Sūkta 7
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3, 5-7); nicṛdgāyatrī (2, 4); pipīlikāmadhyānicṛdgāyatrī (8, 10); gāyatrī (pādanicṛdgāyatrī) (9)
2nd set of styles gāyatrī
-
Ṛk 1
इंद्र॒मिद्गा॒थिनो॑ बृ॒हदिंद्र॑म॒र्केभि॑र॒र्किणः॑ ।
इंद्रं॒ वाणी॑रनूषत ॥इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः |
इन्द्रं वाणीर् अनूषत ||índramídgāthíno bṛhádíndramarkébhirarkíṇaḥ ǀ
índram vā́ṇīranūṣata ǁindram id gāthino bṛhad indram arkebhir arkiṇaḥ |
indraṃ vāṇīr anūṣata ||इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः ।
इन्द्रम् । वाणीः । अनूषत ॥índram ǀ ít ǀ gāthínaḥ ǀ bṛhát ǀ índram ǀ arkébhiḥ ǀ arkíṇaḥ ǀ
índram ǀ vā́ṇīḥ ǀ anūṣata ǁindram ǀ it ǀ gāthinaḥ ǀ bṛhat ǀ indram ǀ arkebhiḥ ǀ arkiṇaḥ ǀ
indram ǀ vāṇīḥ ǀ anūṣata ǁ1.7.1 Aṣṭaka 1.1.13.1Anuvāka 1.2.31
-
Ṛk 2
इंद्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
इंद्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥इन्द्र इद् धर्योः सचा सम्मिश्ल आ वचोयुजा |
इन्द्रो वज्री हिरण्ययः ||índra íddháryoḥ sácā sámmiśla ā́ vacoyújā ǀ
índro vajrī́ hiraṇyáyaḥ ǁindra id dharyoḥ sacā sammiśla ā vacoyujā |
indro vajrī hiraṇyayaḥ ||इन्द्रः॑ । इत् । हर्योः॑ । सचा॑ । सम्ऽमि॑श्लः । आ । व॒चः॒ऽयुजा॑ ।
इन्द्रः॑ । व॒ज्री । हि॒र॒ण्ययः॑ ॥इन्द्रः । इत् । हर्योः । सचा । सम्ऽमिश्लः । आ । वचःऽयुजा ।
इन्द्रः । वज्री । हिरण्ययः ॥índraḥ ǀ ít ǀ háryoḥ ǀ sácā ǀ sám-miślaḥ ǀ ā́ ǀ vacaḥ-yújā ǀ
índraḥ ǀ vajrī́ ǀ hiraṇyáyaḥ ǁindraḥ ǀ it ǀ haryoḥ ǀ sacā ǀ sam-miślaḥ ǀ ā ǀ vacaḥ-yujā ǀ
indraḥ ǀ vajrī ǀ hiraṇyayaḥ ǁ1.7.2 Aṣṭaka 1.1.13.2Anuvāka 1.2.32
-
Ṛk 3
इंद्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद् दिवि |
वि गोभिर् अद्रिम् ऐरयत् ||índro dīrghā́ya cákṣasa ā́ sū́ryam rohayaddiví ǀ
ví góbhirádrimairayat ǁindro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
vi gobhir adrim airayat ||इन्द्रः॑ । दी॒र्घाय॑ । चक्ष॑से । आ । सूर्य॑म् । रो॒ह॒य॒त् । दि॒वि ।
वि । गोभिः॑ । अद्रि॑म् । ऐ॒र॒य॒त् ॥इन्द्रः । दीर्घाय । चक्षसे । आ । सूर्यम् । रोहयत् । दिवि ।
वि । गोभिः । अद्रिम् । ऐरयत् ॥índraḥ ǀ dīrghā́ya ǀ cákṣase ǀ ā́ ǀ sū́ryam ǀ rohayat ǀ diví ǀ
ví ǀ góbhiḥ ǀ ádrim ǀ airayat ǁindraḥ ǀ dīrghāya ǀ cakṣase ǀ ā ǀ sūryam ǀ rohayat ǀ divi ǀ
vi ǀ gobhiḥ ǀ adrim ǀ airayat ǁ1.7.3 Aṣṭaka 1.1.13.3Anuvāka 1.2.33
-
Ṛk 4
इंद्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च |
उग्र उग्राभिर् ऊतिभिः ||índra vā́jeṣu no’va sahásrapradhaneṣu ca ǀ
ugrá ugrā́bhirūtíbhiḥ ǁindra vājeṣu no 'va sahasrapradhaneṣu ca |
ugra ugrābhir ūtibhiḥ ||इन्द्रः॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ ।
उ॒ग्रः । उ॒ग्राभिः॑ । ऊ॒तिऽभिः॑ ॥इन्द्रः । वाजेषु । नः । अव । सहस्रऽप्रधनेषु । च ।
उग्रः । उग्राभिः । ऊतिऽभिः ॥índraḥ ǀ vā́jeṣu ǀ naḥ ǀ ava ǀ sahásra-pradhaneṣu ǀ ca ǀ
ugráḥ ǀ ugrā́bhiḥ ǀ ūtí-bhiḥ ǁindraḥ ǀ vājeṣu ǀ naḥ ǀ ava ǀ sahasra-pradhaneṣu ǀ ca ǀ
ugraḥ ǀ ugrābhiḥ ǀ ūti-bhiḥ ǁ1.7.4 Aṣṭaka 1.1.13.4Anuvāka 1.2.34
-
Ṛk 5
इंद्रं॑ व॒यं म॑हाध॒न इंद्र॒मर्भे॑ हवामहे ।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिणं॑ ॥इन्द्रं वयम् महाधन इन्द्रम् अर्भे हवामहे |
युजं वृत्रेषु वज्रिणम् ||índram vayám mahādhaná índramárbhe havāmahe ǀ
yújam vṛtréṣu vajríṇam ǁindraṃ vayam mahādhana indram arbhe havāmahe |
yujaṃ vṛtreṣu vajriṇam ||इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ ।
युज॑म् । वृ॒त्रेषु॑ । व॒ज्रिण॑म् ॥इन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ।
युजम् । वृत्रेषु । वज्रिणम् ॥índram ǀ vayám ǀ mahā-dhané ǀ índram ǀ árbhe ǀ havāmahe ǀ
yújam ǀ vṛtréṣu ǀ vajríṇam ǁindram ǀ vayam ǀ mahā-dhane ǀ indram ǀ arbhe ǀ havāmahe ǀ
yujam ǀ vṛtreṣu ǀ vajriṇam ǁ1.7.5 Aṣṭaka 1.1.13.5Anuvāka 1.2.35
-
Ṛk 6
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि |
अस्मभ्यम् अप्रतिष्कुतः ||sá no vṛṣannamúm carúm sátrādāvannápā vṛdhi ǀ
asmábhyamápratiṣkutaḥ ǁsa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi |
asmabhyam apratiṣkutaḥ ||सः । नः॒ । वृ॒ष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ।
अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुतः ॥सः । नः । वृषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ।
अस्मभ्यम् । अप्रतिऽस्कुतः ॥sáḥ ǀ naḥ ǀ vṛṣan ǀ amúm ǀ carúm ǀ sátrā-dāvan ǀ ápa ǀ vṛdhi ǀ
asmábhyam ǀ áprati-skutaḥ ǁsaḥ ǀ naḥ ǀ vṛṣan ǀ amum ǀ carum ǀ satrā-dāvan ǀ apa ǀ vṛdhi ǀ
asmabhyam ǀ aprati-skutaḥ ǁ1.7.6 Aṣṭaka 1.1.14.1Anuvāka 1.2.36
-
Ṛk 7
तुं॒जेतुं॑जे॒ य उत्त॑रे॒ स्तोमा॒ इंद्र॑स्य व॒ज्रिणः॑ ।
न विं॑धे अस्य सुष्टु॒तिं ॥तुञ्जे-तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः |
न विन्धे अस्य सुष्टुतिम् ||tuñjétuñje yá úttare stómā índrasya vajríṇaḥ ǀ
ná vindhe asya suṣṭutím ǁtuñje-tuñje ya uttare stomā indrasya vajriṇaḥ |
na vindhe asya suṣṭutim ||तु॒ञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमाः॑ । इन्द्र॑स्य । व॒ज्रिणः॑ ।
न । वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥तुञ्जेऽतुञ्जे । ये । उत्ऽतरे । स्तोमाः । इन्द्रस्य । वज्रिणः ।
न । विन्धे । अस्य । सुऽस्तुतिम् ॥tuñjé-tuñje ǀ yé ǀ út-tare ǀ stómāḥ ǀ índrasya ǀ vajríṇaḥ ǀ
ná ǀ vindhe ǀ asya ǀ su-stutím ǁtuñje-tuñje ǀ ye ǀ ut-tare ǀ stomāḥ ǀ indrasya ǀ vajriṇaḥ ǀ
na ǀ vindhe ǀ asya ǀ su-stutim ǁ1.7.7 Aṣṭaka 1.1.14.2Anuvāka 1.2.37
-
Ṛk 8
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
ईशा॑नो॒ अप्र॑तिष्कुतः ॥वृषा यूथेव वंसगः कृष्टीर् इयर्त्य् ओजसा |
ईशानो अप्रतिष्कुतः ||vṛ́ṣā yūthéva váṃsagaḥ kṛṣṭī́riyartyójasā ǀ
ī́śāno ápratiṣkutaḥ ǁvṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā |
īśāno apratiṣkutaḥ ||वृषा॑ । यू॒थाऽइ॑व । वंस॑गः । कृ॒ष्टीः । इ॒य॒र्ति॒ । ओज॑सा ।
ईशा॑नः । अप्र॑तिऽस्कुतः ॥वृषा । यूथाऽइव । वंसगः । कृष्टीः । इयर्ति । ओजसा ।
ईशानः । अप्रतिऽस्कुतः ॥vṛ́ṣā ǀ yūthā́-iva ǀ váṃsagaḥ ǀ kṛṣṭī́ḥ ǀ iyarti ǀ ójasā ǀ
ī́śānaḥ ǀ áprati-skutaḥ ǁvṛṣā ǀ yūthā-iva ǀ vaṃsagaḥ ǀ kṛṣṭīḥ ǀ iyarti ǀ ojasā ǀ
īśānaḥ ǀ aprati-skutaḥ ǁ1.7.8 Aṣṭaka 1.1.14.3Anuvāka 1.2.38
-
Ṛk 9
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
इंद्रः॒ पंच॑ क्षिती॒नां ॥य एकश् चर्षणीनां वसूनाम् इरज्यति |
इन्द्रः पञ्च क्षितीनाम् ||yá ékaścarṣaṇīnā́m vásūnāmirajyáti ǀ
índraḥ páñca kṣitīnā́m ǁya ekaś carṣaṇīnāṃ vasūnām irajyati |
indraḥ pañca kṣitīnām ||यः । एकः॑ । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ ।
इन्द्रः॑ । पञ्च॑ । क्षि॒ती॒नाम् ॥यः । एकः । चर्षणीनाम् । वसूनाम् । इरज्यति ।
इन्द्रः । पञ्च । क्षितीनाम् ॥yáḥ ǀ ékaḥ ǀ carṣaṇīnā́m ǀ vásūnām ǀ irajyáti ǀ
índraḥ ǀ páñca ǀ kṣitīnā́m ǁyaḥ ǀ ekaḥ ǀ carṣaṇīnām ǀ vasūnām ǀ irajyati ǀ
indraḥ ǀ pañca ǀ kṣitīnām ǁ1.7.9 Aṣṭaka 1.1.14.4Anuvāka 1.2.39
-
Ṛk 10
इंद्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः |
अस्माकम् अस्तु केवलः ||índram vo viśvátaspári hávāmahe jánebhyaḥ ǀ
asmā́kamastu kévalaḥ ǁindraṃ vo viśvatas pari havāmahe janebhyaḥ |
asmākam astu kevalaḥ ||इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः ।
अस्माकम् । अस्तु । केवलः ॥índram ǀ vaḥ ǀ viśvátaḥ ǀ pári ǀ hávāmahe ǀ jánebhyaḥ ǀ
asmā́kam ǀ astu ǀ kévalaḥ ǁindram ǀ vaḥ ǀ viśvataḥ ǀ pari ǀ havāmahe ǀ janebhyaḥ ǀ
asmākam ǀ astu ǀ kevalaḥ ǁ1.7.10 Aṣṭaka 1.1.14.5Anuvāka 1.2.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.