Sūkta 154
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 4, 6); virāṭtrisṭup (1, 2); triṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि ।
यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि |
यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ||víṣṇornú kam vīryā́ṇi prá vocam yáḥ pā́rthivāni vimamé rájāṃsi ǀ
yó áskabhāyadúttaram sadhástham vicakramāṇástredhórugāyáḥ ǁviṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi |
yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ ||विष्णोः॑ । नु । क॒म् । वी॒र्या॑णि । प्र । वो॒च॒म् । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि ।
यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒ऽगा॒यः ॥विष्णोः । नु । कम् । वीर्याणि । प्र । वोचम् । यः । पार्थिवानि । विऽममे । रजांसि ।
यः । अस्कभायत् । उत्ऽतरम् । सधऽस्थम् । विऽचक्रमाणः । त्रेधा । उरुऽगायः ॥víṣṇoḥ ǀ nú ǀ kam ǀ vīryā́ṇi ǀ prá ǀ vocam ǀ yáḥ ǀ pā́rthivāni ǀ vi-mamé ǀ rájāṃsi ǀ
yáḥ ǀ áskabhāyat ǀ út-taram ǀ sadhá-stham ǀ vi-cakramāṇáḥ ǀ tredhā́ ǀ uru-gāyáḥ ǁviṣṇoḥ ǀ nu ǀ kam ǀ vīryāṇi ǀ pra ǀ vocam ǀ yaḥ ǀ pārthivāni ǀ vi-mame ǀ rajāṃsi ǀ
yaḥ ǀ askabhāyat ǀ ut-taram ǀ sadha-stham ǀ vi-cakramāṇaḥ ǀ tredhā ǀ uru-gāyaḥ ǁ1.154.1 Aṣṭaka 2.2.24.1Anuvāka 1.21.103
-
Ṛk 2
प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यंति॒ भुव॑नानि॒ विश्वा॑ ॥प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः |
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ||prá tádvíṣṇuḥ stavate vīryéṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ ǀ
yásyorúṣu triṣú vikrámaṇeṣvadhikṣiyánti bhúvanāni víśvā ǁpra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā ||प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥प्र । तत् । विष्णुः । स्तवते । वीर्येण । मृगः । न । भीमः । कुचरः । गिरिऽस्थाः ।
यस्य । उरुषु । त्रिषु । विऽक्रमणेषु । अधिऽक्षियन्ति । भुवनानि । विश्वा ॥prá ǀ tát ǀ víṣṇuḥ ǀ stavate ǀ vīryéṇa ǀ mṛgáḥ ǀ ná ǀ bhīmáḥ ǀ kucaráḥ ǀ giri-sthā́ḥ ǀ
yásya ǀ urúṣu ǀ triṣú ǀ vi-krámaṇeṣu ǀ adhi-kṣiyánti ǀ bhúvanāni ǀ víśvā ǁpra ǀ tat ǀ viṣṇuḥ ǀ stavate ǀ vīryeṇa ǀ mṛgaḥ ǀ na ǀ bhīmaḥ ǀ kucaraḥ ǀ giri-sthāḥ ǀ
yasya ǀ uruṣu ǀ triṣu ǀ vi-kramaṇeṣu ǀ adhi-kṣiyanti ǀ bhuvanāni ǀ viśvā ǁ1.154.2 Aṣṭaka 2.2.24.2Anuvāka 1.21.104
-
Ṛk 3
प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ ।
य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभिः॑ ॥प्र विष्णवे शूषम् एतु मन्म गिरिक्षित उरुगायाय वृष्णे |
य इदं दीर्घम् प्रयतं सधस्थम् एको विममे त्रिभिर् इत् पदेभिः ||prá víṣṇave śūṣámetu mánma girikṣíta urugāyā́ya vṛ́ṣṇe ǀ
yá idám dīrghám práyatam sadhásthaméko vimamé tribhírítpadébhiḥ ǁpra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe |
ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ ||प्र । विष्ण॑वे । शू॒षम् । ए॒तु॒ । मन्म॑ । गि॒रि॒ऽक्षिते॑ । उ॒रु॒ऽगा॒याय॑ । वृष्णे॑ ।
यः । इ॒दम् । दी॒र्घम् । प्रऽय॑तम् । स॒धऽस्थ॑म् । एकः॑ । वि॒ऽम॒मे । त्रि॒ऽभिः । इत् । प॒देऽभिः॑ ॥प्र । विष्णवे । शूषम् । एतु । मन्म । गिरिऽक्षिते । उरुऽगायाय । वृष्णे ।
यः । इदम् । दीर्घम् । प्रऽयतम् । सधऽस्थम् । एकः । विऽममे । त्रिऽभिः । इत् । पदेऽभिः ॥prá ǀ víṣṇave ǀ śūṣám ǀ etu ǀ mánma ǀ giri-kṣíte ǀ uru-gāyā́ya ǀ vṛ́ṣṇe ǀ
yáḥ ǀ idám ǀ dīrghám ǀ prá-yatam ǀ sadhá-stham ǀ ékaḥ ǀ vi-mamé ǀ tri-bhíḥ ǀ ít ǀ padé-bhiḥ ǁpra ǀ viṣṇave ǀ śūṣam ǀ etu ǀ manma ǀ giri-kṣite ǀ uru-gāyāya ǀ vṛṣṇe ǀ
yaḥ ǀ idam ǀ dīrgham ǀ pra-yatam ǀ sadha-stham ǀ ekaḥ ǀ vi-mame ǀ tri-bhiḥ ǀ it ǀ pade-bhiḥ ǁ1.154.3 Aṣṭaka 2.2.24.3Anuvāka 1.21.105
-
Ṛk 4
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मदं॑ति ।
य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥यस्य त्री पूर्णा मधुना पदान्य् अक्षीयमाणा स्वधया मदन्ति |
य उ त्रिधातु पृथिवीम् उत द्याम् एको दाधार भुवनानि विश्वा ||yásya trī́ pūrṇā́ mádhunā padā́nyákṣīyamāṇā svadháyā mádanti ǀ
yá u tridhā́tu pṛthivī́mutá dyā́méko dādhā́ra bhúvanāni víśvā ǁyasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti |
ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā ||यस्य॑ । त्री । पू॒र्णा । मधु॑ना । प॒दानि॑ । अक्षी॑यमाणा । स्व॒धया॑ । मद॑न्ति ।
यः । ऊं॒ इति॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । उ॒त । द्याम् । एकः॑ । दा॒धार॑ । भुव॑नानि । विश्वा॑ ॥यस्य । त्री । पूर्णा । मधुना । पदानि । अक्षीयमाणा । स्वधया । मदन्ति ।
यः । ऊं इति । त्रिऽधातु । पृथिवीम् । उत । द्याम् । एकः । दाधार । भुवनानि । विश्वा ॥yásya ǀ trī́ ǀ pūrṇā́ ǀ mádhunā ǀ padā́ni ǀ ákṣīyamāṇā ǀ svadháyā ǀ mádanti ǀ
yáḥ ǀ ūṃ íti ǀ tri-dhā́tu ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ ékaḥ ǀ dādhā́ra ǀ bhúvanāni ǀ víśvā ǁyasya ǀ trī ǀ pūrṇā ǀ madhunā ǀ padāni ǀ akṣīyamāṇā ǀ svadhayā ǀ madanti ǀ
yaḥ ǀ ūṃ iti ǀ tri-dhātu ǀ pṛthivīm ǀ uta ǀ dyām ǀ ekaḥ ǀ dādhāra ǀ bhuvanāni ǀ viśvā ǁ1.154.4 Aṣṭaka 2.2.24.4Anuvāka 1.21.106
-
Ṛk 5
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति ।
उ॒रु॒क्र॒मस्य॒ स हि बंधु॑रि॒त्था विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ॥तद् अस्य प्रियम् अभि पाथो अश्यां नरो यत्र देवयवो मदन्ति |
उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः ||tádasya priyámabhí pā́tho aśyām náro yátra devayávo mádanti ǀ
urukramásya sá hí bándhuritthā́ víṣṇoḥ padé paramé mádhva útsaḥ ǁtad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti |
urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ ||तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः॑ । अ॒श्या॒म् । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
उ॒रु॒ऽक्र॒मस्य॑ । सः । हि । बन्धुः॑ । इ॒त्था । विष्णोः॑ । प॒दे । प॒र॒मे । मध्वः॑ । उत्सः॑ ॥तत् । अस्य । प्रियम् । अभि । पाथः । अश्याम् । नरः । यत्र । देवऽयवः । मदन्ति ।
उरुऽक्रमस्य । सः । हि । बन्धुः । इत्था । विष्णोः । पदे । परमे । मध्वः । उत्सः ॥tát ǀ asya ǀ priyám ǀ abhí ǀ pā́thaḥ ǀ aśyām ǀ náraḥ ǀ yátra ǀ deva-yávaḥ ǀ mádanti ǀ
uru-kramásya ǀ sáḥ ǀ hí ǀ bándhuḥ ǀ itthā́ ǀ víṣṇoḥ ǀ padé ǀ paramé ǀ mádhvaḥ ǀ útsaḥ ǁtat ǀ asya ǀ priyam ǀ abhi ǀ pāthaḥ ǀ aśyām ǀ naraḥ ǀ yatra ǀ deva-yavaḥ ǀ madanti ǀ
uru-kramasya ǀ saḥ ǀ hi ǀ bandhuḥ ǀ itthā ǀ viṣṇoḥ ǀ pade ǀ parame ǀ madhvaḥ ǀ utsaḥ ǁ1.154.5 Aṣṭaka 2.2.24.5Anuvāka 1.21.107
-
Ṛk 6
ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृंगा अ॒यासः॑ ।
अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः |
अत्राह तद् उरुगायस्य वृष्णः परमम् पदम् अव भाति भूरि ||tā́ vām vā́stūnyuśmasi gámadhyai yátra gā́vo bhū́riśṛṅgā ayā́saḥ ǀ
átrā́ha tádurugāyásya vṛ́ṣṇaḥ paramám padámáva bhāti bhū́ri ǁtā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ |
atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri ||ता । वा॒म् । वास्तू॑नि । उ॒श्म॒सि॒ । गम॑ध्यै । यत्र॑ । गावः॑ । भूरि॑ऽशृङ्गाः । अ॒यासः॑ ।
अत्र॑ । अह॑ । तत् । उ॒रु॒ऽगा॒यस्य॑ । वृष्णः॑ । प॒र॒मम् । प॒दम् । अव॑ । भा॒ति॒ । भूरि॑ ॥ता । वाम् । वास्तूनि । उश्मसि । गमध्यै । यत्र । गावः । भूरिऽशृङ्गाः । अयासः ।
अत्र । अह । तत् । उरुऽगायस्य । वृष्णः । परमम् । पदम् । अव । भाति । भूरि ॥tā́ ǀ vām ǀ vā́stūni ǀ uśmasi ǀ gámadhyai ǀ yátra ǀ gā́vaḥ ǀ bhū́ri-śṛṅgāḥ ǀ ayā́saḥ ǀ
átra ǀ áha ǀ tát ǀ uru-gāyásya ǀ vṛ́ṣṇaḥ ǀ paramám ǀ padám ǀ áva ǀ bhāti ǀ bhū́ri ǁtā ǀ vām ǀ vāstūni ǀ uśmasi ǀ gamadhyai ǀ yatra ǀ gāvaḥ ǀ bhūri-śṛṅgāḥ ǀ ayāsaḥ ǀ
atra ǀ aha ǀ tat ǀ uru-gāyasya ǀ vṛṣṇaḥ ǀ paramam ǀ padam ǀ ava ǀ bhāti ǀ bhūri ǁ1.154.6 Aṣṭaka 2.2.24.6Anuvāka 1.21.108
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.