Ṛgveda · Maṇḍala 1 · Sūkta 130
Ṛk 1.130.4
Saṃhitā
दा॒दृ॒हा॒णो वज्र॒मिंद्रो॒ गभ॑स्त्योः॒ क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् ।
सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिंद्र म॒ज्मना॑ ।
तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥
दादृहाणो वज्रम् इन्द्रो गभस्त्योः क्षद्मेव तिग्मम् असनाय सं श्यद् अहिहत्याय सं श्यत् |
संविव्यान ओजसा शवोभिर् इन्द्र मज्मना |
तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ||
dādṛhāṇó vájramíndro gábhastyoḥ kṣádmeva tigmámásanāya sám śyadahihátyāya sám śyat ǀ
saṃvivyāná ójasā śávobhirindra majmánā ǀ
táṣṭeva vṛkṣám vaníno ní vṛścasi paraśvéva ní vṛścasi ǁ
dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat |
saṃvivyāna ojasā śavobhir indra majmanā |
taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi ||
Padapāṭha
द॒दृ॒हा॒णः । वज्र॑म् । इन्द्रः॑ । गभ॑स्त्योः । क्षद्म॑ऽइव । ति॒ग्मम् । अस॑नाय । सम् । श्य॒त् । अ॒हि॒ऽहत्या॑य । सम् । श्य॒त् ।
स॒म्ऽवि॒व्या॒नः । ओज॑सा । शवः॑ऽभिः । इ॒न्द्र॒ । म॒ज्मना॑ ।
तष्टा॑ऽइव । वृ॒क्षम् । व॒निनः॑ । नि । वृ॒श्च॒सि॒ । प॒र॒श्वाऽइ॑व । नि । वृ॒श्च॒सि॒ ॥
ददृहाणः । वज्रम् । इन्द्रः । गभस्त्योः । क्षद्मऽइव । तिग्मम् । असनाय । सम् । श्यत् । अहिऽहत्याय । सम् । श्यत् ।
सम्ऽविव्यानः । ओजसा । शवःऽभिः । इन्द्र । मज्मना ।
तष्टाऽइव । वृक्षम् । वनिनः । नि । वृश्चसि । परश्वाऽइव । नि । वृश्चसि ॥
dadṛhāṇáḥ ǀ vájram ǀ índraḥ ǀ gábhastyoḥ ǀ kṣádma-iva ǀ tigmám ǀ ásanāya ǀ sám ǀ śyat ǀ ahi-hátyāya ǀ sám ǀ śyat ǀ
sam-vivyānáḥ ǀ ójasā ǀ śávaḥ-bhiḥ ǀ indra ǀ majmánā ǀ
táṣṭā-iva ǀ vṛkṣám ǀ vanínaḥ ǀ ní ǀ vṛścasi ǀ paraśvā́-iva ǀ ní ǀ vṛścasi ǁ
dadṛhāṇaḥ ǀ vajram ǀ indraḥ ǀ gabhastyoḥ ǀ kṣadma-iva ǀ tigmam ǀ asanāya ǀ sam ǀ śyat ǀ ahi-hatyāya ǀ sam ǀ śyat ǀ
sam-vivyānaḥ ǀ ojasā ǀ śavaḥ-bhiḥ ǀ indra ǀ majmanā ǀ
taṣṭā-iva ǀ vṛkṣam ǀ vaninaḥ ǀ ni ǀ vṛścasi ǀ paraśvā-iva ǀ ni ǀ vṛścasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.130.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.18.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.034
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.