Sūkta 176
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (1, 4); nicṛdanuṣṭup (2); virāḍanuṣṭup (3); bhuriguṣṇik (5); bhuriktriṣṭup (6)
2nd set of styles anuṣṭubh
-
Ṛk 1
मत्सि॑ नो॒ वस्य॑इष्टय॒ इंद्र॑मिंदो॒ वृषा वि॑श ।
ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मंति॒ न विं॑दसि ॥मत्सि नो वस्यैष्टय इन्द्रम् इन्दो वृषा विश |
ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ||mátsi no vásya-iṣṭaya índramindo vṛ́ṣā́ viśa ǀ
ṛghāyámāṇa invasi śátrumánti ná vindasi ǁmatsi no vasyaiṣṭaya indram indo vṛṣā viśa |
ṛghāyamāṇa invasi śatrum anti na vindasi ||मत्सि॑ । नः॒ । वस्यः॑ऽइष्टये । इन्द्र॑म् । इ॒न्दो॒ इति॑ । वृषा॑ । आ । वि॒श॒ ।
ऋ॒घा॒यमा॑णः । इ॒न्व॒सि॒ । शत्रु॑म् । अन्ति॑ । न । वि॒न्द॒सि॒ ॥मत्सि । नः । वस्यःऽइष्टये । इन्द्रम् । इन्दो इति । वृषा । आ । विश ।
ऋघायमाणः । इन्वसि । शत्रुम् । अन्ति । न । विन्दसि ॥mátsi ǀ naḥ ǀ vásyaḥ-iṣṭaye ǀ índram ǀ indo íti ǀ vṛ́ṣā ǀ ā́ ǀ viśa ǀ
ṛghāyámāṇaḥ ǀ invasi ǀ śátrum ǀ ánti ǀ ná ǀ vindasi ǁmatsi ǀ naḥ ǀ vasyaḥ-iṣṭaye ǀ indram ǀ indo iti ǀ vṛṣā ǀ ā ǀ viśa ǀ
ṛghāyamāṇaḥ ǀ invasi ǀ śatrum ǀ anti ǀ na ǀ vindasi ǁ1.176.1 Aṣṭaka 2.4.19.1Anuvāka 1.23.103
-
Ṛk 2
तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नां ।
अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् |
अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ||tásminnā́ veśayā gíro yá ékaścarṣaṇīnā́m ǀ
ánu svadhā́ yámupyáte yávam ná cárkṛṣadvṛ́ṣā ǁtasminn ā veśayā giro ya ekaś carṣaṇīnām |
anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā ||तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् ।
अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥तस्मिन् । आ । वेशय । गिरः । यः । एकः । चर्षणीनाम् ।
अनु । स्वधा । यम् । उप्यते । यवम् । न । चर्कृषत् । वृषा ॥tásmin ǀ ā́ ǀ veśaya ǀ gíraḥ ǀ yáḥ ǀ ékaḥ ǀ carṣaṇīnā́m ǀ
ánu ǀ svadhā́ ǀ yám ǀ upyáte ǀ yávam ǀ ná ǀ cárkṛṣat ǀ vṛ́ṣā ǁtasmin ǀ ā ǀ veśaya ǀ giraḥ ǀ yaḥ ǀ ekaḥ ǀ carṣaṇīnām ǀ
anu ǀ svadhā ǀ yam ǀ upyate ǀ yavam ǀ na ǀ carkṛṣat ǀ vṛṣā ǁ1.176.2 Aṣṭaka 2.4.19.2Anuvāka 1.23.104
-
Ṛk 3
यस्य॒ विश्वा॑नि॒ हस्त॑योः॒ पंच॑ क्षिती॒नां वसु॑ ।
स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु |
स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ||yásya víśvāni hástayoḥ páñca kṣitīnā́m vásu ǀ
spāśáyasva yó asmadhrúgdivyévāśánirjahi ǁyasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu |
spāśayasva yo asmadhrug divyevāśanir jahi ||यस्य॑ । विश्वा॑नि । हस्त॑योः । पञ्च॑ । क्षि॒ती॒नाम् । वसु॑ ।
स्पा॒शय॑स्व । यः । अ॒स्म॒ऽध्रुक् । दि॒व्याऽइ॑व । अ॒शनिः॑ । ज॒हि॒ ॥यस्य । विश्वानि । हस्तयोः । पञ्च । क्षितीनाम् । वसु ।
स्पाशयस्व । यः । अस्मऽध्रुक् । दिव्याऽइव । अशनिः । जहि ॥yásya ǀ víśvāni ǀ hástayoḥ ǀ páñca ǀ kṣitīnā́m ǀ vásu ǀ
spāśáyasva ǀ yáḥ ǀ asma-dhrúk ǀ divyā́-iva ǀ aśániḥ ǀ jahi ǁyasya ǀ viśvāni ǀ hastayoḥ ǀ pañca ǀ kṣitīnām ǀ vasu ǀ
spāśayasva ǀ yaḥ ǀ asma-dhruk ǀ divyā-iva ǀ aśaniḥ ǀ jahi ǁ1.176.3 Aṣṭaka 2.4.19.3Anuvāka 1.23.105
-
Ṛk 4
असु॑न्वंतं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ ।
अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥असुन्वन्तं समं जहि दूणाशं यो न ते मयः |
अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ||ásunvantam samam jahi dūṇā́śam yó ná te máyaḥ ǀ
asmábhyamasya védanam daddhí sūríścidohate ǁasunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ |
asmabhyam asya vedanaṃ daddhi sūriś cid ohate ||असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनश॑म् । यः । न । ते॒ । मयः॑ ।
अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥असुन्वन्तम् । समम् । जहि । दुःऽनशम् । यः । न । ते । मयः ।
अस्मभ्यम् । अस्य । वेदनम् । दद्धि । सूरिः । चित् । ओहते ॥ásunvantam ǀ samam ǀ jahi ǀ duḥ-náśam ǀ yáḥ ǀ ná ǀ te ǀ máyaḥ ǀ
asmábhyam ǀ asya ǀ védanam ǀ daddhí ǀ sūríḥ ǀ cit ǀ ohate ǁasunvantam ǀ samam ǀ jahi ǀ duḥ-naśam ǀ yaḥ ǀ na ǀ te ǀ mayaḥ ǀ
asmabhyam ǀ asya ǀ vedanam ǀ daddhi ǀ sūriḥ ǀ cit ǀ ohate ǁ1.176.4 Aṣṭaka 2.4.19.4Anuvāka 1.23.106
-
Ṛk 5
आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् ।
आ॒जाविंद्र॑स्येंदो॒ प्रावो॒ वाजे॑षु वा॒जिनं॑ ॥आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् |
आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ||ā́vo yásya dvibárhaso’rkéṣu sānuṣágásat ǀ
ājā́víndrasyendo prā́vo vā́jeṣu vājínam ǁāvo yasya dvibarhaso 'rkeṣu sānuṣag asat |
ājāv indrasyendo prāvo vājeṣu vājinam ||आवः॑ । यस्य॑ । द्वि॒ऽबर्ह॑सः । अ॒र्केषु॑ । सा॒नु॒षक् । अस॑त् ।
आ॒जौ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥आवः । यस्य । द्विऽबर्हसः । अर्केषु । सानुषक् । असत् ।
आजौ । इन्द्रस्य । इन्दो इति । प्र । आवः । वाजेषु । वाजिनम् ॥ā́vaḥ ǀ yásya ǀ dvi-bárhasaḥ ǀ arkéṣu ǀ sānuṣák ǀ ásat ǀ
ājáu ǀ índrasya ǀ indo íti ǀ prá ǀ āvaḥ ǀ vā́jeṣu ǀ vājínam ǁāvaḥ ǀ yasya ǀ dvi-barhasaḥ ǀ arkeṣu ǀ sānuṣak ǀ asat ǀ
ājau ǀ indrasya ǀ indo iti ǀ pra ǀ āvaḥ ǀ vājeṣu ǀ vājinam ǁ1.176.5 Aṣṭaka 2.4.19.5Anuvāka 1.23.107
-
Ṛk 6
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इंद्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ |
ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ||yáthā pū́rvebhyo jaritṛ́bhya indra máya ivā́po ná tṛ́ṣyate babhū́tha ǀ
tā́mánu tvā nivídam johavīmi vidyā́meṣám vṛjánam jīrádānum ǁyathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।
ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥yáthā ǀ pū́rvebhyaḥ ǀ jaritṛ́-bhyaḥ ǀ indra ǀ máyaḥ-iva ǀ ā́paḥ ǀ ná ǀ tṛ́ṣyate ǀ babhū́tha ǀ
tā́m ǀ ánu ǀ tvā ǀ ni-vídam ǀ johavīmi ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁyathā ǀ pūrvebhyaḥ ǀ jaritṛ-bhyaḥ ǀ indra ǀ mayaḥ-iva ǀ āpaḥ ǀ na ǀ tṛṣyate ǀ babhūtha ǀ
tām ǀ anu ǀ tvā ǀ ni-vidam ǀ johavīmi ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.176.6 Aṣṭaka 2.4.19.6Anuvāka 1.23.108
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.