Sūkta 88
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Prastārapaṅkti, Virāḍrūpā
Metres by ṛk
1st set of styles paṅktiḥ (1); bhurikpaṅkti (2); nicṛttriṣṭup (3); virāṭtrisṭup (4); nicṛtpaṅkti (5); nicṛdbṛhatī (6)
2nd set of styles triṣṭubh (2-4); prastārapaṅkti (1, 6); virāḍrūpā (5)
-
Ṛk 1
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥आ विद्युन्मद्भिर् मरुतः स्वर्कै रथेभिर् यात ऋष्टिमद्भिर् अश्वपर्णैः |
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ||ā́ vidyúnmadbhirmarutaḥ svarkái ráthebhiryāta ṛṣṭimádbhiráśvaparṇaiḥ ǀ
ā́ várṣiṣṭhayā na iṣā́ váyo ná paptatā sumāyāḥ ǁā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ |
ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ ||आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः ।
आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥आ । विद्युन्मत्ऽभिः । मरुतः । सुऽअर्कैः । रथेभिः । यात । ऋष्टिमत्ऽभिः । अश्वऽपर्णैः ।
आ । वर्षिष्ठया । नः । इषा । वयः । न । पप्तत । सुऽमायाः ॥ā́ ǀ vidyúnmat-bhiḥ ǀ marutaḥ ǀ su-arkáiḥ ǀ ráthebhiḥ ǀ yāta ǀ ṛṣṭimát-bhiḥ ǀ áśva-parṇaiḥ ǀ
ā́ ǀ várṣiṣṭhayā ǀ naḥ ǀ iṣā́ ǀ váyaḥ ǀ ná ǀ paptata ǀ su-māyāḥ ǁā ǀ vidyunmat-bhiḥ ǀ marutaḥ ǀ su-arkaiḥ ǀ rathebhiḥ ǀ yāta ǀ ṛṣṭimat-bhiḥ ǀ aśva-parṇaiḥ ǀ
ā ǀ varṣiṣṭhayā ǀ naḥ ǀ iṣā ǀ vayaḥ ǀ na ǀ paptata ǀ su-māyāḥ ǁ1.88.1 Aṣṭaka 1.6.14.1Anuvāka 1.14.29
-
Ṛk 2
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शंगैः॑ शु॒भे कं यां॑ति रथ॒तूर्भि॒रश्वैः॑ ।
रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जंघनंत॒ भूम॑ ॥ते ऽरुणेभिर् वरम् आ पिशङ्गैः शुभे कं यान्ति रथतूर्भिर् अश्वैः |
रुक्मो न चित्रः स्वधितीवान् पव्या रथस्य जङ्घनन्त भूम ||té’ruṇébhirváramā́ piśáṅgaiḥ śubhé kám yānti rathatū́rbhiráśvaiḥ ǀ
rukmó ná citráḥ svádhitīvānpavyā́ ráthasya jaṅghananta bhū́ma ǁte 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ |
rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma ||ते । अ॒रु॒णेभिः॑ । वर॑म् । आ । पि॒शङ्गैः॑ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूःऽभिः॑ । अश्वैः॑ ।
रु॒क्मः । न । चि॒त्रः । स्वधि॑तिऽवान् । प॒व्या । रथ॑स्य । ज॒ङ्घ॒न॒न्त॒ । भूम॑ ॥ते । अरुणेभिः । वरम् । आ । पिशङ्गैः । शुभे । कम् । यान्ति । रथतूःऽभिः । अश्वैः ।
रुक्मः । न । चित्रः । स्वधितिऽवान् । पव्या । रथस्य । जङ्घनन्त । भूम ॥té ǀ aruṇébhiḥ ǀ váram ǀ ā́ ǀ piśáṅgaiḥ ǀ śubhé ǀ kám ǀ yānti ǀ rathatū́ḥ-bhiḥ ǀ áśvaiḥ ǀ
rukmáḥ ǀ ná ǀ citráḥ ǀ svádhiti-vān ǀ pavyā́ ǀ ráthasya ǀ jaṅghananta ǀ bhū́ma ǁte ǀ aruṇebhiḥ ǀ varam ǀ ā ǀ piśaṅgaiḥ ǀ śubhe ǀ kam ǀ yānti ǀ rathatūḥ-bhiḥ ǀ aśvaiḥ ǀ
rukmaḥ ǀ na ǀ citraḥ ǀ svadhiti-vān ǀ pavyā ǀ rathasya ǀ jaṅghananta ǀ bhūma ǁ1.88.2 Aṣṭaka 1.6.14.2Anuvāka 1.14.30
-
Ṛk 3
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवंत ऊ॒र्ध्वा ।
यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयंते॒ अद्रिं॑ ॥श्रिये कं वो अधि तनूषु वाशीर् मेधा वना न कृणवन्त ऊर्ध्वा |
युष्मभ्यं कम् मरुतः सुजातास् तुविद्युम्नासो धनयन्ते अद्रिम् ||śriyé kám vo ádhi tanū́ṣu vā́śīrmedhā́ vánā ná kṛṇavanta ūrdhvā́ ǀ
yuṣmábhyam kám marutaḥ sujātāstuvidyumnā́so dhanayante ádrim ǁśriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā |
yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim ||श्रि॒ये । कम् । वः॒ । अधि॑ । त॒नूषु॑ । वाशीः॑ । मे॒धा । वना॑ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा ।
यु॒ष्मभ्य॑म् । कम् । म॒रु॒तः॒ । सु॒ऽजा॒ताः॒ । तु॒वि॒ऽद्यु॒म्नासः॑ । ध॒न॒य॒न्ते॒ । अद्रि॑म् ॥श्रिये । कम् । वः । अधि । तनूषु । वाशीः । मेधा । वना । न । कृणवन्ते । ऊर्ध्वा ।
युष्मभ्यम् । कम् । मरुतः । सुऽजाताः । तुविऽद्युम्नासः । धनयन्ते । अद्रिम् ॥śriyé ǀ kám ǀ vaḥ ǀ ádhi ǀ tanū́ṣu ǀ vā́śīḥ ǀ medhā́ ǀ vánā ǀ ná ǀ kṛṇavante ǀ ūrdhvā́ ǀ
yuṣmábhyam ǀ kám ǀ marutaḥ ǀ su-jātāḥ ǀ tuvi-dyumnā́saḥ ǀ dhanayante ǀ ádrim ǁśriye ǀ kam ǀ vaḥ ǀ adhi ǀ tanūṣu ǀ vāśīḥ ǀ medhā ǀ vanā ǀ na ǀ kṛṇavante ǀ ūrdhvā ǀ
yuṣmabhyam ǀ kam ǀ marutaḥ ǀ su-jātāḥ ǀ tuvi-dyumnāsaḥ ǀ dhanayante ǀ adrim ǁ1.88.3 Aṣṭaka 1.6.14.3Anuvāka 1.14.31
-
Ṛk 4
अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीं ।
ब्रह्म॑ कृ॒ण्वंतो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥अहानि गृध्राः पर्य् आ व आगुर् इमां धियं वार्कार्यां च देवीम् |
ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ||áhāni gṛ́dhrāḥ páryā́ va ā́gurimā́m dhíyam vārkāryā́m ca devī́m ǀ
bráhma kṛṇvánto gótamāso arkáirūrdhvám nunudra utsadhím píbadhyai ǁahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm |
brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai ||अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥अहानि । गृध्राः । परि । आ । वः । आ । अगुः । इमाम् । धियम् । वार्कार्याम् । च । देवीम् ।
ब्रह्म । कृण्वन्तः । गोतमासः । अर्कैः । ऊर्ध्वम् । नुनुद्रे । उत्सऽधिम् । पिबध्यै ॥áhāni ǀ gṛ́dhrāḥ ǀ pári ǀ ā́ ǀ vaḥ ǀ ā́ ǀ aguḥ ǀ imā́m ǀ dhíyam ǀ vārkāryā́m ǀ ca ǀ devī́m ǀ
bráhma ǀ kṛṇvántaḥ ǀ gótamāsaḥ ǀ arkáiḥ ǀ ūrdhvám ǀ nunudre ǀ utsa-dhím ǀ píbadhyai ǁahāni ǀ gṛdhrāḥ ǀ pari ǀ ā ǀ vaḥ ǀ ā ǀ aguḥ ǀ imām ǀ dhiyam ǀ vārkāryām ǀ ca ǀ devīm ǀ
brahma ǀ kṛṇvantaḥ ǀ gotamāsaḥ ǀ arkaiḥ ǀ ūrdhvam ǀ nunudre ǀ utsa-dhim ǀ pibadhyai ǁ1.88.4 Aṣṭaka 1.6.14.4Anuvāka 1.14.32
-
Ṛk 5
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः ।
पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥एतत् त्यन् न योजनम् अचेति सस्वर् ह यन् मरुतो गोतमो वः |
पश्यन् हिरण्यचक्रान् अयोदंष्ट्रान् विधावतो वराहून् ||etáttyánná yójanamaceti sasvárha yánmaruto gótamo vaḥ ǀ
páśyanhíraṇyacakrānáyodaṃṣṭrānvidhā́vato varā́hūn ǁetat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ |
paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn ||ए॒तत् । त्यत् । न । योज॑नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत॑मः । वः॒ ।
पश्य॑न् । हिर॑ण्यऽचक्रान् । अयः॑ऽदंष्ट्रान् । वि॒ऽधाव॑तः । व॒राहू॑न् ॥एतत् । त्यत् । न । योजनम् । अचेति । सस्वः । ह । यत् । मरुतः । गोतमः । वः ।
पश्यन् । हिरण्यऽचक्रान् । अयःऽदंष्ट्रान् । विऽधावतः । वराहून् ॥etát ǀ tyát ǀ ná ǀ yójanam ǀ aceti ǀ sasváḥ ǀ ha ǀ yát ǀ marutaḥ ǀ gótamaḥ ǀ vaḥ ǀ
páśyan ǀ híraṇya-cakrān ǀ áyaḥ-daṃṣṭrān ǀ vi-dhā́vataḥ ǀ varā́hūn ǁetat ǀ tyat ǀ na ǀ yojanam ǀ aceti ǀ sasvaḥ ǀ ha ǀ yat ǀ marutaḥ ǀ gotamaḥ ǀ vaḥ ǀ
paśyan ǀ hiraṇya-cakrān ǀ ayaḥ-daṃṣṭrān ǀ vi-dhāvataḥ ǀ varāhūn ǁ1.88.5 Aṣṭaka 1.6.14.5Anuvāka 1.14.33
-
Ṛk 6
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥एषा स्या वो मरुतो ऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी |
अस्तोभयद् वृथासाम् अनु स्वधां गभस्त्योः ||eṣā́ syā́ vo maruto’nubhartrī́ práti ṣṭobhati vāgháto ná vā́ṇī ǀ
ástobhayadvṛ́thāsāmánu svadhā́m gábhastyoḥ ǁeṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī |
astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ ||ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒ऽभ॒र्त्री । प्रति॑ । स्तो॒भ॒ति॒ । वा॒घतः॑ । न । वाणी॑ ।
अस्तो॑भयत् । वृथा॑ । आ॒सा॒म् । अनु॑ । स्व॒धाम् । गभ॑स्त्योः ॥एषा । स्या । वः । मरुतः । अनुऽभर्त्री । प्रति । स्तोभति । वाघतः । न । वाणी ।
अस्तोभयत् । वृथा । आसाम् । अनु । स्वधाम् । गभस्त्योः ॥eṣā́ ǀ syā́ ǀ vaḥ ǀ marutaḥ ǀ anu-bhartrī́ ǀ práti ǀ stobhati ǀ vāghátaḥ ǀ ná ǀ vā́ṇī ǀ
ástobhayat ǀ vṛ́thā ǀ āsām ǀ ánu ǀ svadhā́m ǀ gábhastyoḥ ǁeṣā ǀ syā ǀ vaḥ ǀ marutaḥ ǀ anu-bhartrī ǀ prati ǀ stobhati ǀ vāghataḥ ǀ na ǀ vāṇī ǀ
astobhayat ǀ vṛthā ǀ āsām ǀ anu ǀ svadhām ǀ gabhastyoḥ ǁ1.88.6 Aṣṭaka 1.6.14.6Anuvāka 1.14.34
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.