Ṛk 1.34.8
Saṃhitā
त्रिर॑श्विना॒ सिंधु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तं ।
ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तं ॥
त्रिर् अश्विना सिन्धुभिः सप्तमातृभिस् त्रय आहावास् त्रेधा हविष् कृतम् |
तिस्रः पृथिवीर् उपरि प्रवा दिवो नाकं रक्षेथे द्युभिर् अक्तुभिर् हितम् ||
tríraśvinā síndhubhiḥ saptámātṛbhistráya āhāvā́stredhā́ havíṣkṛtám ǀ
tisráḥ pṛthivī́rupári pravā́ divó nā́kam rakṣethe dyúbhiraktúbhirhitám ǁ
trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam |
tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam ||
Padapāṭha
त्रिः । अ॒श्वि॒ना॒ । सिन्धु॑ऽभिः । स॒प्तमा॑तृऽभिः । त्रयः॑ । आ॒ऽहा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् ।
ति॒स्रः । पृ॒थि॒वीः । उ॒परि॑ । प्र॒वा । दि॒वः । नाक॑म् । र॒क्षे॒थे॒ इति॑ । द्युऽभिः॑ । अ॒क्तुऽभिः॑ । हि॒तम् ॥
त्रिः । अश्विना । सिन्धुऽभिः । सप्तमातृऽभिः । त्रयः । आऽहावाः । त्रेधा । हविः । कृतम् ।
तिस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकम् । रक्षेथे इति । द्युऽभिः । अक्तुऽभिः । हितम् ॥
tríḥ ǀ aśvinā ǀ síndhu-bhiḥ ǀ saptámātṛ-bhiḥ ǀ tráyaḥ ǀ ā-hāvā́ḥ ǀ tredhā́ ǀ havíḥ ǀ kṛtám ǀ
tisráḥ ǀ pṛthivī́ḥ ǀ upári ǀ pravā́ ǀ diváḥ ǀ nā́kam ǀ rakṣethe íti ǀ dyú-bhiḥ ǀ aktú-bhiḥ ǀ hitám ǁ
triḥ ǀ aśvinā ǀ sindhu-bhiḥ ǀ saptamātṛ-bhiḥ ǀ trayaḥ ǀ ā-hāvāḥ ǀ tredhā ǀ haviḥ ǀ kṛtam ǀ
tisraḥ ǀ pṛthivīḥ ǀ upari ǀ pravā ǀ divaḥ ǀ nākam ǀ rakṣethe iti ǀ dyu-bhiḥ ǀ aktu-bhiḥ ǀ hitam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.05.02
- Maṇḍala · Anuvāka · Ṛk
- 01.07.056
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.