Sūkta 130
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
Metres by ṛk
1st set of styles svarāḍaṣṭiḥ (2, 3, 6, 9); bhurigaṣṭiḥ (1, 5); aṣṭiḥ (4, 8); nicṛdatyaṣṭiḥ (7); virāṭtrisṭup (10)
2nd set of styles atyaṣṭi (1-9); triṣṭubh (10)
-
Ṛk 1
एंद्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः ।
हवा॑महे त्वा व॒यं प्रय॑स्वंतः सु॒ते सचा॑ ।
पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥एन्द्र याह्य् उप नः परावतो नायम् अच्छा विदथानीव सत्पतिर् अस्तं राजेव सत्पतिः |
हवामहे त्वा वयम् प्रयस्वन्तः सुते सचा |
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ||éndra yāhyúpa naḥ parāváto nā́yámácchā vidáthānīva sátpatirástam rā́jeva sátpatiḥ ǀ
hávāmahe tvā vayám práyasvantaḥ suté sácā ǀ
putrā́so ná pitáram vā́jasātaye máṃhiṣṭham vā́jasātaye ǁendra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ |
havāmahe tvā vayam prayasvantaḥ sute sacā |
putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye ||आ । इ॒न्द्र॒ । या॒हि॒ । उप॑ । नः॒ । प॒रा॒ऽवतः॑ । न । अ॒यम् । अच्छ॑ । वि॒दथा॑निऽइव । सत्ऽप॑तिः । अस्त॑म् । राजा॑ऽइव । सत्ऽप॑तिः ।
हवा॑महे । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । सु॒ते । सचा॑ ।
पु॒त्रासः॑ । न । पि॒तर॑म् । वाज॑ऽसातये । मंहि॑ष्ठम् । वाज॑ऽसातये ॥आ । इन्द्र । याहि । उप । नः । पराऽवतः । न । अयम् । अच्छ । विदथानिऽइव । सत्ऽपतिः । अस्तम् । राजाऽइव । सत्ऽपतिः ।
हवामहे । त्वा । वयम् । प्रयस्वन्तः । सुते । सचा ।
पुत्रासः । न । पितरम् । वाजऽसातये । मंहिष्ठम् । वाजऽसातये ॥ā́ ǀ indra ǀ yāhi ǀ úpa ǀ naḥ ǀ parā-vátaḥ ǀ ná ǀ ayám ǀ áccha ǀ vidáthāni-iva ǀ sát-patiḥ ǀ ástam ǀ rā́jā-iva ǀ sát-patiḥ ǀ
hávāmahe ǀ tvā ǀ vayám ǀ práyasvantaḥ ǀ suté ǀ sácā ǀ
putrā́saḥ ǀ ná ǀ pitáram ǀ vā́ja-sātaye ǀ máṃhiṣṭham ǀ vā́ja-sātaye ǁā ǀ indra ǀ yāhi ǀ upa ǀ naḥ ǀ parā-vataḥ ǀ na ǀ ayam ǀ accha ǀ vidathāni-iva ǀ sat-patiḥ ǀ astam ǀ rājā-iva ǀ sat-patiḥ ǀ
havāmahe ǀ tvā ǀ vayam ǀ prayasvantaḥ ǀ sute ǀ sacā ǀ
putrāsaḥ ǀ na ǀ pitaram ǀ vāja-sātaye ǀ maṃhiṣṭham ǀ vāja-sātaye ǁ1.130.1 Aṣṭaka 2.1.18.1Anuvāka 1.19.31
-
Ṛk 2
पिबा॒ सोम॑मिंद्र सुवा॒नमद्रि॑भिः॒ कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः ।
मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से ।
आ त्वा॑ यच्छंतु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्यं॑ ॥पिबा सोमम् इन्द्र सुवानम् अद्रिभिः कोशेन सिक्तम् अवतं न वंसगस् तातृषाणो न वंसगः |
मदाय हर्यताय ते तुविष्टमाय धायसे |
आ त्वा यच्छन्तु हरितो न सूर्यम् अहा विश्वेव सूर्यम् ||píbā sómamindra suvānámádribhiḥ kóśena siktámavatám ná váṃsagastātṛṣāṇó ná váṃsagaḥ ǀ
mádāya haryatā́ya te tuvíṣṭamāya dhā́yase ǀ
ā́ tvā yacchantu haríto ná sū́ryamáhā víśveva sū́ryam ǁpibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ |
madāya haryatāya te tuviṣṭamāya dhāyase |
ā tvā yacchantu harito na sūryam ahā viśveva sūryam ||पिब॑ । सोम॑म् । इ॒न्द्र॒ । सु॒वा॒नम् । अद्रि॑ऽभिः । कोशे॑न । सि॒क्तम् । अ॒व॒तम् । न । वंस॑गः । त॒तृ॒षा॒णः । न । वंस॑गः ।
मदा॑य । ह॒र्य॒ताय॑ । ते॒ । तु॒विःऽत॑माय । धाय॑से ।
आ । त्वा॒ । य॒च्छ॒न्तु॒ । ह॒रितः॑ । न । सूर्य॑म् । अहा॑ । विश्वा॑ऽइव । सूर्य॑म् ॥पिब । सोमम् । इन्द्र । सुवानम् । अद्रिऽभिः । कोशेन । सिक्तम् । अवतम् । न । वंसगः । ततृषाणः । न । वंसगः ।
मदाय । हर्यताय । ते । तुविःऽतमाय । धायसे ।
आ । त्वा । यच्छन्तु । हरितः । न । सूर्यम् । अहा । विश्वाऽइव । सूर्यम् ॥píba ǀ sómam ǀ indra ǀ suvānám ǀ ádri-bhiḥ ǀ kóśena ǀ siktám ǀ avatám ǀ ná ǀ váṃsagaḥ ǀ tatṛṣāṇáḥ ǀ ná ǀ váṃsagaḥ ǀ
mádāya ǀ haryatā́ya ǀ te ǀ tuvíḥ-tamāya ǀ dhā́yase ǀ
ā́ ǀ tvā ǀ yacchantu ǀ harítaḥ ǀ ná ǀ sū́ryam ǀ áhā ǀ víśvā-iva ǀ sū́ryam ǁpiba ǀ somam ǀ indra ǀ suvānam ǀ adri-bhiḥ ǀ kośena ǀ siktam ǀ avatam ǀ na ǀ vaṃsagaḥ ǀ tatṛṣāṇaḥ ǀ na ǀ vaṃsagaḥ ǀ
madāya ǀ haryatāya ǀ te ǀ tuviḥ-tamāya ǀ dhāyase ǀ
ā ǀ tvā ǀ yacchantu ǀ haritaḥ ǀ na ǀ sūryam ǀ ahā ǀ viśvā-iva ǀ sūryam ǁ1.130.2 Aṣṭaka 2.1.18.2Anuvāka 1.19.32
-
Ṛk 3
अविं॑दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यनं॒ते अं॒तरश्म॑नि ।
व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नंगि॑रस्तमः ।
अपा॑वृणो॒दिष॒ इंद्रः॒ परी॑वृता॒ द्वार॒ इषः॒ परी॑वृताः ॥अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि |
व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः |
अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ||ávindaddivó níhitam gúhā nidhím vérná gárbham párivītamáśmanyananté antáráśmani ǀ
vrajám vajrī́ gávāmiva síṣāsannáṅgirastamaḥ ǀ
ápāvṛṇodíṣa índraḥ párīvṛtā dvā́ra íṣaḥ párīvṛtāḥ ǁavindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani |
vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ |
apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ||अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒ऽधिम् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि ।
व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः ।
अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥अविन्दत् । दिवः । निऽहितम् । गुहा । निऽधिम् । वेः । न । गर्भम् । परिऽवीतम् । अश्मनि । अनन्ते । अन्तः । अश्मनि ।
व्रजम् । वज्री । गवाम्ऽइव । सिसासन् । अङ्गिरःऽतमः ।
अप । अवृणोत् । इषः । इन्द्रः । परिऽवृताः । द्वारः । इषः । परिऽवृताः ॥ávindat ǀ diváḥ ǀ ní-hitam ǀ gúhā ǀ ni-dhím ǀ véḥ ǀ ná ǀ gárbham ǀ pári-vītam ǀ áśmani ǀ ananté ǀ antáḥ ǀ áśmani ǀ
vrajám ǀ vajrī́ ǀ gávām-iva ǀ sísāsan ǀ áṅgiraḥ-tamaḥ ǀ
ápa ǀ avṛṇot ǀ íṣaḥ ǀ índraḥ ǀ pári-vṛtāḥ ǀ dvā́raḥ ǀ íṣaḥ ǀ pári-vṛtāḥ ǁavindat ǀ divaḥ ǀ ni-hitam ǀ guhā ǀ ni-dhim ǀ veḥ ǀ na ǀ garbham ǀ pari-vītam ǀ aśmani ǀ anante ǀ antaḥ ǀ aśmani ǀ
vrajam ǀ vajrī ǀ gavām-iva ǀ sisāsan ǀ aṅgiraḥ-tamaḥ ǀ
apa ǀ avṛṇot ǀ iṣaḥ ǀ indraḥ ǀ pari-vṛtāḥ ǀ dvāraḥ ǀ iṣaḥ ǀ pari-vṛtāḥ ǁ1.130.3 Aṣṭaka 2.1.18.3Anuvāka 1.19.33
-
Ṛk 4
दा॒दृ॒हा॒णो वज्र॒मिंद्रो॒ गभ॑स्त्योः॒ क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् ।
सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिंद्र म॒ज्मना॑ ।
तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् |
संविव्यान ओजसा शवोभिर् इन्द्र मज्मना |
तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ||dādṛhāṇó vájramíndro gábhastyoḥ kṣádmeva tigmámásanāya sám śyadahihátyāya sám śyat ǀ
saṃvivyāná ójasā śávobhirindra majmánā ǀ
táṣṭeva vṛkṣám vaníno ní vṛścasi paraśvéva ní vṛścasi ǁdādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat |
saṃvivyāna ojasā śavobhir indra majmanā |
taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi ||द॒दृ॒हा॒णः । वज्र॑म् । इन्द्रः॑ । गभ॑स्त्योः । क्षद्म॑ऽइव । ति॒ग्मम् । अस॑नाय । सम् । श्य॒त् । अ॒हि॒ऽहत्या॑य । सम् । श्य॒त् ।
स॒म्ऽवि॒व्या॒नः । ओज॑सा । शवः॑ऽभिः । इ॒न्द्र॒ । म॒ज्मना॑ ।
तष्टा॑ऽइव । वृ॒क्षम् । व॒निनः॑ । नि । वृ॒श्च॒सि॒ । प॒र॒श्वाऽइ॑व । नि । वृ॒श्च॒सि॒ ॥ददृहाणः । वज्रम् । इन्द्रः । गभस्त्योः । क्षद्मऽइव । तिग्मम् । असनाय । सम् । श्यत् । अहिऽहत्याय । सम् । श्यत् ।
सम्ऽविव्यानः । ओजसा । शवःऽभिः । इन्द्र । मज्मना ।
तष्टाऽइव । वृक्षम् । वनिनः । नि । वृश्चसि । परश्वाऽइव । नि । वृश्चसि ॥dadṛhāṇáḥ ǀ vájram ǀ índraḥ ǀ gábhastyoḥ ǀ kṣádma-iva ǀ tigmám ǀ ásanāya ǀ sám ǀ śyat ǀ ahi-hátyāya ǀ sám ǀ śyat ǀ
sam-vivyānáḥ ǀ ójasā ǀ śávaḥ-bhiḥ ǀ indra ǀ majmánā ǀ
táṣṭā-iva ǀ vṛkṣám ǀ vanínaḥ ǀ ní ǀ vṛścasi ǀ paraśvā́-iva ǀ ní ǀ vṛścasi ǁdadṛhāṇaḥ ǀ vajram ǀ indraḥ ǀ gabhastyoḥ ǀ kṣadma-iva ǀ tigmam ǀ asanāya ǀ sam ǀ śyat ǀ ahi-hatyāya ǀ sam ǀ śyat ǀ
sam-vivyānaḥ ǀ ojasā ǀ śavaḥ-bhiḥ ǀ indra ǀ majmanā ǀ
taṣṭā-iva ǀ vṛkṣam ǀ vaninaḥ ǀ ni ǀ vṛścasi ǀ paraśvā-iva ǀ ni ǀ vṛścasi ǁ1.130.4 Aṣṭaka 2.1.18.4Anuvāka 1.19.34
-
Ṛk 5
त्वं वृथा॑ न॒द्य॑ इंद्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव ।
इ॒त ऊ॒तीर॑युंजत समा॒नमर्थ॒मक्षि॑तं ।
धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥त्वं वृथा नद्य इन्द्र सर्तवे ऽच्छा समुद्रम् असृजो रथां इव वाजयतो रथां इव |
इत ऊतीर् अयुञ्जत समानम् अर्थम् अक्षितम् |
धेनूर् इव मनवे विश्वदोहसो जनाय विश्वदोहसः ||tvám vṛ́thā nadyá indra sártavé’cchā samudrámasṛjo ráthām̐ iva vājayató ráthām̐ iva ǀ
itá ūtī́rayuñjata samānámárthamákṣitam ǀ
dhenū́riva mánave viśvádohaso jánāya viśvádohasaḥ ǁtvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṃ iva vājayato rathāṃ iva |
ita ūtīr ayuñjata samānam artham akṣitam |
dhenūr iva manave viśvadohaso janāya viśvadohasaḥ ||त्वम् । वृथा॑ । न॒द्यः॑ । इ॒न्द्र॒ । सर्त॑वे । अच्छ॑ । स॒मु॒द्रम् । अ॒सृ॒जः॒ । रथा॑न्ऽइव । वा॒ज॒ऽय॒तः । रथा॑न्ऽइव ।
इ॒तः । ऊ॒तीः । अ॒यु॒ञ्ज॒त॒ । स॒मा॒नम् । अर्थ॑म् । अक्षि॑तम् ।
धे॒नूःऽइ॑व । मन॑वे । वि॒श्वऽदो॑हसः । जना॑य । वि॒श्वऽदो॑हसः ॥त्वम् । वृथा । नद्यः । इन्द्र । सर्तवे । अच्छ । समुद्रम् । असृजः । रथान्ऽइव । वाजऽयतः । रथान्ऽइव ।
इतः । ऊतीः । अयुञ्जत । समानम् । अर्थम् । अक्षितम् ।
धेनूःऽइव । मनवे । विश्वऽदोहसः । जनाय । विश्वऽदोहसः ॥tvám ǀ vṛ́thā ǀ nadyáḥ ǀ indra ǀ sártave ǀ áccha ǀ samudrám ǀ asṛjaḥ ǀ ráthān-iva ǀ vāja-yatáḥ ǀ ráthān-iva ǀ
itáḥ ǀ ūtī́ḥ ǀ ayuñjata ǀ samānám ǀ ártham ǀ ákṣitam ǀ
dhenū́ḥ-iva ǀ mánave ǀ viśvá-dohasaḥ ǀ jánāya ǀ viśvá-dohasaḥ ǁtvam ǀ vṛthā ǀ nadyaḥ ǀ indra ǀ sartave ǀ accha ǀ samudram ǀ asṛjaḥ ǀ rathān-iva ǀ vāja-yataḥ ǀ rathān-iva ǀ
itaḥ ǀ ūtīḥ ǀ ayuñjata ǀ samānam ǀ artham ǀ akṣitam ǀ
dhenūḥ-iva ǀ manave ǀ viśva-dohasaḥ ǀ janāya ǀ viśva-dohasaḥ ǁ1.130.5 Aṣṭaka 2.1.18.5Anuvāka 1.19.35
-
Ṛk 6
इ॒मां ते॒ वाचं॑ वसू॒यंत॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः ।
शुं॒भंतो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिनं॑ ।
अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वाम् अतक्षिषुः |
शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् |
अत्यम् इव शवसे सातये धना विश्वा धनानि सातये ||imā́m te vā́cam vasūyánta āyávo rátham ná dhī́raḥ svápā atakṣiṣuḥ sumnā́ya tvā́matakṣiṣuḥ ǀ
śumbhánto jényam yathā vā́jeṣu vipra vājínam ǀ
átyamiva śávase sātáye dhánā víśvā dhánāni sātáye ǁimāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ |
śumbhanto jenyaṃ yathā vājeṣu vipra vājinam |
atyam iva śavase sātaye dhanā viśvā dhanāni sātaye ||इ॒माम् । ते॒ । वाच॑म् । व॒सु॒ऽयन्तः॑ । आ॒यवः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्षि॒षुः॒ । सु॒म्नाय॑ । त्वाम् । अ॒त॒क्षि॒षुः॒ ।
शु॒म्भन्तः॑ । जेन्य॑म् । य॒था॒ । वाजे॑षु । वि॒प्र॒ । वा॒जिन॑म् ।
अत्य॑म्ऽइव । शव॑से । सा॒तये॑ । धना॑ । विश्वा॑ । धना॑नि । सा॒तये॑ ॥इमाम् । ते । वाचम् । वसुऽयन्तः । आयवः । रथम् । न । धीरः । सुऽअपाः । अतक्षिषुः । सुम्नाय । त्वाम् । अतक्षिषुः ।
शुम्भन्तः । जेन्यम् । यथा । वाजेषु । विप्र । वाजिनम् ।
अत्यम्ऽइव । शवसे । सातये । धना । विश्वा । धनानि । सातये ॥imā́m ǀ te ǀ vā́cam ǀ vasu-yántaḥ ǀ āyávaḥ ǀ rátham ǀ ná ǀ dhī́raḥ ǀ su-ápāḥ ǀ atakṣiṣuḥ ǀ sumnā́ya ǀ tvā́m ǀ atakṣiṣuḥ ǀ
śumbhántaḥ ǀ jényam ǀ yathā ǀ vā́jeṣu ǀ vipra ǀ vājínam ǀ
átyam-iva ǀ śávase ǀ sātáye ǀ dhánā ǀ víśvā ǀ dhánāni ǀ sātáye ǁimām ǀ te ǀ vācam ǀ vasu-yantaḥ ǀ āyavaḥ ǀ ratham ǀ na ǀ dhīraḥ ǀ su-apāḥ ǀ atakṣiṣuḥ ǀ sumnāya ǀ tvām ǀ atakṣiṣuḥ ǀ
śumbhantaḥ ǀ jenyam ǀ yathā ǀ vājeṣu ǀ vipra ǀ vājinam ǀ
atyam-iva ǀ śavase ǀ sātaye ǀ dhanā ǀ viśvā ǀ dhanāni ǀ sātaye ǁ1.130.6 Aṣṭaka 2.1.19.1Anuvāka 1.19.36
-
Ṛk 7
भि॒नत्पुरो॑ नव॒तिमिं॑द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो ।
अ॒ति॒थि॒ग्वाय॒ शंब॑रं गि॒रेरु॒ग्रो अवा॑भरत् ।
म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥भिनत् पुरो नवतिम् इन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो |
अतिथिग्वाय शम्बरं गिरेर् उग्रो अवाभरत् |
महो धनानि दयमान ओजसा विश्वा धनान्य् ओजसा ||bhinátpúro navatímindra pūráve dívodāsāya máhi dāśúṣe nṛto vájreṇa dāśúṣe nṛto ǀ
atithigvā́ya śámbaram girérugró ávābharat ǀ
mahó dhánāni dáyamāna ójasā víśvā dhánānyójasā ǁbhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto |
atithigvāya śambaraṃ girer ugro avābharat |
maho dhanāni dayamāna ojasā viśvā dhanāny ojasā ||भि॒नत् । पुरः॑ । न॒व॒तिम् । इ॒न्द्र॒ । पू॒रवे॑ । दिवः॑ऽदासाय । महि॑ । दा॒शुषे॑ । नृ॒तो॒ इति॑ । वज्रे॑ण । दा॒शुषे॑ । नृ॒तो॒ इति॑ ।
अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् । गि॒रेः । उ॒ग्रः । अव॑ । अ॒भ॒र॒त् ।
म॒हः । धना॑नि । दय॑मानः । ओज॑सा । विश्वा॑ । धना॑नि । ओज॑सा ॥भिनत् । पुरः । नवतिम् । इन्द्र । पूरवे । दिवःऽदासाय । महि । दाशुषे । नृतो इति । वज्रेण । दाशुषे । नृतो इति ।
अतिथिऽग्वाय । शम्बरम् । गिरेः । उग्रः । अव । अभरत् ।
महः । धनानि । दयमानः । ओजसा । विश्वा । धनानि । ओजसा ॥bhinát ǀ púraḥ ǀ navatím ǀ indra ǀ pūráve ǀ dívaḥ-dāsāya ǀ máhi ǀ dāśúṣe ǀ nṛto íti ǀ vájreṇa ǀ dāśúṣe ǀ nṛto íti ǀ
atithi-gvā́ya ǀ śámbaram ǀ giréḥ ǀ ugráḥ ǀ áva ǀ abharat ǀ
maháḥ ǀ dhánāni ǀ dáyamānaḥ ǀ ójasā ǀ víśvā ǀ dhánāni ǀ ójasā ǁbhinat ǀ puraḥ ǀ navatim ǀ indra ǀ pūrave ǀ divaḥ-dāsāya ǀ mahi ǀ dāśuṣe ǀ nṛto iti ǀ vajreṇa ǀ dāśuṣe ǀ nṛto iti ǀ
atithi-gvāya ǀ śambaram ǀ gireḥ ǀ ugraḥ ǀ ava ǀ abharat ǀ
mahaḥ ǀ dhanāni ǀ dayamānaḥ ǀ ojasā ǀ viśvā ǀ dhanāni ǀ ojasā ǁ1.130.7 Aṣṭaka 2.1.19.2Anuvāka 1.19.37
-
Ṛk 8
इंद्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीळ्हेष्वा॒जिषु॑ ।
मन॑वे॒ शास॑दव्र॒तांत्वचं॑ कृ॒ष्णाम॑रंधयत् ।
दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥इन्द्रः समत्सु यजमानम् आर्यम् प्रावद् विश्वेषु शतमूतिर् आजिषु स्वर्मीऌहेष्व् आजिषु |
मनवे शासद् अव्रतान् त्वचं कृष्णाम् अरन्धयत् |
दक्षन् न विश्वं ततृषाणम् ओषति न्य् अर्शसानम् ओषति ||índraḥ samátsu yájamānamā́ryam prā́vadvíśveṣu śatámūtirājíṣu svármīḷheṣvājíṣu ǀ
mánave śā́sadavratā́ntvácam kṛṣṇā́marandhayat ǀ
dákṣanná víśvam tatṛṣāṇámoṣati nyárśasānámoṣati ǁindraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīḷheṣv ājiṣu |
manave śāsad avratān tvacaṃ kṛṣṇām arandhayat |
dakṣan na viśvaṃ tatṛṣāṇam oṣati ny arśasānam oṣati ||इन्द्रः॑ । स॒मत्ऽसु॑ । यज॑मानम् । आर्य॑म् । प्र । आ॒व॒त् । विश्वे॑षु । श॒तम्ऽऊ॑तिः । आ॒जिषु॑ । स्वः॑ऽमीळ्हेषु । आ॒जिषु॑ ।
मन॑वे । शास॑त् । अ॒व्र॒तान् । त्वच॑म् । कृ॒ष्णाम् । अ॒र॒न्ध॒य॒त् ।
दक्ष॑म् । न । विश्व॑म् । त॒तृ॒षा॒णम् । ओ॒ष॒ति॒ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ॥इन्द्रः । समत्ऽसु । यजमानम् । आर्यम् । प्र । आवत् । विश्वेषु । शतम्ऽऊतिः । आजिषु । स्वःऽमीळ्हेषु । आजिषु ।
मनवे । शासत् । अव्रतान् । त्वचम् । कृष्णाम् । अरन्धयत् ।
दक्षम् । न । विश्वम् । ततृषाणम् । ओषति । नि । अर्शसानम् । ओषति ॥índraḥ ǀ samát-su ǀ yájamānam ǀ ā́ryam ǀ prá ǀ āvat ǀ víśveṣu ǀ śatám-ūtiḥ ǀ ājíṣu ǀ sváḥ-mīḷheṣu ǀ ājíṣu ǀ
mánave ǀ śā́sat ǀ avratā́n ǀ tvácam ǀ kṛṣṇā́m ǀ arandhayat ǀ
dákṣam ǀ ná ǀ víśvam ǀ tatṛṣāṇám ǀ oṣati ǀ ní ǀ arśasānám ǀ oṣati ǁindraḥ ǀ samat-su ǀ yajamānam ǀ āryam ǀ pra ǀ āvat ǀ viśveṣu ǀ śatam-ūtiḥ ǀ ājiṣu ǀ svaḥ-mīḷheṣu ǀ ājiṣu ǀ
manave ǀ śāsat ǀ avratān ǀ tvacam ǀ kṛṣṇām ǀ arandhayat ǀ
dakṣam ǀ na ǀ viśvam ǀ tatṛṣāṇam ǀ oṣati ǀ ni ǀ arśasānam ǀ oṣati ǁ1.130.8 Aṣṭaka 2.1.19.3Anuvāka 1.19.38
-
Ṛk 9
सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति ।
उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे ।
सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणिः॑ ॥सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति |
उशना यत् परावतो ऽजगन्न् ऊतये कवे |
सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ||sū́raścakrám prá vṛhajjātá ójasā prapitvé vā́camaruṇó muṣāyatīśāná ā́ muṣāyati ǀ
uśánā yátparāvátó’jagannūtáye kave ǀ
sumnā́ni víśvā mánuṣeva turváṇiráhā víśveva turváṇiḥ ǁsūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati |
uśanā yat parāvato 'jagann ūtaye kave |
sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ ||सूरः॑ । च॒क्रम् । प्र । वृ॒ह॒त् । जा॒तः । ओज॑सा । प्र॒ऽपि॒त्वे । वाच॑म् । अ॒रु॒णः । मु॒षा॒य॒ति॒ । ई॒शा॒नः । आ । मु॒षा॒य॒ति॒ ।
उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । अज॑गन् । ऊ॒तये॑ । क॒वे॒ ।
सु॒म्नानि॑ । विश्वा॑ । मनु॑षाऽइव । तु॒र्वणिः॑ । अहा॑ । विश्वा॑ऽइव । तु॒र्वणिः॑ ॥सूरः । चक्रम् । प्र । वृहत् । जातः । ओजसा । प्रऽपित्वे । वाचम् । अरुणः । मुषायति । ईशानः । आ । मुषायति ।
उशना । यत् । पराऽवतः । अजगन् । ऊतये । कवे ।
सुम्नानि । विश्वा । मनुषाऽइव । तुर्वणिः । अहा । विश्वाऽइव । तुर्वणिः ॥sū́raḥ ǀ cakrám ǀ prá ǀ vṛhat ǀ jātáḥ ǀ ójasā ǀ pra-pitvé ǀ vā́cam ǀ aruṇáḥ ǀ muṣāyati ǀ īśānáḥ ǀ ā́ ǀ muṣāyati ǀ
uśánā ǀ yát ǀ parā-vátaḥ ǀ ájagan ǀ ūtáye ǀ kave ǀ
sumnā́ni ǀ víśvā ǀ mánuṣā-iva ǀ turváṇiḥ ǀ áhā ǀ víśvā-iva ǀ turváṇiḥ ǁsūraḥ ǀ cakram ǀ pra ǀ vṛhat ǀ jātaḥ ǀ ojasā ǀ pra-pitve ǀ vācam ǀ aruṇaḥ ǀ muṣāyati ǀ īśānaḥ ǀ ā ǀ muṣāyati ǀ
uśanā ǀ yat ǀ parā-vataḥ ǀ ajagan ǀ ūtaye ǀ kave ǀ
sumnāni ǀ viśvā ǀ manuṣā-iva ǀ turvaṇiḥ ǀ ahā ǀ viśvā-iva ǀ turvaṇiḥ ǁ1.130.9 Aṣṭaka 2.1.19.4Anuvāka 1.19.39
-
Ṛk 10
स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः ।
दि॒वो॒दा॒सेभि॑रिंद्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः |
दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ||sá no návyebhirvṛṣakarmannuktháiḥ púrām dartaḥ pāyúbhiḥ pāhi śagmáiḥ ǀ
divodāsébhirindra stávāno vāvṛdhīthā́ áhobhiriva dyáuḥ ǁsa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ |
divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ ||सः । नः॒ । नव्ये॑भिः । वृ॒ष॒ऽक॒र्म॒न् । उ॒क्थैः । पुरा॑म् । द॒र्त॒रिति॑ दर्तः । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।
दि॒वः॒ऽदा॒सेभिः॑ । इ॒न्द्र॒ । स्तवा॑नः । व॒वृ॒धी॒थाः । अहो॑भिःऽइव । द्यौः ॥सः । नः । नव्येभिः । वृषऽकर्मन् । उक्थैः । पुराम् । दर्तरिति दर्तः । पायुऽभिः । पाहि । शग्मैः ।
दिवःऽदासेभिः । इन्द्र । स्तवानः । ववृधीथाः । अहोभिःऽइव । द्यौः ॥sáḥ ǀ naḥ ǀ návyebhiḥ ǀ vṛṣa-karman ǀ uktháiḥ ǀ púrām ǀ dartaríti dartaḥ ǀ pāyú-bhiḥ ǀ pāhi ǀ śagmáiḥ ǀ
divaḥ-dāsébhiḥ ǀ indra ǀ stávānaḥ ǀ vavṛdhīthā́ḥ ǀ áhobhiḥ-iva ǀ dyáuḥ ǁsaḥ ǀ naḥ ǀ navyebhiḥ ǀ vṛṣa-karman ǀ ukthaiḥ ǀ purām ǀ dartariti dartaḥ ǀ pāyu-bhiḥ ǀ pāhi ǀ śagmaiḥ ǀ
divaḥ-dāsebhiḥ ǀ indra ǀ stavānaḥ ǀ vavṛdhīthāḥ ǀ ahobhiḥ-iva ǀ dyauḥ ǁ1.130.10 Aṣṭaka 2.1.19.5Anuvāka 1.19.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.