Sūkta 67
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
Metres by ṛk
1st set of styles dvipadā virāt (6-10); nicṛtpaṅkti (1-4); virāṭpaṅkti (5)
2nd set of styles dvipadā virāj
-
Ṛk 1
वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यं ॥
वनेषु जायुर् मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ||
váneṣu jāyúrmárteṣu mitró vṛṇīté śruṣṭím rā́jevājuryám ǁ
vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam ||
वने॑षु । जा॒युः । मर्ते॑षु । मि॒त्रः । वृ॒णी॒ते । श्रु॒ष्टिम् । राजा॑ऽइव । अ॒जु॒र्यम् ॥
वनेषु । जायुः । मर्तेषु । मित्रः । वृणीते । श्रुष्टिम् । राजाऽइव । अजुर्यम् ॥
váneṣu ǀ jāyúḥ ǀ márteṣu ǀ mitráḥ ǀ vṛṇīté ǀ śruṣṭím ǀ rā́jā-iva ǀ ajuryám ǁ
vaneṣu ǀ jāyuḥ ǀ marteṣu ǀ mitraḥ ǀ vṛṇīte ǀ śruṣṭim ǀ rājā-iva ǀ ajuryam ǁ
1.67.1 Aṣṭaka 1.5.11.1Anuvāka 1.12.21
-
Ṛk 2
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥
क्षेमो न साधुः क्रतुर् न भद्रो भुवत् स्वाधीर् होता हव्यवाट् ||
kṣémo ná sādhúḥ kráturná bhadró bhúvatsvādhī́rhótā havyavā́ṭ ǁ
kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ ||
क्षेमः॑ । न । सा॒धुः । क्रतुः॑ । न । भ॒द्रः । भुव॑त् । सु॒ऽआ॒धीः । होता॑ । ह॒व्य॒ऽवाट् ॥
क्षेमः । न । साधुः । क्रतुः । न । भद्रः । भुवत् । सुऽआधीः । होता । हव्यऽवाट् ॥
kṣémaḥ ǀ ná ǀ sādhúḥ ǀ krátuḥ ǀ ná ǀ bhadráḥ ǀ bhúvat ǀ su-ādhī́ḥ ǀ hótā ǀ havya-vā́ṭ ǁ
kṣemaḥ ǀ na ǀ sādhuḥ ǀ kratuḥ ǀ na ǀ bhadraḥ ǀ bhuvat ǀ su-ādhīḥ ǀ hotā ǀ havya-vāṭ ǁ
1.67.2 Aṣṭaka 1.5.11.2Anuvāka 1.12.22
-
Ṛk 3
हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वांधा॒द्गुहा॑ नि॒षीद॑न् ॥
हस्ते दधानो नृम्णा विश्वान्य् अमे देवान् धाद् गुहा निषीदन् ||
háste dádhāno nṛmṇā́ víśvānyáme devā́ndhādgúhā niṣī́dan ǁ
haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan ||
हस्ते॑ । दधा॑नः । नृ॒म्णा । विश्वा॑नि । अमे॑ । दे॒वान् । धा॒त् । गुहा॑ । नि॒ऽसीद॑न् ॥
हस्ते । दधानः । नृम्णा । विश्वानि । अमे । देवान् । धात् । गुहा । निऽसीदन् ॥
háste ǀ dádhānaḥ ǀ nṛmṇā́ ǀ víśvāni ǀ áme ǀ devā́n ǀ dhāt ǀ gúhā ǀ ni-sī́dan ǁ
haste ǀ dadhānaḥ ǀ nṛmṇā ǀ viśvāni ǀ ame ǀ devān ǀ dhāt ǀ guhā ǀ ni-sīdan ǁ
1.67.3 Aṣṭaka 1.5.11.3Anuvāka 1.12.23
-
Ṛk 4
वि॒दंती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मंत्राँ॒ अशं॑सन् ॥
विदन्तीम् अत्र नरो धियन्धा हृदा यत् तष्टान् मन्त्रां अशंसन् ||
vidántīmátra náro dhiyaṃdhā́ hṛdā́ yáttaṣṭā́nmántrām̐ áśaṃsan ǁ
vidantīm atra naro dhiyandhā hṛdā yat taṣṭān mantrāṃ aśaṃsan ||
वि॒दन्ति॑ । ई॒म् । अत्र॑ । नरः॑ । धि॒य॒म्ऽधाः । हृ॒दा । यत् । त॒ष्टान् । मन्त्रा॑न् । अशं॑सन् ॥
विदन्ति । ईम् । अत्र । नरः । धियम्ऽधाः । हृदा । यत् । तष्टान् । मन्त्रान् । अशंसन् ॥
vidánti ǀ īm ǀ átra ǀ náraḥ ǀ dhiyam-dhā́ḥ ǀ hṛdā́ ǀ yát ǀ taṣṭā́n ǀ mántrān ǀ áśaṃsan ǁ
vidanti ǀ īm ǀ atra ǀ naraḥ ǀ dhiyam-dhāḥ ǀ hṛdā ǀ yat ǀ taṣṭān ǀ mantrān ǀ aśaṃsan ǁ
1.67.4 Aṣṭaka 1.5.11.4Anuvāka 1.12.24
-
Ṛk 5
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तंभ॒ द्यां मंत्रे॑भिः स॒त्यैः ॥
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्याम् मन्त्रेभिः सत्यैः ||
ajó ná kṣā́m dādhā́ra pṛthivī́m tastámbha dyā́m mántrebhiḥ satyáiḥ ǁ
ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ ||
अ॒जः । न । क्षाम् । दा॒धार॑ । पृ॒थि॒वीम् । त॒स्तम्भ॑ । द्याम् । मन्त्रे॑भिः । स॒त्यैः ॥
अजः । न । क्षाम् । दाधार । पृथिवीम् । तस्तम्भ । द्याम् । मन्त्रेभिः । सत्यैः ॥
ajáḥ ǀ ná ǀ kṣā́m ǀ dādhā́ra ǀ pṛthivī́m ǀ tastámbha ǀ dyā́m ǀ mántrebhiḥ ǀ satyáiḥ ǁ
ajaḥ ǀ na ǀ kṣām ǀ dādhāra ǀ pṛthivīm ǀ tastambha ǀ dyām ǀ mantrebhiḥ ǀ satyaiḥ ǁ
1.67.5 Aṣṭaka 1.5.11.5Anuvāka 1.12.25
-
Ṛk 6
प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥
प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ||
priyā́ padā́ni paśvó ní pāhi viśvā́yuragne guhā́ gúham gāḥ ǁ
priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ ||
प्रि॒या । प॒दानि॑ । प॒श्वः । नि । पा॒हि॒ । वि॒श्वऽआ॑युः । अ॒ग्ने॒ । गु॒हा । गुह॑म् । गाः॒ ॥
प्रिया । पदानि । पश्वः । नि । पाहि । विश्वऽआयुः । अग्ने । गुहा । गुहम् । गाः ॥
priyā́ ǀ padā́ni ǀ paśváḥ ǀ ní ǀ pāhi ǀ viśvá-āyuḥ ǀ agne ǀ guhā́ ǀ gúham ǀ gāḥ ǁ
priyā ǀ padāni ǀ paśvaḥ ǀ ni ǀ pāhi ǀ viśva-āyuḥ ǀ agne ǀ guhā ǀ guham ǀ gāḥ ǁ
1.67.6 Aṣṭaka 1.5.11.6Anuvāka 1.12.26
-
Ṛk 7
य ईं॑ चि॒केत॒ गुहा॒ भवं॑त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥
य ईं चिकेत गुहा भवन्तम् आ यः ससाद धाराम् ऋतस्य ||
yá īm cikéta gúhā bhávantamā́ yáḥ sasā́da dhā́rāmṛtásya ǁ
ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya ||
यः । ई॒म् । चि॒केत॑ । गुहा॑ । भव॑न्तम् । आ । यः । स॒साद॑ । धारा॑म् । ऋ॒तस्य॑ ॥
यः । ईम् । चिकेत । गुहा । भवन्तम् । आ । यः । ससाद । धाराम् । ऋतस्य ॥
yáḥ ǀ īm ǀ cikéta ǀ gúhā ǀ bhávantam ǀ ā́ ǀ yáḥ ǀ sasā́da ǀ dhā́rām ǀ ṛtásya ǁ
yaḥ ǀ īm ǀ ciketa ǀ guhā ǀ bhavantam ǀ ā ǀ yaḥ ǀ sasāda ǀ dhārām ǀ ṛtasya ǁ
1.67.7 Aṣṭaka 1.5.11.7Anuvāka 1.12.27
-
Ṛk 8
वि ये चृ॒तंत्यृ॒ता सपं॑त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥
वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ||
ví yé cṛtántyṛtā́ sápanta ā́dídvásūni prá vavācāsmai ǁ
vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai ||
वि । ये । चृ॒तन्ति॑ । ऋ॒ता । सप॑न्तः । आत् । इत् । वसू॑नि । प्र । व॒वा॒च॒ । अ॒स्मै॒ ॥
वि । ये । चृतन्ति । ऋता । सपन्तः । आत् । इत् । वसूनि । प्र । ववाच । अस्मै ॥
ví ǀ yé ǀ cṛtánti ǀ ṛtā́ ǀ sápantaḥ ǀ ā́t ǀ ít ǀ vásūni ǀ prá ǀ vavāca ǀ asmai ǁ
vi ǀ ye ǀ cṛtanti ǀ ṛtā ǀ sapantaḥ ǀ āt ǀ it ǀ vasūni ǀ pra ǀ vavāca ǀ asmai ǁ
1.67.8 Aṣṭaka 1.5.11.8Anuvāka 1.12.28
-
Ṛk 9
वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्वं॒तः ॥
वि यो वीरुत्सु रोधन् महित्वोत प्रजा उत प्रसूष्व् अन्तः ||
ví yó vīrútsu ródhanmahitvótá prajā́ utá prasū́ṣvantáḥ ǁ
vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ ||
वि । यः । वी॒रुत्ऽसु॑ । रोध॑त् । म॒हि॒ऽत्वा । उ॒त । प्र॒ऽजाः । उ॒त । प्र॒ऽसूषु॑ । अ॒न्तरिति॑ ॥
वि । यः । वीरुत्ऽसु । रोधत् । महिऽत्वा । उत । प्रऽजाः । उत । प्रऽसूषु । अन्तरिति ॥
ví ǀ yáḥ ǀ vīrút-su ǀ ródhat ǀ mahi-tvā́ ǀ utá ǀ pra-jā́ḥ ǀ utá ǀ pra-sū́ṣu ǀ antáríti ǁ
vi ǀ yaḥ ǀ vīrut-su ǀ rodhat ǀ mahi-tvā ǀ uta ǀ pra-jāḥ ǀ uta ǀ pra-sūṣu ǀ antariti ǁ
1.67.9 Aṣṭaka 1.5.11.9Anuvāka 1.12.29
-
Ṛk 10
चित्ति॑र॒पां दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑ स॒म्माय॑ चक्रुः ॥
चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||
cíttirapā́m dáme viśvā́yuḥ sádmeva dhī́rāḥ sammā́ya cakruḥ ǁ
cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ ||
चित्तिः॑ । अ॒पाम् । दमे॑ । वि॒श्वऽआ॑युः । सद्म॑ऽइव । धीराः॑ । स॒म्ऽमाय॑ । च॒क्रुः॒ ॥
चित्तिः । अपाम् । दमे । विश्वऽआयुः । सद्मऽइव । धीराः । सम्ऽमाय । चक्रुः ॥
cíttiḥ ǀ apā́m ǀ dáme ǀ viśvá-āyuḥ ǀ sádma-iva ǀ dhī́rāḥ ǀ sam-mā́ya ǀ cakruḥ ǁ
cittiḥ ǀ apām ǀ dame ǀ viśva-āyuḥ ǀ sadma-iva ǀ dhīrāḥ ǀ sam-māya ǀ cakruḥ ǁ
1.67.10 Aṣṭaka 1.5.11.10Anuvāka 1.12.30
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.