Ṛgveda · Maṇḍala 1

Sūkta 164

Viśvedevās · Vāc (A) · Apas (B) · Smoke Of Dung (A) · Soma (B) · Agni, Sūrya, Vāyu · Vāc · Sūrya · The Wheel Of The Seasons · Sarasvatī · Sādhyas · Sūrya Or Parjanya Or Agni · Sarasvat Or Sūrya · Dīrghatamas Aucathya · 52 ṛks

Link
Devatā देवता
1-41: Viśvedevās; 42: Vāc (A); Apas (B); 43: Smoke Of Dung (A); Soma (B); 44: Agni, Sūrya, Vāyu; 45: Vāc; 46, 47: Sūrya; 48: The Wheel Of The Seasons; 49: Sarasvatī; 50: Sādhyas; 51: Sūrya Or Parjanya Or Agni; 52: Sarasvat Or Sūrya
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Triṣṭubh, Jagatī, Prastārapaṅkti, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (3-8, 11, 18, 26, 31, 33, 34, 37, 43, 46, 47, 49); triṣṭup (2, 10, 13, 16, 17, 19, 21, 24, 28, 32, 52); virāṭtrisṭup (1, 9, 27, 35, 40, 50); bhuriktriṣṭup (14, 39, 41, 44, 45); jagatī (12, 15, 23); svarāṭpaṅkti (22, 25, 48); nicṛjjagatī (29, 36); paṅktiḥ (30, 38); bhurikpaṅkti (20); bhurigbṛhatī (42); virāḍanuṣṭup (51)

2nd set of styles triṣṭubh (1-11, 13-14, 16-22, 24-28, 30-35, 37-40, 43-50, 52); jagatī (12, 15, 23, 29, 36, 41); prastārapaṅkti (42); anuṣṭubh (51)

  1. Ṛk 1

    अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑ ।
    तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रं ॥

    अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः |
    तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ||

    asyá vāmásya palitásya hótustásya bhrā́tā madhyamó astyáśnaḥ ǀ
    tṛtī́yo bhrā́tā ghṛtápṛṣṭho asyā́trāpaśyam viśpátim saptáputram ǁ

    asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ |
    tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||

    अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
    तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥

    अस्य । वामस्य । पलितस्य । होतुः । तस्य । भ्राता । मध्यमः । अस्ति । अश्नः ।
    तृतीयः । भ्राता । घृतऽपृष्ठः । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥

    asyá ǀ vāmásya ǀ palitásya ǀ hótuḥ ǀ tásya ǀ bhrā́tā ǀ madhyamáḥ ǀ asti ǀ áśnaḥ ǀ
    tṛtī́yaḥ ǀ bhrā́tā ǀ ghṛtá-pṛṣṭhaḥ ǀ asya ǀ átra ǀ apaśyam ǀ viśpátim ǀ saptá-putram ǁ

    asya ǀ vāmasya ǀ palitasya ǀ hotuḥ ǀ tasya ǀ bhrātā ǀ madhyamaḥ ǀ asti ǀ aśnaḥ ǀ
    tṛtīyaḥ ǀ bhrātā ǀ ghṛta-pṛṣṭhaḥ ǀ asya ǀ atra ǀ apaśyam ǀ viśpatim ǀ sapta-putram ǁ

    1.164.1 Aṣṭaka 2.3.14.1Anuvāka 1.22.72

  2. Ṛk 2

    स॒प्त युं॑जंति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा ।
    त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥

    सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा |
    त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ||

    saptá yuñjanti ráthamékacakraméko áśvo vahati saptánāmā ǀ
    trinā́bhi cakrámajáramanarvám yátremā́ víśvā bhúvanā́dhi tasthúḥ ǁ

    sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā |
    trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ ||

    स॒प्त । यु॒ञ्ज॒न्ति॒ । रथ॑म् । एक॑ऽचक्रम् । एकः॑ । अश्वः॑ । व॒ह॒ति॒ । स॒प्तऽना॑मा ।
    त्रि॒ऽनाभि॑ । च॒क्रम् । अ॒जर॑म् । अ॒न॒र्वम् । यत्र॑ । इ॒मा । विश्वा॑ । भुव॑ना । अधि॑ । त॒स्थुः ॥

    सप्त । युञ्जन्ति । रथम् । एकऽचक्रम् । एकः । अश्वः । वहति । सप्तऽनामा ।
    त्रिऽनाभि । चक्रम् । अजरम् । अनर्वम् । यत्र । इमा । विश्वा । भुवना । अधि । तस्थुः ॥

    saptá ǀ yuñjanti ǀ rátham ǀ éka-cakram ǀ ékaḥ ǀ áśvaḥ ǀ vahati ǀ saptá-nāmā ǀ
    tri-nā́bhi ǀ cakrám ǀ ajáram ǀ anarvám ǀ yátra ǀ imā́ ǀ víśvā ǀ bhúvanā ǀ ádhi ǀ tasthúḥ ǁ

    sapta ǀ yuñjanti ǀ ratham ǀ eka-cakram ǀ ekaḥ ǀ aśvaḥ ǀ vahati ǀ sapta-nāmā ǀ
    tri-nābhi ǀ cakram ǀ ajaram ǀ anarvam ǀ yatra ǀ imā ǀ viśvā ǀ bhuvanā ǀ adhi ǀ tasthuḥ ǁ

    1.164.2 Aṣṭaka 2.3.14.2Anuvāka 1.22.73

  3. Ṛk 3

    इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑हं॒त्यश्वाः॑ ।
    स॒प्त स्वसा॑रो अ॒भि सं न॑वंते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥

    इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः |
    सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ||

    imám ráthamádhi yé saptá tasthúḥ saptácakram saptá vahantyáśvāḥ ǀ
    saptá svásāro abhí sám navante yátra gávām níhitā saptá nā́ma ǁ

    imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ |
    sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma ||

    इ॒मम् । रथ॑म् । अधि॑ । ये । स॒प्त । त॒स्थुः । स॒प्तऽच॑क्रम् । स॒प्त । व॒ह॒न्ति॒ । अश्वाः॑ ।
    स॒प्त । स्वसा॑रः । अ॒भि । सम् । न॒व॒न्ते॒ । यत्र॑ । गवा॑म् । निऽहि॑ता । स॒प्त । नाम॑ ॥

    इमम् । रथम् । अधि । ये । सप्त । तस्थुः । सप्तऽचक्रम् । सप्त । वहन्ति । अश्वाः ।
    सप्त । स्वसारः । अभि । सम् । नवन्ते । यत्र । गवाम् । निऽहिता । सप्त । नाम ॥

    imám ǀ rátham ǀ ádhi ǀ yé ǀ saptá ǀ tasthúḥ ǀ saptá-cakram ǀ saptá ǀ vahanti ǀ áśvāḥ ǀ
    saptá ǀ svásāraḥ ǀ abhí ǀ sám ǀ navante ǀ yátra ǀ gávām ǀ ní-hitā ǀ saptá ǀ nā́ma ǁ

    imam ǀ ratham ǀ adhi ǀ ye ǀ sapta ǀ tasthuḥ ǀ sapta-cakram ǀ sapta ǀ vahanti ǀ aśvāḥ ǀ
    sapta ǀ svasāraḥ ǀ abhi ǀ sam ǀ navante ǀ yatra ǀ gavām ǀ ni-hitā ǀ sapta ǀ nāma ǁ

    1.164.3 Aṣṭaka 2.3.14.3Anuvāka 1.22.74

  4. Ṛk 4

    को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वंतं॒ यद॑न॒स्था बिभ॑र्ति ।
    भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥

    को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति |
    भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ||

    kó dadarśa prathamám jā́yamānamasthanvántam yádanasthā́ bíbharti ǀ
    bhū́myā ásurásṛgātmā́ kvá svitkó vidvā́ṃsamúpa gātpráṣṭumetát ǁ

    ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti |
    bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat ||

    कः । द॒द॒र्श॒ । प्र॒थ॒मम् । जाय॑मानम् । अ॒स्थ॒न्ऽवन्त॑म् । यत् । अ॒न॒स्था । बिभ॑र्ति ।
    भूम्याः॑ । असुः॑ । असृ॑क् । आ॒त्मा । क्व॑ । स्वि॒त् । कः । वि॒द्वांस॑म् । उप॑ । गा॒त् । प्रष्टु॑म् । ए॒तत् ॥

    कः । ददर्श । प्रथमम् । जायमानम् । अस्थन्ऽवन्तम् । यत् । अनस्था । बिभर्ति ।
    भूम्याः । असुः । असृक् । आत्मा । क्व । स्वित् । कः । विद्वांसम् । उप । गात् । प्रष्टुम् । एतत् ॥

    káḥ ǀ dadarśa ǀ prathamám ǀ jā́yamānam ǀ asthan-vántam ǀ yát ǀ anasthā́ ǀ bíbharti ǀ
    bhū́myāḥ ǀ ásuḥ ǀ ásṛk ǀ ātmā́ ǀ kvá ǀ svit ǀ káḥ ǀ vidvā́ṃsam ǀ úpa ǀ gāt ǀ práṣṭum ǀ etát ǁ

    kaḥ ǀ dadarśa ǀ prathamam ǀ jāyamānam ǀ asthan-vantam ǀ yat ǀ anasthā ǀ bibharti ǀ
    bhūmyāḥ ǀ asuḥ ǀ asṛk ǀ ātmā ǀ kva ǀ svit ǀ kaḥ ǀ vidvāṃsam ǀ upa ǀ gāt ǀ praṣṭum ǀ etat ǁ

    1.164.4 Aṣṭaka 2.3.14.4Anuvāka 1.22.75

  5. Ṛk 5

    पाकः॑ पृच्छामि॒ मन॒सावि॑जानंदे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ ।
    व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तंतू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥

    पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि |
    वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ||

    pā́kaḥ pṛcchāmi mánasā́vijānandevā́nāmenā́ níhitā padā́ni ǀ
    vatsé baṣkáyé’dhi saptá tántūnví tatnire kaváya ótavā́ u ǁ

    pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni |
    vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u ||

    पाकः॑ । पृ॒च्छा॒मि॒ । मन॑सा । अवि॑ऽजानन् । दे॒वाना॑म् । ए॒ना । निऽहि॑ता । प॒दानि॑ ।
    व॒त्से । ब॒ष्कये॑ । अधि॑ । स॒प्त । तन्तू॑न् । वि । त॒त्नि॒रे॒ । क॒वयः॑ । ओत॒वै । ऊं॒ इति॑ ॥

    पाकः । पृच्छामि । मनसा । अविऽजानन् । देवानाम् । एना । निऽहिता । पदानि ।
    वत्से । बष्कये । अधि । सप्त । तन्तून् । वि । तत्निरे । कवयः । ओतवै । ऊं इति ॥

    pā́kaḥ ǀ pṛcchāmi ǀ mánasā ǀ ávi-jānan ǀ devā́nām ǀ enā́ ǀ ní-hitā ǀ padā́ni ǀ
    vatsé ǀ baṣkáye ǀ ádhi ǀ saptá ǀ tántūn ǀ ví ǀ tatnire ǀ kaváyaḥ ǀ ótavai ǀ ūṃ íti ǁ

    pākaḥ ǀ pṛcchāmi ǀ manasā ǀ avi-jānan ǀ devānām ǀ enā ǀ ni-hitā ǀ padāni ǀ
    vatse ǀ baṣkaye ǀ adhi ǀ sapta ǀ tantūn ǀ vi ǀ tatnire ǀ kavayaḥ ǀ otavai ǀ ūṃ iti ǁ

    1.164.5 Aṣṭaka 2.3.14.5Anuvāka 1.22.76

  6. Ṛk 6

    अचि॑कित्वांचिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् ।
    वि यस्त॒स्तंभ॒ षळि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देकं॑ ॥

    अचिकित्वाञ् चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् |
    वि यस् तस्तम्भ षऌ इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ||

    ácikitvāñcikitúṣaścidátra kavī́npṛcchāmi vidmáne ná vidvā́n ǀ
    ví yástastámbha ṣáḷimā́ rájāṃsyajásya rūpé kímápi svidékam ǁ

    acikitvāñ cikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān |
    vi yas tastambha ṣaḷ imā rajāṃsy ajasya rūpe kim api svid ekam ||

    अचि॑कित्वान् । चि॒कि॒तुषः॑ । चि॒त् । अत्र॑ । क॒वीन् । पृ॒च्छा॒मि॒ । वि॒द्मने॑ । न । वि॒द्वान् ।
    वि । यः । त॒स्तम्भ॑ । षट् । इ॒मा । रजां॑सि । अ॒जस्य॑ । रू॒पे । किम् । अपि॑ । स्वि॒त् । एक॑म् ॥

    अचिकित्वान् । चिकितुषः । चित् । अत्र । कवीन् । पृच्छामि । विद्मने । न । विद्वान् ।
    वि । यः । तस्तम्भ । षट् । इमा । रजांसि । अजस्य । रूपे । किम् । अपि । स्वित् । एकम् ॥

    ácikitvān ǀ cikitúṣaḥ ǀ cit ǀ átra ǀ kavī́n ǀ pṛcchāmi ǀ vidmáne ǀ ná ǀ vidvā́n ǀ
    ví ǀ yáḥ ǀ tastámbha ǀ ṣáṭ ǀ imā́ ǀ rájāṃsi ǀ ajásya ǀ rūpé ǀ kím ǀ ápi ǀ svit ǀ ékam ǁ

    acikitvān ǀ cikituṣaḥ ǀ cit ǀ atra ǀ kavīn ǀ pṛcchāmi ǀ vidmane ǀ na ǀ vidvān ǀ
    vi ǀ yaḥ ǀ tastambha ǀ ṣaṭ ǀ imā ǀ rajāṃsi ǀ ajasya ǀ rūpe ǀ kim ǀ api ǀ svit ǀ ekam ǁ

    1.164.6 Aṣṭaka 2.3.15.1Anuvāka 1.22.77

  7. Ṛk 7

    इ॒ह ब्र॑वीतु॒ य ई॑मं॒ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः ।
    शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापुः॑ ॥

    इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः |
    शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ||

    ihá bravītu yá īmaṅgá védāsyá vāmásya níhitam padám véḥ ǀ
    śīrṣṇáḥ kṣīrám duhrate gā́vo asya vavrím vásānā udakám padā́puḥ ǁ

    iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ |
    śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ ||

    इ॒ह । ब्र॒वी॒तु॒ । यः । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।
    शी॒र्ष्णः । क्षी॒रम् । दु॒ह्र॒ते॒ । गावः॑ । अ॒स्य॒ । व॒व्रिम् । वसा॑नाः । उ॒द॒कम् । प॒दा । अ॒पुः॒ ॥

    इह । ब्रवीतु । यः । ईम् । अङ्ग । वेद । अस्य । वामस्य । निऽहितम् । पदम् । वेरिति वेः ।
    शीर्ष्णः । क्षीरम् । दुह्रते । गावः । अस्य । वव्रिम् । वसानाः । उदकम् । पदा । अपुः ॥

    ihá ǀ bravītu ǀ yáḥ ǀ īm ǀ aṅgá ǀ véda ǀ asyá ǀ vāmásya ǀ ní-hitam ǀ padám ǀ véríti véḥ ǀ
    śīrṣṇáḥ ǀ kṣīrám ǀ duhrate ǀ gā́vaḥ ǀ asya ǀ vavrím ǀ vásānāḥ ǀ udakám ǀ padā́ ǀ apuḥ ǁ

    iha ǀ bravītu ǀ yaḥ ǀ īm ǀ aṅga ǀ veda ǀ asya ǀ vāmasya ǀ ni-hitam ǀ padam ǀ veriti veḥ ǀ
    śīrṣṇaḥ ǀ kṣīram ǀ duhrate ǀ gāvaḥ ǀ asya ǀ vavrim ǀ vasānāḥ ǀ udakam ǀ padā ǀ apuḥ ǁ

    1.164.7 Aṣṭaka 2.3.15.2Anuvāka 1.22.78

  8. Ṛk 8

    मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे ।
    सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वंत॒ इदु॑पवा॒कमी॑युः ॥

    माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे |
    सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ||

    mātā́ pitáramṛtá ā́ babhāja dhītyágre mánasā sám hí jagmé ǀ
    sā́ bībhatsúrgárbharasā níviddhā námasvanta ídupavākámīyuḥ ǁ

    mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme |
    sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ ||

    मा॒ता । पि॒तर॑म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे॑ । मन॑सा । सम् । हि । ज॒ग्मे ।
    सा । बी॒भ॒त्सुः । गर्भ॑ऽरसा । निऽवि॑द्धा । नम॑स्वन्तः । इत् । उ॒प॒ऽवा॒कम् । ई॒युः॒ ॥

    माता । पितरम् । ऋते । आ । बभाज । धीती । अग्रे । मनसा । सम् । हि । जग्मे ।
    सा । बीभत्सुः । गर्भऽरसा । निऽविद्धा । नमस्वन्तः । इत् । उपऽवाकम् । ईयुः ॥

    mātā́ ǀ pitáram ǀ ṛté ǀ ā́ ǀ babhāja ǀ dhītī́ ǀ ágre ǀ mánasā ǀ sám ǀ hí ǀ jagmé ǀ
    sā́ ǀ bībhatsúḥ ǀ gárbha-rasā ǀ ní-viddhā ǀ námasvantaḥ ǀ ít ǀ upa-vākám ǀ īyuḥ ǁ

    mātā ǀ pitaram ǀ ṛte ǀ ā ǀ babhāja ǀ dhītī ǀ agre ǀ manasā ǀ sam ǀ hi ǀ jagme ǀ
    sā ǀ bībhatsuḥ ǀ garbha-rasā ǀ ni-viddhā ǀ namasvantaḥ ǀ it ǀ upa-vākam ǀ īyuḥ ǁ

    1.164.8 Aṣṭaka 2.3.15.3Anuvāka 1.22.79

  9. Ṛk 9

    यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्वं॒तः ।
    अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु ॥

    युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः |
    अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ||

    yuktā́ mātā́sīddhurí dákṣiṇāyā átiṣṭhadgárbho vṛjanī́ṣvantáḥ ǀ
    ámīmedvatsó ánu gā́mapaśyadviśvarūpyám triṣú yójaneṣu ǁ

    yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ |
    amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu ||

    यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि॑णायाः । अति॑ष्ठत् । गर्भः॑ । वृ॒ज॒नीषु॑ । अ॒न्तरिति॑ ।
    अमी॑मेत् । व॒त्सः । अनु॑ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒ऽरू॒प्य॑म् । त्रि॒षु । योज॑नेषु ॥

    युक्ता । माता । आसीत् । धुरि । दक्षिणायाः । अतिष्ठत् । गर्भः । वृजनीषु । अन्तरिति ।
    अमीमेत् । वत्सः । अनु । गाम् । अपश्यत् । विश्वऽरूप्यम् । त्रिषु । योजनेषु ॥

    yuktā́ ǀ mātā́ ǀ āsīt ǀ dhurí ǀ dákṣiṇāyāḥ ǀ átiṣṭhat ǀ gárbhaḥ ǀ vṛjanī́ṣu ǀ antáríti ǀ
    ámīmet ǀ vatsáḥ ǀ ánu ǀ gā́m ǀ apaśyat ǀ viśva-rūpyám ǀ triṣú ǀ yójaneṣu ǁ

    yuktā ǀ mātā ǀ āsīt ǀ dhuri ǀ dakṣiṇāyāḥ ǀ atiṣṭhat ǀ garbhaḥ ǀ vṛjanīṣu ǀ antariti ǀ
    amīmet ǀ vatsaḥ ǀ anu ǀ gām ǀ apaśyat ǀ viśva-rūpyam ǀ triṣu ǀ yojaneṣu ǁ

    1.164.9 Aṣṭaka 2.3.15.4Anuvāka 1.22.80

  10. Ṛk 10

    ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयंति ।
    मं॒त्रयं॑ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वां ॥

    तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति |
    मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ||

    tisró mātṝ́strī́npitṝ́nbíbhradéka ūrdhvástasthau némáva glāpayanti ǀ
    mantráyante divó amúṣya pṛṣṭhé viśvavídam vā́camáviśvaminvām ǁ

    tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti |
    mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām ||

    ति॒स्रः । मा॒तॄः । त्रीन् । पि॒तॄन् । बिभ्र॑त् । एकः॑ । ऊ॒र्ध्वः । त॒स्थौ॒ । न । ई॒म् । अव॑ । ग्ल॒प॒य॒न्ति॒ ।
    म॒न्त्रय॑न्ते । दि॒वः । अ॒मुष्य॑ । पृ॒ष्ठे । वि॒श्व॒ऽविद॑म् । वाच॑म् । अवि॑श्वऽमिन्वाम् ॥

    तिस्रः । मातॄः । त्रीन् । पितॄन् । बिभ्रत् । एकः । ऊर्ध्वः । तस्थौ । न । ईम् । अव । ग्लपयन्ति ।
    मन्त्रयन्ते । दिवः । अमुष्य । पृष्ठे । विश्वऽविदम् । वाचम् । अविश्वऽमिन्वाम् ॥

    tisráḥ ǀ mātṝ́ḥ ǀ trī́n ǀ pitṝ́n ǀ bíbhrat ǀ ékaḥ ǀ ūrdhváḥ ǀ tasthau ǀ ná ǀ īm ǀ áva ǀ glapayanti ǀ
    mantráyante ǀ diváḥ ǀ amúṣya ǀ pṛṣṭhé ǀ viśva-vídam ǀ vā́cam ǀ áviśva-minvām ǁ

    tisraḥ ǀ mātṝḥ ǀ trīn ǀ pitṝn ǀ bibhrat ǀ ekaḥ ǀ ūrdhvaḥ ǀ tasthau ǀ na ǀ īm ǀ ava ǀ glapayanti ǀ
    mantrayante ǀ divaḥ ǀ amuṣya ǀ pṛṣṭhe ǀ viśva-vidam ǀ vācam ǀ aviśva-minvām ǁ

    1.164.10 Aṣṭaka 2.3.15.5Anuvāka 1.22.81

  11. Ṛk 11

    द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ ।
    आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥

    द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य |
    आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ||

    dvā́daśāram nahí tájjárāya várvarti cakrám pári dyā́mṛtásya ǀ
    ā́ putrā́ agne mithunā́so átra saptá śatā́ni viṃśatíśca tasthuḥ ǁ

    dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya |
    ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ ||

    द्वाद॑शऽअरम् । न॒हि । तत् । जरा॑य । वर्व॑र्ति । च॒क्रम् । परि॑ । द्याम् । ऋ॒तस्य॑ ।
    आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः॑ । अत्र॑ । स॒प्त । श॒तानि॑ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥

    द्वादशऽअरम् । नहि । तत् । जराय । वर्वर्ति । चक्रम् । परि । द्याम् । ऋतस्य ।
    आ । पुत्राः । अग्ने । मिथुनासः । अत्र । सप्त । शतानि । विंशतिः । च । तस्थुः ॥

    dvā́daśa-aram ǀ nahí ǀ tát ǀ járāya ǀ várvarti ǀ cakrám ǀ pári ǀ dyā́m ǀ ṛtásya ǀ
    ā́ ǀ putrā́ḥ ǀ agne ǀ mithunā́saḥ ǀ átra ǀ saptá ǀ śatā́ni ǀ viṃśatíḥ ǀ ca ǀ tasthuḥ ǁ

    dvādaśa-aram ǀ nahi ǀ tat ǀ jarāya ǀ varvarti ǀ cakram ǀ pari ǀ dyām ǀ ṛtasya ǀ
    ā ǀ putrāḥ ǀ agne ǀ mithunāsaḥ ǀ atra ǀ sapta ǀ śatāni ǀ viṃśatiḥ ǀ ca ǀ tasthuḥ ǁ

    1.164.11 Aṣṭaka 2.3.16.1Anuvāka 1.22.82

  12. Ṛk 12

    पंच॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हुः॒ परे॒ अर्धे॑ पुरी॒षिणं॑ ।
    अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तं ॥

    पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् |
    अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षऌअर आहुर् अर्पितम् ||

    páñcapādam pitáram dvā́daśākṛtim divá āhuḥ páre árdhe purīṣíṇam ǀ
    áthemé anyá úpare vicakṣaṇám saptácakre ṣáḷara āhurárpitam ǁ

    pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
    atheme anya upare vicakṣaṇaṃ saptacakre ṣaḷara āhur arpitam ||

    पञ्च॑ऽपादम् । पि॒तर॑म् । द्वाद॑शऽआकृतिम् । दि॒वः । आ॒हुः॒ । परे॑ । अर्धे॑ । पु॒री॒षिण॑म् ।
    अथ॑ । इ॒मे । अ॒न्ये । उप॑रे । वि॒ऽच॒क्ष॒णम् । स॒प्तऽच॑क्रे । षट्ऽअ॑रे । आ॒हुः॒ । अर्पि॑तम् ॥

    पञ्चऽपादम् । पितरम् । द्वादशऽआकृतिम् । दिवः । आहुः । परे । अर्धे । पुरीषिणम् ।
    अथ । इमे । अन्ये । उपरे । विऽचक्षणम् । सप्तऽचक्रे । षट्ऽअरे । आहुः । अर्पितम् ॥

    páñca-pādam ǀ pitáram ǀ dvā́daśa-ākṛtim ǀ diváḥ ǀ āhuḥ ǀ páre ǀ árdhe ǀ purīṣíṇam ǀ
    átha ǀ imé ǀ anyé ǀ úpare ǀ vi-cakṣaṇám ǀ saptá-cakre ǀ ṣáṭ-are ǀ āhuḥ ǀ árpitam ǁ

    pañca-pādam ǀ pitaram ǀ dvādaśa-ākṛtim ǀ divaḥ ǀ āhuḥ ǀ pare ǀ ardhe ǀ purīṣiṇam ǀ
    atha ǀ ime ǀ anye ǀ upare ǀ vi-cakṣaṇam ǀ sapta-cakre ǀ ṣaṭ-are ǀ āhuḥ ǀ arpitam ǁ

    1.164.12 Aṣṭaka 2.3.16.2Anuvāka 1.22.83

  13. Ṛk 13

    पंचा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ ।
    तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥

    पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा |
    तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ||

    páñcāre cakré parivártamāne tásminnā́ tasthurbhúvanāni víśvā ǀ
    tásya nā́kṣastapyate bhū́ribhāraḥ sanā́devá ná śīryate sánābhiḥ ǁ

    pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā |
    tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ ||

    पञ्च॑ऽअरे । च॒क्रे । प॒रि॒ऽवर्त॑माने । तस्मि॑न् । आ । त॒स्थुः॒ । भुव॑नानि । विश्वा॑ ।
    तस्य॑ । न । अक्षः॑ । त॒प्य॒ते॒ । भूरि॑ऽभारः । स॒नात् । ए॒व । न । शी॒र्य॒ते॒ । सऽना॑भिः ॥

    पञ्चऽअरे । चक्रे । परिऽवर्तमाने । तस्मिन् । आ । तस्थुः । भुवनानि । विश्वा ।
    तस्य । न । अक्षः । तप्यते । भूरिऽभारः । सनात् । एव । न । शीर्यते । सऽनाभिः ॥

    páñca-are ǀ cakré ǀ pari-vártamāne ǀ tásmin ǀ ā́ ǀ tasthuḥ ǀ bhúvanāni ǀ víśvā ǀ
    tásya ǀ ná ǀ ákṣaḥ ǀ tapyate ǀ bhū́ri-bhāraḥ ǀ sanā́t ǀ evá ǀ ná ǀ śīryate ǀ sá-nābhiḥ ǁ

    pañca-are ǀ cakre ǀ pari-vartamāne ǀ tasmin ǀ ā ǀ tasthuḥ ǀ bhuvanāni ǀ viśvā ǀ
    tasya ǀ na ǀ akṣaḥ ǀ tapyate ǀ bhūri-bhāraḥ ǀ sanāt ǀ eva ǀ na ǀ śīryate ǀ sa-nābhiḥ ǁ

    1.164.13 Aṣṭaka 2.3.16.3Anuvāka 1.22.84

  14. Ṛk 14

    सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हंति ।
    सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥

    सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति |
    सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ||

    sánemi cakrámajáram ví vāvṛta uttānā́yām dáśa yuktā́ vahanti ǀ
    sū́ryasya cákṣū rájasaityā́vṛtam tásminnā́rpitā bhúvanāni víśvā ǁ

    sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti |
    sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā ||

    सऽने॑मि । च॒क्रम् । अ॒जर॑म् । वि । व॒वृ॒ते॒ । उ॒त्ता॒नाया॑म् । दश॑ । यु॒क्ताः । व॒ह॒न्ति॒ ।
    सूर्य॑स्य । चक्षुः॑ । रज॑सा । ए॒ति॒ । आऽवृ॑तम् । तस्मि॑न् । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥

    सऽनेमि । चक्रम् । अजरम् । वि । ववृते । उत्तानायाम् । दश । युक्ताः । वहन्ति ।
    सूर्यस्य । चक्षुः । रजसा । एति । आऽवृतम् । तस्मिन् । आर्पिता । भुवनानि । विश्वा ॥

    sá-nemi ǀ cakrám ǀ ajáram ǀ ví ǀ vavṛte ǀ uttānā́yām ǀ dáśa ǀ yuktā́ḥ ǀ vahanti ǀ
    sū́ryasya ǀ cákṣuḥ ǀ rájasā ǀ eti ǀ ā́-vṛtam ǀ tásmin ǀ ā́rpitā ǀ bhúvanāni ǀ víśvā ǁ

    sa-nemi ǀ cakram ǀ ajaram ǀ vi ǀ vavṛte ǀ uttānāyām ǀ daśa ǀ yuktāḥ ǀ vahanti ǀ
    sūryasya ǀ cakṣuḥ ǀ rajasā ǀ eti ǀ ā-vṛtam ǀ tasmin ǀ ārpitā ǀ bhuvanāni ǀ viśvā ǁ

    1.164.14 Aṣṭaka 2.3.16.4Anuvāka 1.22.85

  15. Ṛk 15

    सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ ।
    तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जंते॒ विकृ॑तानि रूप॒शः ॥

    साकञ्जानां सप्तथम् आहुर् एकजं षऌ इद् यमा ऋषयो देवजा इति |
    तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ||

    sākaṃjā́nām saptáthamāhurekajám ṣáḷídyamā́ ṛ́ṣayo devajā́ íti ǀ
    téṣāmiṣṭā́ni víhitāni dhāmaśáḥ sthātré rejante víkṛtāni rūpaśáḥ ǁ

    sākañjānāṃ saptatham āhur ekajaṃ ṣaḷ id yamā ṛṣayo devajā iti |
    teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ||

    सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हुः॒ । ए॒क॒ऽजम् । षट् । इत् । य॒माः । ऋष॑यः । दे॒व॒ऽजाः । इति॑ ।
    तेषा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽशः । स्था॒त्रे । रे॒ज॒न्ते॒ । विऽकृ॑तानि । रू॒प॒ऽशः ॥

    साकम्ऽजानाम् । सप्तथम् । आहुः । एकऽजम् । षट् । इत् । यमाः । ऋषयः । देवऽजाः । इति ।
    तेषाम् । इष्टानि । विऽहितानि । धामऽशः । स्थात्रे । रेजन्ते । विऽकृतानि । रूपऽशः ॥

    sākam-jā́nām ǀ saptátham ǀ āhuḥ ǀ eka-jám ǀ ṣáṭ ǀ ít ǀ yamā́ḥ ǀ ṛ́ṣayaḥ ǀ deva-jā́ḥ ǀ íti ǀ
    téṣām ǀ iṣṭā́ni ǀ ví-hitāni ǀ dhāma-śáḥ ǀ sthātré ǀ rejante ǀ ví-kṛtāni ǀ rūpa-śáḥ ǁ

    sākam-jānām ǀ saptatham ǀ āhuḥ ǀ eka-jam ǀ ṣaṭ ǀ it ǀ yamāḥ ǀ ṛṣayaḥ ǀ deva-jāḥ ǀ iti ǀ
    teṣām ǀ iṣṭāni ǀ vi-hitāni ǀ dhāma-śaḥ ǀ sthātre ǀ rejante ǀ vi-kṛtāni ǀ rūpa-śaḥ ǁ

    1.164.15 Aṣṭaka 2.3.16.5Anuvāka 1.22.86

  16. Ṛk 16

    स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒स आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे॑तदं॒धः ।
    क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥

    स्त्रियः सतीस् तां उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः |
    कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ||

    stríyaḥ satī́stā́m̐ u me puṃsá āhuḥ páśyadakṣaṇvā́nná ví cetadandháḥ ǀ
    kavíryáḥ putráḥ sá īmā́ ciketa yástā́ vijānā́tsá pitúṣpitā́sat ǁ

    striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ |
    kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat ||

    स्त्रियः॑ । स॒तीः । तान् । ऊं॒ इति॑ । मे॒ । पुं॒सः । आ॒हुः॒ । पश्य॑त् । अ॒क्ष॒ण्ऽवान् । न । वि । चे॒त॒त् । अ॒न्धः ।
    क॒विः । यः । पु॒त्रः । सः । ई॒म् । आ । चि॒के॒त॒ । यः । ता । वि॒ऽजा॒नात् । सः । पि॒तुः । पि॒ता । अ॒स॒त् ॥

    स्त्रियः । सतीः । तान् । ऊं इति । मे । पुंसः । आहुः । पश्यत् । अक्षण्ऽवान् । न । वि । चेतत् । अन्धः ।
    कविः । यः । पुत्रः । सः । ईम् । आ । चिकेत । यः । ता । विऽजानात् । सः । पितुः । पिता । असत् ॥

    stríyaḥ ǀ satī́ḥ ǀ tā́n ǀ ūṃ íti ǀ me ǀ puṃsáḥ ǀ āhuḥ ǀ páśyat ǀ akṣaṇ-vā́n ǀ ná ǀ ví ǀ cetat ǀ andháḥ ǀ
    kavíḥ ǀ yáḥ ǀ putráḥ ǀ sáḥ ǀ īm ǀ ā́ ǀ ciketa ǀ yáḥ ǀ tā́ ǀ vi-jānā́t ǀ sáḥ ǀ pitúḥ ǀ pitā́ ǀ asat ǁ

    striyaḥ ǀ satīḥ ǀ tān ǀ ūṃ iti ǀ me ǀ puṃsaḥ ǀ āhuḥ ǀ paśyat ǀ akṣaṇ-vān ǀ na ǀ vi ǀ cetat ǀ andhaḥ ǀ
    kaviḥ ǀ yaḥ ǀ putraḥ ǀ saḥ ǀ īm ǀ ā ǀ ciketa ǀ yaḥ ǀ tā ǀ vi-jānāt ǀ saḥ ǀ pituḥ ǀ pitā ǀ asat ǁ

    1.164.16 Aṣṭaka 2.3.17.1Anuvāka 1.22.87

  17. Ṛk 17

    अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् ।
    सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अं॒तः ॥

    अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् |
    सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ||

    aváḥ páreṇa pará enā́vareṇa padā́ vatsám bíbhratī gáurúdasthāt ǀ
    sā́ kadrī́cī kám svidárdham párāgātkvá svitsūte nahí yūthé antáḥ ǁ

    avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt |
    sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ ||

    अ॒वः । परे॑ण । प॒रः । ए॒ना । अव॑रेण । प॒दा । व॒त्सम् । बिभ्र॑ती । गौः । उत् । अ॒स्था॒त् ।
    सा । क॒द्रीची॑ । कम् । स्वि॒त् । अर्ध॑म् । परा॑ । अ॒गा॒त् । क्व॑ । स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒न्तरिति॑ ॥

    अवः । परेण । परः । एना । अवरेण । पदा । वत्सम् । बिभ्रती । गौः । उत् । अस्थात् ।
    सा । कद्रीची । कम् । स्वित् । अर्धम् । परा । अगात् । क्व । स्वित् । सूते । नहि । यूथे । अन्तरिति ॥

    aváḥ ǀ páreṇa ǀ paráḥ ǀ enā́ ǀ ávareṇa ǀ padā́ ǀ vatsám ǀ bíbhratī ǀ gáuḥ ǀ út ǀ asthāt ǀ
    sā́ ǀ kadrī́cī ǀ kám ǀ svit ǀ árdham ǀ párā ǀ agāt ǀ kvá ǀ svit ǀ sūte ǀ nahí ǀ yūthé ǀ antáríti ǁ

    avaḥ ǀ pareṇa ǀ paraḥ ǀ enā ǀ avareṇa ǀ padā ǀ vatsam ǀ bibhratī ǀ gauḥ ǀ ut ǀ asthāt ǀ
    sā ǀ kadrīcī ǀ kam ǀ svit ǀ ardham ǀ parā ǀ agāt ǀ kva ǀ svit ǀ sūte ǀ nahi ǀ yūthe ǀ antariti ǁ

    1.164.17 Aṣṭaka 2.3.17.2Anuvāka 1.22.88

  18. Ṛk 18

    अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण ।
    क॒वी॒यमा॑नः॒ क इ॒ह प्र वो॑चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा॑तं ॥

    अवः परेण पितरं यो अस्यानुवेद पर एनावरेण |
    कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ||

    aváḥ páreṇa pitáram yó asyānuvéda pará enā́vareṇa ǀ
    kavīyámānaḥ ká ihá prá vocaddevám mánaḥ kúto ádhi prájātam ǁ

    avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa |
    kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam ||

    अ॒वः । परे॑ण । पि॒तर॑म् । यः । अ॒स्य॒ । अ॒नु॒ऽवेद॑ । प॒रः । ए॒ना । अव॑रेण ।
    क॒वि॒ऽयमा॑नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः॑ । कुतः॑ । अधि॑ । प्रऽजा॑तम् ॥

    अवः । परेण । पितरम् । यः । अस्य । अनुऽवेद । परः । एना । अवरेण ।
    कविऽयमानः । कः । इह । प्र । वोचत् । देवम् । मनः । कुतः । अधि । प्रऽजातम् ॥

    aváḥ ǀ páreṇa ǀ pitáram ǀ yáḥ ǀ asya ǀ anu-véda ǀ paráḥ ǀ enā́ ǀ ávareṇa ǀ
    kavi-yámānaḥ ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ devám ǀ mánaḥ ǀ kútaḥ ǀ ádhi ǀ prá-jātam ǁ

    avaḥ ǀ pareṇa ǀ pitaram ǀ yaḥ ǀ asya ǀ anu-veda ǀ paraḥ ǀ enā ǀ avareṇa ǀ
    kavi-yamānaḥ ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ devam ǀ manaḥ ǀ kutaḥ ǀ adhi ǀ pra-jātam ǁ

    1.164.18 Aṣṭaka 2.3.17.3Anuvāka 1.22.89

  19. Ṛk 19

    ये अ॒र्वांच॒स्ताँ उ॒ परा॑च आहु॒र्ये परां॑च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः ।
    इंद्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहंति ॥

    ये अर्वाञ्चस् तां उ पराच आहुर् ये पराञ्चस् तां उ अर्वाच आहुः |
    इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ||

    yé arvā́ñcastā́m̐ u párāca āhuryé párāñcastā́m̐ u arvā́ca āhuḥ ǀ
    índraśca yā́ cakráthuḥ soma tā́ni dhurā́ ná yuktā́ rájaso vahanti ǁ

    ye arvāñcas tāṃ u parāca āhur ye parāñcas tāṃ u arvāca āhuḥ |
    indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||

    ये । अ॒र्वाञ्चः॑ । तान् । ऊं॒ इति॑ । परा॑चः । आ॒हुः॒ । ये । परा॑ञ्चः । तान् । ऊं॒ इति॑ । अ॒र्वाचः॑ । आ॒हुः॒ ।
    इन्द्रः॑ । च॒ । या । च॒क्रथुः॑ । सो॒म॒ । तानि॑ । धु॒रा । न । यु॒क्ताः । रज॑सः । व॒ह॒न्ति॒ ॥

    ये । अर्वाञ्चः । तान् । ऊं इति । पराचः । आहुः । ये । पराञ्चः । तान् । ऊं इति । अर्वाचः । आहुः ।
    इन्द्रः । च । या । चक्रथुः । सोम । तानि । धुरा । न । युक्ताः । रजसः । वहन्ति ॥

    yé ǀ arvā́ñcaḥ ǀ tā́n ǀ ūṃ íti ǀ párācaḥ ǀ āhuḥ ǀ yé ǀ párāñcaḥ ǀ tā́n ǀ ūṃ íti ǀ arvā́caḥ ǀ āhuḥ ǀ
    índraḥ ǀ ca ǀ yā́ ǀ cakráthuḥ ǀ soma ǀ tā́ni ǀ dhurā́ ǀ ná ǀ yuktā́ḥ ǀ rájasaḥ ǀ vahanti ǁ

    ye ǀ arvāñcaḥ ǀ tān ǀ ūṃ iti ǀ parācaḥ ǀ āhuḥ ǀ ye ǀ parāñcaḥ ǀ tān ǀ ūṃ iti ǀ arvācaḥ ǀ āhuḥ ǀ
    indraḥ ǀ ca ǀ yā ǀ cakrathuḥ ǀ soma ǀ tāni ǀ dhurā ǀ na ǀ yuktāḥ ǀ rajasaḥ ǀ vahanti ǁ

    1.164.19 Aṣṭaka 2.3.17.4Anuvāka 1.22.90

  20. Ṛk 20

    द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते ।
    तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥

    द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते |
    तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ||

    dvā́ suparṇā́ sayújā sákhāyā samānám vṛkṣám pári ṣasvajāte ǀ
    táyoranyáḥ píppalam svādváttyánaśnannanyó abhí cākaśīti ǁ

    dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte |
    tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti ||

    द्वा । सु॒ऽप॒र्णा । स॒ऽयुजा॑ । सखा॑या । स॒मा॒नम् । वृ॒क्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ ।
    तयोः॑ । अ॒न्यः । पिप्प॑लम् । स्वा॒दु । अत्ति॑ । अन॑श्नन् । अ॒न्यः । अ॒भि । चा॒क॒शी॒ति॒ ॥

    द्वा । सुऽपर्णा । सऽयुजा । सखाया । समानम् । वृक्षम् । परि । सस्वजाते इति ।
    तयोः । अन्यः । पिप्पलम् । स्वादु । अत्ति । अनश्नन् । अन्यः । अभि । चाकशीति ॥

    dvā́ ǀ su-parṇā́ ǀ sa-yújā ǀ sákhāyā ǀ samānám ǀ vṛkṣám ǀ pári ǀ sasvajāte íti ǀ
    táyoḥ ǀ anyáḥ ǀ píppalam ǀ svādú ǀ átti ǀ ánaśnan ǀ anyáḥ ǀ abhí ǀ cākaśīti ǁ

    dvā ǀ su-parṇā ǀ sa-yujā ǀ sakhāyā ǀ samānam ǀ vṛkṣam ǀ pari ǀ sasvajāte iti ǀ
    tayoḥ ǀ anyaḥ ǀ pippalam ǀ svādu ǀ atti ǀ anaśnan ǀ anyaḥ ǀ abhi ǀ cākaśīti ǁ

    1.164.20 Aṣṭaka 2.3.17.5Anuvāka 1.22.91

  21. Ṛk 21

    यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वरं॑ति ।
    इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥

    यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति |
    इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ||

    yátrā suparṇā́ amṛ́tasya bhāgámánimeṣam vidáthābhisváranti ǀ
    inó víśvasya bhúvanasya gopā́ḥ sá mā dhī́raḥ pā́kamátrā́ viveśa ǁ

    yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti |
    ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa ||

    यत्र॑ । सु॒ऽप॒र्णा । अ॒मृत॑स्य । भा॒गम् । अनि॑ऽमेषम् । वि॒दथा॑ । अ॒भि॒ऽस्वर॑न्ति ।
    इ॒नः । विश्व॑स्य । भुव॑नस्य । गो॒पाः । सः । मा॒ । धीरः॑ । पाक॑म् । अत्र॑ । आ । वि॒वे॒श॒ ॥

    यत्र । सुऽपर्णा । अमृतस्य । भागम् । अनिऽमेषम् । विदथा । अभिऽस्वरन्ति ।
    इनः । विश्वस्य । भुवनस्य । गोपाः । सः । मा । धीरः । पाकम् । अत्र । आ । विवेश ॥

    yátra ǀ su-parṇā́ ǀ amṛ́tasya ǀ bhāgám ǀ áni-meṣam ǀ vidáthā ǀ abhi-sváranti ǀ
    ináḥ ǀ víśvasya ǀ bhúvanasya ǀ gopā́ḥ ǀ sáḥ ǀ mā ǀ dhī́raḥ ǀ pā́kam ǀ átra ǀ ā́ ǀ viveśa ǁ

    yatra ǀ su-parṇā ǀ amṛtasya ǀ bhāgam ǀ ani-meṣam ǀ vidathā ǀ abhi-svaranti ǀ
    inaḥ ǀ viśvasya ǀ bhuvanasya ǀ gopāḥ ǀ saḥ ǀ mā ǀ dhīraḥ ǀ pākam ǀ atra ǀ ā ǀ viveśa ǁ

    1.164.21 Aṣṭaka 2.3.18.1Anuvāka 1.22.92

  22. Ṛk 22

    यस्मि॑न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शंते॒ सुव॑ते॒ चाधि॒ विश्वे॑ ।
    तस्येदा॑हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥

    यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे |
    तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ||

    yásminvṛkṣé madhvádaḥ suparṇā́ niviśánte súvate cā́dhi víśve ǀ
    tásyédāhuḥ píppalam svādvágre tánnónnaśadyáḥ pitáram ná véda ǁ

    yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
    tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda ||

    यस्मि॑न् । वृ॒क्षे । म॒धु॒ऽअदः॑ । सु॒ऽप॒र्णाः । नि॒ऽवि॒शन्ते॑ । सुव॑ते । च॒ । अधि॑ । विश्वे॑ ।
    तस्य॑ । इत् । आ॒हुः॒ । पिप्प॑लम् । स्वा॒दु । अग्रे॑ । तत् । न । उत् । न॒श॒त् । यः । पि॒तर॑म् । न । वेद॑ ॥

    यस्मिन् । वृक्षे । मधुऽअदः । सुऽपर्णाः । निऽविशन्ते । सुवते । च । अधि । विश्वे ।
    तस्य । इत् । आहुः । पिप्पलम् । स्वादु । अग्रे । तत् । न । उत् । नशत् । यः । पितरम् । न । वेद ॥

    yásmin ǀ vṛkṣé ǀ madhu-ádaḥ ǀ su-parṇā́ḥ ǀ ni-viśánte ǀ súvate ǀ ca ǀ ádhi ǀ víśve ǀ
    tásya ǀ ít ǀ āhuḥ ǀ píppalam ǀ svādú ǀ ágre ǀ tát ǀ ná ǀ út ǀ naśat ǀ yáḥ ǀ pitáram ǀ ná ǀ véda ǁ

    yasmin ǀ vṛkṣe ǀ madhu-adaḥ ǀ su-parṇāḥ ǀ ni-viśante ǀ suvate ǀ ca ǀ adhi ǀ viśve ǀ
    tasya ǀ it ǀ āhuḥ ǀ pippalam ǀ svādu ǀ agre ǀ tat ǀ na ǀ ut ǀ naśat ǀ yaḥ ǀ pitaram ǀ na ǀ veda ǁ

    1.164.22 Aṣṭaka 2.3.18.2Anuvāka 1.22.93

  23. Ṛk 23

    यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत ।
    यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥

    यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत |
    यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ||

    yádgāyatré ádhi gāyatrámā́hitam tráiṣṭubhādvā tráiṣṭubham nirátakṣata ǀ
    yádvā jágajjágatyā́hitam padám yá íttádvidústé amṛtatvámānaśuḥ ǁ

    yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata |
    yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ ||

    यत् । गा॒य॒त्रे । अधि॑ । गा॒य॒त्रम् । आऽहि॑तम् । त्रैस्तु॑भात् । वा॒ । त्रैस्तु॑भम् । निः॒ऽअत॑क्षत ।
    यत् । वा॒ । जग॑त् । जग॑ति । आऽहि॑तम् । प॒दम् । ये । इत् । तत् । वि॒दुः । ते । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ॥

    यत् । गायत्रे । अधि । गायत्रम् । आऽहितम् । त्रैस्तुभात् । वा । त्रैस्तुभम् । निःऽअतक्षत ।
    यत् । वा । जगत् । जगति । आऽहितम् । पदम् । ये । इत् । तत् । विदुः । ते । अमृतऽत्वम् । आनशुः ॥

    yát ǀ gāyatré ǀ ádhi ǀ gāyatrám ǀ ā́-hitam ǀ tráistubhāt ǀ vā ǀ tráistubham ǀ niḥ-átakṣata ǀ
    yát ǀ vā ǀ jágat ǀ jágati ǀ ā́-hitam ǀ padám ǀ yé ǀ ít ǀ tát ǀ vidúḥ ǀ té ǀ amṛta-tvám ǀ ānaśuḥ ǁ

    yat ǀ gāyatre ǀ adhi ǀ gāyatram ǀ ā-hitam ǀ traistubhāt ǀ vā ǀ traistubham ǀ niḥ-atakṣata ǀ
    yat ǀ vā ǀ jagat ǀ jagati ǀ ā-hitam ǀ padam ǀ ye ǀ it ǀ tat ǀ viduḥ ǀ te ǀ amṛta-tvam ǀ ānaśuḥ ǁ

    1.164.23 Aṣṭaka 2.3.18.3Anuvāka 1.22.94

  24. Ṛk 24

    गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कं ।
    वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणीः॑ ॥

    गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् |
    वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ||

    gāyatréṇa práti mimīte arkámarkéṇa sā́ma tráiṣṭubhena vākám ǀ
    vākéna vākám dvipádā cátuṣpadākṣáreṇa mimate saptá vā́ṇīḥ ǁ

    gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam |
    vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||

    गा॒य॒त्रेण॑ । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । अ॒र्केण॑ । साम॑ । त्रैस्तु॑भेन । वा॒कम् ।
    वा॒केन॑ । वा॒कम् । द्वि॒ऽपदा॑ । चतुः॑ऽपदा । अ॒क्षरे॑ण । मि॒म॒ते॒ । स॒प्त । वाणीः॑ ॥

    गायत्रेण । प्रति । मिमीते । अर्कम् । अर्केण । साम । त्रैस्तुभेन । वाकम् ।
    वाकेन । वाकम् । द्विऽपदा । चतुःऽपदा । अक्षरेण । मिमते । सप्त । वाणीः ॥

    gāyatréṇa ǀ práti ǀ mimīte ǀ arkám ǀ arkéṇa ǀ sā́ma ǀ tráistubhena ǀ vākám ǀ
    vākéna ǀ vākám ǀ dvi-pádā ǀ cátuḥ-padā ǀ akṣáreṇa ǀ mimate ǀ saptá ǀ vā́ṇīḥ ǁ

    gāyatreṇa ǀ prati ǀ mimīte ǀ arkam ǀ arkeṇa ǀ sāma ǀ traistubhena ǀ vākam ǀ
    vākena ǀ vākam ǀ dvi-padā ǀ catuḥ-padā ǀ akṣareṇa ǀ mimate ǀ sapta ǀ vāṇīḥ ǁ

    1.164.24 Aṣṭaka 2.3.18.4Anuvāka 1.22.95

  25. Ṛk 25

    जग॑ता॒ सिंधुं॑ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् ।
    गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥

    जगता सिन्धुं दिव्य् अस्तभायद् रथन्तरे सूर्यम् पर्य् अपश्यत् |
    गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ||

    jágatā síndhum divyástabhāyadrathaṃtaré sū́ryam páryapaśyat ǀ
    gāyatrásya samídhastisrá āhustáto mahnā́ prá ririce mahitvā́ ǁ

    jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat |
    gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā ||

    जग॑ता । सिन्धु॑म् । दि॒वि । अ॒स्त॒भा॒य॒त् । र॒थ॒म्ऽत॒रे । सूर्य॑म् । परि॑ । अ॒प॒श्य॒त् ।
    गा॒य॒त्रस्य॑ । स॒म्ऽइधः॑ । ति॒स्रः । आ॒हुः॒ । ततः॑ । म॒ह्ना । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वा ॥

    जगता । सिन्धुम् । दिवि । अस्तभायत् । रथम्ऽतरे । सूर्यम् । परि । अपश्यत् ।
    गायत्रस्य । सम्ऽइधः । तिस्रः । आहुः । ततः । मह्ना । प्र । रिरिचे । महिऽत्वा ॥

    jágatā ǀ síndhum ǀ diví ǀ astabhāyat ǀ ratham-taré ǀ sū́ryam ǀ pári ǀ apaśyat ǀ
    gāyatrásya ǀ sam-ídhaḥ ǀ tisráḥ ǀ āhuḥ ǀ tátaḥ ǀ mahnā́ ǀ prá ǀ ririce ǀ mahi-tvā́ ǁ

    jagatā ǀ sindhum ǀ divi ǀ astabhāyat ǀ ratham-tare ǀ sūryam ǀ pari ǀ apaśyat ǀ
    gāyatrasya ǀ sam-idhaḥ ǀ tisraḥ ǀ āhuḥ ǀ tataḥ ǀ mahnā ǀ pra ǀ ririce ǀ mahi-tvā ǁ

    1.164.25 Aṣṭaka 2.3.18.5Anuvāka 1.22.96

  26. Ṛk 26

    उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनां ।
    श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चं ॥

    उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् |
    श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ||

    úpa hvaye sudúghām dhenúmetā́m suhásto godhúgutá dohadenām ǀ
    śréṣṭham savám savitā́ sāviṣanno’bhī́ddho gharmástádu ṣú prá vocam ǁ

    upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām |
    śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam ||

    उप॑ । ह्व॒ये॒ । सु॒ऽदुघा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्तः॑ । गो॒ऽधुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् ।
    श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । नः॒ । अ॒भिऽइ॑द्धः । घ॒र्मः । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒म् ॥

    उप । ह्वये । सुऽदुघाम् । धेनुम् । एताम् । सुऽहस्तः । गोऽधुक् । उत । दोहत् । एनाम् ।
    श्रेष्ठम् । सवम् । सविता । साविषत् । नः । अभिऽइद्धः । घर्मः । तत् । ऊं इति । सु । प्र । वोचम् ॥

    úpa ǀ hvaye ǀ su-dúghām ǀ dhenúm ǀ etā́m ǀ su-hástaḥ ǀ go-dhúk ǀ utá ǀ dohat ǀ enām ǀ
    śréṣṭham ǀ savám ǀ savitā́ ǀ sāviṣat ǀ naḥ ǀ abhí-iddhaḥ ǀ gharmáḥ ǀ tát ǀ ūṃ íti ǀ sú ǀ prá ǀ vocam ǁ

    upa ǀ hvaye ǀ su-dughām ǀ dhenum ǀ etām ǀ su-hastaḥ ǀ go-dhuk ǀ uta ǀ dohat ǀ enām ǀ
    śreṣṭham ǀ savam ǀ savitā ǀ sāviṣat ǀ naḥ ǀ abhi-iddhaḥ ǀ gharmaḥ ǀ tat ǀ ūṃ iti ǀ su ǀ pra ǀ vocam ǁ

    1.164.26 Aṣṭaka 2.3.19.1Anuvāka 1.22.97

  27. Ṛk 27

    हिं॒कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छंती॒ मन॑सा॒भ्यागा॑त् ।
    दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥

    हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् |
    दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ||

    hiṅkṛṇvatī́ vasupátnī vásūnām vatsámicchántī mánasābhyā́gāt ǀ
    duhā́maśvíbhyām páyo aghnyéyám sā́ vardhatām mahaté sáubhagāya ǁ

    hiṅkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt |
    duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya ||

    हि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । अ॒भि । आ । अ॒गा॒त् ।
    दु॒हाम् । अ॒श्विऽभ्या॑म् । पयः॑ । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥

    हिङ्ऽकृण्वती । वसुऽपत्नी । वसूनाम् । वत्सम् । इच्छन्ती । मनसा । अभि । आ । अगात् ।
    दुहाम् । अश्विऽभ्याम् । पयः । अघ्न्या । इयम् । सा । वर्धताम् । महते । सौभगाय ॥

    hiṅ-kṛṇvatī́ ǀ vasu-pátnī ǀ vásūnām ǀ vatsám ǀ icchántī ǀ mánasā ǀ abhí ǀ ā́ ǀ agāt ǀ
    duhā́m ǀ aśví-bhyām ǀ páyaḥ ǀ aghnyā́ ǀ iyám ǀ sā́ ǀ vardhatām ǀ mahaté ǀ sáubhagāya ǁ

    hiṅ-kṛṇvatī ǀ vasu-patnī ǀ vasūnām ǀ vatsam ǀ icchantī ǀ manasā ǀ abhi ǀ ā ǀ agāt ǀ
    duhām ǀ aśvi-bhyām ǀ payaḥ ǀ aghnyā ǀ iyam ǀ sā ǀ vardhatām ǀ mahate ǀ saubhagāya ǁ

    1.164.27 Aṣṭaka 2.3.19.2Anuvāka 1.22.98

  28. Ṛk 28

    गौर॑मीमे॒दनु॑ व॒त्सं मि॒षंतं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ ।
    सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥

    गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ |
    सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ||

    gáuramīmedánu vatsám miṣántam mūrdhā́nam híṅṅakṛṇonmā́tavā́ u ǀ
    sṛ́kvāṇam gharmámabhí vāvaśānā́ mímāti māyúm páyate páyobhiḥ ǁ

    gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u |
    sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ ||

    गौः । अ॒मी॒मे॒त् । अनु॑ । व॒त्सम् । मि॒षन्त॑म् । मू॒र्धान॑म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊं॒ इति॑ ।
    सृक्वा॑णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पयः॑ऽभिः ॥

    गौः । अमीमेत् । अनु । वत्सम् । मिषन्तम् । मूर्धानम् । हिङ् । अकृणोत् । मातवै । ऊं इति ।
    सृक्वाणम् । घर्मम् । अभि । वावशाना । मिमाति । मायुम् । पयते । पयःऽभिः ॥

    gáuḥ ǀ amīmet ǀ ánu ǀ vatsám ǀ miṣántam ǀ mūrdhā́nam ǀ híṅ ǀ akṛṇot ǀ mā́tavái ǀ ūṃ íti ǀ
    sṛ́kvāṇam ǀ gharmám ǀ abhí ǀ vāvaśānā́ ǀ mímāti ǀ māyúm ǀ páyate ǀ páyaḥ-bhiḥ ǁ

    gauḥ ǀ amīmet ǀ anu ǀ vatsam ǀ miṣantam ǀ mūrdhānam ǀ hiṅ ǀ akṛṇot ǀ mātavai ǀ ūṃ iti ǀ
    sṛkvāṇam ǀ gharmam ǀ abhi ǀ vāvaśānā ǀ mimāti ǀ māyum ǀ payate ǀ payaḥ-bhiḥ ǁ

    1.164.28 Aṣṭaka 2.3.19.3Anuvāka 1.22.99

  29. Ṛk 29

    अ॒यं स शिं॑क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता ।
    सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं॑ वि॒द्युद्भवं॑ती॒ प्रति॑ व॒व्रिमौ॑हत ॥

    अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता |
    सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ||

    ayám sá śiṅkte yéna gáurabhī́vṛtā mímāti māyúm dhvasánāvádhi śritā́ ǀ
    sā́ cittíbhirní hí cakā́ra mártyam vidyúdbhávantī práti vavrímauhata ǁ

    ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā |
    sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata ||

    अ॒यम् । सः । शि॒ङ्क्ते॒ । येन॑ । गौः । अ॒भिऽवृ॑ता । मिमा॑ति । मा॒युम् । ध्व॒सनौ॑ । अधि॑ । श्रि॒ता ।
    सा । चि॒त्तिऽभिः॑ । नि । हि । च॒कार॑ । मर्त्य॑म् । वि॒ऽद्युत् । भव॑न्ती । प्रति॑ । व॒व्रिम् । औ॒ह॒त॒ ॥

    अयम् । सः । शिङ्क्ते । येन । गौः । अभिऽवृता । मिमाति । मायुम् । ध्वसनौ । अधि । श्रिता ।
    सा । चित्तिऽभिः । नि । हि । चकार । मर्त्यम् । विऽद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥

    ayám ǀ sáḥ ǀ śiṅkte ǀ yéna ǀ gáuḥ ǀ abhí-vṛtā ǀ mímāti ǀ māyúm ǀ dhvasánau ǀ ádhi ǀ śritā́ ǀ
    sā́ ǀ cittí-bhiḥ ǀ ní ǀ hí ǀ cakā́ra ǀ mártyam ǀ vi-dyút ǀ bhávantī ǀ práti ǀ vavrím ǀ auhata ǁ

    ayam ǀ saḥ ǀ śiṅkte ǀ yena ǀ gauḥ ǀ abhi-vṛtā ǀ mimāti ǀ māyum ǀ dhvasanau ǀ adhi ǀ śritā ǀ
    sā ǀ citti-bhiḥ ǀ ni ǀ hi ǀ cakāra ǀ martyam ǀ vi-dyut ǀ bhavantī ǀ prati ǀ vavrim ǀ auhata ǁ

    1.164.29 Aṣṭaka 2.3.19.4Anuvāka 1.22.100

  30. Ṛk 30

    अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नां ।
    जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥

    अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् |
    जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ||

    anácchaye turágātu jīváméjaddhruvám mádhya ā́ pastyā́nām ǀ
    jīvó mṛtásya carati svadhā́bhirámartyo mártyenā sáyoniḥ ǁ

    anac chaye turagātu jīvam ejad dhruvam madhya ā pastyānām |
    jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ ||

    अ॒नत् । श॒ये॒ । तु॒रऽगा॑तु । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या॑नाम् ।
    जी॒वः । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धाभिः॑ । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः ॥

    अनत् । शये । तुरऽगातु । जीवम् । एजत् । ध्रुवम् । मध्ये । आ । पस्त्यानाम् ।
    जीवः । मृतस्य । चरति । स्वधाभिः । अमर्त्यः । मर्त्येन । सऽयोनिः ॥

    anát ǀ śaye ǀ turá-gātu ǀ jīvám ǀ éjat ǀ dhruvám ǀ mádhye ǀ ā́ ǀ pastyā́nām ǀ
    jīváḥ ǀ mṛtásya ǀ carati ǀ svadhā́bhiḥ ǀ ámartyaḥ ǀ mártyena ǀ sá-yoniḥ ǁ

    anat ǀ śaye ǀ tura-gātu ǀ jīvam ǀ ejat ǀ dhruvam ǀ madhye ǀ ā ǀ pastyānām ǀ
    jīvaḥ ǀ mṛtasya ǀ carati ǀ svadhābhiḥ ǀ amartyaḥ ǀ martyena ǀ sa-yoniḥ ǁ

    1.164.30 Aṣṭaka 2.3.19.5Anuvāka 1.22.101

  31. Ṛk 31

    अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चरं॑तं ।
    स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥

    अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् |
    स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ||

    ápaśyam gopā́mánipadyamānamā́ ca párā ca pathíbhiścárantam ǀ
    sá sadhrī́cīḥ sá víṣūcīrvásāna ā́ varīvarti bhúvaneṣvantáḥ ǁ

    apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
    sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||

    अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् ।
    सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥

    अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।
    सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥

    ápaśyam ǀ gopā́m ǀ áni-padyamānam ǀ ā́ ǀ ca ǀ párā ǀ ca ǀ pathí-bhiḥ ǀ cárantam ǀ
    sáḥ ǀ sadhrī́cīḥ ǀ sáḥ ǀ víṣūcīḥ ǀ vásānaḥ ǀ ā́ ǀ varīvarti ǀ bhúvaneṣu ǀ antáríti ǁ

    apaśyam ǀ gopām ǀ ani-padyamānam ǀ ā ǀ ca ǀ parā ǀ ca ǀ pathi-bhiḥ ǀ carantam ǀ
    saḥ ǀ sadhrīcīḥ ǀ saḥ ǀ viṣūcīḥ ǀ vasānaḥ ǀ ā ǀ varīvarti ǀ bhuvaneṣu ǀ antariti ǁ

    1.164.31 Aṣṭaka 2.3.20.1Anuvāka 1.22.102

  32. Ṛk 32

    य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् ।
    स मा॒तुर्योना॒ परि॑वीतो अं॒तर्ब॑हुप्र॒जा निर्ऋ॑ति॒मा वि॑वेश ॥

    य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् |
    स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ||

    yá īm cakā́ra ná só asyá veda yá īm dadárśa hírugínnú tásmāt ǀ
    sá mātúryónā párivīto antárbahuprajā́ nírṛtimā́ viveśa ǁ

    ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt |
    sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa ||

    यः । ई॒म् । च॒कार॑ । न । सः । अ॒स्य । वे॒द॒ । यः । ई॒म् । द॒दर्श॑ । हिरु॑क् । इत् । नु । तस्मा॑त् ।
    सः । मा॒तुः । योना॑ । परि॑ऽवीतः । अ॒न्तः । ब॒हु॒ऽप्र॒जाः । निःऽऋ॑तिम् । आ । वि॒वे॒श॒ ॥

    यः । ईम् । चकार । न । सः । अस्य । वेद । यः । ईम् । ददर्श । हिरुक् । इत् । नु । तस्मात् ।
    सः । मातुः । योना । परिऽवीतः । अन्तः । बहुऽप्रजाः । निःऽऋतिम् । आ । विवेश ॥

    yáḥ ǀ īm ǀ cakā́ra ǀ ná ǀ sáḥ ǀ asyá ǀ veda ǀ yáḥ ǀ īm ǀ dadárśa ǀ híruk ǀ ít ǀ nú ǀ tásmāt ǀ
    sáḥ ǀ mātúḥ ǀ yónā ǀ pári-vītaḥ ǀ antáḥ ǀ bahu-prajā́ḥ ǀ níḥ-ṛtim ǀ ā́ ǀ viveśa ǁ

    yaḥ ǀ īm ǀ cakāra ǀ na ǀ saḥ ǀ asya ǀ veda ǀ yaḥ ǀ īm ǀ dadarśa ǀ hiruk ǀ it ǀ nu ǀ tasmāt ǀ
    saḥ ǀ mātuḥ ǀ yonā ǀ pari-vītaḥ ǀ antaḥ ǀ bahu-prajāḥ ǀ niḥ-ṛtim ǀ ā ǀ viveśa ǁ

    1.164.32 Aṣṭaka 2.3.20.2Anuvāka 1.22.103

  33. Ṛk 33

    द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बंधु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयं ।
    उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑रं॒तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥

    द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् |
    उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ||

    dyáurme pitā́ janitā́ nā́bhirátra bándhurme mātā́ pṛthivī́ mahī́yám ǀ
    uttānáyoścamvóryónirantárátrā pitā́ duhitúrgárbhamā́dhāt ǁ

    dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam |
    uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt ||

    द्यौः । मे॒ । पि॒ता । ज॒नि॒ता । नाभिः॑ । अत्र॑ । बन्धुः॑ । मे॒ । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् ।
    उ॒त्ता॒नयोः॑ । च॒म्वोः॑ । योनिः॑ । अ॒न्तः । अत्र॑ । पि॒ता । दु॒हि॒तुः । गर्भ॑म् । आ । अ॒धा॒त् ॥

    द्यौः । मे । पिता । जनिता । नाभिः । अत्र । बन्धुः । मे । माता । पृथिवी । मही । इयम् ।
    उत्तानयोः । चम्वोः । योनिः । अन्तः । अत्र । पिता । दुहितुः । गर्भम् । आ । अधात् ॥

    dyáuḥ ǀ me ǀ pitā́ ǀ janitā́ ǀ nā́bhiḥ ǀ átra ǀ bándhuḥ ǀ me ǀ mātā́ ǀ pṛthivī́ ǀ mahī́ ǀ iyám ǀ
    uttānáyoḥ ǀ camvóḥ ǀ yóniḥ ǀ antáḥ ǀ átra ǀ pitā́ ǀ duhitúḥ ǀ gárbham ǀ ā́ ǀ adhāt ǁ

    dyauḥ ǀ me ǀ pitā ǀ janitā ǀ nābhiḥ ǀ atra ǀ bandhuḥ ǀ me ǀ mātā ǀ pṛthivī ǀ mahī ǀ iyam ǀ
    uttānayoḥ ǀ camvoḥ ǀ yoniḥ ǀ antaḥ ǀ atra ǀ pitā ǀ duhituḥ ǀ garbham ǀ ā ǀ adhāt ǁ

    1.164.33 Aṣṭaka 2.3.20.3Anuvāka 1.22.104

  34. Ṛk 34

    पृ॒च्छामि॑ त्वा॒ पर॒मंतं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ ।
    पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥

    पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः |
    पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ||

    pṛcchā́mi tvā páramántam pṛthivyā́ḥ pṛcchā́mi yátra bhúvanasya nā́bhiḥ ǀ
    pṛcchā́mi tvā vṛ́ṣṇo áśvasya rétaḥ pṛcchā́mi vācáḥ paramám vyóma ǁ

    pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ |
    pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma ||

    पृ॒च्छामि॑ । त्वा॒ । पर॑म् । अन्त॑म् । पृ॒थि॒व्याः । पृ॒च्छामि॑ । यत्र॑ । भुव॑नस्य । नाभिः॑ ।
    पृ॒च्छामि॑ । त्वा॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । विऽओ॑म ॥

    पृच्छामि । त्वा । परम् । अन्तम् । पृथिव्याः । पृच्छामि । यत्र । भुवनस्य । नाभिः ।
    पृच्छामि । त्वा । वृष्णः । अश्वस्य । रेतः । पृच्छामि । वाचः । परमम् । विऽओम ॥

    pṛcchā́mi ǀ tvā ǀ páram ǀ ántam ǀ pṛthivyā́ḥ ǀ pṛcchā́mi ǀ yátra ǀ bhúvanasya ǀ nā́bhiḥ ǀ
    pṛcchā́mi ǀ tvā ǀ vṛ́ṣṇaḥ ǀ áśvasya ǀ rétaḥ ǀ pṛcchā́mi ǀ vācáḥ ǀ paramám ǀ ví-oma ǁ

    pṛcchāmi ǀ tvā ǀ param ǀ antam ǀ pṛthivyāḥ ǀ pṛcchāmi ǀ yatra ǀ bhuvanasya ǀ nābhiḥ ǀ
    pṛcchāmi ǀ tvā ǀ vṛṣṇaḥ ǀ aśvasya ǀ retaḥ ǀ pṛcchāmi ǀ vācaḥ ǀ paramam ǀ vi-oma ǁ

    1.164.34 Aṣṭaka 2.3.20.4Anuvāka 1.22.105

  35. Ṛk 35

    इ॒यं वेदिः॒ परो॒ अंतः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ ।
    अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥

    इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः |
    अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ||

    iyám védiḥ páro ántaḥ pṛthivyā́ ayám yajñó bhúvanasya nā́bhiḥ ǀ
    ayám sómo vṛ́ṣṇo áśvasya réto brahmā́yám vācáḥ paramám vyóma ǁ

    iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ |
    ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma ||

    इ॒यम् । वेदिः॑ । परः॑ । अन्तः॑ । पृ॒थि॒व्याः । अ॒यम् । य॒ज्ञः । भुव॑नस्य । नाभिः॑ ।
    अ॒यम् । सोमः॑ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । ब्र॒ह्मा । अ॒यम् । वा॒चः । प॒र॒मम् । विऽओ॑म ॥

    इयम् । वेदिः । परः । अन्तः । पृथिव्याः । अयम् । यज्ञः । भुवनस्य । नाभिः ।
    अयम् । सोमः । वृष्णः । अश्वस्य । रेतः । ब्रह्मा । अयम् । वाचः । परमम् । विऽओम ॥

    iyám ǀ védiḥ ǀ páraḥ ǀ ántaḥ ǀ pṛthivyā́ḥ ǀ ayám ǀ yajñáḥ ǀ bhúvanasya ǀ nā́bhiḥ ǀ
    ayám ǀ sómaḥ ǀ vṛ́ṣṇaḥ ǀ áśvasya ǀ rétaḥ ǀ brahmā́ ǀ ayám ǀ vācáḥ ǀ paramám ǀ ví-oma ǁ

    iyam ǀ vediḥ ǀ paraḥ ǀ antaḥ ǀ pṛthivyāḥ ǀ ayam ǀ yajñaḥ ǀ bhuvanasya ǀ nābhiḥ ǀ
    ayam ǀ somaḥ ǀ vṛṣṇaḥ ǀ aśvasya ǀ retaḥ ǀ brahmā ǀ ayam ǀ vācaḥ ǀ paramam ǀ vi-oma ǁ

    1.164.35 Aṣṭaka 2.3.20.5Anuvāka 1.22.106

  36. Ṛk 36

    स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठंति प्र॒दिशा॒ विध॑र्मणि ।
    ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवंति वि॒श्वतः॑ ॥

    सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि |
    ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ||

    saptā́rdhagarbhā́ bhúvanasya réto víṣṇostiṣṭhanti pradíśā vídharmaṇi ǀ
    té dhītíbhirmánasā té vipaścítaḥ paribhúvaḥ pári bhavanti viśvátaḥ ǁ

    saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi |
    te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||

    स॒प्त । अ॒र्ध॒ऽग॒र्भाः । भुव॑नस्य । रेतः॑ । विष्णोः॑ । ति॒ष्ठ॒न्ति॒ । प्र॒ऽदिशा॑ । विऽध॑र्मणि ।
    ते । धी॒तिऽभिः॑ । मन॑सा । ते । वि॒पः॒ऽचितः॑ । प॒रि॒ऽभुवः॑ । परि॑ । भ॒व॒न्ति॒ । वि॒श्वतः॑ ॥

    सप्त । अर्धऽगर्भाः । भुवनस्य । रेतः । विष्णोः । तिष्ठन्ति । प्रऽदिशा । विऽधर्मणि ।
    ते । धीतिऽभिः । मनसा । ते । विपःऽचितः । परिऽभुवः । परि । भवन्ति । विश्वतः ॥

    saptá ǀ ardha-garbhā́ḥ ǀ bhúvanasya ǀ rétaḥ ǀ víṣṇoḥ ǀ tiṣṭhanti ǀ pra-díśā ǀ ví-dharmaṇi ǀ
    té ǀ dhītí-bhiḥ ǀ mánasā ǀ té ǀ vipaḥ-cítaḥ ǀ pari-bhúvaḥ ǀ pári ǀ bhavanti ǀ viśvátaḥ ǁ

    sapta ǀ ardha-garbhāḥ ǀ bhuvanasya ǀ retaḥ ǀ viṣṇoḥ ǀ tiṣṭhanti ǀ pra-diśā ǀ vi-dharmaṇi ǀ
    te ǀ dhīti-bhiḥ ǀ manasā ǀ te ǀ vipaḥ-citaḥ ǀ pari-bhuvaḥ ǀ pari ǀ bhavanti ǀ viśvataḥ ǁ

    1.164.36 Aṣṭaka 2.3.21.1Anuvāka 1.22.107

  37. Ṛk 37

    न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि ।
    य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥

    न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि |
    यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ||

    ná ví jānāmi yádivedámásmi niṇyáḥ sáṃnaddho mánasā carāmi ǀ
    yadā́ mā́ganprathamajā́ ṛtásyā́dídvācó aśnuve bhāgámasyā́ḥ ǁ

    na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi |
    yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ ||

    न । वि । जा॒ना॒मि॒ । यत्ऽइ॑व । इ॒दम् । अस्मि॑ । नि॒ण्यः । सम्ऽन॑द्धः । मन॑सा । च॒रा॒मि॒ ।
    य॒दा । मा । आ । अग॑न् । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । आत् । इत् । वा॒चः । अ॒श्नु॒वे॒ । भा॒गम् । अ॒स्याः ॥

    न । वि । जानामि । यत्ऽइव । इदम् । अस्मि । निण्यः । सम्ऽनद्धः । मनसा । चरामि ।
    यदा । मा । आ । अगन् । प्रथमऽजाः । ऋतस्य । आत् । इत् । वाचः । अश्नुवे । भागम् । अस्याः ॥

    ná ǀ ví ǀ jānāmi ǀ yát-iva ǀ idám ǀ ásmi ǀ niṇyáḥ ǀ sám-naddhaḥ ǀ mánasā ǀ carāmi ǀ
    yadā́ ǀ mā́ ǀ ā́ ǀ ágan ǀ prathama-jā́ḥ ǀ ṛtásya ǀ ā́t ǀ ít ǀ vācáḥ ǀ aśnuve ǀ bhāgám ǀ asyā́ḥ ǁ

    na ǀ vi ǀ jānāmi ǀ yat-iva ǀ idam ǀ asmi ǀ niṇyaḥ ǀ sam-naddhaḥ ǀ manasā ǀ carāmi ǀ
    yadā ǀ mā ǀ ā ǀ agan ǀ prathama-jāḥ ǀ ṛtasya ǀ āt ǀ it ǀ vācaḥ ǀ aśnuve ǀ bhāgam ǀ asyāḥ ǁ

    1.164.37 Aṣṭaka 2.3.21.2Anuvāka 1.22.108

  38. Ṛk 38

    अपा॒ङ् प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ।
    ता शश्वं॑ता विषू॒चीना॑ वि॒यंता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यं ॥

    अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः |
    ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ||

    ápāṅ prā́ṅeti svadháyā gṛbhītó’martyo mártyenā sáyoniḥ ǀ
    tā́ śáśvantā viṣūcī́nā viyántā nyányám cikyúrná ní cikyuranyám ǁ

    apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ |
    tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam ||

    अपा॑ङ् । प्राङ् । ए॒ति॒ । स्व॒धया॑ । गृ॒भी॒तः । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः ।
    ता । शश्व॑न्ता । वि॒षू॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । चि॒क्युः । न । नि । चि॒क्युः॒ । अ॒न्यम् ॥

    अपाङ् । प्राङ् । एति । स्वधया । गृभीतः । अमर्त्यः । मर्त्येन । सऽयोनिः ।
    ता । शश्वन्ता । विषूचीना । विऽयन्ता । नि । अन्यम् । चिक्युः । न । नि । चिक्युः । अन्यम् ॥

    ápāṅ ǀ prā́ṅ ǀ eti ǀ svadháyā ǀ gṛbhītáḥ ǀ ámartyaḥ ǀ mártyena ǀ sá-yoniḥ ǀ
    tā́ ǀ śáśvantā ǀ viṣūcī́nā ǀ vi-yántā ǀ ní ǀ anyám ǀ cikyúḥ ǀ ná ǀ ní ǀ cikyuḥ ǀ anyám ǁ

    apāṅ ǀ prāṅ ǀ eti ǀ svadhayā ǀ gṛbhītaḥ ǀ amartyaḥ ǀ martyena ǀ sa-yoniḥ ǀ
    tā ǀ śaśvantā ǀ viṣūcīnā ǀ vi-yantā ǀ ni ǀ anyam ǀ cikyuḥ ǀ na ǀ ni ǀ cikyuḥ ǀ anyam ǁ

    1.164.38 Aṣṭaka 2.3.21.3Anuvāka 1.22.109

  39. Ṛk 39

    ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मिं॑दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
    यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥

    ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः |
    यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ||

    ṛcó akṣáre paramé vyómanyásmindevā́ ádhi víśve niṣedúḥ ǀ
    yástánná véda kímṛcā́ kariṣyati yá íttádvidústá imé sámāsate ǁ

    ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ |
    yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate ||

    ऋ॒चः । अ॒क्षरे॑ । प॒र॒मे । विऽओ॑मन् । यस्मि॑न् । दे॒वाः । अधि॑ । विश्वे॑ । नि॒ऽसे॒दुः ।
    यः । तत् । न । वेद॑ । किम् । ऋ॒चा । क॒रि॒ष्य॒ति॒ । ये । इत् । तत् । वि॒दुः । ते । इ॒मे । सम् । आ॒स॒ते॒ ॥

    ऋचः । अक्षरे । परमे । विऽओमन् । यस्मिन् । देवाः । अधि । विश्वे । निऽसेदुः ।
    यः । तत् । न । वेद । किम् । ऋचा । करिष्यति । ये । इत् । तत् । विदुः । ते । इमे । सम् । आसते ॥

    ṛcáḥ ǀ akṣáre ǀ paramé ǀ ví-oman ǀ yásmin ǀ devā́ḥ ǀ ádhi ǀ víśve ǀ ni-sedúḥ ǀ
    yáḥ ǀ tát ǀ ná ǀ véda ǀ kím ǀ ṛcā́ ǀ kariṣyati ǀ yé ǀ ít ǀ tát ǀ vidúḥ ǀ té ǀ imé ǀ sám ǀ āsate ǁ

    ṛcaḥ ǀ akṣare ǀ parame ǀ vi-oman ǀ yasmin ǀ devāḥ ǀ adhi ǀ viśve ǀ ni-seduḥ ǀ
    yaḥ ǀ tat ǀ na ǀ veda ǀ kim ǀ ṛcā ǀ kariṣyati ǀ ye ǀ it ǀ tat ǀ viduḥ ǀ te ǀ ime ǀ sam ǀ āsate ǁ

    1.164.39 Aṣṭaka 2.3.21.4Anuvāka 1.22.110

  40. Ṛk 40

    सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वंतः स्याम ।
    अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चरं॑ती ॥

    सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम |
    अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ||

    sūyavasā́dbhágavatī hí bhūyā́ átho vayám bhágavantaḥ syāma ǀ
    addhí tṛ́ṇamaghnye viśvadā́nīm píba śuddhámudakámācárantī ǁ

    sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma |
    addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī ||

    सु॒य॒व॒स॒ऽअत् । भग॑ऽवती । हि । भू॒याः । अथो॒ इति॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ ।
    अ॒द्धि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् । पिब॑ । शु॒द्धम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥

    सुयवसऽअत् । भगऽवती । हि । भूयाः । अथो इति । वयम् । भगऽवन्तः । स्याम ।
    अद्धि । तृणम् । अघ्न्ये । विश्वऽदानीम् । पिब । शुद्धम् । उदकम् । आऽचरन्ती ॥

    suyavasa-át ǀ bhága-vatī ǀ hí ǀ bhūyā́ḥ ǀ átho íti ǀ vayám ǀ bhága-vantaḥ ǀ syāma ǀ
    addhí ǀ tṛ́ṇam ǀ aghnye ǀ viśva-dā́nīm ǀ píba ǀ śuddhám ǀ udakám ǀ ā-cárantī ǁ

    suyavasa-at ǀ bhaga-vatī ǀ hi ǀ bhūyāḥ ǀ atho iti ǀ vayam ǀ bhaga-vantaḥ ǀ syāma ǀ
    addhi ǀ tṛṇam ǀ aghnye ǀ viśva-dānīm ǀ piba ǀ śuddham ǀ udakam ǀ ā-carantī ǁ

    1.164.40 Aṣṭaka 2.3.21.5Anuvāka 1.22.111

  41. Ṛk 41

    गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
    अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् ॥

    गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी |
    अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ||

    gaurī́rmimāya salilā́ni tákṣatyékapadī dvipádī sā́ cátuṣpadī ǀ
    aṣṭā́padī návapadī babhūvúṣī sahásrākṣarā paramé vyóman ǁ

    gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī |
    aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ||

    गौ॒रीः । मि॒मा॒य॒ । स॒लि॒लानि॑ । तक्ष॑ती । एक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतुः॑ऽपदी ।
    अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । प॒र॒मे । विऽओ॑मन् ॥

    गौरीः । मिमाय । सलिलानि । तक्षती । एकऽपदी । द्विऽपदी । सा । चतुःऽपदी ।
    अष्टाऽपदी । नवऽपदी । बभूवुषी । सहस्रऽअक्षरा । परमे । विऽओमन् ॥

    gaurī́ḥ ǀ mimāya ǀ salilā́ni ǀ tákṣatī ǀ éka-padī ǀ dvi-pádī ǀ sā́ ǀ cátuḥ-padī ǀ
    aṣṭā́-padī ǀ náva-padī ǀ babhūvúṣī ǀ sahásra-akṣarā ǀ paramé ǀ ví-oman ǁ

    gaurīḥ ǀ mimāya ǀ salilāni ǀ takṣatī ǀ eka-padī ǀ dvi-padī ǀ sā ǀ catuḥ-padī ǀ
    aṣṭā-padī ǀ nava-padī ǀ babhūvuṣī ǀ sahasra-akṣarā ǀ parame ǀ vi-oman ǁ

    1.164.41 Aṣṭaka 2.3.22.1Anuvāka 1.22.112

  42. Ṛk 42

    तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रंति॒ तेन॑ जीवंति प्र॒दिश॒श्चत॑स्रः ।
    ततः॑ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥

    तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः |
    ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ||

    tásyāḥ samudrā́ ádhi ví kṣaranti téna jīvanti pradíśaścátasraḥ ǀ
    tátaḥ kṣaratyakṣáram tádvíśvamúpa jīvati ǁ

    tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ |
    tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati ||

    तस्याः॑ । स॒मु॒द्राः । अधि॑ । वि । क्ष॒र॒न्ति॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिशः॑ । चत॑स्रः ।
    ततः॑ । क्ष॒र॒ति॒ । अ॒क्षर॑म् । तत् । विश्व॑म् । उप॑ । जी॒व॒ति॒ ॥

    तस्याः । समुद्राः । अधि । वि । क्षरन्ति । तेन । जीवन्ति । प्रऽदिशः । चतस्रः ।
    ततः । क्षरति । अक्षरम् । तत् । विश्वम् । उप । जीवति ॥

    tásyāḥ ǀ samudrā́ḥ ǀ ádhi ǀ ví ǀ kṣaranti ǀ téna ǀ jīvanti ǀ pra-díśaḥ ǀ cátasraḥ ǀ
    tátaḥ ǀ kṣarati ǀ akṣáram ǀ tát ǀ víśvam ǀ úpa ǀ jīvati ǁ

    tasyāḥ ǀ samudrāḥ ǀ adhi ǀ vi ǀ kṣaranti ǀ tena ǀ jīvanti ǀ pra-diśaḥ ǀ catasraḥ ǀ
    tataḥ ǀ kṣarati ǀ akṣaram ǀ tat ǀ viśvam ǀ upa ǀ jīvati ǁ

    1.164.42 Aṣṭaka 2.3.22.2Anuvāka 1.22.113

  43. Ṛk 43

    श॒क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण ।
    उ॒क्षाणं॒ पृश्नि॑मपचंत वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥

    शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण |
    उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ||

    śakamáyam dhūmámārā́dapaśyam viṣūvátā pará enā́vareṇa ǀ
    ukṣā́ṇam pṛ́śnimapacanta vīrā́stā́ni dhármāṇi prathamā́nyāsan ǁ

    śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa |
    ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan ||

    श॒क॒ऽमय॑म् । धू॒मम् । आ॒रात् । अ॒प॒श्य॒म् । वि॒षु॒ऽवता॑ । प॒रः । ए॒ना । अव॑रेण ।
    उ॒क्षाण॑म् । पृश्नि॑म् । अ॒प॒च॒न्त॒ । वी॒राः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ॥

    शकऽमयम् । धूमम् । आरात् । अपश्यम् । विषुऽवता । परः । एना । अवरेण ।
    उक्षाणम् । पृश्निम् । अपचन्त । वीराः । तानि । धर्माणि । प्रथमानि । आसन् ॥

    śaka-máyam ǀ dhūmám ǀ ārā́t ǀ apaśyam ǀ viṣu-vátā ǀ paráḥ ǀ enā́ ǀ ávareṇa ǀ
    ukṣā́ṇam ǀ pṛ́śnim ǀ apacanta ǀ vīrā́ḥ ǀ tā́ni ǀ dhármāṇi ǀ prathamā́ni ǀ āsan ǁ

    śaka-mayam ǀ dhūmam ǀ ārāt ǀ apaśyam ǀ viṣu-vatā ǀ paraḥ ǀ enā ǀ avareṇa ǀ
    ukṣāṇam ǀ pṛśnim ǀ apacanta ǀ vīrāḥ ǀ tāni ǀ dharmāṇi ǀ prathamāni ǀ āsan ǁ

    1.164.43 Aṣṭaka 2.3.22.3Anuvāka 1.22.114

  44. Ṛk 44

    त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषां ।
    विश्व॒मेको॑ अ॒भि च॑ष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पं ॥

    त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् |
    विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ||

    tráyaḥ keśína ṛtuthā́ ví cakṣate saṃvatsaré vapata éka eṣām ǀ
    víśvaméko abhí caṣṭe śácībhirdhrā́jirékasya dadṛśe ná rūpám ǁ

    trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām |
    viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam ||

    त्रयः॑ । के॒शिनः॑ । ऋ॒तु॒ऽथा । वि । च॒क्ष॒ते॒ । सं॒व॒त्स॒रे । व॒प॒ते॒ । एकः॑ । ए॒षा॒म् ।
    विश्व॑म् । एकः॑ । अ॒भि । च॒ष्टे॒ । शची॑भिः । ध्राजिः॑ । एक॑स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥

    त्रयः । केशिनः । ऋतुऽथा । वि । चक्षते । संवत्सरे । वपते । एकः । एषाम् ।
    विश्वम् । एकः । अभि । चष्टे । शचीभिः । ध्राजिः । एकस्य । ददृशे । न । रूपम् ॥

    tráyaḥ ǀ keśínaḥ ǀ ṛtu-thā́ ǀ ví ǀ cakṣate ǀ saṃvatsaré ǀ vapate ǀ ékaḥ ǀ eṣām ǀ
    víśvam ǀ ékaḥ ǀ abhí ǀ caṣṭe ǀ śácībhiḥ ǀ dhrā́jiḥ ǀ ékasya ǀ dadṛśe ǀ ná ǀ rūpám ǁ

    trayaḥ ǀ keśinaḥ ǀ ṛtu-thā ǀ vi ǀ cakṣate ǀ saṃvatsare ǀ vapate ǀ ekaḥ ǀ eṣām ǀ
    viśvam ǀ ekaḥ ǀ abhi ǀ caṣṭe ǀ śacībhiḥ ǀ dhrājiḥ ǀ ekasya ǀ dadṛśe ǀ na ǀ rūpam ǁ

    1.164.44 Aṣṭaka 2.3.22.4Anuvāka 1.22.115

  45. Ṛk 45

    च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
    गुहा॒ त्रीणि॒ निहि॑ता॒ नेंग॑यंति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदंति ॥

    चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः |
    गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ||

    catvā́ri vā́kpárimitā padā́ni tā́ni vidurbrāhmaṇā́ yé manīṣíṇaḥ ǀ
    gúhā trī́ṇi níhitā néṅgayanti turī́yam vācó manuṣyā́ vadanti ǁ

    catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ |
    guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ||

    च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दुः॒ । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः॑ ।
    गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒ष्याः॑ । व॒द॒न्ति॒ ॥

    चत्वारि । वाक् । परिऽमिता । पदानि । तानि । विदुः । ब्राह्मणाः । ये । मनीषिणः ।
    गुहा । त्रीणि । निऽहिता । न । इङ्गयन्ति । तुरीयम् । वाचः । मनुष्याः । वदन्ति ॥

    catvā́ri ǀ vā́k ǀ pári-mitā ǀ padā́ni ǀ tā́ni ǀ viduḥ ǀ brāhmaṇā́ḥ ǀ yé ǀ manīṣíṇaḥ ǀ
    gúhā ǀ trī́ṇi ǀ ní-hitā ǀ ná ǀ iṅgayanti ǀ turī́yam ǀ vācáḥ ǀ manuṣyā́ḥ ǀ vadanti ǁ

    catvāri ǀ vāk ǀ pari-mitā ǀ padāni ǀ tāni ǀ viduḥ ǀ brāhmaṇāḥ ǀ ye ǀ manīṣiṇaḥ ǀ
    guhā ǀ trīṇi ǀ ni-hitā ǀ na ǀ iṅgayanti ǀ turīyam ǀ vācaḥ ǀ manuṣyāḥ ǀ vadanti ǁ

    1.164.45 Aṣṭaka 2.3.22.5Anuvāka 1.22.116

  46. Ṛk 46

    इंद्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् ।
    एकं॒ सद्विप्रा॑ बहु॒धा व॑दंत्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥

    इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् |
    एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ||

    índram mitrám váruṇamagnímāhurátho divyáḥ sá suparṇó garútmān ǀ
    ékam sádvíprā bahudhā́ vadantyagním yamám mātaríśvānamāhuḥ ǁ

    indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān |
    ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ ||

    इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हुः॒ । अथो॒ इति॑ । दि॒व्यः । सः । सु॒ऽप॒र्णः । ग॒रुत्मा॑न् ।
    एक॑म् । सत् । विप्राः॑ । ब॒हु॒धा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हुः॒ ॥

    इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहुः । अथो इति । दिव्यः । सः । सुऽपर्णः । गरुत्मान् ।
    एकम् । सत् । विप्राः । बहुधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहुः ॥

    índram ǀ mitrám ǀ váruṇam ǀ agním ǀ āhuḥ ǀ átho íti ǀ divyáḥ ǀ sáḥ ǀ su-parṇáḥ ǀ garútmān ǀ
    ékam ǀ sát ǀ víprāḥ ǀ bahudhā́ ǀ vadanti ǀ agním ǀ yamám ǀ mātaríśvānam ǀ āhuḥ ǁ

    indram ǀ mitram ǀ varuṇam ǀ agnim ǀ āhuḥ ǀ atho iti ǀ divyaḥ ǀ saḥ ǀ su-parṇaḥ ǀ garutmān ǀ
    ekam ǀ sat ǀ viprāḥ ǀ bahudhā ǀ vadanti ǀ agnim ǀ yamam ǀ mātariśvānam ǀ āhuḥ ǁ

    1.164.46 Aṣṭaka 2.3.22.6Anuvāka 1.22.117

  47. Ṛk 47

    कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तंति ।
    त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥

    कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति |
    त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ||

    kṛṣṇám niyā́nam hárayaḥ suparṇā́ apó vásānā dívamútpatanti ǀ
    tá ā́vavṛtrantsádanādṛtásyā́dídghṛténa pṛthivī́ vyúdyate ǁ

    kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti |
    ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate ||

    कृ॒ष्णम् । नि॒ऽयान॑म् । हर॑यः । सु॒ऽप॒र्णाः । अ॒पः । वसा॑नाः । दिव॑म् । उत् । प॒त॒न्ति॒ ।
    ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वी । वि । उ॒द्य॒ते॒ ॥

    कृष्णम् । निऽयानम् । हरयः । सुऽपर्णाः । अपः । वसानाः । दिवम् । उत् । पतन्ति ।
    ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवी । वि । उद्यते ॥

    kṛṣṇám ǀ ni-yā́nam ǀ hárayaḥ ǀ su-parṇā́ḥ ǀ apáḥ ǀ vásānāḥ ǀ dívam ǀ út ǀ patanti ǀ
    té ǀ ā́ ǀ avavṛtran ǀ sádanāt ǀ ṛtásya ǀ ā́t ǀ ít ǀ ghṛténa ǀ pṛthivī́ ǀ ví ǀ udyate ǁ

    kṛṣṇam ǀ ni-yānam ǀ harayaḥ ǀ su-parṇāḥ ǀ apaḥ ǀ vasānāḥ ǀ divam ǀ ut ǀ patanti ǀ
    te ǀ ā ǀ avavṛtran ǀ sadanāt ǀ ṛtasya ǀ āt ǀ it ǀ ghṛtena ǀ pṛthivī ǀ vi ǀ udyate ǁ

    1.164.47 Aṣṭaka 2.3.23.1Anuvāka 1.22.118

  48. Ṛk 48

    द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत ।
    तस्मि॑न्त्सा॒कं त्रि॑श॒ता न शं॒कवो॑ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ॥

    द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत |
    तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ||

    dvā́daśa pradháyaścakrámékam trī́ṇi nábhyāni ká u tácciketa ǀ
    tásmintsākám triśatā́ ná śaṅkávo’rpitā́ḥ ṣaṣṭírná calācalā́saḥ ǁ

    dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa |
    tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ ||

    द्वाद॑श । प्र॒ऽधयः॑ । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । कः । ऊं॒ इति॑ । तत् । चि॒के॒त॒ ।
    तस्मि॑न् । सा॒कम् । त्रि॒ऽश॒ताः । न । श॒ङ्कवः॑ । अ॒र्पि॒ताः । ष॒ष्टिः । न । च॒ला॒च॒लासः॑ ॥

    द्वादश । प्रऽधयः । चक्रम् । एकम् । त्रीणि । नभ्यानि । कः । ऊं इति । तत् । चिकेत ।
    तस्मिन् । साकम् । त्रिऽशताः । न । शङ्कवः । अर्पिताः । षष्टिः । न । चलाचलासः ॥

    dvā́daśa ǀ pra-dháyaḥ ǀ cakrám ǀ ékam ǀ trī́ṇi ǀ nábhyāni ǀ káḥ ǀ ūṃ íti ǀ tát ǀ ciketa ǀ
    tásmin ǀ sākám ǀ tri-śatā́ḥ ǀ ná ǀ śaṅkávaḥ ǀ arpitā́ḥ ǀ ṣaṣṭíḥ ǀ ná ǀ calācalā́saḥ ǁ

    dvādaśa ǀ pra-dhayaḥ ǀ cakram ǀ ekam ǀ trīṇi ǀ nabhyāni ǀ kaḥ ǀ ūṃ iti ǀ tat ǀ ciketa ǀ
    tasmin ǀ sākam ǀ tri-śatāḥ ǀ na ǀ śaṅkavaḥ ǀ arpitāḥ ǀ ṣaṣṭiḥ ǀ na ǀ calācalāsaḥ ǁ

    1.164.48 Aṣṭaka 2.3.23.2Anuvāka 1.22.119

  49. Ṛk 49

    यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि ।
    यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥

    यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि |
    यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ||

    yáste stánaḥ śaśayó yó mayobhū́ryéna víśvā púṣyasi vā́ryāṇi ǀ
    yó ratnadhā́ vasuvídyáḥ sudátraḥ sárasvati támihá dhā́tave kaḥ ǁ

    yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi |
    yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ ||

    यः । ते॒ । स्तनः॑ । श॒श॒यः । यः । म॒यः॒ऽभूः । येन॑ । विश्वा॑ । पुष्य॑सि । वार्या॑णि ।
    यः । र॒त्न॒ऽधाः । व॒सु॒ऽवित् । यः । सु॒ऽदत्रः॑ । सर॑स्वति । तम् । इ॒ह । धात॑वे । क॒रिति॑ कः ॥

    यः । ते । स्तनः । शशयः । यः । मयःऽभूः । येन । विश्वा । पुष्यसि । वार्याणि ।
    यः । रत्नऽधाः । वसुऽवित् । यः । सुऽदत्रः । सरस्वति । तम् । इह । धातवे । करिति कः ॥

    yáḥ ǀ te ǀ stánaḥ ǀ śaśayáḥ ǀ yáḥ ǀ mayaḥ-bhū́ḥ ǀ yéna ǀ víśvā ǀ púṣyasi ǀ vā́ryāṇi ǀ
    yáḥ ǀ ratna-dhā́ḥ ǀ vasu-vít ǀ yáḥ ǀ su-dátraḥ ǀ sárasvati ǀ tám ǀ ihá ǀ dhā́tave ǀ karíti kaḥ ǁ

    yaḥ ǀ te ǀ stanaḥ ǀ śaśayaḥ ǀ yaḥ ǀ mayaḥ-bhūḥ ǀ yena ǀ viśvā ǀ puṣyasi ǀ vāryāṇi ǀ
    yaḥ ǀ ratna-dhāḥ ǀ vasu-vit ǀ yaḥ ǀ su-datraḥ ǀ sarasvati ǀ tam ǀ iha ǀ dhātave ǀ kariti kaḥ ǁ

    1.164.49 Aṣṭaka 2.3.23.3Anuvāka 1.22.120

  50. Ṛk 50

    य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
    ते ह॒ नाकं॑ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥

    यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् |
    ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||

    yajñéna yajñámayajanta devā́stā́ni dhármāṇi prathamā́nyāsan ǀ
    té ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ǁ

    yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
    te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

    य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ।
    ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥

    यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् ।
    ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥

    yajñéna ǀ yajñám ǀ ayajanta ǀ devā́ḥ ǀ tā́ni ǀ dhármāṇi ǀ prathamā́ni ǀ āsan ǀ
    té ǀ ha ǀ nā́kam ǀ mahimā́naḥ ǀ sacanta ǀ yátra ǀ pū́rve ǀ sādhyā́ḥ ǀ sánti ǀ devā́ḥ ǁ

    yajñena ǀ yajñam ǀ ayajanta ǀ devāḥ ǀ tāni ǀ dharmāṇi ǀ prathamāni ǀ āsan ǀ
    te ǀ ha ǀ nākam ǀ mahimānaḥ ǀ sacanta ǀ yatra ǀ pūrve ǀ sādhyāḥ ǀ santi ǀ devāḥ ǁ

    1.164.50 Aṣṭaka 2.3.23.4Anuvāka 1.22.121

  51. Ṛk 51

    स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः ।
    भूमिं॑ प॒र्जन्या॒ जिन्वं॑ति॒ दिवं॑ जिन्वंत्य॒ग्नयः॑ ॥

    समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः |
    भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ||

    samānámetádudakámúccáityáva cā́habhiḥ ǀ
    bhū́mim parjányā jínvanti dívam jinvantyagnáyaḥ ǁ

    samānam etad udakam uc caity ava cāhabhiḥ |
    bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ ||

    स॒मा॒नम् । ए॒तत् । उ॒द॒कम् । उत् । च॒ । एति॑ । अव॑ । च॒ । अह॑ऽभिः ।
    भूमि॑म् । प॒र्जन्याः॑ । जिन्व॑न्ति । दिव॑म् । जि॒न्व॒न्ति॒ । अ॒ग्नयः॑ ॥

    समानम् । एतत् । उदकम् । उत् । च । एति । अव । च । अहऽभिः ।
    भूमिम् । पर्जन्याः । जिन्वन्ति । दिवम् । जिन्वन्ति । अग्नयः ॥

    samānám ǀ etát ǀ udakám ǀ út ǀ ca ǀ éti ǀ áva ǀ ca ǀ áha-bhiḥ ǀ
    bhū́mim ǀ parjányāḥ ǀ jínvanti ǀ dívam ǀ jinvanti ǀ agnáyaḥ ǁ

    samānam ǀ etat ǀ udakam ǀ ut ǀ ca ǀ eti ǀ ava ǀ ca ǀ aha-bhiḥ ǀ
    bhūmim ǀ parjanyāḥ ǀ jinvanti ǀ divam ǀ jinvanti ǀ agnayaḥ ǁ

    1.164.51 Aṣṭaka 2.3.23.5Anuvāka 1.22.122

  52. Ṛk 52

    दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हंत॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनां ।
    अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पयं॑तं॒ सर॑स्वंत॒मव॑से जोहवीमि ॥

    दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् |
    अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ||

    divyám suparṇám vāyasám bṛhántamapā́m gárbham darśatámóṣadhīnām ǀ
    abhīpató vṛṣṭíbhistarpáyantam sárasvantamávase johavīmi ǁ

    divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām |
    abhīpato vṛṣṭibhis tarpayantaṃ sarasvantam avase johavīmi ||

    दि॒व्यम् । सु॒ऽप॒र्णम् । वा॒य॒सम् । बृ॒हन्त॑म् । अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् ।
    अ॒भी॒प॒तः । वृ॒ष्टिऽभिः॑ । त॒र्पय॑न्तम् । सर॑स्वन्तम् । अव॑से । जो॒ह॒वी॒मि॒ ॥

    दिव्यम् । सुऽपर्णम् । वायसम् । बृहन्तम् । अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् ।
    अभीपतः । वृष्टिऽभिः । तर्पयन्तम् । सरस्वन्तम् । अवसे । जोहवीमि ॥

    divyám ǀ su-parṇám ǀ vāyasám ǀ bṛhántam ǀ apā́m ǀ gárbham ǀ darśatám ǀ óṣadhīnām ǀ
    abhīpatáḥ ǀ vṛṣṭí-bhiḥ ǀ tarpáyantam ǀ sárasvantam ǀ ávase ǀ johavīmi ǁ

    divyam ǀ su-parṇam ǀ vāyasam ǀ bṛhantam ǀ apām ǀ garbham ǀ darśatam ǀ oṣadhīnām ǀ
    abhīpataḥ ǀ vṛṣṭi-bhiḥ ǀ tarpayantam ǀ sarasvantam ǀ avase ǀ johavīmi ǁ

    1.164.52 Aṣṭaka 2.3.23.6Anuvāka 1.22.123

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.164 · Viśvedevās · Vāc (A) · Apas (B) · Smoke Of Dung (A) · Soma (B) · Agni, Sūrya, Vāyu · Vāc · Sūrya · The Wheel Of The Seasons · Sarasvatī · Sādhyas · Sūrya Or Parjanya Or Agni · Sarasvat Or Sūrya

Interpretations

Ralph T. H. Griffith

Ṛk 1

OF this benignant Priest, with eld grey-coloured, the brother midmost of the three is lightning. The third is he whose back with oil is sprinkled. Here I behold the Chief with seven male children.

Ṛk 2

Seven to the one-wheeled chariot yoke the Courser; bearing seven names the single Courser draws it. Three-naved the wheel is, sound and undecaying, whereon are resting all these worlds of being.

Ṛk 3

The seven who on the seven-wheeled car are mounted have horses, seven in tale, who draw them onward. Seven Sisters utter songs of praise together, in whom the names of the seven Cows are treasured.

Ṛk 4

Who hath beheld him as he sprang to being, seen how the boneless One supports the bony? Where is the blood of earth, the life, the spirit? Who may approach the man who knows, to ask it?

Ṛk 5

Unripe in mind, in spirit undiscerning, I ask of these the Gods’ established places; For up above the yearling Calf the sages, to form a web, their own seven threads have woven.

Ṛk 6

I ask, unknowing, those who know, the sages, as one all ignorant for sake of knowledge, What was that ONE who in the Unborn's image hath stablished and fixed firm these worlds' six regions.

Ṛk 7

Let him who knoweth presently declare it, this lovely Bird's securely founded station. Forth from his head the Cows draw milk, and, wearing his vesture, with their foot have drunk the water.

Ṛk 8

The Mother gave the Sire his share of Order: with thought, at first, she wedded him in spirit. She, the coy Dame, was filled with dew prolific: with adoration men approached to praise her.

Ṛk 9

Yoked was the Mother to the boon Cow's car-pole: in the dank rows of cloud the Infant rested. Then the Calf lowed, and looked upon the Mother, the Cow who wears all shapes in three directions.

Ṛk 10

Bearing three Mothers and three Fathers, single he stood erect: they never make him weary. There on the pitch of heaven they speak together in speech all-knowing but not all-impelling.

Ṛk 11

Formed with twelve spokes, by length of time, unweakened, rolls round the heaven this wheel of during Order. Herein established, joined in pairs together, seven hundred Sons and twenty stand, O Agni.

Ṛk 12

They call him in the farther half of heaven the Sire five-footed, of twelve forms, wealthy in watery store. These others say that he, God with far-seeing eyes, is mounted on the lower seven-wheeled, six-spoked car.

Ṛk 13

Upon this five-spoked wheel revolving ever all living creatures rest and are dependent. Its axle, heavy-laden, is not heated: the nave from ancient time remains unbroken.

Ṛk 14

The wheel revolves, unwasting, with its felly: ten draw it, yoked to the far-stretching car-pole. The Sun's eye moves encompassed by the region: on him dependent rest all living creatures.

Ṛk 15

Of the co-born they call the seventh single-born; the six twin pairs are called Ṛṣis, Children of Gods. Their good gifts sought of men are ranged in order due, and various in their form move for the Lord who guides.

Ṛk 16

They told me these were males, though truly females: he who hath eyes sees this, the blind discerns not. The son who is a sage hath comprehended: who knows this rightly is his father's father.

Ṛk 17

Beneath the upper realm, above this lower, bearing her calf at foot the Cow hath risen. Witherward, to what place hath she departed? Where calves she? Not amid this herd of cattle.

Ṛk 18

Who, that the father of this Calf discerneth beneath the upper realm, above the lower, Showing himself a sage, may here declare it? Whence hath the Godlike spirit had its rising?

Ṛk 19

Those that come hitherward they call departing, those that depart they call directed hither. And what so ye have made, Indra and Soma, steeds bear as ’twere yoked to the region's car-pole.

Ṛk 20

Two Birds with fair wings, knit with bonds of friendship, in the same sheltering tree have found a refuge. One of the twain eats the sweet Fig-tree's fruitage; the other eating not regardeth only.

Ṛk 21

Where those fine Birds hymn ceaselessly their portion of life eternal, and the sacred synods, There is the Universe's mighty Keeper, who, wise, hath entered into me the simple.

Ṛk 22

The, tree whereon the fine Birds eat the sweetness, where they all rest and procreate their offspring,— Upon its top they say the fig is luscious: none gaineth it who knoweth not the Father.

Ṛk 23

How on the Gāyatrī the Gāyatrī was based, how from the Triṣṭup they fashioned the Triṣṭup forth, How on the Jagatī was based the Jagatī,—they who know this have won themselves immortal life.

Ṛk 24

With Gāyatrī he measures out the praise-song, Sāma with praise-song, triplet with the Triṣṭup. The triplet with the two or four-foot measure, and with the syllable they form seven metres.

Ṛk 25

With Jagatī the flood in heaven he stablished, and saw the Sun in the Rathantara Sāman. Gāyatrī hath, they say, three brands for kindling: hence it excels in majesty and vigour.

Ṛk 26

I invocate the milch-cow good for milking so that the milker, deft of hand, may drain her. May Savitar give goodliest stimulation. The caldron is made hot; I will proclaim it.

Ṛk 27

She, lady of all treasure, is come hither yearning in spirit for her calf and lowing. May this cow yield her milk for both the Aśvins, and may she prosper to our high advantage.

Ṛk 28

The cow hath lowed after her blinking youngling; she licks his forehead, as she lows, to form it. His mouth she fondly calls to her warm udder, and suckles him with milk while gently lowing.

Ṛk 29

He also snorts, by whom encompassed round the Cow laws as she clings unto the shedder of the rain. She with her shrilling cries hath humbled mortal man, and, turned to lightning, hath stripped off her covering robe.

Ṛk 30

That which hath breath and speed and life and motion lies firmly stablished in the midst of houses. Living, by offerings to the Dead he moveth Immortal One, the brother of the mortal.

Ṛk 31

I saw the Herdsman, him who never stumbles, approaching by his pathways and departing. He, clothed with gathered and diffusive splendour, within the worlds continually travels.

Ṛk 32

He who hath made him cloth not comprehend him: from him who saw him surely is he hidden. He, yet enveloped in his Mother's bosom, source of much life, hath sunk into destruction.

Ṛk 33

Dyaus is my Father, my begetter: kinship is here. This great earth is my kin and Mother. Between the wide-spread world-halves is the birth-place: the Father laid the Daughter's germ within it.

Ṛk 34

I ask thee of the earth's extremest limit, where is the centre of the world, I ask thee. I ask thee of the Stallion's seed prolific, I ask of highest heaven where Speech abideth.

Ṛk 35

This altar is the earth's extremest limit; this sacrifice of ours is the world's centre. The Stallion's seed prolific is the Soma; this Brahman highest heaven where Speech abideth.

Ṛk 36

Seven germs unripened yet are heaven's prolific seed: their functions they maintain by Viṣṇu's ordinance. Endued with wisdom through intelligence and thought, they compass us about present on every side.

Ṛk 37

What thing I truly am I know not clearly: mysterious, fettered in my mind I wander. When the first-born of holy Law approached me, then of this speech I first obtain a portion.

Ṛk 38

Back, forward goes he, grasped by strength inherent, the Immortal born the brother of the mortal Ceaseless they move in opposite directions: men mark the one, and fail to mark the other.

Ṛk 39

Upon what syllable of holy praise-song, as twere their highest heaven, the Gods repose them,— Who knows not this, what will he do with praise-song? But they who know it well sit here assembled.

Ṛk 40

Fortunate mayst thou be with goodly pasture, and may we also be exceeding wealthy. Feed on the grass, O Cow, at every season, and coming hitherward drink limpid water.

Ṛk 41

Forming the water-floods, the buffalo hath lowed, one-footed or two-footed or four-footed, she, Who hath become eight-footed or hath got nine feet, the thousand-syllabled in the sublimest heaven.

Ṛk 42

From her descend in streams the seas of water; thereby the world's four regions have their being, Thence flows the imperishable flood and thence the universe hath life.

Ṛk 43

I saw from far away the smoke of fuel with spires that rose on high o’er that beneath it. The Mighty Men have dressed the spotted bullock. These were the customs in the days aforetime,

Ṛk 44

Three with long tresses show in ordered season. One of them sheareth when the year is ended. One with his powers the universe regardeth: Of one, the sweep is seen, but his figure.

Ṛk 45

Speech hath been measured out in four divisions, the Brahmans who have understanding know them. Three kept in close concealment cause no motion; of speech, men speak only the fourth division.

Ṛk 46

They call him Indra, Mitra, Varuṇa, Agni, and he is heavenly nobly-winged Garutmān. To what is One, sages give many a title they call it Agni, Yama, Mātariśvan.

Ṛk 47

Dark the descent: the birds are golden-coloured; up to the heaven they fly robed in the waters. Again descend they from the seat of Order, and all the earth is moistened with their fatness.

Ṛk 48

Twelve are the fellies, and the wheel is single; three are the naves. What man hath understood it? Therein are set together spokes three hundred and sixty, which in nowise can be loosened.

Ṛk 49

That breast of thine exhaustless, spring of pleasure, wherewith thou feedest all things that are choicest, Wealth-giver, treasure. finder, free bestower,—bring that, Sarasvatī, that we may drain it.

Ṛk 50

By means of sacrifice the Gods accomplished their sacrifice: these were the earliest ordinances. These Mighty Ones attained the height of heaven, there where the Sādhyas, Gods of old, are dwelling.

Ṛk 51

Uniform, with the passing days, this water mounts and fails again. The tempest-clouds give life to earth, and fires re-animate the heaven.