Sūkta 126
- Devatā देवता
- 1, 5, 7: Bhāvayavya; 2-4, 6: Romaśā
- Ṛṣi ऋषि
- 1-5: Kakṣīvat Dairghatamasa; 6: Bhāvayavya; 7: Romaśa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 4, 5); anuṣṭup (6, 7); triṣṭup (3)
2nd set of styles triṣṭubh (1-5); anuṣṭubh (6-7)
-
Ṛk 1
अमं॑दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिंधा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।
यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥अमन्दान् स्तोमान् प्र भरे मनीषा सिन्धाव् अधि क्षियतो भाव्यस्य |
यो मे सहस्रम् अमिमीत सवान् अतूर्तो राजा श्रव इच्छमानः ||ámandāntstómānprá bhare manīṣā́ síndhāvádhi kṣiyató bhāvyásya ǀ
yó me sahásramámimīta savā́natū́rto rā́jā śráva icchámānaḥ ǁamandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya |
yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ ||अम॑न्दान् । सोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा । सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ ।
यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥अमन्दान् । सोमान् । प्र । भरे । मनीषा । सिन्धौ । अधि । क्षियतः । भाव्यस्य ।
यः । मे । सहस्रम् । अमिमीत । सवान् । अतूर्तः । राजा । श्रवः । इच्छमानः ॥ámandān ǀ sómān ǀ prá ǀ bhare ǀ manīṣā́ ǀ síndhau ǀ ádhi ǀ kṣiyatáḥ ǀ bhāvyásya ǀ
yáḥ ǀ me ǀ sahásram ǀ ámimīta ǀ savā́n ǀ atū́rtaḥ ǀ rā́jā ǀ śrávaḥ ǀ icchámānaḥ ǁamandān ǀ somān ǀ pra ǀ bhare ǀ manīṣā ǀ sindhau ǀ adhi ǀ kṣiyataḥ ǀ bhāvyasya ǀ
yaḥ ǀ me ǀ sahasram ǀ amimīta ǀ savān ǀ atūrtaḥ ǀ rājā ǀ śravaḥ ǀ icchamānaḥ ǁ1.126.1 Aṣṭaka 2.1.11.1Anuvāka 1.18.64
-
Ṛk 2
श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आदं॑ ।
श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥शतं राज्ञो नाधमानस्य निष्काञ् छतम् अश्वान् प्रयतान् सद्य आदम् |
शतं कक्षीवां असुरस्य गोनां दिवि श्रवो ऽजरम् आ ततान ||śatám rā́jño nā́dhamānasya niṣkā́ñchatámáśvānpráyatāntsadyá ā́dam ǀ
śatám kakṣī́vām̐ ásurasya gónām diví śrávo’járamā́ tatāna ǁśataṃ rājño nādhamānasya niṣkāñ chatam aśvān prayatān sadya ādam |
śataṃ kakṣīvāṃ asurasya gonāṃ divi śravo 'jaram ā tatāna ||श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् ।
श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्रऽयतान् । सद्यः । आदम् ।
शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान ॥śatám ǀ rā́jñaḥ ǀ nā́dhamānasya ǀ niṣkā́n ǀ śatám ǀ áśvān ǀ prá-yatān ǀ sadyáḥ ǀ ā́dam ǀ
śatám ǀ kakṣī́vān ǀ ásurasya ǀ gónām ǀ diví ǀ śrávaḥ ǀ ajáram ǀ ā́ ǀ tatāna ǁśatam ǀ rājñaḥ ǀ nādhamānasya ǀ niṣkān ǀ śatam ǀ aśvān ǀ pra-yatān ǀ sadyaḥ ǀ ādam ǀ
śatam ǀ kakṣīvān ǀ asurasya ǀ gonām ǀ divi ǀ śravaḥ ǀ ajaram ǀ ā ǀ tatāna ǁ1.126.2 Aṣṭaka 2.1.11.2Anuvāka 1.18.65
-
Ṛk 3
उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूमं॑तो॒ दश॒ रथा॑सो अस्थुः ।
ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्नां॑ ॥उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः |
षष्टिः सहस्रम् अनु गव्यम् आगात् सनत् कक्षीवां अभिपित्वे अह्नाम् ||úpa mā śyāvā́ḥ svanáyena dattā́ vadhū́manto dáśa ráthāso asthuḥ ǀ
ṣaṣṭíḥ sahásramánu gávyamā́gātsánatkakṣī́vām̐ abhipitvé áhnām ǁupa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ |
ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṃ abhipitve ahnām ||उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ ।
ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधूऽमन्तः । दश । रथासः । अस्थुः ।
षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभिऽपित्वे । अह्नाम् ॥úpa ǀ mā ǀ śyāvā́ḥ ǀ svanáyena ǀ dattā́ḥ ǀ vadhū́-mantaḥ ǀ dáśa ǀ ráthāsaḥ ǀ asthuḥ ǀ
ṣaṣṭíḥ ǀ sahásram ǀ ánu ǀ gávyam ǀ ā́ ǀ agāt ǀ sánat ǀ kakṣī́vān ǀ abhi-pitvé ǀ áhnām ǁupa ǀ mā ǀ śyāvāḥ ǀ svanayena ǀ dattāḥ ǀ vadhū-mantaḥ ǀ daśa ǀ rathāsaḥ ǀ asthuḥ ǀ
ṣaṣṭiḥ ǀ sahasram ǀ anu ǀ gavyam ǀ ā ǀ agāt ǀ sanat ǀ kakṣīvān ǀ abhi-pitve ǀ ahnām ǁ1.126.3 Aṣṭaka 2.1.11.3Anuvāka 1.18.66
-
Ṛk 4
च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः॑ स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयंति ।
म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीवं॑त॒ उद॑मृक्षंत प॒ज्राः ॥चत्वारिंशद् दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति |
मदच्युतः कृशनावतो अत्यान् कक्षीवन्त उद् अमृक्षन्त पज्राः ||catvāriṃśáddáśarathasya śóṇāḥ sahásrasyā́gre śréṇim nayanti ǀ
madacyútaḥ kṛśanā́vato átyānkakṣī́vanta údamṛkṣanta pajrā́ḥ ǁcatvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti |
madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ ||च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ ।
म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥चत्वारिंशत् । दशऽरथस्य । शोणाः । सहस्रस्य । अग्रे । श्रेणिम् । नयन्ति ।
मदऽच्युतः । कृशनऽवतः । अत्यान् । कक्षीवन्तः । उत् । अमृक्षन्त । पज्राः ॥catvāriṃśát ǀ dáśa-rathasya ǀ śóṇāḥ ǀ sahásrasya ǀ ágre ǀ śréṇim ǀ nayanti ǀ
mada-cyútaḥ ǀ kṛśaná-vataḥ ǀ átyān ǀ kakṣī́vantaḥ ǀ út ǀ amṛkṣanta ǀ pajrā́ḥ ǁcatvāriṃśat ǀ daśa-rathasya ǀ śoṇāḥ ǀ sahasrasya ǀ agre ǀ śreṇim ǀ nayanti ǀ
mada-cyutaḥ ǀ kṛśana-vataḥ ǀ atyān ǀ kakṣīvantaḥ ǀ ut ǀ amṛkṣanta ǀ pajrāḥ ǁ1.126.4 Aṣṭaka 2.1.11.4Anuvāka 1.18.67
-
Ṛk 5
पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।
सु॒बंध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वंतः॒ श्रव॒ ऐषं॑त प॒ज्राः ॥पूर्वाम् अनु प्रयतिम् आ ददे वस् त्रीन् युक्तां अष्टाव् अरिधायसो गाः |
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ||pū́rvāmánu práyatimā́ dade vastrī́nyuktā́m̐ aṣṭā́varídhāyaso gā́ḥ ǀ
subándhavo yé viśyā́ iva vrā́ ánasvantaḥ śráva áiṣanta pajrā́ḥ ǁpūrvām anu prayatim ā dade vas trīn yuktāṃ aṣṭāv aridhāyaso gāḥ |
subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः ।
सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥पूर्वाम् । अनु । प्रऽयतिम् । आ । ददे । वः । त्रीन् । युक्तान् । अष्टौ । अरिऽधायसः । गाः ।
सुऽबन्धवः । ये । विश्याःऽइव । व्राः । अनस्वन्तः । श्रवः । ऐषन्त । पज्राः ॥pū́rvām ǀ ánu ǀ prá-yatim ǀ ā́ ǀ dade ǀ vaḥ ǀ trī́n ǀ yuktā́n ǀ aṣṭáu ǀ arí-dhāyasaḥ ǀ gā́ḥ ǀ
su-bándhavaḥ ǀ yé ǀ viśyā́ḥ-iva ǀ vrā́ḥ ǀ ánasvantaḥ ǀ śrávaḥ ǀ áiṣanta ǀ pajrā́ḥ ǁpūrvām ǀ anu ǀ pra-yatim ǀ ā ǀ dade ǀ vaḥ ǀ trīn ǀ yuktān ǀ aṣṭau ǀ ari-dhāyasaḥ ǀ gāḥ ǀ
su-bandhavaḥ ǀ ye ǀ viśyāḥ-iva ǀ vrāḥ ǀ anasvantaḥ ǀ śravaḥ ǀ aiṣanta ǀ pajrāḥ ǁ1.126.5 Aṣṭaka 2.1.11.5Anuvāka 1.18.68
-
Ṛk 6
आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जंग॑हे ।
ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥आगधिता परिगधिता या कशीकेव जङ्गहे |
ददाति मह्यं यादुरी याशूनाम् भोज्या शता ||ā́gadhitā párigadhitā yā́ kaśīkéva jáṅgahe ǀ
dádāti máhyam yā́durī yā́śūnām bhojyā́ śatā́ ǁāgadhitā parigadhitā yā kaśīkeva jaṅgahe |
dadāti mahyaṃ yādurī yāśūnām bhojyā śatā ||आऽग॑धिता । परि॑ऽगधिता । या । क॒शी॒काऽइ॑व । जङ्ग॑हे ।
ददा॑ति । मह्य॑म् । यादु॑री । याशू॑नाम् । भो॒ज्या॑ । श॒ता ॥आऽगधिता । परिऽगधिता । या । कशीकाऽइव । जङ्गहे ।
ददाति । मह्यम् । यादुरी । याशूनाम् । भोज्या । शता ॥ā́-gadhitā ǀ pári-gadhitā ǀ yā́ ǀ kaśīkā́-iva ǀ jáṅgahe ǀ
dádāti ǀ máhyam ǀ yā́durī ǀ yā́śūnām ǀ bhojyā́ ǀ śatā́ ǁā-gadhitā ǀ pari-gadhitā ǀ yā ǀ kaśīkā-iva ǀ jaṅgahe ǀ
dadāti ǀ mahyam ǀ yādurī ǀ yāśūnām ǀ bhojyā ǀ śatā ǁ1.126.6 Aṣṭaka 2.1.11.6Anuvāka 1.18.69
-
Ṛk 7
उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।
सर्वा॒हम॑स्मि रोम॒शा गं॒धारी॑णामिवावि॒का ॥उपोप मे परा मृश मा मे दभ्राणि मन्यथाः |
सर्वाहम् अस्मि रोमशा गन्धारीणाम् इवाविका ||úpopa me párā mṛśa mā́ me dabhrā́ṇi manyathāḥ ǀ
sárvāhámasmi romaśā́ gandhā́rīṇāmivāvikā́ ǁupopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
sarvāham asmi romaśā gandhārīṇām ivāvikā ||उप॑ऽउप । मे॒ । परा॑ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि॑ । म॒न्य॒थाः॒ ।
सर्वा॑ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी॑णाम्ऽइव । अ॒वि॒का ॥उपऽउप । मे । परा । मृश । मा । मे । दभ्राणि । मन्यथाः ।
सर्वा । अहम् । अस्मि । रोमशा । गन्धारीणाम्ऽइव । अविका ॥úpa-upa ǀ me ǀ párā ǀ mṛśa ǀ mā́ ǀ me ǀ dabhrā́ṇi ǀ manyathāḥ ǀ
sárvā ǀ ahám ǀ asmi ǀ romaśā́ ǀ gandhā́rīṇām-iva ǀ avikā́ ǁupa-upa ǀ me ǀ parā ǀ mṛśa ǀ mā ǀ me ǀ dabhrāṇi ǀ manyathāḥ ǀ
sarvā ǀ aham ǀ asmi ǀ romaśā ǀ gandhārīṇām-iva ǀ avikā ǁ1.126.7 Aṣṭaka 2.1.11.7Anuvāka 1.18.70
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.