Sūkta 34
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (3, 5, 10, 11); nicṛjjagatī (2, 7, 8); virāḍjagatī (1, 6); bhuriktriṣṭup (4); svarāṭpaṅkti (9); nicṛttriṣṭup (12)
2nd set of styles jagatī (1-8, 10-11); triṣṭubh (9, 12)
-
Ṛk 1
त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना ।
यु॒वोर्हि यं॒त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना |
युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ||tríścinno adyā́ bhavatam navedasā vibhúrvām yā́ma utá rātíraśvinā ǀ
yuvórhí yantrám himyéva vā́saso’bhyāyaṃsényā bhavatam manīṣíbhiḥ ǁtriś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā |
yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ ||त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । न॒वे॒द॒सा॒ । वि॒ऽभुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ ।
यु॒वोः । हि । य॒न्त्रम् । हि॒म्याऽइ॑व । वास॑सः । अ॒भि॒ऽआ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिऽभिः॑ ॥त्रिः । चित् । नः । अद्य । भवतम् । नवेदसा । विऽभुः । वाम् । यामः । उत । रातिः । अश्विना ।
युवोः । हि । यन्त्रम् । हिम्याऽइव । वाससः । अभिऽआयंसेन्या । भवतम् । मनीषिऽभिः ॥tríḥ ǀ cit ǀ naḥ ǀ adyá ǀ bhavatam ǀ navedasā ǀ vi-bhúḥ ǀ vām ǀ yā́maḥ ǀ utá ǀ rātíḥ ǀ aśvinā ǀ
yuvóḥ ǀ hí ǀ yantrám ǀ himyā́-iva ǀ vā́sasaḥ ǀ abhi-āyaṃsényā ǀ bhavatam ǀ manīṣí-bhiḥ ǁtriḥ ǀ cit ǀ naḥ ǀ adya ǀ bhavatam ǀ navedasā ǀ vi-bhuḥ ǀ vām ǀ yāmaḥ ǀ uta ǀ rātiḥ ǀ aśvinā ǀ
yuvoḥ ǀ hi ǀ yantram ǀ himyā-iva ǀ vāsasaḥ ǀ abhi-āyaṃsenyā ǀ bhavatam ǀ manīṣi-bhiḥ ǁ1.34.1 Aṣṭaka 1.3.4.1Anuvāka 1.7.49
-
Ṛk 2
त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः ।
त्रयः॑ स्कं॒भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः |
त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् व् अश्विना दिवा ||tráyaḥ paváyo madhuvā́hane ráthe sómasya venā́mánu víśva ídviduḥ ǀ
tráyaḥ skambhā́saḥ skabhitā́sa ārábhe trírnáktam yāthástrírvaśvinā dívā ǁtrayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ |
traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā ||त्रयः॑ । प॒वयः॑ । मधु॒ऽवाह॑ने । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ ।
त्रयः॑ । स्क॒म्भासः॑ । स्क॒भि॒तासः॑ । आ॒ऽरभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑ ॥त्रयः । पवयः । मधुऽवाहने । रथे । सोमस्य । वेनाम् । अनु । विश्वे । इत् । विदुः ।
त्रयः । स्कम्भासः । स्कभितासः । आऽरभे । त्रिः । नक्तम् । याथः । त्रिः । ऊं इति । अश्विना । दिवा ॥tráyaḥ ǀ paváyaḥ ǀ mádhu-vā́hane ǀ ráthe ǀ sómasya ǀ venā́m ǀ ánu ǀ víśve ǀ ít ǀ viduḥ ǀ
tráyaḥ ǀ skambhā́saḥ ǀ skabhitā́saḥ ǀ ā-rábhe ǀ tríḥ ǀ náktam ǀ yātháḥ ǀ tríḥ ǀ ūṃ íti ǀ aśvinā ǀ dívā ǁtrayaḥ ǀ pavayaḥ ǀ madhu-vāhane ǀ rathe ǀ somasya ǀ venām ǀ anu ǀ viśve ǀ it ǀ viduḥ ǀ
trayaḥ ǀ skambhāsaḥ ǀ skabhitāsaḥ ǀ ā-rabhe ǀ triḥ ǀ naktam ǀ yāthaḥ ǀ triḥ ǀ ūṃ iti ǀ aśvinā ǀ divā ǁ1.34.2 Aṣṭaka 1.3.4.2Anuvāka 1.7.50
-
Ṛk 3
स॒मा॒ने अहं॒त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतं ।
त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतं ॥समाने अहन् त्रिर् अवद्यगोहना त्रिर् अद्य यज्ञम् मधुना मिमिक्षतम् |
त्रिर् वाजवतीर् इषो अश्विना युवं दोषा अस्मभ्यम् उषसश् च पिन्वतम् ||samāné áhantríravadyagohanā tríradyá yajñám mádhunā mimikṣatam ǀ
trírvā́javatīríṣo aśvinā yuvám doṣā́ asmábhyamuṣásaśca pinvatam ǁsamāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam |
trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam ||स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒ऽगो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् ।
त्रिः । वाज॑ऽवतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म् ॥समाने । अहन् । त्रिः । अवद्यऽगोहना । त्रिः । अद्य । यज्ञम् । मधुना । मिमिक्षतम् ।
त्रिः । वाजऽवतीः । इषः । अश्विना । युवम् । दोषा । अस्मभ्यम् । उषसः । च । पिन्वतम् ॥samāné ǀ áhan ǀ tríḥ ǀ avadya-gohanā ǀ tríḥ ǀ adyá ǀ yajñám ǀ mádhunā ǀ mimikṣatam ǀ
tríḥ ǀ vā́ja-vatīḥ ǀ íṣaḥ ǀ aśvinā ǀ yuvám ǀ doṣā́ ǀ asmábhyam ǀ uṣásaḥ ǀ ca ǀ pinvatam ǁsamāne ǀ ahan ǀ triḥ ǀ avadya-gohanā ǀ triḥ ǀ adya ǀ yajñam ǀ madhunā ǀ mimikṣatam ǀ
triḥ ǀ vāja-vatīḥ ǀ iṣaḥ ǀ aśvinā ǀ yuvam ǀ doṣā ǀ asmabhyam ǀ uṣasaḥ ǀ ca ǀ pinvatam ǁ1.34.3 Aṣṭaka 1.3.4.3Anuvāka 1.7.51
-
Ṛk 4
त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतं ।
त्रिर्नां॒द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतं ॥त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् |
त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ||trírvartíryātam tríránuvrate jané tríḥ suprāvyé tredhéva śikṣatam ǀ
trírnāndyám vahatamaśvinā yuvám tríḥ pṛ́kṣo asmé akṣáreva pinvatam ǁtrir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam |
trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam ||त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु॑ऽव्रते । जने॑ । त्रिः । सु॒प्र॒ऽअ॒व्ये॑ । त्रे॒धाऽइ॑व । शि॒क्ष॒त॒म् ।
त्रिः । ना॒न्द्य॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः॑ । अ॒स्मे इति॑ । अ॒क्षरा॑ऽइव । पि॒न्व॒त॒म् ॥त्रिः । वर्तिः । यातम् । त्रिः । अनुऽव्रते । जने । त्रिः । सुप्रऽअव्ये । त्रेधाऽइव । शिक्षतम् ।
त्रिः । नान्द्यम् । वहतम् । अश्विना । युवम् । त्रिः । पृक्षः । अस्मे इति । अक्षराऽइव । पिन्वतम् ॥tríḥ ǀ vartíḥ ǀ yātam ǀ tríḥ ǀ ánu-vrate ǀ jáne ǀ tríḥ ǀ supra-avyé ǀ tredhā́-iva ǀ śikṣatam ǀ
tríḥ ǀ nāndyám ǀ vahatam ǀ aśvinā ǀ yuvám ǀ tríḥ ǀ pṛ́kṣaḥ ǀ asmé íti ǀ akṣárā-iva ǀ pinvatam ǁtriḥ ǀ vartiḥ ǀ yātam ǀ triḥ ǀ anu-vrate ǀ jane ǀ triḥ ǀ supra-avye ǀ tredhā-iva ǀ śikṣatam ǀ
triḥ ǀ nāndyam ǀ vahatam ǀ aśvinā ǀ yuvam ǀ triḥ ǀ pṛkṣaḥ ǀ asme iti ǀ akṣarā-iva ǀ pinvatam ǁ1.34.4 Aṣṭaka 1.3.4.4Anuvāka 1.7.52
-
Ṛk 5
त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ ।
त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथं॑ ॥त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः |
त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ||trírno rayím vahatamaśvinā yuvám trírdevátātā trírutā́vatam dhíyaḥ ǀ
tríḥ saubhagatvám trírutá śrávāṃsi nastriṣṭhám vām sū́re duhitā́ ruhadrátham ǁtrir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ |
triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham ||त्रिः । नः॒ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒वऽता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः॑ ।
त्रिः । सौ॒भ॒ग॒ऽत्वम् । त्रिः । उ॒त । श्रवां॑सि । नः॒ । त्रि॒ऽस्थम् । वा॒म् । सूरे॑ । दु॒हि॒ता । रु॒ह॒त् । रथ॑म् ॥त्रिः । नः । रयिम् । वहतम् । अश्विना । युवम् । त्रिः । देवऽताता । त्रिः । उत । अवतम् । धियः ।
त्रिः । सौभगऽत्वम् । त्रिः । उत । श्रवांसि । नः । त्रिऽस्थम् । वाम् । सूरे । दुहिता । रुहत् । रथम् ॥tríḥ ǀ naḥ ǀ rayím ǀ vahatam ǀ aśvinā ǀ yuvám ǀ tríḥ ǀ devá-tātā ǀ tríḥ ǀ utá ǀ avatam ǀ dhíyaḥ ǀ
tríḥ ǀ saubhaga-tvám ǀ tríḥ ǀ utá ǀ śrávāṃsi ǀ naḥ ǀ tri-sthám ǀ vām ǀ sū́re ǀ duhitā́ ǀ ruhat ǀ rátham ǁtriḥ ǀ naḥ ǀ rayim ǀ vahatam ǀ aśvinā ǀ yuvam ǀ triḥ ǀ deva-tātā ǀ triḥ ǀ uta ǀ avatam ǀ dhiyaḥ ǀ
triḥ ǀ saubhaga-tvam ǀ triḥ ǀ uta ǀ śravāṃsi ǀ naḥ ǀ tri-stham ǀ vām ǀ sūre ǀ duhitā ǀ ruhat ǀ ratham ǁ1.34.5 Aṣṭaka 1.3.4.5Anuvāka 1.7.53
-
Ṛk 6
त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः ।
ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः |
ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ||trírno aśvinā divyā́ni bheṣajā́ tríḥ pā́rthivāni tríru dattamadbhyáḥ ǀ
omā́nam śaṃyórmámakāya sūnáve tridhā́tu śárma vahatam śubhaspatī ǁtrir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ |
omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī ||त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि॑ । भे॒ष॒जा । त्रिः । पार्थि॑वानि । त्रिः । ऊं॒ इति॑ । द॒त्त॒म् । अ॒त्ऽभ्यः ।
ओ॒मान॑म् । श॒म्ऽयोः । मम॑काय । सू॒नवे॑ । त्रि॒ऽधातु॑ । शर्म॑ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥त्रिः । नः । अश्विना । दिव्यानि । भेषजा । त्रिः । पार्थिवानि । त्रिः । ऊं इति । दत्तम् । अत्ऽभ्यः ।
ओमानम् । शम्ऽयोः । ममकाय । सूनवे । त्रिऽधातु । शर्म । वहतम् । शुभः । पती इति ॥tríḥ ǀ naḥ ǀ aśvinā ǀ divyā́ni ǀ bheṣajā́ ǀ tríḥ ǀ pā́rthivāni ǀ tríḥ ǀ ūṃ íti ǀ dattam ǀ at-bhyáḥ ǀ
omā́nam ǀ śam-yóḥ ǀ mámakāya ǀ sūnáve ǀ tri-dhā́tu ǀ śárma ǀ vahatam ǀ śubhaḥ ǀ patī íti ǁtriḥ ǀ naḥ ǀ aśvinā ǀ divyāni ǀ bheṣajā ǀ triḥ ǀ pārthivāni ǀ triḥ ǀ ūṃ iti ǀ dattam ǀ at-bhyaḥ ǀ
omānam ǀ śam-yoḥ ǀ mamakāya ǀ sūnave ǀ tri-dhātu ǀ śarma ǀ vahatam ǀ śubhaḥ ǀ patī iti ǁ1.34.6 Aṣṭaka 1.3.4.6Anuvāka 1.7.54
-
Ṛk 7
त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतं ।
ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतं ॥त्रिर् नो अश्विना यजता दिवे-दिवे परि त्रिधातु पृथिवीम् अशायतम् |
तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ||trírno aśvinā yajatā́ divédive pári tridhā́tu pṛthivī́maśāyatam ǀ
tisró nāsatyā rathyā parāváta ātméva vā́taḥ svásarāṇi gacchatam ǁtrir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam |
tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam ||त्रिः । नः॒ । अ॒श्वि॒ना॒ । य॒ज॒ता । दि॒वेऽदि॑वे । परि॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । अ॒शा॒य॒त॒म् ।
ति॒स्रः । ना॒स॒त्या॒ । र॒थ्या॒ । प॒रा॒ऽवतः॑ । आ॒त्माऽइ॑व । वातः॑ । स्वस॑राणि । ग॒च्छ॒त॒म् ॥त्रिः । नः । अश्विना । यजता । दिवेऽदिवे । परि । त्रिऽधातु । पृथिवीम् । अशायतम् ।
तिस्रः । नासत्या । रथ्या । पराऽवतः । आत्माऽइव । वातः । स्वसराणि । गच्छतम् ॥tríḥ ǀ naḥ ǀ aśvinā ǀ yajatā́ ǀ divé-dive ǀ pári ǀ tri-dhā́tu ǀ pṛthivī́m ǀ aśāyatam ǀ
tisráḥ ǀ nāsatyā ǀ rathyā ǀ parā-vátaḥ ǀ ātmā́-iva ǀ vā́taḥ ǀ svásarāṇi ǀ gacchatam ǁtriḥ ǀ naḥ ǀ aśvinā ǀ yajatā ǀ dive-dive ǀ pari ǀ tri-dhātu ǀ pṛthivīm ǀ aśāyatam ǀ
tisraḥ ǀ nāsatyā ǀ rathyā ǀ parā-vataḥ ǀ ātmā-iva ǀ vātaḥ ǀ svasarāṇi ǀ gacchatam ǁ1.34.7 Aṣṭaka 1.3.5.1Anuvāka 1.7.55
-
Ṛk 8
त्रिर॑श्विना॒ सिंधु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तं ।
ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तं ॥त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् |
तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ||tríraśvinā síndhubhiḥ saptámātṛbhistráya āhāvā́stredhā́ havíṣkṛtám ǀ
tisráḥ pṛthivī́rupári pravā́ divó nā́kam rakṣethe dyúbhiraktúbhirhitám ǁtrir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam |
tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam ||त्रिः । अ॒श्वि॒ना॒ । सिन्धु॑ऽभिः । स॒प्तमा॑तृऽभिः । त्रयः॑ । आ॒ऽहा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् ।
ति॒स्रः । पृ॒थि॒वीः । उ॒परि॑ । प्र॒वा । दि॒वः । नाक॑म् । र॒क्षे॒थे॒ इति॑ । द्युऽभिः॑ । अ॒क्तुऽभिः॑ । हि॒तम् ॥त्रिः । अश्विना । सिन्धुऽभिः । सप्तमातृऽभिः । त्रयः । आऽहावाः । त्रेधा । हविः । कृतम् ।
तिस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकम् । रक्षेथे इति । द्युऽभिः । अक्तुऽभिः । हितम् ॥tríḥ ǀ aśvinā ǀ síndhu-bhiḥ ǀ saptámātṛ-bhiḥ ǀ tráyaḥ ǀ ā-hāvā́ḥ ǀ tredhā́ ǀ havíḥ ǀ kṛtám ǀ
tisráḥ ǀ pṛthivī́ḥ ǀ upári ǀ pravā́ ǀ diváḥ ǀ nā́kam ǀ rakṣethe íti ǀ dyú-bhiḥ ǀ aktú-bhiḥ ǀ hitám ǁtriḥ ǀ aśvinā ǀ sindhu-bhiḥ ǀ saptamātṛ-bhiḥ ǀ trayaḥ ǀ ā-hāvāḥ ǀ tredhā ǀ haviḥ ǀ kṛtam ǀ
tisraḥ ǀ pṛthivīḥ ǀ upari ǀ pravā ǀ divaḥ ǀ nākam ǀ rakṣethe iti ǀ dyu-bhiḥ ǀ aktu-bhiḥ ǀ hitam ǁ1.34.8 Aṣṭaka 1.3.5.2Anuvāka 1.7.56
-
Ṛk 9
क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ वं॒धुरो॒ ये सनी॑ळाः ।
क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीऌआः |
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ||kvá trī́ cakrā́ trivṛ́to ráthasya kvá tráyo vandhúro yé sánīḷāḥ ǀ
kadā́ yógo vājíno rā́sabhasya yéna yajñám nāsatyopayātháḥ ǁkva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ |
kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ ||क्व॑ । त्री । च॒क्रा । त्रि॒ऽवृतः॑ । रथ॑स्य । क्व॑ । त्रयः॑ । व॒न्धुरः॑ । ये । सऽनी॑ळाः ।
क॒दा । योगः॑ । वा॒जिनः॑ । रास॑भस्य । येन॑ । य॒ज्ञम् । ना॒स॒त्या॒ । उ॒प॒ऽया॒थः ॥क्व । त्री । चक्रा । त्रिऽवृतः । रथस्य । क्व । त्रयः । वन्धुरः । ये । सऽनीळाः ।
कदा । योगः । वाजिनः । रासभस्य । येन । यज्ञम् । नासत्या । उपऽयाथः ॥kvá ǀ trī́ ǀ cakrā́ ǀ tri-vṛ́taḥ ǀ ráthasya ǀ kvá ǀ tráyaḥ ǀ vandhúraḥ ǀ yé ǀ sá-nīḷāḥ ǀ
kadā́ ǀ yógaḥ ǀ vājínaḥ ǀ rā́sabhasya ǀ yéna ǀ yajñám ǀ nāsatyā ǀ upa-yātháḥ ǁkva ǀ trī ǀ cakrā ǀ tri-vṛtaḥ ǀ rathasya ǀ kva ǀ trayaḥ ǀ vandhuraḥ ǀ ye ǀ sa-nīḷāḥ ǀ
kadā ǀ yogaḥ ǀ vājinaḥ ǀ rāsabhasya ǀ yena ǀ yajñam ǀ nāsatyā ǀ upa-yāthaḥ ǁ1.34.9 Aṣṭaka 1.3.5.3Anuvāka 1.7.57
-
Ṛk 10
आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ ।
यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तवं॑त॒मिष्य॑ति ॥आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः |
युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ||ā́ nāsatyā gácchatam hūyáte havírmádhvaḥ pibatam madhupébhirāsábhiḥ ǀ
yuvórhí pū́rvam savitóṣáso ráthamṛtā́ya citrám ghṛtávantamíṣyati ǁā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ |
yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati ||आ । ना॒स॒त्या॒ । गच्छ॑तम् । हू॒यते॑ । ह॒विः । मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ ।
यु॒वोः । हि । पूर्व॑म् । स॒वि॒ता । उ॒षसः॑ । रथ॑म् । ऋ॒ताय॑ । चि॒त्रम् । घृ॒तऽव॑न्तम् । इष्य॑ति ॥आ । नासत्या । गच्छतम् । हूयते । हविः । मध्वः । पिबतम् । मधुऽपेभिः । आसऽभिः ।
युवोः । हि । पूर्वम् । सविता । उषसः । रथम् । ऋताय । चित्रम् । घृतऽवन्तम् । इष्यति ॥ā́ ǀ nāsatyā ǀ gácchatam ǀ hūyáte ǀ havíḥ ǀ mádhvaḥ ǀ pibatam ǀ madhu-pébhiḥ ǀ āsá-bhiḥ ǀ
yuvóḥ ǀ hí ǀ pū́rvam ǀ savitā́ ǀ uṣásaḥ ǀ rátham ǀ ṛtā́ya ǀ citrám ǀ ghṛtá-vantam ǀ íṣyati ǁā ǀ nāsatyā ǀ gacchatam ǀ hūyate ǀ haviḥ ǀ madhvaḥ ǀ pibatam ǀ madhu-pebhiḥ ǀ āsa-bhiḥ ǀ
yuvoḥ ǀ hi ǀ pūrvam ǀ savitā ǀ uṣasaḥ ǀ ratham ǀ ṛtāya ǀ citram ǀ ghṛta-vantam ǀ iṣyati ǁ1.34.10 Aṣṭaka 1.3.5.4Anuvāka 1.7.58
-
Ṛk 11
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातम् मधुपेयम् अश्विना |
प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ||ā́ nāsatyā tribhírekādaśáirihá devébhiryātam madhupéyamaśvinā ǀ
prā́yustā́riṣṭam nī́ rápāṃsi mṛkṣatam sédhatam dvéṣo bhávatam sacābhúvā ǁā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā |
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||आ । ना॒स॒त्या॒ । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । दे॒वेभिः॑ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ ।
प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥आ । नासत्या । त्रिऽभिः । एकादशैः । इह । देवेभिः । यातम् । मधुऽपेयम् । अश्विना ।
प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाऽभुवा ॥ā́ ǀ nāsatyā ǀ tri-bhíḥ ǀ ekādaśáiḥ ǀ ihá ǀ devébhiḥ ǀ yātam ǀ madhu-péyam ǀ aśvinā ǀ
prá ǀ ā́yuḥ ǀ tā́riṣṭam ǀ níḥ ǀ rápāṃsi ǀ mṛkṣatam ǀ sédhatam ǀ dvéṣaḥ ǀ bhávatam ǀ sacā-bhúvā ǁā ǀ nāsatyā ǀ tri-bhiḥ ǀ ekādaśaiḥ ǀ iha ǀ devebhiḥ ǀ yātam ǀ madhu-peyam ǀ aśvinā ǀ
pra ǀ āyuḥ ǀ tāriṣṭam ǀ niḥ ǀ rapāṃsi ǀ mṛkṣatam ǀ sedhatam ǀ dveṣaḥ ǀ bhavatam ǀ sacā-bhuvā ǁ1.34.11 Aṣṭaka 1.3.5.5Anuvāka 1.7.59
-
Ṛk 12
आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वांचं॑ र॒यिं व॑हतं सु॒वीरं॑ ।
शृ॒ण्वंता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् |
शृण्वन्ता वाम् अवसे जोहवीमि वृधे च नो भवतं वाजसातौ ||ā́ no aśvinā trivṛ́tā ráthenārvā́ñcam rayím vahatam suvī́ram ǀ
śṛṇvántā vāmávase johavīmi vṛdhé ca no bhavatam vā́jasātau ǁā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram |
śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau ||आ । नः॒ । अ॒श्वि॒ना॒ । त्रि॒ऽवृता॑ । रथे॑न । अ॒र्वाञ्च॑म् । र॒यिम् । व॒ह॒त॒म् । सु॒ऽवीर॑म् ।
शृ॒ण्वन्ता॑ । वा॒म् । अव॑से । जो॒ह॒वी॒मि॒ । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥आ । नः । अश्विना । त्रिऽवृता । रथेन । अर्वाञ्चम् । रयिम् । वहतम् । सुऽवीरम् ।
शृण्वन्ता । वाम् । अवसे । जोहवीमि । वृधे । च । नः । भवतम् । वाजऽसातौ ॥ā́ ǀ naḥ ǀ aśvinā ǀ tri-vṛ́tā ǀ ráthena ǀ arvā́ñcam ǀ rayím ǀ vahatam ǀ su-vī́ram ǀ
śṛṇvántā ǀ vām ǀ ávase ǀ johavīmi ǀ vṛdhé ǀ ca ǀ naḥ ǀ bhavatam ǀ vā́ja-sātau ǁā ǀ naḥ ǀ aśvinā ǀ tri-vṛtā ǀ rathena ǀ arvāñcam ǀ rayim ǀ vahatam ǀ su-vīram ǀ
śṛṇvantā ǀ vām ǀ avase ǀ johavīmi ǀ vṛdhe ǀ ca ǀ naḥ ǀ bhavatam ǀ vāja-sātau ǁ1.34.12 Aṣṭaka 1.3.5.6Anuvāka 1.7.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.