Ṛk 1.34.5
Saṃhitā
त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ ।
त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथं॑ ॥
त्रिर् नो रयिं वहतम् अश्विना युवं त्रिर् देवताता त्रिर् उतावतं धियः |
त्रिः सौभगत्वं त्रिर् उत श्रवांसि नस् त्रिष्ठं वां सूरे दुहिता रुहद् रथम् ||
trírno rayím vahatamaśvinā yuvám trírdevátātā trírutā́vatam dhíyaḥ ǀ
tríḥ saubhagatvám trírutá śrávāṃsi nastriṣṭhám vām sū́re duhitā́ ruhadrátham ǁ
trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ |
triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham ||
Padapāṭha
त्रिः । नः॒ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒वऽता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः॑ ।
त्रिः । सौ॒भ॒ग॒ऽत्वम् । त्रिः । उ॒त । श्रवां॑सि । नः॒ । त्रि॒ऽस्थम् । वा॒म् । सूरे॑ । दु॒हि॒ता । रु॒ह॒त् । रथ॑म् ॥
त्रिः । नः । रयिम् । वहतम् । अश्विना । युवम् । त्रिः । देवऽताता । त्रिः । उत । अवतम् । धियः ।
त्रिः । सौभगऽत्वम् । त्रिः । उत । श्रवांसि । नः । त्रिऽस्थम् । वाम् । सूरे । दुहिता । रुहत् । रथम् ॥
tríḥ ǀ naḥ ǀ rayím ǀ vahatam ǀ aśvinā ǀ yuvám ǀ tríḥ ǀ devá-tātā ǀ tríḥ ǀ utá ǀ avatam ǀ dhíyaḥ ǀ
tríḥ ǀ saubhaga-tvám ǀ tríḥ ǀ utá ǀ śrávāṃsi ǀ naḥ ǀ tri-sthám ǀ vām ǀ sū́re ǀ duhitā́ ǀ ruhat ǀ rátham ǁ
triḥ ǀ naḥ ǀ rayim ǀ vahatam ǀ aśvinā ǀ yuvam ǀ triḥ ǀ deva-tātā ǀ triḥ ǀ uta ǀ avatam ǀ dhiyaḥ ǀ
triḥ ǀ saubhaga-tvam ǀ triḥ ǀ uta ǀ śravāṃsi ǀ naḥ ǀ tri-stham ǀ vām ǀ sūre ǀ duhitā ǀ ruhat ǀ ratham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.04.05
- Maṇḍala · Anuvāka · Ṛk
- 01.07.053
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.