Ṛgveda · Maṇḍala 1 · Sūkta 152
Ṛk 1.152.2
Saṃhitā
ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मंत्रः॑ कविश॒स्त ऋघा॑वान् ।
त्रि॒रश्रिं॑ हंति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥
एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् |
त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ||
etáccaná tvo ví ciketadeṣām satyó mántraḥ kaviśastá ṛ́ghāvān ǀ
triráśrim hanti cáturaśrirugró devanído há prathamā́ ajūryan ǁ
etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān |
triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan ||
Padapāṭha
ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् ।
त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥
एतत् । चन । त्वः । वि । चिकेतत् । एषाम् । सत्यः । मन्त्रः । कविऽशस्तः । ऋघावान् ।
त्रिःऽअश्रिम् । हन्ति । चतुःऽअश्रिः । उग्रः । देवऽनिदः । ह । प्रथमाः । अजूर्यन् ॥
etát ǀ caná ǀ tvaḥ ǀ ví ǀ ciketat ǀ eṣām ǀ satyáḥ ǀ mántraḥ ǀ kavi-śastáḥ ǀ ṛ́ghāvān ǀ
triḥ-áśrim ǀ hanti ǀ cátuḥ-aśriḥ ǀ ugráḥ ǀ deva-nídaḥ ǀ ha ǀ prathamā́ḥ ǀ ajūryan ǁ
etat ǀ cana ǀ tvaḥ ǀ vi ǀ ciketat ǀ eṣām ǀ satyaḥ ǀ mantraḥ ǀ kavi-śastaḥ ǀ ṛghāvān ǀ
triḥ-aśrim ǀ hanti ǀ catuḥ-aśriḥ ǀ ugraḥ ǀ deva-nidaḥ ǀ ha ǀ prathamāḥ ǀ ajūryan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.152.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.22.02
- Maṇḍala · Anuvāka · Ṛk
- 1.21.093
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.