Ṛgveda · Maṇḍala 1 · Sūkta 130
Ṛk 1.130.3
Saṃhitā
अविं॑दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यनं॒ते अं॒तरश्म॑नि ।
व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नंगि॑रस्तमः ।
अपा॑वृणो॒दिष॒ इंद्रः॒ परी॑वृता॒ द्वार॒ इषः॒ परी॑वृताः ॥
अविन्दद् दिवो निहितं गुहा निधिं वेर् न गर्भम् परिवीतम् अश्मन्य् अनन्ते अन्तर् अश्मनि |
व्रजं वज्री गवाम् इव सिषासन्न् अङ्गिरस्तमः |
अपावृणोद् इष इन्द्रः परीवृता द्वार इषः परीवृताः ||
ávindaddivó níhitam gúhā nidhím vérná gárbham párivītamáśmanyananté antáráśmani ǀ
vrajám vajrī́ gávāmiva síṣāsannáṅgirastamaḥ ǀ
ápāvṛṇodíṣa índraḥ párīvṛtā dvā́ra íṣaḥ párīvṛtāḥ ǁ
avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani |
vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ |
apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ||
Padapāṭha
अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒ऽधिम् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि ।
व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः ।
अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥
अविन्दत् । दिवः । निऽहितम् । गुहा । निऽधिम् । वेः । न । गर्भम् । परिऽवीतम् । अश्मनि । अनन्ते । अन्तः । अश्मनि ।
व्रजम् । वज्री । गवाम्ऽइव । सिसासन् । अङ्गिरःऽतमः ।
अप । अवृणोत् । इषः । इन्द्रः । परिऽवृताः । द्वारः । इषः । परिऽवृताः ॥
ávindat ǀ diváḥ ǀ ní-hitam ǀ gúhā ǀ ni-dhím ǀ véḥ ǀ ná ǀ gárbham ǀ pári-vītam ǀ áśmani ǀ ananté ǀ antáḥ ǀ áśmani ǀ
vrajám ǀ vajrī́ ǀ gávām-iva ǀ sísāsan ǀ áṅgiraḥ-tamaḥ ǀ
ápa ǀ avṛṇot ǀ íṣaḥ ǀ índraḥ ǀ pári-vṛtāḥ ǀ dvā́raḥ ǀ íṣaḥ ǀ pári-vṛtāḥ ǁ
avindat ǀ divaḥ ǀ ni-hitam ǀ guhā ǀ ni-dhim ǀ veḥ ǀ na ǀ garbham ǀ pari-vītam ǀ aśmani ǀ anante ǀ antaḥ ǀ aśmani ǀ
vrajam ǀ vajrī ǀ gavām-iva ǀ sisāsan ǀ aṅgiraḥ-tamaḥ ǀ
apa ǀ avṛṇot ǀ iṣaḥ ǀ indraḥ ǀ pari-vṛtāḥ ǀ dvāraḥ ǀ iṣaḥ ǀ pari-vṛtāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.130.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.18.03
- Maṇḍala · Anuvāka · Ṛk
- 1.19.033
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.