Sūkta 55
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (2, 5-7); jagatī (1, 4); virāḍjagatī (3, 8)
2nd set of styles jagatī
-
Ṛk 1
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इंद्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
भी॒मस्तुवि॑ष्मांचर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥दिवश् चिद् अस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति |
भीमस् तुविष्माञ् चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ||diváścidasya varimā́ ví papratha índram ná mahnā́ pṛthivī́ caná práti ǀ
bhīmástúviṣmāñcarṣaṇíbhya ātapáḥ śíśīte vájram téjase ná váṃsagaḥ ǁdivaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati |
bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ ||दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थे॒ । इन्द्र॑म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति॑ ।
भी॒मः । तुवि॑ष्मान् । च॒र्ष॒णिऽभ्यः॑ । आ॒ऽत॒पः । शिशी॑ते । वज्र॑म् । तेज॑से । न । वंस॑गः ॥दिवः । चित् । अस्य । वरिमा । वि । पप्रथे । इन्द्रम् । न । मह्ना । पृथिवी । चन । प्रति ।
भीमः । तुविष्मान् । चर्षणिऽभ्यः । आऽतपः । शिशीते । वज्रम् । तेजसे । न । वंसगः ॥diváḥ ǀ cit ǀ asya ǀ varimā́ ǀ ví ǀ paprathe ǀ índram ǀ ná ǀ mahnā́ ǀ pṛthivī́ ǀ caná ǀ práti ǀ
bhīmáḥ ǀ túviṣmān ǀ carṣaṇí-bhyaḥ ǀ ā-tapáḥ ǀ śíśīte ǀ vájram ǀ téjase ǀ ná ǀ váṃsagaḥ ǁdivaḥ ǀ cit ǀ asya ǀ varimā ǀ vi ǀ paprathe ǀ indram ǀ na ǀ mahnā ǀ pṛthivī ǀ cana ǀ prati ǀ
bhīmaḥ ǀ tuviṣmān ǀ carṣaṇi-bhyaḥ ǀ ā-tapaḥ ǀ śiśīte ǀ vajram ǀ tejase ǀ na ǀ vaṃsagaḥ ǁ1.55.1 Aṣṭaka 1.4.19.1Anuvāka 1.10.53
-
Ṛk 2
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
इंद्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः |
इन्द्रः सोमस्य पीतये वृषायते सनात् स युध्म ओजसा पनस्यते ||só arṇavó ná nadyáḥ samudríyaḥ práti gṛbhṇāti víśritā várīmabhiḥ ǀ
índraḥ sómasya pītáye vṛṣāyate sanā́tsá yudhmá ójasā panasyate ǁso arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ |
indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate ||सः । अ॒र्ण॒वः । न । न॒द्यः॑ । स॒मु॒द्रियः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । विऽश्रि॑ताः । वरी॑मऽभिः ।
इन्द्रः॑ । सोम॑स्य । पी॒तये॑ । वृ॒ष॒ऽय॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज॑सा । प॒न॒स्य॒ते॒ ॥सः । अर्णवः । न । नद्यः । समुद्रियः । प्रति । गृभ्णाति । विऽश्रिताः । वरीमऽभिः ।
इन्द्रः । सोमस्य । पीतये । वृषऽयते । सनात् । सः । युध्मः । ओजसा । पनस्यते ॥sáḥ ǀ arṇaváḥ ǀ ná ǀ nadyáḥ ǀ samudríyaḥ ǀ práti ǀ gṛbhṇāti ǀ ví-śritāḥ ǀ várīma-bhiḥ ǀ
índraḥ ǀ sómasya ǀ pītáye ǀ vṛṣa-yate ǀ sanā́t ǀ sáḥ ǀ yudhmáḥ ǀ ójasā ǀ panasyate ǁsaḥ ǀ arṇavaḥ ǀ na ǀ nadyaḥ ǀ samudriyaḥ ǀ prati ǀ gṛbhṇāti ǀ vi-śritāḥ ǀ varīma-bhiḥ ǀ
indraḥ ǀ somasya ǀ pītaye ǀ vṛṣa-yate ǀ sanāt ǀ saḥ ǀ yudhmaḥ ǀ ojasā ǀ panasyate ǁ1.55.2 Aṣṭaka 1.4.19.2Anuvāka 1.10.54
-
Ṛk 3
त्वं तमिं॑द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥त्वं तम् इन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणाम् इरज्यसि |
प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ||tvám támindra párvatam ná bhójase mahó nṛmṇásya dhármaṇāmirajyasi ǀ
prá vīryéṇa devátā́ti cekite víśvasmā ugráḥ kármaṇe puróhitaḥ ǁtvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi |
pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ ||त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । न । भोज॑से । म॒हः । नृ॒म्णस्य॑ । धर्म॑णाम् । इ॒र॒ज्य॒सि॒ ।
प्र । वी॒र्ये॑ण । दे॒वता॑ । अति॑ । चे॒कि॒ते॒ । विश्व॑स्मै । उ॒ग्रः । कर्म॑णे । पु॒रःऽहि॑तः ॥त्वम् । तम् । इन्द्र । पर्वतम् । न । भोजसे । महः । नृम्णस्य । धर्मणाम् । इरज्यसि ।
प्र । वीर्येण । देवता । अति । चेकिते । विश्वस्मै । उग्रः । कर्मणे । पुरःऽहितः ॥tvám ǀ tám ǀ indra ǀ párvatam ǀ ná ǀ bhójase ǀ maháḥ ǀ nṛmṇásya ǀ dhármaṇām ǀ irajyasi ǀ
prá ǀ vīryéṇa ǀ devátā ǀ áti ǀ cekite ǀ víśvasmai ǀ ugráḥ ǀ kármaṇe ǀ puráḥ-hitaḥ ǁtvam ǀ tam ǀ indra ǀ parvatam ǀ na ǀ bhojase ǀ mahaḥ ǀ nṛmṇasya ǀ dharmaṇām ǀ irajyasi ǀ
pra ǀ vīryeṇa ǀ devatā ǀ ati ǀ cekite ǀ viśvasmai ǀ ugraḥ ǀ karmaṇe ǀ puraḥ-hitaḥ ǁ1.55.3 Aṣṭaka 1.4.19.3Anuvāka 1.10.55
-
Ṛk 4
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इं॑द्रि॒यं ।
वृषा॒ छंदु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥स इद् वने नमस्युभिर् वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् |
वृषा छन्दुर् भवति हर्यतो वृषा क्षेमेण धेनाम् मघवा यद् इन्वति ||sá ídváne namasyúbhirvacasyate cā́ru jáneṣu prabruvāṇá indriyám ǀ
vṛ́ṣā chándurbhavati haryató vṛ́ṣā kṣémeṇa dhénām maghávā yádínvati ǁsa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam |
vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati ||सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् ।
वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥सः । इत् । वने । नमस्युऽभिः । वचस्यते । चारु । जनेषु । प्रऽब्रुवाणः । इन्द्रियम् ।
वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति ॥sáḥ ǀ ít ǀ váne ǀ namasyú-bhiḥ ǀ vacasyate ǀ cā́ru ǀ jáneṣu ǀ pra-bruvāṇáḥ ǀ indriyám ǀ
vṛ́ṣā ǀ chánduḥ ǀ bhavati ǀ haryatáḥ ǀ vṛ́ṣā ǀ kṣémeṇa ǀ dhénām ǀ maghávā ǀ yát ǀ ínvati ǁsaḥ ǀ it ǀ vane ǀ namasyu-bhiḥ ǀ vacasyate ǀ cāru ǀ janeṣu ǀ pra-bruvāṇaḥ ǀ indriyam ǀ
vṛṣā ǀ chanduḥ ǀ bhavati ǀ haryataḥ ǀ vṛṣā ǀ kṣemeṇa ǀ dhenām ǀ maghavā ǀ yat ǀ invati ǁ1.55.4 Aṣṭaka 1.4.19.4Anuvāka 1.10.56
-
Ṛk 5
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इंद्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धं ॥स इन् महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः |
अधा चन श्रद् दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ||sá ínmahā́ni samithā́ni majmánā kṛṇóti yudhmá ójasā jánebhyaḥ ǀ
ádhā caná śráddadhati tvíṣīmata índrāya vájram nighánighnate vadhám ǁsa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ |
adhā cana śrad dadhati tviṣīmata indrāya vajraṃ nighanighnate vadham ||सः । इत् । म॒हानि॑ । स॒म्ऽइ॒थानि॑ । म॒ज्मना॑ । कृ॒णोति॑ । यु॒ध्मः । ओज॑सा । जने॑भ्यः ।
अध॑ । च॒न । श्रत् । द॒ध॒ति॒ । त्विषि॑ऽमते । इन्द्रा॑य । वज्र॑म् । नि॒ऽघनि॑घ्नते । व॒धम् ॥सः । इत् । महानि । सम्ऽइथानि । मज्मना । कृणोति । युध्मः । ओजसा । जनेभ्यः ।
अध । चन । श्रत् । दधति । त्विषिऽमते । इन्द्राय । वज्रम् । निऽघनिघ्नते । वधम् ॥sáḥ ǀ ít ǀ mahā́ni ǀ sam-ithā́ni ǀ majmánā ǀ kṛṇóti ǀ yudhmáḥ ǀ ójasā ǀ jánebhyaḥ ǀ
ádha ǀ caná ǀ śrát ǀ dadhati ǀ tvíṣi-mate ǀ índrāya ǀ vájram ǀ ni-ghánighnate ǀ vadhám ǁsaḥ ǀ it ǀ mahāni ǀ sam-ithāni ǀ majmanā ǀ kṛṇoti ǀ yudhmaḥ ǀ ojasā ǀ janebhyaḥ ǀ
adha ǀ cana ǀ śrat ǀ dadhati ǀ tviṣi-mate ǀ indrāya ǀ vajram ǀ ni-ghanighnate ǀ vadham ǁ1.55.5 Aṣṭaka 1.4.19.5Anuvāka 1.10.57
-
Ṛk 6
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् |
ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ||sá hí śravasyúḥ sádanāni kṛtrímā kṣmayā́ vṛdhāná ójasā vināśáyan ǀ
jyótīṃṣi kṛṇvánnavṛkā́ṇi yájyavé’va sukrátuḥ sártavā́ apáḥ sṛjat ǁsa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan |
jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat ||सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् ।
ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥सः । हि । श्रवस्युः । सदनानि । कृत्रिमा । क्ष्मया । वृधानः । ओजसा । विऽनाशयन् ।
ज्योतींषि । कृण्वन् । अवृकाणि । यज्यवे । अव । सुऽक्रतुः । सर्तवै । अपः । सृजत् ॥sáḥ ǀ hí ǀ śravasyúḥ ǀ sádanāni ǀ kṛtrímā ǀ kṣmayā́ ǀ vṛdhānáḥ ǀ ójasā ǀ vi-nāśáyan ǀ
jyótīṃṣi ǀ kṛṇván ǀ avṛkā́ṇi ǀ yájyave ǀ áva ǀ su-krátuḥ ǀ sártavái ǀ apáḥ ǀ sṛjat ǁsaḥ ǀ hi ǀ śravasyuḥ ǀ sadanāni ǀ kṛtrimā ǀ kṣmayā ǀ vṛdhānaḥ ǀ ojasā ǀ vi-nāśayan ǀ
jyotīṃṣi ǀ kṛṇvan ǀ avṛkāṇi ǀ yajyave ǀ ava ǀ su-kratuḥ ǀ sartavai ǀ apaḥ ǀ sṛjat ǁ1.55.6 Aṣṭaka 1.4.20.1Anuvāka 1.10.58
-
Ṛk 7
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वांचा॒ हरी॑ वंदनश्रु॒दा कृ॑धि ।
यमि॑ष्ठासः॒ सार॑थयो॒ य इं॑द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवंति॒ भूर्ण॑यः ॥दानाय मनः सोमपावन्न् अस्तु ते ऽर्वाञ्चा हरी वन्दनश्रुद् आ कृधि |
यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ||dānā́ya mánaḥ somapāvannastu te’rvā́ñcā hárī vandanaśrudā́ kṛdhi ǀ
yámiṣṭhāsaḥ sā́rathayo yá indra te ná tvā kétā ā́ dabhnuvanti bhū́rṇayaḥ ǁdānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi |
yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ ||दा॒नाय॑ । मनः॑ । सो॒म॒ऽपा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा॑ । हरी॒ इति॑ । व॒न्द॒न॒ऽश्रु॒त् । आ । कृ॒धि॒ ।
यमि॑ष्ठासः । सार॑थयः । ये । इ॒न्द्र॒ । ते॒ । न । त्वा॒ । केताः॑ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण॑यः ॥दानाय । मनः । सोमऽपावन् । अस्तु । ते । अर्वाञ्चा । हरी इति । वन्दनऽश्रुत् । आ । कृधि ।
यमिष्ठासः । सारथयः । ये । इन्द्र । ते । न । त्वा । केताः । आ । दभ्नुवन्ति । भूर्णयः ॥dānā́ya ǀ mánaḥ ǀ soma-pāvan ǀ astu ǀ te ǀ arvā́ñcā ǀ hárī íti ǀ vandana-śrut ǀ ā́ ǀ kṛdhi ǀ
yámiṣṭhāsaḥ ǀ sā́rathayaḥ ǀ yé ǀ indra ǀ te ǀ ná ǀ tvā ǀ kétāḥ ǀ ā́ ǀ dabhnuvanti ǀ bhū́rṇayaḥ ǁdānāya ǀ manaḥ ǀ soma-pāvan ǀ astu ǀ te ǀ arvāñcā ǀ harī iti ǀ vandana-śrut ǀ ā ǀ kṛdhi ǀ
yamiṣṭhāsaḥ ǀ sārathayaḥ ǀ ye ǀ indra ǀ te ǀ na ǀ tvā ǀ ketāḥ ǀ ā ǀ dabhnuvanti ǀ bhūrṇayaḥ ǁ1.55.7 Aṣṭaka 1.4.20.2Anuvāka 1.10.59
-
Ṛk 8
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इंद्र॒ भूर॑यः ॥अप्रक्षितं वसु बिभर्षि हस्तयोर् अषाऌहं सहस् तन्वि श्रुतो दधे |
आवृतासो ऽवतासो न कर्तृभिस् तनूषु ते क्रतव इन्द्र भूरयः ||áprakṣitam vásu bibharṣi hástayoráṣāḷham sáhastanví śrutó dadhe ǀ
ā́vṛtāso’vatā́so ná kartṛ́bhistanū́ṣu te krátava indra bhū́rayaḥ ǁaprakṣitaṃ vasu bibharṣi hastayor aṣāḷhaṃ sahas tanvi śruto dadhe |
āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ ||अप्र॑ऽक्षितम् । वसु॑ । बि॒भ॒र्षि॒ । हस्त॑योः । अषा॑ळ्हम् । सहः॑ । त॒न्वि॑ । श्रु॒तः । द॒धे॒ ।
आऽवृ॑तासः । अ॒व॒तासः । न । क॒र्तृऽभिः॑ । त॒नूषु॑ । ते॒ । क्रत॑वः । इ॒न्द्र॒ । भूर॑यः ॥अप्रऽक्षितम् । वसु । बिभर्षि । हस्तयोः । अषाळ्हम् । सहः । तन्वि । श्रुतः । दधे ।
आऽवृतासः । अवतासः । न । कर्तृऽभिः । तनूषु । ते । क्रतवः । इन्द्र । भूरयः ॥ápra-kṣitam ǀ vásu ǀ bibharṣi ǀ hástayoḥ ǀ áṣāḷham ǀ sáhaḥ ǀ tanví ǀ śrutáḥ ǀ dadhe ǀ
ā́-vṛtāsaḥ ǀ avatā́sáḥ ǀ ná ǀ kartṛ́-bhiḥ ǀ tanū́ṣu ǀ te ǀ krátavaḥ ǀ indra ǀ bhū́rayaḥ ǁapra-kṣitam ǀ vasu ǀ bibharṣi ǀ hastayoḥ ǀ aṣāḷham ǀ sahaḥ ǀ tanvi ǀ śrutaḥ ǀ dadhe ǀ
ā-vṛtāsaḥ ǀ avatāsaḥ ǀ na ǀ kartṛ-bhiḥ ǀ tanūṣu ǀ te ǀ kratavaḥ ǀ indra ǀ bhūrayaḥ ǁ1.55.8 Aṣṭaka 1.4.20.3Anuvāka 1.10.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.