Ṛk 4
यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ ।
द॒स्मत्कृ॒णोष्य॑ध्व॒रं ॥यस्य दूतो असि क्षये वेषि हव्यानि वीतये |
दस्मत् कृणोष्य् अध्वरम् ||yásya dūtó ási kṣáye véṣi havyā́ni vītáye ǀ
dasmátkṛṇóṣyadhvarám ǁyasya dūto asi kṣaye veṣi havyāni vītaye |
dasmat kṛṇoṣy adhvaram ||यस्य॑ । दू॒तः । असि॑ । क्षये॑ । वेषि॑ । ह॒व्यानि॑ । वी॒तये॑ ।
द॒स्मत् । कृ॒णोषि॑ । अ॒ध्व॒रम् ॥यस्य । दूतः । असि । क्षये । वेषि । हव्यानि । वीतये ।
दस्मत् । कृणोषि । अध्वरम् ॥yásya ǀ dūtáḥ ǀ ási ǀ kṣáye ǀ véṣi ǀ havyā́ni ǀ vītáye ǀ
dasmát ǀ kṛṇóṣi ǀ adhvarám ǁyasya ǀ dūtaḥ ǀ asi ǀ kṣaye ǀ veṣi ǀ havyāni ǀ vītaye ǀ
dasmat ǀ kṛṇoṣi ǀ adhvaram ǁ1.74.4 Aṣṭaka 1.5.21.4Anuvāka 1.13.4
-
Ṛk 5
तमित्सु॑ह॒व्यमं॑गिरः सुदे॒वं स॑हसो यहो ।
जना॑ आहुः सुब॒र्हिषं॑ ॥तम् इत् सुहव्यम् अङ्गिरः सुदेवं सहसो यहो |
जना आहुः सुबर्हिषम् ||támítsuhavyámaṅgiraḥ sudevám sahaso yaho ǀ
jánā āhuḥ subarhíṣam ǁtam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho |
janā āhuḥ subarhiṣam ||तम् । इत् । सु॒ऽह॒व्यम् । अ॒ङ्गि॒रः॒ । सु॒ऽदे॒वम् । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
जनाः॑ । आ॒हुः॒ । सु॒ऽब॒र्हिष॑म् ॥तम् । इत् । सुऽहव्यम् । अङ्गिरः । सुऽदेवम् । सहसः । यहो इति ।
जनाः । आहुः । सुऽबर्हिषम् ॥tám ǀ ít ǀ su-havyám ǀ aṅgiraḥ ǀ su-devám ǀ sahasaḥ ǀ yaho íti ǀ
jánāḥ ǀ āhuḥ ǀ su-barhíṣam ǁtam ǀ it ǀ su-havyam ǀ aṅgiraḥ ǀ su-devam ǀ sahasaḥ ǀ yaho iti ǀ
janāḥ ǀ āhuḥ ǀ su-barhiṣam ǁ1.74.5 Aṣṭaka 1.5.21.5Anuvāka 1.13.5
-
Ṛk 6
आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ।
ह॒व्या सु॑श्चंद्र वी॒तये॑ ॥आ च वहासि तां इह देवां उप प्रशस्तये |
हव्या सुश्चन्द्र वीतये ||ā́ ca váhāsi tā́m̐ ihá devā́m̐ úpa práśastaye ǀ
havyā́ suścandra vītáye ǁā ca vahāsi tāṃ iha devāṃ upa praśastaye |
havyā suścandra vītaye ||आ । च॒ । वहा॑सि । तान् । इ॒ह । दे॒वान् । उप॑ । प्रऽश॑स्तये ।
ह॒व्या । सु॒ऽच॒न्द्र॒ । वी॒तये॑ ॥आ । च । वहासि । तान् । इह । देवान् । उप । प्रऽशस्तये ।
हव्या । सुऽचन्द्र । वीतये ॥ā́ ǀ ca ǀ váhāsi ǀ tā́n ǀ ihá ǀ devā́n ǀ úpa ǀ prá-śastaye ǀ
havyā́ ǀ su-candra ǀ vītáye ǁā ǀ ca ǀ vahāsi ǀ tān ǀ iha ǀ devān ǀ upa ǀ pra-śastaye ǀ
havyā ǀ su-candra ǀ vītaye ǁ1.74.6 Aṣṭaka 1.5.22.1Anuvāka 1.13.6
-
Ṛk 7
न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न ।
यद॑ग्ने॒ यासि॑ दू॒त्यं॑ ॥न योर् उपब्दिर् अश्व्यः शृण्वे रथस्य कच् चन |
यद् अग्ने यासि दूत्यम् ||ná yórupabdíráśvyaḥ śṛṇvé ráthasya káccaná ǀ
yádagne yā́si dūtyám ǁna yor upabdir aśvyaḥ śṛṇve rathasya kac cana |
yad agne yāsi dūtyam ||न । योः । उ॒प॒ब्दिः । अश्व्यः॑ । शृ॒ण्वे । रथ॑स्य । कत् । च॒न ।
यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ॥न । योः । उपब्दिः । अश्व्यः । शृण्वे । रथस्य । कत् । चन ।
यत् । अग्ने । यासि । दूत्यम् ॥ná ǀ yóḥ ǀ upabdíḥ ǀ áśvyaḥ ǀ śṛṇvé ǀ ráthasya ǀ kát ǀ caná ǀ
yát ǀ agne ǀ yā́si ǀ dūtyám ǁna ǀ yoḥ ǀ upabdiḥ ǀ aśvyaḥ ǀ śṛṇve ǀ rathasya ǀ kat ǀ cana ǀ
yat ǀ agne ǀ yāsi ǀ dūtyam ǁ1.74.7 Aṣṭaka 1.5.22.2Anuvāka 1.13.7
-
Ṛk 8
त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः ।
प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥त्वोतो वाज्य् अह्रयो ऽभि पूर्वस्माद् अपरः |
प्र दाश्वां अग्ने अस्थात् ||tvóto vājyáhrayo’bhí pū́rvasmādáparaḥ ǀ
prá dāśvā́m̐ agne asthāt ǁtvoto vājy ahrayo 'bhi pūrvasmād aparaḥ |
pra dāśvāṃ agne asthāt ||त्वाऽऊ॑तः । वा॒जी । अह्र॑यः । अ॒भि । पूर्व॑स्मात् । अप॑रः ।
प्र । दा॒श्वान् । अ॒ग्ने॒ । अ॒स्था॒त् ॥त्वाऽऊतः । वाजी । अह्रयः । अभि । पूर्वस्मात् । अपरः ।
प्र । दाश्वान् । अग्ने । अस्थात् ॥tvā́-ūtaḥ ǀ vājī́ ǀ áhrayaḥ ǀ abhí ǀ pū́rvasmāt ǀ áparaḥ ǀ
prá ǀ dāśvā́n ǀ agne ǀ asthāt ǁtvā-ūtaḥ ǀ vājī ǀ ahrayaḥ ǀ abhi ǀ pūrvasmāt ǀ aparaḥ ǀ
pra ǀ dāśvān ǀ agne ǀ asthāt ǁ1.74.8 Aṣṭaka 1.5.22.3Anuvāka 1.13.8
-
Ṛk 9
उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि ।
दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥उत द्युमत् सुवीर्यम् बृहद् अग्ने विवाससि |
देवेभ्यो देव दाशुषे ||utá dyumátsuvī́ryam bṛhádagne vivāsasi ǀ
devébhyo deva dāśúṣe ǁuta dyumat suvīryam bṛhad agne vivāsasi |
devebhyo deva dāśuṣe ||उ॒त । द्यु॒ऽमत् । सु॒ऽवीर्य॑म् । बृ॒हत् । अ॒ग्ने॒ । वि॒वा॒स॒सि॒ ।
दे॒वेभ्यः॑ । दे॒व॒ । दा॒शुषे॑ ॥उत । द्युऽमत् । सुऽवीर्यम् । बृहत् । अग्ने । विवाससि ।
देवेभ्यः । देव । दाशुषे ॥utá ǀ dyu-mát ǀ su-vī́ryam ǀ bṛhát ǀ agne ǀ vivāsasi ǀ
devébhyaḥ ǀ deva ǀ dāśúṣe ǁuta ǀ dyu-mat ǀ su-vīryam ǀ bṛhat ǀ agne ǀ vivāsasi ǀ
devebhyaḥ ǀ deva ǀ dāśuṣe ǁ1.74.9 Aṣṭaka 1.5.22.4Anuvāka 1.13.9
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.