Sūkta 152
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2, 4-6); virāṭtrisṭup (3); nicṛttriṣṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मंत॑वो ह॒ सर्गाः॑ ।
अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥युवं वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः |
अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ||yuvám vástrāṇi pīvasā́ vasāthe yuvórácchidrā mántavo ha sárgāḥ ǀ
ávātiratamánṛtāni víśva ṛténa mitrāvaruṇā sacethe ǁyuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ |
avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe ||यु॒वम् । वस्त्रा॑णि । पी॒व॒सा । व॒सा॒थे॒ इति॑ । यु॒वोः । अच्छि॑द्राः । मन्त॑वः । ह॒ । सर्गाः॑ ।
अव॑ । अ॒ति॒र॒त॒म् । अनृ॑तानि । विश्वा॑ । ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति॑ ॥युवम् । वस्त्राणि । पीवसा । वसाथे इति । युवोः । अच्छिद्राः । मन्तवः । ह । सर्गाः ।
अव । अतिरतम् । अनृतानि । विश्वा । ऋतेन । मित्रावरुणा । सचेथे इति ॥yuvám ǀ vástrāṇi ǀ pīvasā́ ǀ vasāthe íti ǀ yuvóḥ ǀ ácchidrāḥ ǀ mántavaḥ ǀ ha ǀ sárgāḥ ǀ
áva ǀ atiratam ǀ ánṛtāni ǀ víśvā ǀ ṛténa ǀ mitrāvaruṇā ǀ sacethe íti ǁyuvam ǀ vastrāṇi ǀ pīvasā ǀ vasāthe iti ǀ yuvoḥ ǀ acchidrāḥ ǀ mantavaḥ ǀ ha ǀ sargāḥ ǀ
ava ǀ atiratam ǀ anṛtāni ǀ viśvā ǀ ṛtena ǀ mitrāvaruṇā ǀ sacethe iti ǁ1.152.1 Aṣṭaka 2.2.22.1Anuvāka 1.21.92
-
Ṛk 2
ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मंत्रः॑ कविश॒स्त ऋघा॑वान् ।
त्रि॒रश्रिं॑ हंति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् |
त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ||etáccaná tvo ví ciketadeṣām satyó mántraḥ kaviśastá ṛ́ghāvān ǀ
triráśrim hanti cáturaśrirugró devanído há prathamā́ ajūryan ǁetac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān |
triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan ||ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् ।
त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥एतत् । चन । त्वः । वि । चिकेतत् । एषाम् । सत्यः । मन्त्रः । कविऽशस्तः । ऋघावान् ।
त्रिःऽअश्रिम् । हन्ति । चतुःऽअश्रिः । उग्रः । देवऽनिदः । ह । प्रथमाः । अजूर्यन् ॥etát ǀ caná ǀ tvaḥ ǀ ví ǀ ciketat ǀ eṣām ǀ satyáḥ ǀ mántraḥ ǀ kavi-śastáḥ ǀ ṛ́ghāvān ǀ
triḥ-áśrim ǀ hanti ǀ cátuḥ-aśriḥ ǀ ugráḥ ǀ deva-nídaḥ ǀ ha ǀ prathamā́ḥ ǀ ajūryan ǁetat ǀ cana ǀ tvaḥ ǀ vi ǀ ciketat ǀ eṣām ǀ satyaḥ ǀ mantraḥ ǀ kavi-śastaḥ ǀ ṛghāvān ǀ
triḥ-aśrim ǀ hanti ǀ catuḥ-aśriḥ ǀ ugraḥ ǀ deva-nidaḥ ǀ ha ǀ prathamāḥ ǀ ajūryan ǁ1.152.2 Aṣṭaka 2.2.22.2Anuvāka 1.21.93
-
Ṛk 3
अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत ।
गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत |
गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ||apā́deti prathamā́ padvátīnām kástádvām mitrāvaruṇā́ ciketa ǀ
gárbho bhārám bharatyā́ cidasya ṛtám pípartyánṛtam ní tārīt ǁapād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa |
garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt ||अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ ।
गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒री॒त् ॥अपात् । एति । प्रथमा । पत्ऽवतीनाम् । कः । तत् । वाम् । मित्रावरुणा । आ । चिकेत ।
गर्भः । भारम् । भरति । आ । चित् । अस्य । ऋतम् । पिपर्ति । अनृतम् । नि । तारीत् ॥apā́t ǀ eti ǀ prathamā́ ǀ pat-vátīnām ǀ káḥ ǀ tát ǀ vām ǀ mitrāvaruṇā ǀ ā́ ǀ ciketa ǀ
gárbhaḥ ǀ bhārám ǀ bharati ǀ ā́ ǀ cit ǀ asya ǀ ṛtám ǀ píparti ǀ ánṛtam ǀ ní ǀ tārīt ǁapāt ǀ eti ǀ prathamā ǀ pat-vatīnām ǀ kaḥ ǀ tat ǀ vām ǀ mitrāvaruṇā ǀ ā ǀ ciketa ǀ
garbhaḥ ǀ bhāram ǀ bharati ǀ ā ǀ cit ǀ asya ǀ ṛtam ǀ piparti ǀ anṛtam ǀ ni ǀ tārīt ǁ1.152.3 Aṣṭaka 2.2.22.3Anuvāka 1.21.94
-
Ṛk 4
प्र॒यंत॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानं ।
अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि नोपनिपद्यमानम् |
अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम ||prayántamítpári jārám kanī́nām páśyāmasi nópanipádyamānam ǀ
ánavapṛgṇā vítatā vásānam priyám mitrásya váruṇasya dhā́ma ǁprayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam |
anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma ||प्र॒ऽयन्त॑म् । इत् । परि॑ । जा॒रम् । क॒नीना॑म् । पश्या॑मसि । न । उ॒प॒ऽनि॒पद्य॑मानम् ।
अन॑वऽपृग्णा । विऽत॑ता । वसा॑नम् । प्रि॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ ॥प्रऽयन्तम् । इत् । परि । जारम् । कनीनाम् । पश्यामसि । न । उपऽनिपद्यमानम् ।
अनवऽपृग्णा । विऽतता । वसानम् । प्रियम् । मित्रस्य । वरुणस्य । धाम ॥pra-yántam ǀ ít ǀ pári ǀ jārám ǀ kanī́nām ǀ páśyāmasi ǀ ná ǀ upa-nipádyamānam ǀ
ánava-pṛgṇā ǀ ví-tatā ǀ vásānam ǀ priyám ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǁpra-yantam ǀ it ǀ pari ǀ jāram ǀ kanīnām ǀ paśyāmasi ǀ na ǀ upa-nipadyamānam ǀ
anava-pṛgṇā ǀ vi-tatā ǀ vasānam ǀ priyam ǀ mitrasya ǀ varuṇasya ǀ dhāma ǁ1.152.4 Aṣṭaka 2.2.22.4Anuvāka 1.21.95
-
Ṛk 5
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः ।
अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णंतः॑ ॥अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः |
अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ||anaśvó jātó anabhīśúrárvā kánikradatpatayadūrdhvásānuḥ ǀ
acíttam bráhma jujuṣuryúvānaḥ prá mitré dhā́ma váruṇe gṛṇántaḥ ǁanaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ |
acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ||अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः ।
अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥अनश्वः । जातः । अनभीशुः । अर्वा । कनिक्रदत् । पतयत् । ऊर्ध्वऽसानुः ।
अचित्तम् । ब्रह्म । जुजुषुः । युवानः । प्र । मित्रे । धाम । वरुणे । गृणन्तः ॥anaśváḥ ǀ jātáḥ ǀ anabhīśúḥ ǀ árvā ǀ kánikradat ǀ patayat ǀ ūrdhvá-sānuḥ ǀ
acíttam ǀ bráhma ǀ jujuṣuḥ ǀ yúvānaḥ ǀ prá ǀ mitré ǀ dhā́ma ǀ váruṇe ǀ gṛṇántaḥ ǁanaśvaḥ ǀ jātaḥ ǀ anabhīśuḥ ǀ arvā ǀ kanikradat ǀ patayat ǀ ūrdhva-sānuḥ ǀ
acittam ǀ brahma ǀ jujuṣuḥ ǀ yuvānaḥ ǀ pra ǀ mitre ǀ dhāma ǀ varuṇe ǀ gṛṇantaḥ ǁ1.152.5 Aṣṭaka 2.2.22.5Anuvāka 1.21.96
-
Ṛk 6
आ धे॒नवो॑ मामते॒यमवं॑तीर्ब्रह्म॒प्रियं॑ पीपय॒न्त्सस्मि॒न्नूध॑न् ।
पि॒त्वो भि॑क्षेत व॒युना॑नि वि॒द्वाना॒साविवा॑स॒न्नदि॑तिमुरुष्येत् ॥आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् |
पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत् ||ā́ dhenávo māmateyámávantīrbrahmapríyam pīpayantsásminnū́dhan ǀ
pitvó bhikṣeta vayúnāni vidvā́nāsā́vívāsannáditimuruṣyet ǁā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan |
pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet ||आ । धे॒नवः॑ । मा॒म॒ते॒यम् । अव॑न्तीः । ब्र॒ह्म॒ऽप्रिय॑म् । पी॒प॒य॒न् । सस्मि॑न् । ऊध॑न् ।
पि॒त्वः । भि॒क्षे॒त॒ । व॒युना॑नि । वि॒द्वान् । आ॒सा । आ॒ऽविवा॑सन् । अदि॑तिम् । उ॒रु॒ष्ये॒त् ॥आ । धेनवः । मामतेयम् । अवन्तीः । ब्रह्मऽप्रियम् । पीपयन् । सस्मिन् । ऊधन् ।
पित्वः । भिक्षेत । वयुनानि । विद्वान् । आसा । आऽविवासन् । अदितिम् । उरुष्येत् ॥ā́ ǀ dhenávaḥ ǀ māmateyám ǀ ávantīḥ ǀ brahma-príyam ǀ pīpayan ǀ sásmin ǀ ū́dhan ǀ
pitváḥ ǀ bhikṣeta ǀ vayúnāni ǀ vidvā́n ǀ āsā́ ǀ ā-vívāsan ǀ áditim ǀ uruṣyet ǁā ǀ dhenavaḥ ǀ māmateyam ǀ avantīḥ ǀ brahma-priyam ǀ pīpayan ǀ sasmin ǀ ūdhan ǀ
pitvaḥ ǀ bhikṣeta ǀ vayunāni ǀ vidvān ǀ āsā ǀ ā-vivāsan ǀ aditim ǀ uruṣyet ǁ1.152.6 Aṣṭaka 2.2.22.6Anuvāka 1.21.97
-
Ṛk 7
आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्यां ।
अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम् |
अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ||ā́ vām mitrāvaruṇā havyájuṣṭim námasā devāvávasā vavṛtyām ǀ
asmā́kam bráhma pṛ́tanāsu sahyā asmā́kam vṛṣṭírdivyā́ supārā́ ǁā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām |
asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā ||आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । नम॑सा । दे॒वौ॒ । अव॑सा । व॒वृ॒त्या॒म् ।
अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । स॒ह्याः॒ । अ॒स्माक॑म् । वृ॒ष्टिः । दि॒व्या । सु॒ऽपा॒रा ॥आ । वाम् । मित्रावरुणा । हव्यऽजुष्टिम् । नमसा । देवौ । अवसा । ववृत्याम् ।
अस्माकम् । ब्रह्म । पृतनासु । सह्याः । अस्माकम् । वृष्टिः । दिव्या । सुऽपारा ॥ā́ ǀ vām ǀ mitrāvaruṇā ǀ havyá-juṣṭim ǀ námasā ǀ devau ǀ ávasā ǀ vavṛtyām ǀ
asmā́kam ǀ bráhma ǀ pṛ́tanāsu ǀ sahyāḥ ǀ asmā́kam ǀ vṛṣṭíḥ ǀ divyā́ ǀ su-pārā́ ǁā ǀ vām ǀ mitrāvaruṇā ǀ havya-juṣṭim ǀ namasā ǀ devau ǀ avasā ǀ vavṛtyām ǀ
asmākam ǀ brahma ǀ pṛtanāsu ǀ sahyāḥ ǀ asmākam ǀ vṛṣṭiḥ ǀ divyā ǀ su-pārā ǁ1.152.7 Aṣṭaka 2.2.22.7Anuvāka 1.21.98
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.