Ṛgveda · Maṇḍala 1

Sūkta 77

Agni · Gotama Rāhūgaṇa · 5 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Gotama Rāhūgaṇa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles virāṭtrisṭup (2-5); nicṛtpaṅkti (1)

2nd set of styles triṣṭubh

  1. Ṛk 1

    क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः ।
    यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥

    कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः |
    यो मर्त्येष्व् अमृत ऋतावा होता यजिष्ठ इत् कृणोति देवान् ||

    kathā́ dāśemāgnáye kā́smai devájuṣṭocyate bhāmíne gī́ḥ ǀ
    yó mártyeṣvamṛ́ta ṛtā́vā hótā yájiṣṭha ítkṛṇóti devā́n ǁ

    kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ |
    yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān ||

    क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । का । अ॒स्मै॒ । दे॒वऽजु॑ष्टा । उ॒च्य॒ते॒ । भा॒मिने॑ । गीः ।
    यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । होता॑ । यजि॑ष्ठः । इत् । कृ॒णोति॑ । दे॒वान् ॥

    कथा । दाशेम । अग्नये । का । अस्मै । देवऽजुष्टा । उच्यते । भामिने । गीः ।
    यः । मर्त्येषु । अमृतः । ऋतऽवा । होता । यजिष्ठः । इत् । कृणोति । देवान् ॥

    kathā́ ǀ dāśema ǀ agnáye ǀ kā́ ǀ asmai ǀ devá-juṣṭā ǀ ucyate ǀ bhāmíne ǀ gī́ḥ ǀ
    yáḥ ǀ mártyeṣu ǀ amṛ́taḥ ǀ ṛtá-vā ǀ hótā ǀ yájiṣṭhaḥ ǀ ít ǀ kṛṇóti ǀ devā́n ǁ

    kathā ǀ dāśema ǀ agnaye ǀ kā ǀ asmai ǀ deva-juṣṭā ǀ ucyate ǀ bhāmine ǀ gīḥ ǀ
    yaḥ ǀ martyeṣu ǀ amṛtaḥ ǀ ṛta-vā ǀ hotā ǀ yajiṣṭhaḥ ǀ it ǀ kṛṇoti ǀ devān ǁ

    1.77.1 Aṣṭaka 1.5.25.1Anuvāka 1.13.20

  2. Ṛk 2

    यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वं ।
    अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥

    यो अध्वरेषु शन्तम ऋतावा होता तम् ऊ नमोभिर् आ कृणुध्वम् |
    अग्निर् यद् वेर् मर्ताय देवान् स चा बोधाति मनसा यजाति ||

    yó adhvaréṣu śáṃtama ṛtā́vā hótā támū námobhirā́ kṛṇudhvam ǀ
    agníryádvérmártāya devā́ntsá cā bódhāti mánasā yajāti ǁ

    yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam |
    agnir yad ver martāya devān sa cā bodhāti manasā yajāti ||

    यः । अ॒ध्व॒रेषु॑ । शम्ऽत॑मः । ऋ॒तऽवा॑ । होता॑ । तम् । ऊं॒ इति॑ । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।
    अ॒ग्निः । यत् । वेः । मर्ता॑य । दे॒वान् । सः । च॒ । बोधा॑ति । मन॑सा । य॒जा॒ति॒ ॥

    यः । अध्वरेषु । शम्ऽतमः । ऋतऽवा । होता । तम् । ऊं इति । नमःऽभिः । आ । कृणुध्वम् ।
    अग्निः । यत् । वेः । मर्ताय । देवान् । सः । च । बोधाति । मनसा । यजाति ॥

    yáḥ ǀ adhvaréṣu ǀ śám-tamaḥ ǀ ṛtá-vā ǀ hótā ǀ tám ǀ ūṃ íti ǀ námaḥ-bhiḥ ǀ ā́ ǀ kṛṇudhvam ǀ
    agníḥ ǀ yát ǀ véḥ ǀ mártāya ǀ devā́n ǀ sáḥ ǀ ca ǀ bódhāti ǀ mánasā ǀ yajāti ǁ

    yaḥ ǀ adhvareṣu ǀ śam-tamaḥ ǀ ṛta-vā ǀ hotā ǀ tam ǀ ūṃ iti ǀ namaḥ-bhiḥ ǀ ā ǀ kṛṇudhvam ǀ
    agniḥ ǀ yat ǀ veḥ ǀ martāya ǀ devān ǀ saḥ ǀ ca ǀ bodhāti ǀ manasā ǀ yajāti ǁ

    1.77.2 Aṣṭaka 1.5.25.2Anuvāka 1.13.21

  3. Ṛk 3

    स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः ।
    तं मेधे॑षु प्रथ॒मं दे॑व॒यंती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः॑ ॥

    स हि क्रतुः स मर्यः स साधुर् मित्रो न भूद् अद्भुतस्य रथीः |
    तम् मेधेषु प्रथमं देवयन्तीर् विश उप ब्रुवते दस्मम् आरीः ||

    sá hí krátuḥ sá máryaḥ sá sādhúrmitró ná bhūdádbhutasya rathī́ḥ ǀ
    tám médheṣu prathamám devayántīrvíśa úpa bruvate dasmámā́rīḥ ǁ

    sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ |
    tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ ||

    सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः ।
    तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः॑ । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥

    सः । हि । क्रतुः । सः । मर्यः । सः । साधुः । मित्रः । न । भूत् । अद्भुतस्य । रथीः ।
    तम् । मेधेषु । प्रथमम् । देवऽयन्तीः । विशः । उप । ब्रुवते । दस्मम् । आरीः ॥

    sáḥ ǀ hí ǀ krátuḥ ǀ sáḥ ǀ máryaḥ ǀ sáḥ ǀ sādhúḥ ǀ mitráḥ ǀ ná ǀ bhūt ǀ ádbhutasya ǀ rathī́ḥ ǀ
    tám ǀ médheṣu ǀ prathamám ǀ deva-yántīḥ ǀ víśaḥ ǀ úpa ǀ bruvate ǀ dasmám ǀ ā́rīḥ ǁ

    saḥ ǀ hi ǀ kratuḥ ǀ saḥ ǀ maryaḥ ǀ saḥ ǀ sādhuḥ ǀ mitraḥ ǀ na ǀ bhūt ǀ adbhutasya ǀ rathīḥ ǀ
    tam ǀ medheṣu ǀ prathamam ǀ deva-yantīḥ ǀ viśaḥ ǀ upa ǀ bruvate ǀ dasmam ǀ ārīḥ ǁ

    1.77.3 Aṣṭaka 1.5.25.3Anuvāka 1.13.22

  4. Ṛk 4

    स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिं ।
    तना॑ च॒ ये म॒घवा॑नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षयं॑त॒ मन्म॑ ॥

    स नो नृणां नृतमो रिशादा अग्निर् गिरो ऽवसा वेतु धीतिम् |
    तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ||

    sá no nṛṇā́m nṛ́tamo riśā́dā agnírgíró’vasā vetu dhītím ǀ
    tánā ca yé maghávānaḥ śáviṣṭhā vā́japrasūtā iṣáyanta mánma ǁ

    sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim |
    tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma ||

    सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् ।
    तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥

    सः । नः । नृणाम् । नृऽतमः । रिशादाः । अग्निः । गिरः । अवसा । वेतु । धीतिम् ।
    तना । च । ये । मघऽवानः । शविष्ठाः । वाजऽप्रसूताः । इषयन्त । मन्म ॥

    sáḥ ǀ naḥ ǀ nṛṇā́m ǀ nṛ́-tamaḥ ǀ riśā́dāḥ ǀ agníḥ ǀ gíraḥ ǀ ávasā ǀ vetu ǀ dhītím ǀ
    tánā ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ śáviṣṭhāḥ ǀ vā́ja-prasūtāḥ ǀ iṣáyanta ǀ mánma ǁ

    saḥ ǀ naḥ ǀ nṛṇām ǀ nṛ-tamaḥ ǀ riśādāḥ ǀ agniḥ ǀ giraḥ ǀ avasā ǀ vetu ǀ dhītim ǀ
    tanā ǀ ca ǀ ye ǀ magha-vānaḥ ǀ śaviṣṭhāḥ ǀ vāja-prasūtāḥ ǀ iṣayanta ǀ manma ǁ

    1.77.4 Aṣṭaka 1.5.25.4Anuvāka 1.13.23

  5. Ṛk 5

    ए॒वाग्निर्गोत॑मेभिर्ऋ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः ।
    स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥

    एवाग्निर् गोतमेभिर् ऋतावा विप्रेभिर् अस्तोष्ट जातवेदाः |
    स एषु द्युम्नम् पीपयत् स वाजं स पुष्टिं याति जोषम् आ चिकित्वान् ||

    evā́gnírgótamebhirṛtā́vā víprebhirastoṣṭa jātávedāḥ ǀ
    sá eṣu dyumnám pīpayatsá vā́jam sá puṣṭím yāti jóṣamā́ cikitvā́n ǁ

    evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ |
    sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān ||

    ए॒व । अ॒ग्निः । गोत॑मेभिः । ऋ॒तऽवा॑ । विप्रे॑भिः । अ॒स्तो॒ष्ट॒ । जा॒तऽवे॑दाः ।
    सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज॑म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष॑म् । आ । चि॒कि॒त्वान् ॥

    एव । अग्निः । गोतमेभिः । ऋतऽवा । विप्रेभिः । अस्तोष्ट । जातऽवेदाः ।
    सः । एषु । द्युम्नम् । पीपयत् । सः । वाजम् । सः । पुष्टिम् । याति । जोषम् । आ । चिकित्वान् ॥

    evá ǀ agníḥ ǀ gótamebhiḥ ǀ ṛtá-vā ǀ víprebhiḥ ǀ astoṣṭa ǀ jātá-vedāḥ ǀ
    sáḥ ǀ eṣu ǀ dyumnám ǀ pīpayat ǀ sáḥ ǀ vā́jam ǀ sáḥ ǀ puṣṭím ǀ yāti ǀ jóṣam ǀ ā́ ǀ cikitvā́n ǁ

    eva ǀ agniḥ ǀ gotamebhiḥ ǀ ṛta-vā ǀ viprebhiḥ ǀ astoṣṭa ǀ jāta-vedāḥ ǀ
    saḥ ǀ eṣu ǀ dyumnam ǀ pīpayat ǀ saḥ ǀ vājam ǀ saḥ ǀ puṣṭim ǀ yāti ǀ joṣam ǀ ā ǀ cikitvān ǁ

    1.77.5 Aṣṭaka 1.5.25.5Anuvāka 1.13.24

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.77 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

How shall we give to Agni? For him what Word accepted by the Gods is spoken, for the lord of the brilliant flame? For him who in mortals, immortal, possessed of the Truth, priest of the oblation strongest for sacrifice, creates the gods? (16HTMF 140)

Ṛk 2

He who in the sacrifices is the priest of the offering, full of peace, full of the Truth, him verily form in you by your surrenderings; when Agni manifests1 for the mortals the gods, he also has perception of them and by the mind offers to them the sacrifice. (16HTMF 140)

Ṛk 3

For he is the will, he is the strength, he is the effecter of perfection, even as Mitra he becomes the charioteer of the Supreme. To him, the first, in the rich-offerings the people seeking the godhead utter the word, the Aryan people to the fulfiller. (16HTMF 140)

Ṛk 4

May this strongest of the Powers and devourer of the destroyers manifest2 by his presence the Words and their understanding, and may they who in their extension are lords of plenitude brightest in energy pour forth their plenty and give their impulsion to the thought. (16HTMF 141)

Ṛk 5

Thus has Agni possessed of the Truth been affirmed by the masters of light,3 the knower of the worlds by clarified minds. He shall foster in them the force of illumination, he too the plenty; he shall attain to increase and to harmony by his perceptions. (16HTMF 141)