Ṛk 1.88.4
Saṃhitā
अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीं ।
ब्रह्म॑ कृ॒ण्वंतो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
अहानि गृध्राः पर्य् आ व आगुर् इमां धियं वार्कार्यां च देवीम् |
ब्रह्म कृण्वन्तो गोतमासो अर्कैर् ऊर्ध्वं नुनुद्र उत्सधिम् पिबध्यै ||
áhāni gṛ́dhrāḥ páryā́ va ā́gurimā́m dhíyam vārkāryā́m ca devī́m ǀ
bráhma kṛṇvánto gótamāso arkáirūrdhvám nunudra utsadhím píbadhyai ǁ
ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm |
brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai ||
Padapāṭha
अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥
अहानि । गृध्राः । परि । आ । वः । आ । अगुः । इमाम् । धियम् । वार्कार्याम् । च । देवीम् ।
ब्रह्म । कृण्वन्तः । गोतमासः । अर्कैः । ऊर्ध्वम् । नुनुद्रे । उत्सऽधिम् । पिबध्यै ॥
áhāni ǀ gṛ́dhrāḥ ǀ pári ǀ ā́ ǀ vaḥ ǀ ā́ ǀ aguḥ ǀ imā́m ǀ dhíyam ǀ vārkāryā́m ǀ ca ǀ devī́m ǀ
bráhma ǀ kṛṇvántaḥ ǀ gótamāsaḥ ǀ arkáiḥ ǀ ūrdhvám ǀ nunudre ǀ utsa-dhím ǀ píbadhyai ǁ
ahāni ǀ gṛdhrāḥ ǀ pari ǀ ā ǀ vaḥ ǀ ā ǀ aguḥ ǀ imām ǀ dhiyam ǀ vārkāryām ǀ ca ǀ devīm ǀ
brahma ǀ kṛṇvantaḥ ǀ gotamāsaḥ ǀ arkaiḥ ǀ ūrdhvam ǀ nunudre ǀ utsa-dhim ǀ pibadhyai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.088.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.14.04
- Maṇḍala · Anuvāka · Ṛk
- 1.14.032
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Prastārapaṅkti, Virāḍrūpā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.