Sūkta 68
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
Metres by ṛk
1st set of styles dvipadā virāt (6-10); paṅktiḥ (2, 3, 5); nicṛtpaṅkti (1, 4)
2nd set of styles dvipadā virāj
-
Ṛk 1
श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥
श्रीणन्न् उप स्थाद् दिवम् भुरण्यु स्थातुश् चरथम् अक्तून् व्य् ऊर्णोत् ||
śrīṇánnúpa sthāddívam bhuraṇyúḥ sthātúścaráthamaktū́nvyū́rṇot ǁ
śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot ||
श्री॒णन् । उप॑ । स्था॒त् । दिव॑म् । भु॒र॒ण्युः । स्था॒तुः । च॒रथ॑म् । अ॒क्तून् । वि । ऊ॒र्णो॒त् ॥
श्रीणन् । उप । स्थात् । दिवम् । भुरण्युः । स्थातुः । चरथम् । अक्तून् । वि । ऊर्णोत् ॥
śrīṇán ǀ úpa ǀ sthāt ǀ dívam ǀ bhuraṇyúḥ ǀ sthātúḥ ǀ carátham ǀ aktū́n ǀ ví ǀ ūrṇot ǁ
śrīṇan ǀ upa ǀ sthāt ǀ divam ǀ bhuraṇyuḥ ǀ sthātuḥ ǀ caratham ǀ aktūn ǀ vi ǀ ūrṇot ǁ
1.68.1 Aṣṭaka 1.5.12.1Anuvāka 1.12.31
-
Ṛk 2
परि॒ यदे॑षा॒मेको॒ विश्वे॑षां॒ भुव॑द्दे॒वो दे॒वानां॑ महि॒त्वा ॥
परि यद् एषाम् एको विश्वेषाम् भुवद् देवो देवानाम् महित्वा ||
pári yádeṣāméko víśveṣām bhúvaddevó devā́nām mahitvā́ ǁ
pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā ||
परि॑ । यत् । ए॒षा॒म् । एकः॑ । विश्वे॑षाम् । भुव॑त् । दे॒वः । दे॒वाना॑म् । म॒हि॒ऽत्वा ॥
परि । यत् । एषाम् । एकः । विश्वेषाम् । भुवत् । देवः । देवानाम् । महिऽत्वा ॥
pári ǀ yát ǀ eṣām ǀ ékaḥ ǀ víśveṣām ǀ bhúvat ǀ deváḥ ǀ devā́nām ǀ mahi-tvā́ ǁ
pari ǀ yat ǀ eṣām ǀ ekaḥ ǀ viśveṣām ǀ bhuvat ǀ devaḥ ǀ devānām ǀ mahi-tvā ǁ
1.68.2 Aṣṭaka 1.5.12.2Anuvāka 1.12.32
-
Ṛk 3
आदित्ते॒ विश्वे॒ क्रतुं॑ जुषंत॒ शुष्का॒द्यद्दे॑व जी॒वो जनि॑ष्ठाः ॥
आद् इत् ते विश्वे क्रतुं जुषन्त शुष्काद् यद् देव जीवो जनिष्ठाः ||
ā́dítte víśve krátum juṣanta śúṣkādyáddeva jīvó jániṣṭhāḥ ǁ
ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ ||
आत् । इत् । ते॒ । विश्वे॑ । क्रतु॑म् । जु॒ष॒न्त॒ । शुष्का॑त् । यत् । दे॒व॒ । जी॒वः । जनि॑ष्ठाः ॥
आत् । इत् । ते । विश्वे । क्रतुम् । जुषन्त । शुष्कात् । यत् । देव । जीवः । जनिष्ठाः ॥
ā́t ǀ ít ǀ te ǀ víśve ǀ krátum ǀ juṣanta ǀ śúṣkāt ǀ yát ǀ deva ǀ jīváḥ ǀ jániṣṭhāḥ ǁ
āt ǀ it ǀ te ǀ viśve ǀ kratum ǀ juṣanta ǀ śuṣkāt ǀ yat ǀ deva ǀ jīvaḥ ǀ janiṣṭhāḥ ǁ
1.68.3 Aṣṭaka 1.5.12.3Anuvāka 1.12.33
-
Ṛk 4
भजं॑त॒ विश्वे॑ देव॒त्वं नाम॑ ऋ॒तं सपं॑तो अ॒मृत॒मेवैः॑ ॥
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतम् एवैः ||
bhájanta víśve devatvám nā́ma ṛtám sápanto amṛ́tamévaiḥ ǁ
bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ ||
भज॑न्त । विश्वे॑ । दे॒व॒ऽत्वम् । नाम॑ । ऋ॒तम् । सप॑न्तः । अ॒मृत॑म् । एवैः॑ ॥
भजन्त । विश्वे । देवऽत्वम् । नाम । ऋतम् । सपन्तः । अमृतम् । एवैः ॥
bhájanta ǀ víśve ǀ deva-tvám ǀ nā́ma ǀ ṛtám ǀ sápantaḥ ǀ amṛ́tam ǀ évaiḥ ǁ
bhajanta ǀ viśve ǀ deva-tvam ǀ nāma ǀ ṛtam ǀ sapantaḥ ǀ amṛtam ǀ evaiḥ ǁ
1.68.4 Aṣṭaka 1.5.12.4Anuvāka 1.12.34
-
Ṛk 5
ऋ॒तस्य॒ प्रेषा॑ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां॑सि चक्रुः ॥
ऋतस्य प्रेषा ऋतस्य धीतिर् विश्वायुर् विश्वे अपांसि चक्रुः ||
ṛtásya préṣā ṛtásya dhītírviśvā́yurvíśve ápāṃsi cakruḥ ǁ
ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṃsi cakruḥ ||
ऋ॒तस्य॑ । प्रेषाः॑ । ऋ॒तस्य॑ । धी॒तिः । वि॒श्वऽआ॑युः । विश्वे॑ । अपां॑सि । च॒क्रुः॒ ॥
ऋतस्य । प्रेषाः । ऋतस्य । धीतिः । विश्वऽआयुः । विश्वे । अपांसि । चक्रुः ॥
ṛtásya ǀ préṣāḥ ǀ ṛtásya ǀ dhītíḥ ǀ viśvá-āyuḥ ǀ víśve ǀ ápāṃsi ǀ cakruḥ ǁ
ṛtasya ǀ preṣāḥ ǀ ṛtasya ǀ dhītiḥ ǀ viśva-āyuḥ ǀ viśve ǀ apāṃsi ǀ cakruḥ ǁ
1.68.5 Aṣṭaka 1.5.12.5Anuvāka 1.12.35
-
Ṛk 6
यस्तुभ्यं॒ दाशा॒द्यो वा॑ ते॒ शिक्षा॒त्तस्मै॑ चिकि॒त्वान्र॒यिं द॑यस्व ॥
यस् तुभ्यं दाशाद् यो वा ते शिक्षात् तस्मै चिकित्वान् रयिं दयस्व ||
yástúbhyam dā́śādyó vā te śíkṣāttásmai cikitvā́nrayím dayasva ǁ
yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva ||
यः । तुभ्य॑म् । दाशा॑त् । यः । वा॒ । ते॒ । शिक्षा॑त् । तस्मै॑ । चि॒कि॒त्वान् । र॒यिम् । द॒य॒स्व॒ ॥
यः । तुभ्यम् । दाशात् । यः । वा । ते । शिक्षात् । तस्मै । चिकित्वान् । रयिम् । दयस्व ॥
yáḥ ǀ túbhyam ǀ dā́śāt ǀ yáḥ ǀ vā ǀ te ǀ śíkṣāt ǀ tásmai ǀ cikitvā́n ǀ rayím ǀ dayasva ǁ
yaḥ ǀ tubhyam ǀ dāśāt ǀ yaḥ ǀ vā ǀ te ǀ śikṣāt ǀ tasmai ǀ cikitvān ǀ rayim ǀ dayasva ǁ
1.68.6 Aṣṭaka 1.5.12.6Anuvāka 1.12.36
-
Ṛk 7
होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा॑सां॒ पती॑ रयी॒णां ॥
होता निषत्तो मनोर् अपत्ये स चिन् न्व् आसाम् पती रयीणाम् ||
hótā níṣatto mánorápatye sá cinnvā́sām pátī rayīṇā́m ǁ
hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām ||
होता॑ । निऽस॑त्तः । मनोः॑ । अप॑त्ये । सः । चि॒त् । नु । आ॒सा॒म् । पतिः॑ । र॒यी॒णाम् ॥
होता । निऽसत्तः । मनोः । अपत्ये । सः । चित् । नु । आसाम् । पतिः । रयीणाम् ॥
hótā ǀ ní-sattaḥ ǀ mánoḥ ǀ ápatye ǀ sáḥ ǀ cit ǀ nú ǀ āsām ǀ pátiḥ ǀ rayīṇā́m ǁ
hotā ǀ ni-sattaḥ ǀ manoḥ ǀ apatye ǀ saḥ ǀ cit ǀ nu ǀ āsām ǀ patiḥ ǀ rayīṇām ǁ
1.68.7 Aṣṭaka 1.5.12.7Anuvāka 1.12.37
-
Ṛk 8
इ॒च्छंत॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥
इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ||
icchánta réto mithástanū́ṣu sám jānata sváirdákṣairámūrāḥ ǁ
icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ ||
इ॒च्छन्त॑ । रेतः॑ । मि॒थः । त॒नूषु॑ । सम् । जा॒न॒त॒ । स्वैः । दक्षैः॑ । अमू॑राः ॥
इच्छन्त । रेतः । मिथः । तनूषु । सम् । जानत । स्वैः । दक्षैः । अमूराः ॥
icchánta ǀ rétaḥ ǀ mitháḥ ǀ tanū́ṣu ǀ sám ǀ jānata ǀ sváiḥ ǀ dákṣaiḥ ǀ ámūrāḥ ǁ
icchanta ǀ retaḥ ǀ mithaḥ ǀ tanūṣu ǀ sam ǀ jānata ǀ svaiḥ ǀ dakṣaiḥ ǀ amūrāḥ ǁ
1.68.8 Aṣṭaka 1.5.12.8Anuvāka 1.12.38
-
Ṛk 9
पि॒तुर्न पु॒त्राः क्रतुं॑ जुषंत॒ श्रोष॒न्ये अ॑स्य॒ शासं॑ तु॒रासः॑ ॥
पितुर् न पुत्राः क्रतुं जुषन्त श्रोषन् ये अस्य शासं तुरासः ||
pitúrná putrā́ḥ krátum juṣanta śróṣanyé asya śā́sam turā́saḥ ǁ
pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ ||
पि॒तुः । न । पु॒त्राः । क्रतु॑म् । जु॒ष॒न्त॒ । श्रोष॑न् । ये । अ॒स्य॒ । शास॑म् । तु॒रासः॑ ॥
पितुः । न । पुत्राः । क्रतुम् । जुषन्त । श्रोषन् । ये । अस्य । शासम् । तुरासः ॥
pitúḥ ǀ ná ǀ putrā́ḥ ǀ krátum ǀ juṣanta ǀ śróṣan ǀ yé ǀ asya ǀ śā́sam ǀ turā́saḥ ǁ
pituḥ ǀ na ǀ putrāḥ ǀ kratum ǀ juṣanta ǀ śroṣan ǀ ye ǀ asya ǀ śāsam ǀ turāsaḥ ǁ
1.68.9 Aṣṭaka 1.5.12.9Anuvāka 1.12.39
-
Ṛk 10
वि राय॑ और्णो॒द्दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू॑नाः ॥
वि राय और्णोद् दुरः पुरुक्षुः पिपेश नाकं स्तृभिर् दमूनाः ||
ví rā́ya aurṇoddúraḥ purukṣúḥ pipéśa nā́kam stṛ́bhirdámūnāḥ ǁ
vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ ||
वि । रायः॑ । औ॒र्णो॒त् । दुरः॑ । पु॒रु॒ऽक्षुः । पि॒पेश॑ । नाक॑म् । स्तृऽभिः॑ । दमू॑नाः ॥
वि । रायः । और्णोत् । दुरः । पुरुऽक्षुः । पिपेश । नाकम् । स्तृऽभिः । दमूनाः ॥
ví ǀ rā́yaḥ ǀ aurṇot ǀ dúraḥ ǀ puru-kṣúḥ ǀ pipéśa ǀ nā́kam ǀ stṛ́-bhiḥ ǀ dámūnāḥ ǁ
vi ǀ rāyaḥ ǀ aurṇot ǀ duraḥ ǀ puru-kṣuḥ ǀ pipeśa ǀ nākam ǀ stṛ-bhiḥ ǀ damūnāḥ ǁ
1.68.10 Aṣṭaka 1.5.12.10Anuvāka 1.12.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.