Ṛgveda · Maṇḍala 1

Sūkta 36

Agni · Kaṇva Ghaura · 20 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Kaṇva Ghaura
Chandas छन्दस्
Bṛhatī, Satobṛhatī
Metres by ṛk

1st set of styles bhuriganuṣṭup (1, 12); nicṛtpathyābṛhatī (3, 11); bṛhatī (7, 16); nicṛdviṣṭārapaṅkti (10, 14); nicṛtsataḥ paṅkti (2); nicṛtpaṅkti (4); nicṛdbṛhatī (5); bhurigbṛhatī (6); svarāḍbṛhatī (8); nicṛdupariṣṭād bṛhatī (9); upariṣṭād bṛhatī (13); virāṭpathyābṛhatī (15); virāḍupariṣṭād bṛhatī (17); viṣṭārapaṅktiḥ (18); pathyāvṛhatī (19); sataḥpaṅkti (20)

2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20)

  1. Ṛk 1

    प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीनां॑ ।
    अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥

    प्र वो यह्वम् पुरूणां विशां देवयतीनाम् |
    अग्निं सूक्तेभिर् वचोभिर् ईमहे यं सीम् इद् अन्य ईऌअते ||

    prá vo yahvám purūṇā́m viśā́m devayatī́nām ǀ
    agním sūktébhirvácobhirīmahe yám sīmídanyá ī́ḷate ǁ

    pra vo yahvam purūṇāṃ viśāṃ devayatīnām |
    agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḷate ||

    प्र । वः॒ । य॒ह्वम् । पु॒रू॒णाम् । वि॒शाम् । दे॒व॒ऽय॒तीना॑म् ।
    अ॒ग्निम् । सु॒ऽउ॒क्तेभिः॑ । वचः॑ऽभिः । ई॒म॒हे॒ । यम् । सी॒म् । इत् । अ॒न्ये । ईळ॑ते ॥

    प्र । वः । यह्वम् । पुरूणाम् । विशाम् । देवऽयतीनाम् ।
    अग्निम् । सुऽउक्तेभिः । वचःऽभिः । ईमहे । यम् । सीम् । इत् । अन्ये । ईळते ॥

    prá ǀ vaḥ ǀ yahvám ǀ purūṇā́m ǀ viśā́m ǀ deva-yatī́nām ǀ
    agním ǀ su-uktébhiḥ ǀ vácaḥ-bhiḥ ǀ īmahe ǀ yám ǀ sīm ǀ ít ǀ anyé ǀ ī́ḷate ǁ

    pra ǀ vaḥ ǀ yahvam ǀ purūṇām ǀ viśām ǀ deva-yatīnām ǀ
    agnim ǀ su-uktebhiḥ ǀ vacaḥ-bhiḥ ǀ īmahe ǀ yam ǀ sīm ǀ it ǀ anye ǀ īḷate ǁ

    1.36.1 Aṣṭaka 1.3.8.1Anuvāka 1.8.1

  2. Ṛk 2

    जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्मं॑तो विधेम ते ।
    स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु संत्य ॥

    जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते |
    स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ||

    jánāso agním dadhire sahovṛ́dham havíṣmanto vidhema te ǀ
    sá tvám no adyá sumánā ihā́vitā́ bhávā vā́jeṣu santya ǁ

    janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te |
    sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya ||

    जना॑सः । अ॒ग्निम् । द॒धि॒रे॒ । स॒हः॒ऽवृध॑म् । ह॒विष्म॑न्तः । वि॒धे॒म॒ । ते॒ ।
    सः । त्वम् । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । इ॒ह । अ॒वि॒ता । भव॑ । वाजे॑षु । स॒न्त्य॒ ॥

    जनासः । अग्निम् । दधिरे । सहःऽवृधम् । हविष्मन्तः । विधेम । ते ।
    सः । त्वम् । नः । अद्य । सुऽमनाः । इह । अविता । भव । वाजेषु । सन्त्य ॥

    jánāsaḥ ǀ agním ǀ dadhire ǀ sahaḥ-vṛ́dham ǀ havíṣmantaḥ ǀ vidhema ǀ te ǀ
    sáḥ ǀ tvám ǀ naḥ ǀ adyá ǀ su-mánāḥ ǀ ihá ǀ avitā́ ǀ bháva ǀ vā́jeṣu ǀ santya ǁ

    janāsaḥ ǀ agnim ǀ dadhire ǀ sahaḥ-vṛdham ǀ haviṣmantaḥ ǀ vidhema ǀ te ǀ
    saḥ ǀ tvam ǀ naḥ ǀ adya ǀ su-manāḥ ǀ iha ǀ avitā ǀ bhava ǀ vājeṣu ǀ santya ǁ

    1.36.2 Aṣṭaka 1.3.8.2Anuvāka 1.8.2

  3. Ṛk 3

    प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसं ।
    म॒हस्ते॑ स॒तो वि च॑रंत्य॒र्चयो॑ दि॒वि स्पृ॑शंति भा॒नवः॑ ॥

    प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् |
    महस् ते सतो वि चरन्त्य् अर्चयो दिवि स्पृशन्ति भानवः ||

    prá tvā dūtám vṛṇīmahe hótāram viśvávedasam ǀ
    maháste sató ví carantyarcáyo diví spṛśanti bhānávaḥ ǁ

    pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
    mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ ||

    प्र । त्वा॒ । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ।
    म॒हः । ते॒ । स॒तः । वि । च॒र॒न्ति॒ । अ॒र्चयः॑ । दि॒वि । स्पृ॒श॒न्ति॒ । भा॒नवः॑ ॥

    प्र । त्वा । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ।
    महः । ते । सतः । वि । चरन्ति । अर्चयः । दिवि । स्पृशन्ति । भानवः ॥

    prá ǀ tvā ǀ dūtám ǀ vṛṇīmahe ǀ hótāram ǀ viśvá-vedasam ǀ
    maháḥ ǀ te ǀ satáḥ ǀ ví ǀ caranti ǀ arcáyaḥ ǀ diví ǀ spṛśanti ǀ bhānávaḥ ǁ

    pra ǀ tvā ǀ dūtam ǀ vṛṇīmahe ǀ hotāram ǀ viśva-vedasam ǀ
    mahaḥ ǀ te ǀ sataḥ ǀ vi ǀ caranti ǀ arcayaḥ ǀ divi ǀ spṛśanti ǀ bhānavaḥ ǁ

    1.36.3 Aṣṭaka 1.3.8.3Anuvāka 1.8.3

  4. Ṛk 4

    दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमिं॑धते ।
    विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्यः॑ ॥

    देवासस् त्वा वरुणो मित्रो अर्यमा सं दूतम् प्रत्नम् इन्धते |
    विश्वं सो अग्ने जयति त्वया धनं यस् ते ददाश मर्त्यः ||

    devā́sastvā váruṇo mitró aryamā́ sám dūtám pratnámindhate ǀ
    víśvam só agne jayati tváyā dhánam yáste dadā́śa mártyaḥ ǁ

    devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate |
    viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ ||

    दे॒वासः॑ । त्वा॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सम् । दू॒तम् । प्र॒त्नम् । इ॒न्ध॒ते॒ ।
    विश्व॑म् । सः । अ॒ग्ने॒ । ज॒य॒ति॒ । त्वया॑ । धन॑म् । यः । ते॒ । द॒दाश॑ । मर्त्यः॑ ॥

    देवासः । त्वा । वरुणः । मित्रः । अर्यमा । सम् । दूतम् । प्रत्नम् । इन्धते ।
    विश्वम् । सः । अग्ने । जयति । त्वया । धनम् । यः । ते । ददाश । मर्त्यः ॥

    devā́saḥ ǀ tvā ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ sám ǀ dūtám ǀ pratnám ǀ indhate ǀ
    víśvam ǀ sáḥ ǀ agne ǀ jayati ǀ tváyā ǀ dhánam ǀ yáḥ ǀ te ǀ dadā́śa ǀ mártyaḥ ǁ

    devāsaḥ ǀ tvā ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ sam ǀ dūtam ǀ pratnam ǀ indhate ǀ
    viśvam ǀ saḥ ǀ agne ǀ jayati ǀ tvayā ǀ dhanam ǀ yaḥ ǀ te ǀ dadāśa ǀ martyaḥ ǁ

    1.36.4 Aṣṭaka 1.3.8.4Anuvāka 1.8.4

  5. Ṛk 5

    मं॒द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि ।
    त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥

    मन्द्रो होता गृहपतिर् अग्ने दूतो विशाम् असि |
    त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ||

    mandró hótā gṛhápatirágne dūtó viśā́masi ǀ
    tvé víśvā sáṃgatāni vratā́ dhruvā́ yā́ni devā́ ákṛṇvata ǁ

    mandro hotā gṛhapatir agne dūto viśām asi |
    tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata ||

    म॒न्द्रः । होता॑ । गृ॒हऽप॑तिः । अग्ने॑ । दू॒तः । वि॒शाम् । अ॒सि॒ ।
    त्वे इति॑ । विश्वा॑ । सम्ऽग॑तानि । व्र॒ता । ध्रु॒वा । यानि॑ । दे॒वाः । अकृ॑ण्वत ॥

    मन्द्रः । होता । गृहऽपतिः । अग्ने । दूतः । विशाम् । असि ।
    त्वे इति । विश्वा । सम्ऽगतानि । व्रता । ध्रुवा । यानि । देवाः । अकृण्वत ॥

    mandráḥ ǀ hótā ǀ gṛhá-patiḥ ǀ ágne ǀ dūtáḥ ǀ viśā́m ǀ asi ǀ
    tvé íti ǀ víśvā ǀ sám-gatāni ǀ vratā́ ǀ dhruvā́ ǀ yā́ni ǀ devā́ḥ ǀ ákṛṇvata ǁ

    mandraḥ ǀ hotā ǀ gṛha-patiḥ ǀ agne ǀ dūtaḥ ǀ viśām ǀ asi ǀ
    tve iti ǀ viśvā ǀ sam-gatāni ǀ vratā ǀ dhruvā ǀ yāni ǀ devāḥ ǀ akṛṇvata ǁ

    1.36.5 Aṣṭaka 1.3.8.5Anuvāka 1.8.5

  6. Ṛk 6

    त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।
    स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्त्सु॒वीर्या॑ ॥

    त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः |
    स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ||

    tvé ídagne subháge yaviṣṭhya víśvamā́ hūyate havíḥ ǀ
    sá tvám no adyá sumánā utā́parám yákṣi devā́ntsuvī́ryā ǁ

    tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ |
    sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā ||

    त्वे इति॑ । इत् । अ॒ग्ने॒ । सु॒ऽभगे॑ । य॒वि॒ष्ठ्य॒ । विश्व॑म् । आ । हू॒य॒ते॒ । ह॒विः ।
    सः । त्वम् । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒त । अ॒प॒रम् । यक्षि॑ । दे॒वान् । सु॒ऽवीर्या॑ ॥

    त्वे इति । इत् । अग्ने । सुऽभगे । यविष्ठ्य । विश्वम् । आ । हूयते । हविः ।
    सः । त्वम् । नः । अद्य । सुऽमनाः । उत । अपरम् । यक्षि । देवान् । सुऽवीर्या ॥

    tvé íti ǀ ít ǀ agne ǀ su-bháge ǀ yaviṣṭhya ǀ víśvam ǀ ā́ ǀ hūyate ǀ havíḥ ǀ
    sáḥ ǀ tvám ǀ naḥ ǀ adyá ǀ su-mánāḥ ǀ utá ǀ aparám ǀ yákṣi ǀ devā́n ǀ su-vī́ryā ǁ

    tve iti ǀ it ǀ agne ǀ su-bhage ǀ yaviṣṭhya ǀ viśvam ǀ ā ǀ hūyate ǀ haviḥ ǀ
    saḥ ǀ tvam ǀ naḥ ǀ adya ǀ su-manāḥ ǀ uta ǀ aparam ǀ yakṣi ǀ devān ǀ su-vīryā ǁ

    1.36.6 Aṣṭaka 1.3.9.1Anuvāka 1.8.6

  7. Ṛk 7

    तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
    होत्रा॑भिर॒ग्निं मनु॑षः॒ समिं॑धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥

    तं घेम् इत्था नमस्विन उप स्वराजम् आसते |
    होत्राभिर् अग्निम् मनुषः सम् इन्धते तितिर्वांसो अति स्रिधः ||

    tám ghemitthā́ namasvína úpa svarā́jamāsate ǀ
    hótrābhiragním mánuṣaḥ sámindhate titirvā́ṃso áti srídhaḥ ǁ

    taṃ ghem itthā namasvina upa svarājam āsate |
    hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ ||

    तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।
    होत्रा॑भिः । अ॒ग्निम् । मनु॑षः । सम् । इ॒न्ध॒ते॒ । ति॒ति॒र्वांसः॑ । अति॑ । स्रिधः॑ ॥

    तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्वऽराजम् । आसते ।
    होत्राभिः । अग्निम् । मनुषः । सम् । इन्धते । तितिर्वांसः । अति । स्रिधः ॥

    tám ǀ gha ǀ īm ǀ itthā́ ǀ namasvínaḥ ǀ úpa ǀ sva-rā́jam ǀ āsate ǀ
    hótrābhiḥ ǀ agním ǀ mánuṣaḥ ǀ sám ǀ indhate ǀ titirvā́ṃsaḥ ǀ áti ǀ srídhaḥ ǁ

    tam ǀ gha ǀ īm ǀ itthā ǀ namasvinaḥ ǀ upa ǀ sva-rājam ǀ āsate ǀ
    hotrābhiḥ ǀ agnim ǀ manuṣaḥ ǀ sam ǀ indhate ǀ titirvāṃsaḥ ǀ ati ǀ sridhaḥ ǁ

    1.36.7 Aṣṭaka 1.3.9.2Anuvāka 1.8.7

  8. Ṛk 8

    घ्नंतो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे ।
    भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑तः॒ क्रंद॒दश्वो॒ गवि॑ष्टिषु ॥

    घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे |
    भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ||

    ghnánto vṛtrámataranródasī apá urú kṣáyāya cakrire ǀ
    bhúvatkáṇve vṛ́ṣā dyumnyā́hutaḥ krándadáśvo gáviṣṭiṣu ǁ

    ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire |
    bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu ||

    घ्नन्तः॑ । वृ॒त्रम् । अ॒त॒र॒न् । रोद॑सी॒ इति॑ । अ॒पः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ ।
    भुव॑त् । कण्वे॑ । वृषा॑ । द्यु॒म्नी । आऽहु॑तः । क्रन्द॑त् । अश्वः॑ । गोऽइ॑ष्टिषु ॥

    घ्नन्तः । वृत्रम् । अतरन् । रोदसी इति । अपः । उरु । क्षयाय । चक्रिरे ।
    भुवत् । कण्वे । वृषा । द्युम्नी । आऽहुतः । क्रन्दत् । अश्वः । गोऽइष्टिषु ॥

    ghnántaḥ ǀ vṛtrám ǀ ataran ǀ ródasī íti ǀ apáḥ ǀ urú ǀ kṣáyāya ǀ cakrire ǀ
    bhúvat ǀ káṇve ǀ vṛ́ṣā ǀ dyumnī́ ǀ ā́-hutaḥ ǀ krándat ǀ áśvaḥ ǀ gó-iṣṭiṣu ǁ

    ghnantaḥ ǀ vṛtram ǀ ataran ǀ rodasī iti ǀ apaḥ ǀ uru ǀ kṣayāya ǀ cakrire ǀ
    bhuvat ǀ kaṇve ǀ vṛṣā ǀ dyumnī ǀ ā-hutaḥ ǀ krandat ǀ aśvaḥ ǀ go-iṣṭiṣu ǁ

    1.36.8 Aṣṭaka 1.3.9.3Anuvāka 1.8.8

  9. Ṛk 9

    सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
    वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तं ॥

    सं सीदस्व महां असि शोचस्व देववीतमः |
    वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ||

    sám sīdasva mahā́m̐ asi śócasva devavī́tamaḥ ǀ
    ví dhūmámagne aruṣám miyedhya sṛjá praśasta darśatám ǁ

    saṃ sīdasva mahāṃ asi śocasva devavītamaḥ |
    vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam ||

    सम् । सी॒द॒स्व॒ । म॒हान् । अ॒सि॒ । शोच॑स्व । दे॒व॒ऽवीत॑मः ।
    वि । धू॒मम् । अ॒ग्ने॒ । अ॒रु॒षम् । मि॒ये॒ध्य॒ । सृ॒ज । प्र॒ऽश॒स्त॒ । द॒र्श॒तम् ॥

    सम् । सीदस्व । महान् । असि । शोचस्व । देवऽवीतमः ।
    वि । धूमम् । अग्ने । अरुषम् । मियेध्य । सृज । प्रऽशस्त । दर्शतम् ॥

    sám ǀ sīdasva ǀ mahā́n ǀ asi ǀ śócasva ǀ deva-vī́tamaḥ ǀ
    ví ǀ dhūmám ǀ agne ǀ aruṣám ǀ miyedhya ǀ sṛjá ǀ pra-śasta ǀ darśatám ǁ

    sam ǀ sīdasva ǀ mahān ǀ asi ǀ śocasva ǀ deva-vītamaḥ ǀ
    vi ǀ dhūmam ǀ agne ǀ aruṣam ǀ miyedhya ǀ sṛja ǀ pra-śasta ǀ darśatam ǁ

    1.36.9 Aṣṭaka 1.3.9.4Anuvāka 1.8.9

  10. Ṛk 10

    यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन ।
    यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥

    यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन |
    यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ||

    yám tvā devā́so mánave dadhúrihá yájiṣṭham havyavāhana ǀ
    yám káṇvo médhyātithirdhanaspṛ́tam yám vṛ́ṣā yámupastutáḥ ǁ

    yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana |
    yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ ||

    यम् । त्वा॒ । दे॒वासः॑ । मन॑वे । द॒धुः । इ॒ह । यजि॑ष्ठम् । ह॒व्य॒ऽवा॒ह॒न॒ ।
    यम् । कण्वः॑ । मेध्य॑ऽअतिथिः । ध॒न॒ऽस्पृत॑म् । यम् । वृषा॑ । यम् । उ॒प॒ऽस्तु॒तः ॥

    यम् । त्वा । देवासः । मनवे । दधुः । इह । यजिष्ठम् । हव्यऽवाहन ।
    यम् । कण्वः । मेध्यऽअतिथिः । धनऽस्पृतम् । यम् । वृषा । यम् । उपऽस्तुतः ॥

    yám ǀ tvā ǀ devā́saḥ ǀ mánave ǀ dadhúḥ ǀ ihá ǀ yájiṣṭham ǀ havya-vāhana ǀ
    yám ǀ káṇvaḥ ǀ médhya-atithiḥ ǀ dhana-spṛ́tam ǀ yám ǀ vṛ́ṣā ǀ yám ǀ upa-stutáḥ ǁ

    yam ǀ tvā ǀ devāsaḥ ǀ manave ǀ dadhuḥ ǀ iha ǀ yajiṣṭham ǀ havya-vāhana ǀ
    yam ǀ kaṇvaḥ ǀ medhya-atithiḥ ǀ dhana-spṛtam ǀ yam ǀ vṛṣā ǀ yam ǀ upa-stutaḥ ǁ

    1.36.10 Aṣṭaka 1.3.9.5Anuvāka 1.8.10

  11. Ṛk 11

    यम॒ग्निं मेध्या॑तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ ।
    तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥

    यम् अग्निम् मेध्यातिथिः कण्व ईध ऋताद् अधि |
    तस्य प्रेषो दीदियुस् तम् इमा ऋचस् तम् अग्निं वर्धयामसि ||

    yámagním médhyātithiḥ káṇva īdhá ṛtā́dádhi ǀ
    tásya préṣo dīdiyustámimā́ ṛ́castámagním vardhayāmasi ǁ

    yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi |
    tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi ||

    यम् । अ॒ग्निम् । मेध्य॑ऽअतिथिः । कण्वः॑ । ई॒धे । ऋ॒तात् । अधि॑ ।
    तस्य॑ । प्र । इषः॑ । दी॒दि॒युः॒ । तम् । इ॒माः । ऋचः॑ । तम् । अ॒ग्निम् । व॒र्ध॒या॒म॒सि॒ ॥

    यम् । अग्निम् । मेध्यऽअतिथिः । कण्वः । ईधे । ऋतात् । अधि ।
    तस्य । प्र । इषः । दीदियुः । तम् । इमाः । ऋचः । तम् । अग्निम् । वर्धयामसि ॥

    yám ǀ agním ǀ médhya-atithiḥ ǀ káṇvaḥ ǀ īdhé ǀ ṛtā́t ǀ ádhi ǀ
    tásya ǀ prá ǀ íṣaḥ ǀ dīdiyuḥ ǀ tám ǀ imā́ḥ ǀ ṛ́caḥ ǀ tám ǀ agním ǀ vardhayāmasi ǁ

    yam ǀ agnim ǀ medhya-atithiḥ ǀ kaṇvaḥ ǀ īdhe ǀ ṛtāt ǀ adhi ǀ
    tasya ǀ pra ǀ iṣaḥ ǀ dīdiyuḥ ǀ tam ǀ imāḥ ǀ ṛcaḥ ǀ tam ǀ agnim ǀ vardhayāmasi ǁ

    1.36.11 Aṣṭaka 1.3.10.1Anuvāka 1.8.11

  12. Ṛk 12

    रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्यं॑ ।
    त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥

    रायस् पूर्धि स्वधावो ऽस्ति हि ते ऽग्ने देवेष्व् आप्यम् |
    त्वं वाजस्य श्रुत्यस्य राजसि स नो मृऌअ महां असि ||

    rāyáspūrdhi svadhāvó’sti hí té’gne devéṣvā́pyam ǀ
    tvám vā́jasya śrútyasya rājasi sá no mṛḷa mahā́m̐ asi ǁ

    rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam |
    tvaṃ vājasya śrutyasya rājasi sa no mṛḷa mahāṃ asi ||

    रा॒यः । पू॒र्धि॒ । स्व॒धा॒ऽवः॒ । अस्ति॑ । हि । ते॒ । अ॒ग्ने॒ । दे॒वेषु॑ । आप्य॑म् ।
    त्वम् । वाज॑स्य । श्रुत्य॑स्य । रा॒ज॒सि॒ । सः । नः॒ । मृ॒ळ॒ । म॒हान् । अ॒सि॒ ॥

    रायः । पूर्धि । स्वधाऽवः । अस्ति । हि । ते । अग्ने । देवेषु । आप्यम् ।
    त्वम् । वाजस्य । श्रुत्यस्य । राजसि । सः । नः । मृळ । महान् । असि ॥

    rāyáḥ ǀ pūrdhi ǀ svadhā-vaḥ ǀ ásti ǀ hí ǀ te ǀ agne ǀ devéṣu ǀ ā́pyam ǀ
    tvám ǀ vā́jasya ǀ śrútyasya ǀ rājasi ǀ sáḥ ǀ naḥ ǀ mṛḷa ǀ mahā́n ǀ asi ǁ

    rāyaḥ ǀ pūrdhi ǀ svadhā-vaḥ ǀ asti ǀ hi ǀ te ǀ agne ǀ deveṣu ǀ āpyam ǀ
    tvam ǀ vājasya ǀ śrutyasya ǀ rājasi ǀ saḥ ǀ naḥ ǀ mṛḷa ǀ mahān ǀ asi ǁ

    1.36.12 Aṣṭaka 1.3.10.2Anuvāka 1.8.12

  13. Ṛk 13

    ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
    ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यदं॒जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥

    ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता |
    ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ||

    ūrdhvá ū ṣú ṇa ūtáye tíṣṭhā devó ná savitā́ ǀ
    ūrdhvó vā́jasya sánitā yádañjíbhirvāghádbhirvihváyāmahe ǁ

    ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
    ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe ||

    ऊ॒र्ध्वः । ऊं॒ इति॑ । सु । नः॒ । ऊ॒तये॑ । तिष्ठ॑ । दे॒वः । न । स॒वि॒ता ।
    ऊ॒र्ध्वः । वाज॑स्य । सनि॑ता । यत् । अ॒ञ्जिऽभिः॑ । वा॒घत्ऽभिः॑ । वि॒ऽह्वया॑महे ॥

    ऊर्ध्वः । ऊं इति । सु । नः । ऊतये । तिष्ठ । देवः । न । सविता ।
    ऊर्ध्वः । वाजस्य । सनिता । यत् । अञ्जिऽभिः । वाघत्ऽभिः । विऽह्वयामहे ॥

    ūrdhváḥ ǀ ūṃ íti ǀ sú ǀ naḥ ǀ ūtáye ǀ tíṣṭha ǀ deváḥ ǀ ná ǀ savitā́ ǀ
    ūrdhváḥ ǀ vā́jasya ǀ sánitā ǀ yát ǀ añjí-bhiḥ ǀ vāghát-bhiḥ ǀ vi-hváyāmahe ǁ

    ūrdhvaḥ ǀ ūṃ iti ǀ su ǀ naḥ ǀ ūtaye ǀ tiṣṭha ǀ devaḥ ǀ na ǀ savitā ǀ
    ūrdhvaḥ ǀ vājasya ǀ sanitā ǀ yat ǀ añji-bhiḥ ǀ vāghat-bhiḥ ǀ vi-hvayāmahe ǁ

    1.36.13 Aṣṭaka 1.3.10.3Anuvāka 1.8.13

  14. Ṛk 14

    ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह ।
    कृ॒धी न॑ ऊ॒र्ध्वांच॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥

    ऊर्ध्वो नः पाह्य् अंहसो नि केतुना विश्वं सम् अत्रिणं दह |
    कृधी न ऊर्ध्वाञ् चरथाय जीवसे विदा देवेषु नो दुवः ||

    ūrdhvó naḥ pāhyáṃhaso ní ketúnā víśvam sámatríṇam daha ǀ
    kṛdhī́ na ūrdhvā́ñcaráthāya jīváse vidā́ devéṣu no dúvaḥ ǁ

    ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha |
    kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ ||

    ऊ॒र्ध्वः । नः॒ । पा॒हि॒ । अंह॑सः । नि । के॒तुना॑ । विश्व॑म् । सम् । अ॒त्रिण॑म् । द॒ह॒ ।
    कृ॒धि । नः॒ । ऊ॒र्ध्वान् । च॒रथा॑य । जी॒वसे॑ । वि॒दाः । दे॒वेषु॑ । नः॒ । दुवः॑ ॥

    ऊर्ध्वः । नः । पाहि । अंहसः । नि । केतुना । विश्वम् । सम् । अत्रिणम् । दह ।
    कृधि । नः । ऊर्ध्वान् । चरथाय । जीवसे । विदाः । देवेषु । नः । दुवः ॥

    ūrdhváḥ ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǀ ní ǀ ketúnā ǀ víśvam ǀ sám ǀ atríṇam ǀ daha ǀ
    kṛdhí ǀ naḥ ǀ ūrdhvā́n ǀ caráthāya ǀ jīváse ǀ vidā́ḥ ǀ devéṣu ǀ naḥ ǀ dúvaḥ ǁ

    ūrdhvaḥ ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǀ ni ǀ ketunā ǀ viśvam ǀ sam ǀ atriṇam ǀ daha ǀ
    kṛdhi ǀ naḥ ǀ ūrdhvān ǀ carathāya ǀ jīvase ǀ vidāḥ ǀ deveṣu ǀ naḥ ǀ duvaḥ ǁ

    1.36.14 Aṣṭaka 1.3.10.4Anuvāka 1.8.14

  15. Ṛk 15

    पा॒हि नो॑ अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा॑व्णः ।
    पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥

    पाहि नो अग्ने रक्षसः पाहि धूर्तेर् अराव्णः |
    पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ||

    pāhí no agne rakṣásaḥ pāhí dhūrtérárāvṇaḥ ǀ
    pāhí rī́ṣata utá vā jíghāṃsato bṛ́hadbhāno yáviṣṭhya ǁ

    pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ |
    pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya ||

    पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । पा॒हि । धू॒र्तेः । अरा॑व्णः ।
    पा॒हि । रिष॑तः । उ॒त । वा॒ । जिघां॑सतः । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । यवि॑ष्ठ्य ॥

    पाहि । नः । अग्ने । रक्षसः । पाहि । धूर्तेः । अराव्णः ।
    पाहि । रिषतः । उत । वा । जिघांसतः । बृहद्भानो इति बृहत्ऽभानो । यविष्ठ्य ॥

    pāhí ǀ naḥ ǀ agne ǀ rakṣásaḥ ǀ pāhí ǀ dhūrtéḥ ǀ árāvṇaḥ ǀ
    pāhí ǀ ríṣataḥ ǀ utá ǀ vā ǀ jíghāṃsataḥ ǀ bṛ́hadbhāno íti bṛ́hat-bhāno ǀ yáviṣṭhya ǁ

    pāhi ǀ naḥ ǀ agne ǀ rakṣasaḥ ǀ pāhi ǀ dhūrteḥ ǀ arāvṇaḥ ǀ
    pāhi ǀ riṣataḥ ǀ uta ǀ vā ǀ jighāṃsataḥ ǀ bṛhadbhāno iti bṛhat-bhāno ǀ yaviṣṭhya ǁ

    1.36.15 Aṣṭaka 1.3.10.5Anuvāka 1.8.15

  16. Ṛk 16

    घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जंभ॒ यो अ॑स्म॒ध्रुक् ।
    यो मर्त्यः॒ शिशी॑ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी॑शत ॥

    घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् |
    यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ||

    ghanéva víṣvagví jahyárāvṇastápurjambha yó asmadhrúk ǀ
    yó mártyaḥ śíśīte átyaktúbhirmā́ naḥ sá ripúrīśata ǁ

    ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk |
    yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata ||

    घ॒नाऽइ॑व । विष्व॑क् । वि । ज॒हि॒ । अरा॑व्णः । तपुः॑ऽजम्भ । यः । अ॒स्म॒ऽध्रुक् ।
    यः । मर्त्यः॑ । शिशी॑ते । अति॑ । अ॒क्तुऽभिः॑ । मा । नः॒ । सः । रि॒पुः । ई॒श॒त॒ ॥

    घनाऽइव । विष्वक् । वि । जहि । अराव्णः । तपुःऽजम्भ । यः । अस्मऽध्रुक् ।
    यः । मर्त्यः । शिशीते । अति । अक्तुऽभिः । मा । नः । सः । रिपुः । ईशत ॥

    ghanā́-iva ǀ víṣvak ǀ ví ǀ jahi ǀ árāvṇaḥ ǀ tápuḥ-jambha ǀ yáḥ ǀ asma-dhrúk ǀ
    yáḥ ǀ mártyaḥ ǀ śíśīte ǀ áti ǀ aktú-bhiḥ ǀ mā́ ǀ naḥ ǀ sáḥ ǀ ripúḥ ǀ īśata ǁ

    ghanā-iva ǀ viṣvak ǀ vi ǀ jahi ǀ arāvṇaḥ ǀ tapuḥ-jambha ǀ yaḥ ǀ asma-dhruk ǀ
    yaḥ ǀ martyaḥ ǀ śiśīte ǀ ati ǀ aktu-bhiḥ ǀ mā ǀ naḥ ǀ saḥ ǀ ripuḥ ǀ īśata ǁ

    1.36.16 Aṣṭaka 1.3.11.1Anuvāka 1.8.16

  17. Ṛk 17

    अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गं ।
    अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तं ॥

    अग्निर् वव्ने सुवीर्यम् अग्निः कण्वाय सौभगम् |
    अग्निः प्रावन् मित्रोत मेध्यातिथिम् अग्निः साता उपस्तुतम् ||

    agnírvavne suvī́ryamagníḥ káṇvāya sáubhagam ǀ
    agníḥ prā́vanmitrótá médhyātithimagníḥ sātā́ upastutám ǁ

    agnir vavne suvīryam agniḥ kaṇvāya saubhagam |
    agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam ||

    अ॒ग्निः । व॒व्ने॒ । सु॒ऽवीर्य॑म् । अ॒ग्निः । कण्वा॑य । सौभ॑गम् ।
    अ॒ग्निः । प्र । आ॒व॒त् । मि॒त्रा । उ॒त । मेध्य॑ऽअतिथिम् । अ॒ग्निः । सा॒तौ । उ॒प॒ऽस्तु॒तम् ॥

    अग्निः । वव्ने । सुऽवीर्यम् । अग्निः । कण्वाय । सौभगम् ।
    अग्निः । प्र । आवत् । मित्रा । उत । मेध्यऽअतिथिम् । अग्निः । सातौ । उपऽस्तुतम् ॥

    agníḥ ǀ vavne ǀ su-vī́ryam ǀ agníḥ ǀ káṇvāya ǀ sáubhagam ǀ
    agníḥ ǀ prá ǀ āvat ǀ mitrā́ ǀ utá ǀ médhya-atithim ǀ agníḥ ǀ sātáu ǀ upa-stutám ǁ

    agniḥ ǀ vavne ǀ su-vīryam ǀ agniḥ ǀ kaṇvāya ǀ saubhagam ǀ
    agniḥ ǀ pra ǀ āvat ǀ mitrā ǀ uta ǀ medhya-atithim ǀ agniḥ ǀ sātau ǀ upa-stutam ǁ

    1.36.17 Aṣṭaka 1.3.11.2Anuvāka 1.8.17

  18. Ṛk 18

    अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे ।
    अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ॥

    अग्निना तुर्वशं यदुम् परावत उग्रादेवं हवामहे |
    अग्निर् नयन् नववास्त्वम् बृहद्रथं तुर्वीतिं दस्यवे सहः ||

    agnínā turváśam yádum parāváta ugrā́devam havāmahe ǀ
    agnírnayannávavāstvam bṛhádratham turvī́tim dásyave sáhaḥ ǁ

    agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe |
    agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ ||

    अ॒ग्निना॑ । तु॒र्वश॑म् । यदु॑म् । प॒रा॒ऽवतः॑ । उ॒ग्रऽदे॑वम् । ह॒वा॒म॒हे॒ ।
    अ॒ग्निः । न॒य॒त् । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । तु॒र्वीति॑म् । दस्य॑वे । सहः॑ ॥

    अग्निना । तुर्वशम् । यदुम् । पराऽवतः । उग्रऽदेवम् । हवामहे ।
    अग्निः । नयत् । नवऽवास्त्वम् । बृहत्ऽरथम् । तुर्वीतिम् । दस्यवे । सहः ॥

    agnínā ǀ turváśam ǀ yádum ǀ parā-vátaḥ ǀ ugrá-devam ǀ havāmahe ǀ
    agníḥ ǀ nayat ǀ náva-vāstvam ǀ bṛhát-ratham ǀ turvī́tim ǀ dásyave ǀ sáhaḥ ǁ

    agninā ǀ turvaśam ǀ yadum ǀ parā-vataḥ ǀ ugra-devam ǀ havāmahe ǀ
    agniḥ ǀ nayat ǀ nava-vāstvam ǀ bṛhat-ratham ǀ turvītim ǀ dasyave ǀ sahaḥ ǁ

    1.36.18 Aṣṭaka 1.3.11.3Anuvāka 1.8.18

  19. Ṛk 19

    नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते ।
    दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यंति॑ कृ॒ष्टयः॑ ॥

    नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते |
    दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ||

    ní tvā́magne mánurdadhe jyótirjánāya śáśvate ǀ
    dīdétha káṇva ṛtájāta ukṣitó yám namasyánti kṛṣṭáyaḥ ǁ

    ni tvām agne manur dadhe jyotir janāya śaśvate |
    dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ ||

    नि । त्वाम् । अ॒ग्ने॒ । मनुः॑ । द॒धे॒ । ज्योतिः॑ । जना॑य । शश्व॑ते ।
    दी॒देथ॑ । कण्वे॑ । ऋ॒तऽजा॑तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति॑ । कृ॒ष्टयः॑ ॥

    नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते ।
    दीदेथ । कण्वे । ऋतऽजातः । उक्षितः । यम् । नमस्यन्ति । कृष्टयः ॥

    ní ǀ tvā́m ǀ agne ǀ mánuḥ ǀ dadhe ǀ jyótiḥ ǀ jánāya ǀ śáśvate ǀ
    dīdétha ǀ káṇve ǀ ṛtá-jātaḥ ǀ ukṣitáḥ ǀ yám ǀ namasyánti ǀ kṛṣṭáyaḥ ǁ

    ni ǀ tvām ǀ agne ǀ manuḥ ǀ dadhe ǀ jyotiḥ ǀ janāya ǀ śaśvate ǀ
    dīdetha ǀ kaṇve ǀ ṛta-jātaḥ ǀ ukṣitaḥ ǀ yam ǀ namasyanti ǀ kṛṣṭayaḥ ǁ

    1.36.19 Aṣṭaka 1.3.11.4Anuvāka 1.8.19

  20. Ṛk 20

    त्वे॒षासो॑ अ॒ग्नेरम॑वंतो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये ।
    र॒क्ष॒स्विनः॒ सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥

    त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये |
    रक्षस्विनः सदम् इद् यातुमावतो विश्वं सम् अत्रिणं दह ||

    tveṣā́so agnérámavanto arcáyo bhīmā́so ná prátītaye ǀ
    rakṣasvínaḥ sádamídyātumā́vato víśvam sámatríṇam daha ǁ

    tveṣāso agner amavanto arcayo bhīmāso na pratītaye |
    rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha ||

    त्वे॒षासः॑ । अ॒ग्नेः । अम॑ऽवन्तः । अ॒र्चयः॑ । भी॒मासः॑ । न । प्रति॑ऽइतये ।
    र॒क्ष॒स्विनः॑ । सद॑म् । इत् । या॒तु॒ऽमाव॑तः । विश्व॑म् । सम् । अ॒त्रिण॑म् । द॒ह॒ ॥

    त्वेषासः । अग्नेः । अमऽवन्तः । अर्चयः । भीमासः । न । प्रतिऽइतये ।
    रक्षस्विनः । सदम् । इत् । यातुऽमावतः । विश्वम् । सम् । अत्रिणम् । दह ॥

    tveṣā́saḥ ǀ agnéḥ ǀ áma-vantaḥ ǀ arcáyaḥ ǀ bhīmā́saḥ ǀ ná ǀ práti-itaye ǀ
    rakṣasvínaḥ ǀ sádam ǀ ít ǀ yātu-mā́vataḥ ǀ víśvam ǀ sám ǀ atríṇam ǀ daha ǁ

    tveṣāsaḥ ǀ agneḥ ǀ ama-vantaḥ ǀ arcayaḥ ǀ bhīmāsaḥ ǀ na ǀ prati-itaye ǀ
    rakṣasvinaḥ ǀ sadam ǀ it ǀ yātu-māvataḥ ǀ viśvam ǀ sam ǀ atriṇam ǀ daha ǁ

    1.36.20 Aṣṭaka 1.3.11.5Anuvāka 1.8.20

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.36 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

The master of many peoples who labour towards the godhead, we seek for you with words of perfect expression, Agni whom others also everywhere desire.

हिन्दी

हउन अनेकों के स्वामी जो देवत्व की ओर श्रम करते हैं, हम परिपूर्ण भावाभिव्यक्ति के शब्दों से आपको ढूँढ रहे हैं, अग्नि, जिन्हें अन्य भी सर्वत्र चाहते हैं।

Ṛk 2

Men hold Agni in them as the increaser of strength. With offerings we dispose the sacrifice for thee, do thou then become today to us perfect-minded and our keeper here in our havings, O thou who art of the truth of being.

हिन्दी

बलवर्धक के रूप में, अग्नि को, मनुष्य स्वयं में थामे रखते हैं। हव्य के द्वारा हम यज्ञ को आपके लिये सम्पूर्ण करते हैं, अतः आप यहाँ हमारे प्रति आज सुमन सहित और हमारी उपलब्धियों के पालक बन कर जाइये, हे आप, जो सत्ता के सत्य हैं।

Ṛk 3

Thee we choose out for our messenger, the priest of offering who hast universal knowledge; when thou art greatened in thy being thy flames range wide, thy lustres touch the heavens.

हिन्दी

आपको हम अपने दूत के रूप में चुनते हैं, सर्वव्यापी ज्ञान से संपन्न, अर्पण के होता; जब आप अपनी सत्ता में महान हो जाते हैं, तब आपकी ज्वालाएँ दूर तक विचरती हैं, आपकी द्युतियाँ स्वर्गों का स्पर्श करती हैं।

Ṛk 4

The gods even Varuna and Mitra and Aryaman light thee utterly, the ancient messenger; all wealth that mortal conquers by thee, O Agni, who to thee has given.

हिन्दी

देव, वरुण और मित्र और अर्यमण भी, आपको, हे प्राचीन दूत, पूर्ण रूप से संदीप्त करते हैं; संपूर्ण निधियाँ, जो मर्त्य आपके द्वारा जीतता है, हे अग्नि, उसने आपको अर्पण करी हैं।

Ṛk 5

Thou art the rapturous priest of the sacrifice and master of this house and the envoy of creatures; in thee are met together all the steadfast laws of action which the gods have made.

हिन्दी

आप यज्ञ के आनंदमय होता हैं और इस गृह के स्वामी हैं और सभी जीवों के दूत हैं; देवों द्वारा नियोजित, सक्रियता के संपूर्ण दृढ़ नियम आप में इकट्ठे होकर मिलते हैं।

Ṛk 6

It is in thee, O Agni, young and mighty, because thou art rich in joy that every offering is cast, therefore do thou today and hereafter, perfect of mind, offer to the gods perfected energies.

हिन्दी

हे अग्नि, युवा और प्रबल, क्योंकि आप आनंद में संपन्न हैं, इसलिये, आपमें, प्रत्येक हव्य डाला जाता है, अतः, आप आज और आज के पश्चात्त, पूर्ण मनस सहित, देवों को परिपुर्ण ऊर्जाएँ अर्पण करिये।

Ṛk 7

He it is, whom as the self-ruler men who have attained submission adore; by the queens of the oblation men light entirely Agni when they have broken through their opposers.

हिन्दी

यह वह हैं, जिन्हें स्वशासक के रूप में, आत्मसमर्पण सिद्ध मनुष्य पूजते हैं; अर्पण की महानता के द्वारा, मनुष्य जब अपने विरोधियों को तोड़ कर बाहर आते हैं, तब वे अग्नि को पूर्ण रूप से प्रज्ज्वलित करते हैं।

Ṛk 8

They smite Vritra the Coverer and pass beyond the two firmaments, they make the wide kingdom their home. May the mighty One become in Kanwa a luminous energy fed with the offerings, the Steed of Life neighing in the stations of the kine.

हिन्दी

वे ढकने वाले वृत्र पर प्रहार करते हैं और रोदसी, यानि दोनों नभमण्डलों के आद्यान्त, आगे निकल जाते हैं और विस्तीर्ण राज्य को अपना गृह बना लेते हैं। कन्व में, वह सर्वोत्तम जो आहुति से पोषित हैं, एक द्युतिमान ऊर्जा बन जाएँ, गायों के खेतों में हिनहिनाता हुआ प्राणमय अश्व बन जाएँ।

Ṛk 9

Take thy established seat; wide art thou, shine in thy purity revealing utterly the godhead; pour forth, O thou of the sacrifice, thy red-active smoke of passion, thou wide manifested, that full of vision;—

हिन्दी

अपना स्थापित आसन धारण करिये; आप महान हैं, देवत्व को पूर्ण रूप से प्रकट करते हुए, अपनी शुचिता में दमकिये; हे यज्ञ वाले, अपनी लाल सक्रिय प्रबल उत्कंठा के धूम्र को उंडेलिये, हे बृहत्-व्यक्त, आप जो दृष्टि से परिपूर्ण हैं।

Ṛk 10

Even thou whom the gods have set here for man most strong for the sacrifice, O bearer of the offering, whom Kanwa Medhyatithi has established as a seizer for him of his desired wealth, whom the mighty Indra and all who establish him by the song of praise;

हिन्दी

आप भी, जिन्हें देवों ने मानव के लिये स्थापित किया है, यज्ञ के लिये सबसे बलशाली, हे अर्पणधारक, जिन्हें कण्व मेध्यतिथि ने स्वयं के लिये अपने वांछित बाहुल्य को अधिग्रहण करने वाले के रूप में स्थापित किया है, जिन्हें महान इन्द्र और वे सब जो आपको स्तुति द्वारा स्थापित करते हैं;

Ṛk 11

Even that Agni whom Medhyatithi Kanwa has kindled high upon the Truth, may his impulses blaze forth, him may these fulfilling Words, him, even Agni, may we increase.

हिन्दी

उस अग्नि को भी, जिन्हें मेध्यतिथि कण्व ने परमसत्य पर ऊँचा संदीप्त किया है, उनके आवेग दहक उठें, उन्हें इन संतोषप्रद शब्दों से, अग्नि को भी, हम वर्धित कर सकें।

Ṛk 12

Complete our felicities, O thou who hast the self-fixity; for with thee, O Agni, is effectivity in the gods; thou rulest over the wealth of inspired knowledge. Show thou then favour to us, great art thou.

हिन्दी

हमारे कल्याण की पूर्ति करिये, आप जो स्व-स्थाई हैं; क्योंकि, आप के साथ, हे अग्नि, देवों में प्रभावकारिता है; आप श्रुति ज्ञान की निधियों पर राज्य करते हैं। अतः, हम पर आप कृपादृष्टि रखिये, आप महान हैं।

Ṛk 13

Utterly high-uplifted stand for our growth, like the god Savitri; ’tis from these heights that thou becomest the savior of our store when we call on thee with [ ]

हिन्दी

हमारे वर्धन के लिये, सवित्रि के समान, पूर्ण रूप से उच्च उठाए हुए, आप खड़े रहिये; इन उँचाइयों से ही आप हमारी संचित निधि के रक्षक बनते हैं जब हम आपका आह्वान करते हैं।

Ṛk 14

High-raised protect us from the evil by the perceiving mind, burn utterly every eater of our being; raise us too on high for action, for life; distribute among the gods our activity.

हिन्दी

ऊपर उठाए हुए, प्रत्यक्ष ज्ञान से संपन्न मनस द्वारा, अमंगल से हमारी रक्षा करिये, हमारी सत्ता का भक्षण करने वाले प्रत्येक भक्षक को पूर्णतः भस्म कर दीजिये; सक्रियता के लिये, हमें भी ऊँचा उठाइये, जीवन के लिये; देवों में हमारे कार्यों का विभाजन करिये।

Ṛk 15

Protect us, O Agni, from the Rakshasa, protect us from the harm of the undelighting, protect us from him who assails and him who would slay us, O vast of lustre, O mighty and young.

हिन्दी

हे अग्नि! राक्षसों से हमारी रक्षा करिये, शोक के अनिष्ट से हमारी रक्षा करिये, जो हम पर आक्रमण करते हैं और जो हमारी हत्या करना चाहते हैं, उनसे हमारी रक्षा करिये, हे बृहत् द्युतियों वाले, हे बलशाली और युवा।

Ṛk 16

As with thick falling blows scatter utterly (or scatter like clouds to every side) all the powers of undelight, O devourer of their force (or O destroyer of affliction), and him who would do us harm; whatsoever mortal being exceeds us in keenness by his actions, may he not as our enemy have mastery over us.

हिन्दी

ठोस गिरते हुए प्रहारों के साथ पूर्ण रुप से, शोक की संपूर्ण शक्तियों को छितरा दीजिये (या बादलों की तरह हर दिशा में छितरा दीजिये), और उसे भी जो हमें क्षति पहुँचाना चाहता है; उनकी शक्तियों के हे भक्षक! (या व्यथा के ध्वंसक), जो भी मनुष्य अपनी क्रियाओं की प्रबलता में हमसे अधिक हो, उस मनुष्य का, हमपर, शत्रु के रूप में, प्रभुत्व न हो।

Ṛk 17

Agni has won perfected energy for Kanwa and has won perfected enjoyment; Agni protects for him all friendly things, Agni keeps ever in safe being Medhyatithi who has confirmed him by the song of praise.

हिन्दी

कण्व के लिये, अग्नि ने परिपूर्ण ऊर्जा और परिपूर्ण आनंद जीता है; उसके लिये अग्नि संपूर्ण मित्रवत तत्वों की रक्षा करते हैं। मेध्यतिथि, जिसने स्तुति द्वारा अग्नि को स्थाई किया है, उसे अग्नि सदैव सुरक्षित रखते हैं।

Ṛk 18

By Agni we call Turvasha and Yadu from the upper kingdoms; Agni has led to a new dwelling Brihadratha and Turviti (or Turviti of wide delight), a power against the foe.

हिन्दी

अग्नि द्वारा हम तुर्वश और यदु को उच्चतर जगतों से आवाहित करते हैं; अग्नि ने हमें एक नए निवास-स्थान, बृहद्रथ और तुर्विति (या, बृहत् आनंद वाले तुर्विति) का मार्ग दिखाया है, जो शत्रु के प्रतिकूल, एक शक्ति है।

Ṛk 19

Man establisheth thee within, O Agni, as a light for the eternal birth; mayst thou burn brightly in Kanwa manifested in the Truth and increased in being, thou to whom the doers of action bow down.

हिन्दी

शाश्वत जन्म के लिये मनुष्य अपने भीतर, एक ज्योति के रूप में, हे अग्नि, आपको स्थापित करता है; परमसत्य में अभिव्यक्त और सत्ता में वर्धित, कण्व में आप तेजस्विता से जलें। आप, जिनके समक्ष, कार्य के कर्ता नमन करते हैं।

Ṛk 20

Impetuous, O Agni, and forceful are thy flames, terrible and not to be approached; always thou do burn utterly the powers who detain and the powers who are vessels of suffering, yea, every devourer.

हिन्दी

हे अग्नि, आवेगी और बलशाली हैं आपकी ज्वालाएँ, प्रचण्ड और जिसका सन्निकर्ष मना है; आप सदैव पूर्ण रूप से उन शक्तियों को भस्म करते हैं जो निरोध करती हैं और उन शक्तियों को जो पीड़ा की कारक हैं, हाँ, प्रत्येक भक्षक को आप भस्म करते हैं।