Ṛgveda · Maṇḍala 1

Sūkta 52

Indra · Savya Āṅgirasa · 15 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Savya Āṅgirasa
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (2-4); nicṛttriṣṭup (7, 12, 15); bhuriktriṣṭup (1, 8); jagatī (5, 14); virāḍjagatī (6, 11); svarāṭtriṣṭup (9, 10); virāṭtrisṭup (13)

2nd set of styles jagatī (1-12, 14); triṣṭubh (13, 15)

  1. Ṛk 1

    त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
    अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेंद्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥

    त्यं सु मेषम् महया स्वर्विदं शतं यस्य सुभ्वः साकम् ईरते |
    अत्यं न वाजं हवनस्यदं रथम् एन्द्रं ववृत्याम् अवसे सुवृक्तिभिः ||

    tyám sú meṣám mahayā svarvídam śatám yásya subhváḥ sākámī́rate ǀ
    átyam ná vā́jam havanasyádam ráthaméndram vavṛtyāmávase suvṛktíbhiḥ ǁ

    tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate |
    atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ ||

    त्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒ऽविद॑म् । श॒तम् । यस्य॑ । सु॒ऽभ्वः॑ । सा॒कम् । ईर॑ते ।
    अत्य॑म् । न । वाज॑म् । ह॒व॒न॒ऽस्यद॑म् । रथ॑म् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥

    त्यम् । सु । मेषम् । महय । स्वःऽविदम् । शतम् । यस्य । सुऽभ्वः । साकम् । ईरते ।
    अत्यम् । न । वाजम् । हवनऽस्यदम् । रथम् । आ । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिऽभिः ॥

    tyám ǀ sú ǀ meṣám ǀ mahaya ǀ svaḥ-vídam ǀ śatám ǀ yásya ǀ su-bhváḥ ǀ sākám ǀ ī́rate ǀ
    átyam ǀ ná ǀ vā́jam ǀ havana-syádam ǀ rátham ǀ ā́ ǀ índram ǀ vavṛtyām ǀ ávase ǀ suvṛktí-bhiḥ ǁ

    tyam ǀ su ǀ meṣam ǀ mahaya ǀ svaḥ-vidam ǀ śatam ǀ yasya ǀ su-bhvaḥ ǀ sākam ǀ īrate ǀ
    atyam ǀ na ǀ vājam ǀ havana-syadam ǀ ratham ǀ ā ǀ indram ǀ vavṛtyām ǀ avase ǀ suvṛkti-bhiḥ ǁ

    1.52.1 Aṣṭaka 1.4.12.1Anuvāka 1.10.16

  2. Ṛk 2

    स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
    इंद्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अंध॑सा ॥

    स पर्वतो न धरुणेष्व् अच्युतः सहस्रमूतिस् तविषीषु वावृधे |
    इन्द्रो यद् वृत्रम् अवधीन् नदीवृतम् उब्जन्न् अर्णांसि जर्हृषाणो अन्धसा ||

    sá párvato ná dharúṇeṣvácyutaḥ sahásramūtistáviṣīṣu vāvṛdhe ǀ
    índro yádvṛtrámávadhīnnadīvṛ́tamubjánnárṇāṃsi járhṛṣāṇo ándhasā ǁ

    sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe |
    indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā ||

    सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः । स॒हस्र॑म्ऽऊतिः । तवि॑षीषु । व॒वृ॒धे॒ ।
    इन्द्रः॑ । यत् । वृ॒त्रम् । अव॑धीत् । न॒दी॒ऽवृत॑म् । उ॒ब्जन् । अर्णां॑सि । जर्हृ॑षाणः । अन्ध॑सा ॥

    सः । पर्वतः । न । धरुणेषु । अच्युतः । सहस्रम्ऽऊतिः । तविषीषु । ववृधे ।
    इन्द्रः । यत् । वृत्रम् । अवधीत् । नदीऽवृतम् । उब्जन् । अर्णांसि । जर्हृषाणः । अन्धसा ॥

    sáḥ ǀ párvataḥ ǀ ná ǀ dharúṇeṣu ǀ ácyutaḥ ǀ sahásram-ūtiḥ ǀ táviṣīṣu ǀ vavṛdhe ǀ
    índraḥ ǀ yát ǀ vṛtrám ǀ ávadhīt ǀ nadī-vṛ́tam ǀ ubján ǀ árṇāṃsi ǀ járhṛṣāṇaḥ ǀ ándhasā ǁ

    saḥ ǀ parvataḥ ǀ na ǀ dharuṇeṣu ǀ acyutaḥ ǀ sahasram-ūtiḥ ǀ taviṣīṣu ǀ vavṛdhe ǀ
    indraḥ ǀ yat ǀ vṛtram ǀ avadhīt ǀ nadī-vṛtam ǀ ubjan ǀ arṇāṃsi ǀ jarhṛṣāṇaḥ ǀ andhasā ǁ

    1.52.2 Aṣṭaka 1.4.12.2Anuvāka 1.10.17

  3. Ṛk 3

    स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि चं॒द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
    इंद्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रंध॑सः ॥

    स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः |
    इन्द्रं तम् अह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिर् अन्धसः ||

    sá hí dvaró dvaríṣu vavrá ū́dhani candrábudhno mádavṛddho manīṣíbhiḥ ǀ
    índram támahve svapasyáyā dhiyā́ máṃhiṣṭharātim sá hí páprirándhasaḥ ǁ

    sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
    indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ ||

    सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ ।
    इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥

    सः । हि । द्वरः । द्वरिषु । वव्रः । ऊधनि । चन्द्रऽबुध्नः । मदऽवृद्धः । मनीषिऽभिः ।
    इन्द्रम् । तम् । अह्वे । सुऽअपस्यया । धिया । मंहिष्ठऽरातिम् । सः । हि । पप्रिः । अन्धसः ॥

    sáḥ ǀ hí ǀ dvaráḥ ǀ dvaríṣu ǀ vavráḥ ǀ ū́dhani ǀ candrá-budhnaḥ ǀ máda-vṛddhaḥ ǀ manīṣí-bhiḥ ǀ
    índram ǀ tám ǀ ahve ǀ su-apasyáyā ǀ dhiyā́ ǀ máṃhiṣṭha-rātim ǀ sáḥ ǀ hí ǀ pápriḥ ǀ ándhasaḥ ǁ

    saḥ ǀ hi ǀ dvaraḥ ǀ dvariṣu ǀ vavraḥ ǀ ūdhani ǀ candra-budhnaḥ ǀ mada-vṛddhaḥ ǀ manīṣi-bhiḥ ǀ
    indram ǀ tam ǀ ahve ǀ su-apasyayā ǀ dhiyā ǀ maṃhiṣṭha-rātim ǀ saḥ ǀ hi ǀ papriḥ ǀ andhasaḥ ǁ

    1.52.3 Aṣṭaka 1.4.12.3Anuvāka 1.10.18

  4. Ṛk 4

    आ यं पृ॒णंति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्वः१॒॑ स्वा अ॒भिष्ट॑यः ।
    तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इंद्र॑मवा॒ता अह्रु॑तप्सवः ॥

    आ यम् पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः |
    तं वृत्रहत्ये अनु तस्थुर् ऊतयः शुष्मा इन्द्रम् अवाता अह्रुतप्सवः ||

    ā́ yám pṛṇánti diví sádmabarhiṣaḥ samudrám ná subhváḥ svā́ abhíṣṭayaḥ ǀ
    tám vṛtrahátye ánu tasthurūtáyaḥ śúṣmā índramavātā́ áhrutapsavaḥ ǁ

    ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ |
    taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ ||

    आ । यम् । पृ॒णन्ति॑ । दि॒वि । सद्म॑ऽबर्हिषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ । स्वाः । अ॒भिष्ट॑यः ।
    तम् । वृ॒त्र॒ऽहत्ये॑ । अनु॑ । त॒स्थुः॒ । ऊ॒तयः॑ । शुष्माः॑ । इन्द्र॑म् । अ॒वा॒ताः । अह्रु॑तऽप्सवः ॥

    आ । यम् । पृणन्ति । दिवि । सद्मऽबर्हिषः । समुद्रम् । न । सुऽभ्वः । स्वाः । अभिष्टयः ।
    तम् । वृत्रऽहत्ये । अनु । तस्थुः । ऊतयः । शुष्माः । इन्द्रम् । अवाताः । अह्रुतऽप्सवः ॥

    ā́ ǀ yám ǀ pṛṇánti ǀ diví ǀ sádma-barhiṣaḥ ǀ samudrám ǀ ná ǀ su-bhváḥ ǀ svā́ḥ ǀ abhíṣṭayaḥ ǀ
    tám ǀ vṛtra-hátye ǀ ánu ǀ tasthuḥ ǀ ūtáyaḥ ǀ śúṣmāḥ ǀ índram ǀ avātā́ḥ ǀ áhruta-psavaḥ ǁ

    ā ǀ yam ǀ pṛṇanti ǀ divi ǀ sadma-barhiṣaḥ ǀ samudram ǀ na ǀ su-bhvaḥ ǀ svāḥ ǀ abhiṣṭayaḥ ǀ
    tam ǀ vṛtra-hatye ǀ anu ǀ tasthuḥ ǀ ūtayaḥ ǀ śuṣmāḥ ǀ indram ǀ avātāḥ ǀ ahruta-psavaḥ ǁ

    1.52.4 Aṣṭaka 1.4.12.4Anuvāka 1.10.19

  5. Ṛk 5

    अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
    इंद्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अंध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥

    अभि स्ववृष्टिम् मदे अस्य युध्यतो रघ्वीर् इव प्रवणे सस्रुर् ऊतयः |
    इन्द्रो यद् वज्री धृषमाणो अन्धसा भिनद् वलस्य परिधींर् इव त्रितः ||

    abhí svávṛṣṭim máde asya yúdhyato raghvī́riva pravaṇé sasrurūtáyaḥ ǀ
    índro yádvajrī́ dhṛṣámāṇo ándhasā bhinádvalásya paridhī́m̐riva tritáḥ ǁ

    abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ |
    indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ ||

    अ॒भि । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । र॒घ्वीःऽइ॑व । प्र॒व॒णे । स॒स्रुः॒ । ऊ॒तयः॑ ।
    इन्द्रः॑ । यत् । व॒ज्री । धृ॒षमा॑णः । अन्ध॑सा । भि॒नत् । व॒लस्य॑ । प॒रि॒धीन्ऽइ॑व । त्रि॒तः ॥

    अभि । स्वऽवृष्टिम् । मदे । अस्य । युध्यतः । रघ्वीःऽइव । प्रवणे । सस्रुः । ऊतयः ।
    इन्द्रः । यत् । वज्री । धृषमाणः । अन्धसा । भिनत् । वलस्य । परिधीन्ऽइव । त्रितः ॥

    abhí ǀ svá-vṛṣṭim ǀ máde ǀ asya ǀ yúdhyataḥ ǀ raghvī́ḥ-iva ǀ pravaṇé ǀ sasruḥ ǀ ūtáyaḥ ǀ
    índraḥ ǀ yát ǀ vajrī́ ǀ dhṛṣámāṇaḥ ǀ ándhasā ǀ bhinát ǀ valásya ǀ paridhī́n-iva ǀ tritáḥ ǁ

    abhi ǀ sva-vṛṣṭim ǀ made ǀ asya ǀ yudhyataḥ ǀ raghvīḥ-iva ǀ pravaṇe ǀ sasruḥ ǀ ūtayaḥ ǀ
    indraḥ ǀ yat ǀ vajrī ǀ dhṛṣamāṇaḥ ǀ andhasā ǀ bhinat ǀ valasya ǀ paridhīn-iva ǀ tritaḥ ǁ

    1.52.5 Aṣṭaka 1.4.12.5Anuvāka 1.10.20

  6. Ṛk 6

    परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
    वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घंथ॒ हन्वो॑रिंद्र तन्य॒तुं ॥

    परीं घृणा चरति तित्विषे शवो ऽपो वृत्वी रजसो बुध्नम् आशयत् |
    वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोर् इन्द्र तन्यतुम् ||

    párīm ghṛṇā́ carati titviṣé śávo’pó vṛtvī́ rájaso budhnámā́śayat ǀ
    vṛtrásya yátpravaṇé durgṛ́bhiśvano nijaghántha hánvorindra tanyatúm ǁ

    parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat |
    vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum ||

    परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् ।
    वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥

    परि । ईम् । घृणा । चरति । तित्विषे । शवः । अपः । वृत्वी । रजसः । बुध्नम् । आ । अशयत् ।
    वृत्रस्य । यत् । प्रवणे । दुःऽगृभिश्वनः । निऽजघन्थ । हन्वोः । इन्द्र । तन्यतुम् ॥

    pári ǀ īm ǀ ghṛṇā́ ǀ carati ǀ titviṣé ǀ śávaḥ ǀ apáḥ ǀ vṛtvī́ ǀ rájasaḥ ǀ budhnám ǀ ā́ ǀ aśayat ǀ
    vṛtrásya ǀ yát ǀ pravaṇé ǀ duḥ-gṛ́bhiśvanaḥ ǀ ni-jaghántha ǀ hánvoḥ ǀ indra ǀ tanyatúm ǁ

    pari ǀ īm ǀ ghṛṇā ǀ carati ǀ titviṣe ǀ śavaḥ ǀ apaḥ ǀ vṛtvī ǀ rajasaḥ ǀ budhnam ǀ ā ǀ aśayat ǀ
    vṛtrasya ǀ yat ǀ pravaṇe ǀ duḥ-gṛbhiśvanaḥ ǀ ni-jaghantha ǀ hanvoḥ ǀ indra ǀ tanyatum ǁ

    1.52.6 Aṣṭaka 1.4.13.1Anuvāka 1.10.21

  7. Ṛk 7

    ह्र॒दं न हि त्वा॑ न्यृ॒षंत्यू॒र्मयो॒ ब्रह्मा॑णींद्र॒ तव॒ यानि॒ वर्ध॑ना ।
    त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसं ॥

    ह्रदं न हि त्वा न्यृषन्त्य् ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना |
    त्वष्टा चित् ते युज्यं वावृधे शवस् ततक्ष वज्रम् अभिभूत्योजसम् ||

    hradám ná hí tvā nyṛṣántyūrmáyo bráhmāṇīndra táva yā́ni várdhanā ǀ
    tváṣṭā citte yújyam vāvṛdhe śávastatákṣa vájramabhíbhūtyojasam ǁ

    hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā |
    tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam ||

    ह्र॒दम् । न । हि । त्वा॒ । नि॒ऽऋ॒षन्ति॑ । ऊ॒र्मयः॑ । ब्रह्मा॑णि । इ॒न्द्र॒ । तव॑ । यानि॑ । वर्ध॑ना ।
    त्वष्टा॑ । चि॒त् । ते॒ । युज्य॑म् । व॒वृ॒धे॒ । शवः॑ । त॒तक्ष॑ । वज्र॑म् । अ॒भिभू॑तिऽओजसम् ॥

    ह्रदम् । न । हि । त्वा । निऽऋषन्ति । ऊर्मयः । ब्रह्माणि । इन्द्र । तव । यानि । वर्धना ।
    त्वष्टा । चित् । ते । युज्यम् । ववृधे । शवः । ततक्ष । वज्रम् । अभिभूतिऽओजसम् ॥

    hradám ǀ ná ǀ hí ǀ tvā ǀ ni-ṛṣánti ǀ ūrmáyaḥ ǀ bráhmāṇi ǀ indra ǀ táva ǀ yā́ni ǀ várdhanā ǀ
    tváṣṭā ǀ cit ǀ te ǀ yújyam ǀ vavṛdhe ǀ śávaḥ ǀ tatákṣa ǀ vájram ǀ abhíbhūti-ojasam ǁ

    hradam ǀ na ǀ hi ǀ tvā ǀ ni-ṛṣanti ǀ ūrmayaḥ ǀ brahmāṇi ǀ indra ǀ tava ǀ yāni ǀ vardhanā ǀ
    tvaṣṭā ǀ cit ǀ te ǀ yujyam ǀ vavṛdhe ǀ śavaḥ ǀ tatakṣa ǀ vajram ǀ abhibhūti-ojasam ǁ

    1.52.7 Aṣṭaka 1.4.13.2Anuvāka 1.10.22

  8. Ṛk 8

    ज॒घ॒न्वाँ उ॒ हरि॑भिः संभृतक्रत॒विंद्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः ।
    अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥

    जघन्वां उ हरिभिः सम्भृतक्रतव् इन्द्र वृत्रम् मनुषे गातुयन्न् अपः |
    अयच्छथा बाह्वोर् वज्रम् आयसम् अधारयो दिव्य् आ सूर्यं दृशे ||

    jaghanvā́m̐ u háribhiḥ sambhṛtakratavíndra vṛtrám mánuṣe gātuyánnapáḥ ǀ
    áyacchathā bāhvórvájramāyasámádhārayo divyā́ sū́ryam dṛśé ǁ

    jaghanvāṃ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ |
    ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe ||

    ज॒घ॒न्वान् । ऊं॒ इति॑ । हरि॑ऽभिः । स॒म्भृ॒त॒क्र॒तो॒ इति॑ सम्भृतऽक्रतो । इन्द्र॑ । वृ॒त्रम् । मनु॑षे । गा॒तु॒ऽयन् । अ॒पः ।
    अय॑च्छथाः । बा॒ह्वोः । वज्र॑म् । आ॒य॒सम् । अधा॑रयः । दि॒वि । आ । सूर्य॑म् । दृ॒शे ॥

    जघन्वान् । ऊं इति । हरिऽभिः । सम्भृतक्रतो इति सम्भृतऽक्रतो । इन्द्र । वृत्रम् । मनुषे । गातुऽयन् । अपः ।
    अयच्छथाः । बाह्वोः । वज्रम् । आयसम् । अधारयः । दिवि । आ । सूर्यम् । दृशे ॥

    jaghanvā́n ǀ ūṃ íti ǀ hári-bhiḥ ǀ sambhṛtakrato íti sambhṛta-krato ǀ índra ǀ vṛtrám ǀ mánuṣe ǀ gātu-yán ǀ apáḥ ǀ
    áyacchathāḥ ǀ bāhvóḥ ǀ vájram ǀ āyasám ǀ ádhārayaḥ ǀ diví ǀ ā́ ǀ sū́ryam ǀ dṛśé ǁ

    jaghanvān ǀ ūṃ iti ǀ hari-bhiḥ ǀ sambhṛtakrato iti sambhṛta-krato ǀ indra ǀ vṛtram ǀ manuṣe ǀ gātu-yan ǀ apaḥ ǀ
    ayacchathāḥ ǀ bāhvoḥ ǀ vajram ǀ āyasam ǀ adhārayaḥ ǀ divi ǀ ā ǀ sūryam ǀ dṛśe ǁ

    1.52.8 Aṣṭaka 1.4.13.3Anuvāka 1.10.23

  9. Ṛk 9

    बृ॒हत्स्वश्चं॑द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
    यन्मानु॑षप्रधना॒ इंद्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥

    बृहत् स्वश्चन्द्रम् अमवद् यद् उक्थ्यम् अकृण्वत भियसा रोहणं दिवः |
    यन् मानुषप्रधना इन्द्रम् ऊतयः स्वर् नृषाचो मरुतो ऽमदन्न् अनु ||

    bṛhátsváścandramámavadyádukthyámákṛṇvata bhiyásā róhaṇam diváḥ ǀ
    yánmā́nuṣapradhanā índramūtáyaḥ svárnṛṣā́co marútó’madannánu ǁ

    bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ |
    yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu ||

    बृ॒हत् । स्वऽच॑न्द्रम् । अम॑ऽवत् । यत् । उ॒क्थ्य॑म् । अकृ॑ण्वत । भि॒यसा॑ । रोह॑णम् । दि॒वः ।
    यत् । मानु॑षऽप्रधनाः । इन्द्र॑म् । ऊ॒तयः॑ । स्वः॑ । नृ॒ऽसाचः॑ । म॒रुतः॑ । अम॑दन् । अनु॑ ॥

    बृहत् । स्वऽचन्द्रम् । अमऽवत् । यत् । उक्थ्यम् । अकृण्वत । भियसा । रोहणम् । दिवः ।
    यत् । मानुषऽप्रधनाः । इन्द्रम् । ऊतयः । स्वः । नृऽसाचः । मरुतः । अमदन् । अनु ॥

    bṛhát ǀ svá-candram ǀ áma-vat ǀ yát ǀ ukthyám ǀ ákṛṇvata ǀ bhiyásā ǀ róhaṇam ǀ diváḥ ǀ
    yát ǀ mā́nuṣa-pradhanāḥ ǀ índram ǀ ūtáyaḥ ǀ sváḥ ǀ nṛ-sā́caḥ ǀ marútaḥ ǀ ámadan ǀ ánu ǁ

    bṛhat ǀ sva-candram ǀ ama-vat ǀ yat ǀ ukthyam ǀ akṛṇvata ǀ bhiyasā ǀ rohaṇam ǀ divaḥ ǀ
    yat ǀ mānuṣa-pradhanāḥ ǀ indram ǀ ūtayaḥ ǀ svaḥ ǀ nṛ-sācaḥ ǀ marutaḥ ǀ amadan ǀ anu ǁ

    1.52.9 Aṣṭaka 1.4.13.4Anuvāka 1.10.24

  10. Ṛk 10

    द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इंद्र ते ।
    वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ॥

    द्यौश् चिद् अस्यामवां अहेः स्वनाद् अयोयवीद् भियसा वज्र इन्द्र ते |
    वृत्रस्य यद् बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच् छिरः ||

    dyáuścidasyā́mavām̐ áheḥ svanā́dáyoyavīdbhiyásā vájra indra te ǀ
    vṛtrásya yádbadbadhānásya rodasī máde sutásya śávasā́bhinacchíraḥ ǁ

    dyauś cid asyāmavāṃ aheḥ svanād ayoyavīd bhiyasā vajra indra te |
    vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinac chiraḥ ||

    द्यौः । चि॒त् । अ॒स्य॒ । अम॑ऽवान् । अहेः॑ । स्व॒नात् । अयो॑यवीत् । भि॒यसा॑ । वज्रः॑ । इ॒न्द्र॒ । ते॒ ।
    वृ॒त्रस्य॑ । यत् । ब॒द्ब॒धा॒नस्य॑ । रो॒द॒सी॒ इति॑ । मदे॑ । सु॒तस्य॑ । शव॑सा । अभि॑नत् । शिरः॑ ॥

    द्यौः । चित् । अस्य । अमऽवान् । अहेः । स्वनात् । अयोयवीत् । भियसा । वज्रः । इन्द्र । ते ।
    वृत्रस्य । यत् । बद्बधानस्य । रोदसी इति । मदे । सुतस्य । शवसा । अभिनत् । शिरः ॥

    dyáuḥ ǀ cit ǀ asya ǀ áma-vān ǀ áheḥ ǀ svanā́t ǀ áyoyavīt ǀ bhiyásā ǀ vájraḥ ǀ indra ǀ te ǀ
    vṛtrásya ǀ yát ǀ badbadhānásya ǀ rodasī íti ǀ máde ǀ sutásya ǀ śávasā ǀ ábhinat ǀ śíraḥ ǁ

    dyauḥ ǀ cit ǀ asya ǀ ama-vān ǀ aheḥ ǀ svanāt ǀ ayoyavīt ǀ bhiyasā ǀ vajraḥ ǀ indra ǀ te ǀ
    vṛtrasya ǀ yat ǀ badbadhānasya ǀ rodasī iti ǀ made ǀ sutasya ǀ śavasā ǀ abhinat ǀ śiraḥ ǁ

    1.52.10 Aṣṭaka 1.4.13.5Anuvāka 1.10.25

  11. Ṛk 11

    यदिन्न्विं॑द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तनं॑त कृ॒ष्टयः॑ ।
    अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥

    यद् इन् न्व् इन्द्र पृथिवी दशभुजिर् अहानि विश्वा ततनन्त कृष्टयः |
    अत्राह ते मघवन् विश्रुतं सहो द्याम् अनु शवसा बर्हणा भुवत् ||

    yádínnvíndra pṛthivī́ dáśabhujiráhāni víśvā tatánanta kṛṣṭáyaḥ ǀ
    átrā́ha te maghavanvíśrutam sáho dyā́mánu śávasā barháṇā bhuvat ǁ

    yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ |
    atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat ||

    यत् । इत् । नु । इ॒न्द्र॒ । पृ॒थि॒वी । दश॑ऽभुजिः । अहा॑नि । विश्वा॑ । त॒तन॑न्त । कृ॒ष्टयः॑ ।
    अत्र॑ । अह॑ । ते॒ । म॒घ॒ऽव॒न् । विऽश्रु॑तम् । सहः॑ । द्याम् । अनु॑ । शव॑सा । ब॒र्हणा॑ । भु॒व॒त् ॥

    यत् । इत् । नु । इन्द्र । पृथिवी । दशऽभुजिः । अहानि । विश्वा । ततनन्त । कृष्टयः ।
    अत्र । अह । ते । मघऽवन् । विऽश्रुतम् । सहः । द्याम् । अनु । शवसा । बर्हणा । भुवत् ॥

    yát ǀ ít ǀ nú ǀ indra ǀ pṛthivī́ ǀ dáśa-bhujiḥ ǀ áhāni ǀ víśvā ǀ tatánanta ǀ kṛṣṭáyaḥ ǀ
    átra ǀ áha ǀ te ǀ magha-van ǀ ví-śrutam ǀ sáhaḥ ǀ dyā́m ǀ ánu ǀ śávasā ǀ barháṇā ǀ bhuvat ǁ

    yat ǀ it ǀ nu ǀ indra ǀ pṛthivī ǀ daśa-bhujiḥ ǀ ahāni ǀ viśvā ǀ tatananta ǀ kṛṣṭayaḥ ǀ
    atra ǀ aha ǀ te ǀ magha-van ǀ vi-śrutam ǀ sahaḥ ǀ dyām ǀ anu ǀ śavasā ǀ barhaṇā ǀ bhuvat ǁ

    1.52.11 Aṣṭaka 1.4.14.1Anuvāka 1.10.26

  12. Ṛk 12

    त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
    च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्वः॑ परि॒भूरे॒ष्या दिवं॑ ॥

    त्वम् अस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः |
    चकृषे भूमिम् प्रतिमानम् ओजसो ऽपः स्वः परिभूर् एष्य् आ दिवम् ||

    tvámasyá pāré rájaso vyómanaḥ svábhūtyojā ávase dhṛṣanmanaḥ ǀ
    cakṛṣé bhū́mim pratimā́namójaso’páḥ sváḥ paribhū́reṣyā́ dívam ǁ

    tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
    cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam ||

    त्वम् । अ॒स्य । पा॒रे । रज॑सः । विऽओ॑मनः । स्वभू॑तिऽओजाः । अव॑से । धृ॒ष॒त्ऽम॒नः॒ ।
    च॒कृ॒षे । भूमि॑म् । प्र॒ति॒ऽमान॑म् । ओज॑सः । अ॒पः । स्व१॒॑रिति॑ स्वः॑ । प॒रि॒ऽभूः । ए॒षि॒ । आ । दिव॑म् ॥

    त्वम् । अस्य । पारे । रजसः । विऽओमनः । स्वभूतिऽओजाः । अवसे । धृषत्ऽमनः ।
    चकृषे । भूमिम् । प्रतिऽमानम् । ओजसः । अपः । स्वरिति स्वः । परिऽभूः । एषि । आ । दिवम् ॥

    tvám ǀ asyá ǀ pāré ǀ rájasaḥ ǀ ví-omanaḥ ǀ svábhūti-ojāḥ ǀ ávase ǀ dhṛṣat-manaḥ ǀ
    cakṛṣé ǀ bhū́mim ǀ prati-mā́nam ǀ ójasaḥ ǀ apáḥ ǀ sváríti sváḥ ǀ pari-bhū́ḥ ǀ eṣi ǀ ā́ ǀ dívam ǁ

    tvam ǀ asya ǀ pāre ǀ rajasaḥ ǀ vi-omanaḥ ǀ svabhūti-ojāḥ ǀ avase ǀ dhṛṣat-manaḥ ǀ
    cakṛṣe ǀ bhūmim ǀ prati-mānam ǀ ojasaḥ ǀ apaḥ ǀ svariti svaḥ ǀ pari-bhūḥ ǀ eṣi ǀ ā ǀ divam ǁ

    1.52.12 Aṣṭaka 1.4.14.2Anuvāka 1.10.27

  13. Ṛk 13

    त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
    विश्व॒माप्रा॑ अं॒तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥

    त्वम् भुवः प्रतिमानम् पृथिव्या ऋष्ववीरस्य बृहतः पतिर् भूः |
    विश्वम् आप्रा अन्तरिक्षम् महित्वा सत्यम् अद्धा नकिर् अन्यस् त्वावान् ||

    tvám bhuvaḥ pratimā́nam pṛthivyā́ ṛṣvávīrasya bṛhatáḥ pátirbhūḥ ǀ
    víśvamā́prā antárikṣam mahitvā́ satyámaddhā́ nákiranyástvā́vān ǁ

    tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ |
    viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān ||

    त्वम् । भु॒वः॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । ऋ॒ष्वऽवी॑रस्य । बृ॒ह॒तः । पतिः॑ । भूः॒ ।
    विश्व॑म् । आ । अ॒प्राः॒ । अ॒न्तरि॑क्षम् । म॒हि॒ऽत्वा । स॒त्यम् । अ॒द्धा । नकिः॑ । अ॒न्यः । त्वाऽवा॑न् ॥

    त्वम् । भुवः । प्रतिऽमानम् । पृथिव्याः । ऋष्वऽवीरस्य । बृहतः । पतिः । भूः ।
    विश्वम् । आ । अप्राः । अन्तरिक्षम् । महिऽत्वा । सत्यम् । अद्धा । नकिः । अन्यः । त्वाऽवान् ॥

    tvám ǀ bhuvaḥ ǀ prati-mā́nam ǀ pṛthivyā́ḥ ǀ ṛṣvá-vīrasya ǀ bṛhatáḥ ǀ pátiḥ ǀ bhūḥ ǀ
    víśvam ǀ ā́ ǀ aprāḥ ǀ antárikṣam ǀ mahi-tvā́ ǀ satyám ǀ addhā́ ǀ nákiḥ ǀ anyáḥ ǀ tvā́-vān ǁ

    tvam ǀ bhuvaḥ ǀ prati-mānam ǀ pṛthivyāḥ ǀ ṛṣva-vīrasya ǀ bṛhataḥ ǀ patiḥ ǀ bhūḥ ǀ
    viśvam ǀ ā ǀ aprāḥ ǀ antarikṣam ǀ mahi-tvā ǀ satyam ǀ addhā ǀ nakiḥ ǀ anyaḥ ǀ tvā-vān ǁ

    1.52.13 Aṣṭaka 1.4.14.3Anuvāka 1.10.28

  14. Ṛk 14

    न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिंध॑वो॒ रज॑सो॒ अंत॑मान॒शुः ।
    नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥

    न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तम् आनशुः |
    नोत स्ववृष्टिम् मदे अस्य युध्यत एको अन्यच् चकृषे विश्वम् आनुषक् ||

    ná yásya dyā́vāpṛthivī́ ánu vyáco ná síndhavo rájaso ántamānaśúḥ ǀ
    nótá svávṛṣṭim máde asya yúdhyata éko anyáccakṛṣe víśvamānuṣák ǁ

    na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ |
    nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak ||

    न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । व्यचः॑ । न । सिन्ध॑वः । रज॑सः । अन्त॑म् । आ॒न॒शुः ।
    न । उ॒त । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । एकः॑ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व॑म् । आ॒नु॒षक् ॥

    न । यस्य । द्यावापृथिवी इति । अनु । व्यचः । न । सिन्धवः । रजसः । अन्तम् । आनशुः ।
    न । उत । स्वऽवृष्टिम् । मदे । अस्य । युध्यतः । एकः । अन्यत् । चकृषे । विश्वम् । आनुषक् ॥

    ná ǀ yásya ǀ dyā́vāpṛthivī́ íti ǀ ánu ǀ vyácaḥ ǀ ná ǀ síndhavaḥ ǀ rájasaḥ ǀ ántam ǀ ānaśúḥ ǀ
    ná ǀ utá ǀ svá-vṛṣṭim ǀ máde ǀ asya ǀ yúdhyataḥ ǀ ékaḥ ǀ anyát ǀ cakṛṣe ǀ víśvam ǀ ānuṣák ǁ

    na ǀ yasya ǀ dyāvāpṛthivī iti ǀ anu ǀ vyacaḥ ǀ na ǀ sindhavaḥ ǀ rajasaḥ ǀ antam ǀ ānaśuḥ ǀ
    na ǀ uta ǀ sva-vṛṣṭim ǀ made ǀ asya ǀ yudhyataḥ ǀ ekaḥ ǀ anyat ǀ cakṛṣe ǀ viśvam ǀ ānuṣak ǁ

    1.52.14 Aṣṭaka 1.4.14.4Anuvāka 1.10.29

  15. Ṛk 15

    आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
    वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमिं॑द्र॒ प्रत्या॒नं ज॒घंथ॑ ॥

    आर्चन्न् अत्र मरुतः सस्मिन्न् आजौ विश्वे देवासो अमदन्न् अनु त्वा |
    वृत्रस्य यद् भृष्टिमता वधेन नि त्वम् इन्द्र प्रत्य् आनं जघन्थ ||

    ā́rcannátra marútaḥ sásminnājáu víśve devā́so amadannánu tvā ǀ
    vṛtrásya yádbhṛṣṭimátā vadhéna ní tvámindra prátyānám jaghántha ǁ

    ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā |
    vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha ||

    आर्च॑न् । अत्र॑ । म॒रुतः॑ । सस्मि॑न् । आ॒जौ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ।
    वृ॒त्रस्य॑ । यत् । भृ॒ष्टि॒ऽमता॑ । व॒धेन॑ । नि । त्वम् । इ॒न्द्र॒ । प्रति॑ । आ॒नम् । ज॒घन्थ॑ ॥

    आर्चन् । अत्र । मरुतः । सस्मिन् । आजौ । विश्वे । देवासः । अमदन् । अनु । त्वा ।
    वृत्रस्य । यत् । भृष्टिऽमता । वधेन । नि । त्वम् । इन्द्र । प्रति । आनम् । जघन्थ ॥

    ā́rcan ǀ átra ǀ marútaḥ ǀ sásmin ǀ ājáu ǀ víśve ǀ devā́saḥ ǀ amadan ǀ ánu ǀ tvā ǀ
    vṛtrásya ǀ yát ǀ bhṛṣṭi-mátā ǀ vadhéna ǀ ní ǀ tvám ǀ indra ǀ práti ǀ ānám ǀ jaghántha ǁ

    ārcan ǀ atra ǀ marutaḥ ǀ sasmin ǀ ājau ǀ viśve ǀ devāsaḥ ǀ amadan ǀ anu ǀ tvā ǀ
    vṛtrasya ǀ yat ǀ bhṛṣṭi-matā ǀ vadhena ǀ ni ǀ tvam ǀ indra ǀ prati ǀ ānam ǀ jaghantha ǁ

    1.52.15 Aṣṭaka 1.4.14.5Anuvāka 1.10.30

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.52 · Indra

Interpretations

Sri Aurobindo

Ṛk 1

O greaten well this Ram who discovers the sun-world. His hundred powers perfect in birth speed together on the way. Indra may I set travelling to me for my increase by my clear cuttings of speech like a galloping horse of plenty and a swiftly arriving chariot.

Ṛk 2

He is like a mountain and unfallen in his upholdings. He brings a hundredfold thriving and increases in his strengths, when he has slain Vitra the Coverer where he covers with his siege the Waters and forces downward the streams rejoicing in his nectar food.

Ṛk 3

He is the gate in the gated house, in the teat of plenitude, a blissful foundation increased with the intoxication of their delight by the thinkers. To Indra of greatest lavish giving by my thought I call in my desire for perfect works. Now is he satisfied and full of my nectar food.