Sūkta 49
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup
2nd set of styles anuṣṭubh
-
Ṛk 1
उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ ।
वहं॑त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हं ॥उषो भद्रेभिर् आ गहि दिवश् चिद् रोचनाद् अधि |
वहन्त्व् अरुणप्सव उप त्वा सोमिनो गृहम् ||úṣo bhadrébhirā́ gahi diváścidrocanā́dádhi ǀ
váhantvaruṇápsava úpa tvā somíno gṛhám ǁuṣo bhadrebhir ā gahi divaś cid rocanād adhi |
vahantv aruṇapsava upa tvā somino gṛham ||उषः॑ । भ॒द्रेभिः॑ । आ । ग॒हि॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ।
वह॑न्तु । अ॒रु॒णऽप्स॑वः । उप॑ । त्वा॒ । सो॒मिनः॑ । गृ॒हम् ॥उषः । भद्रेभिः । आ । गहि । दिवः । चित् । रोचनात् । अधि ।
वहन्तु । अरुणऽप्सवः । उप । त्वा । सोमिनः । गृहम् ॥úṣaḥ ǀ bhadrébhiḥ ǀ ā́ ǀ gahi ǀ diváḥ ǀ cit ǀ rocanā́t ǀ ádhi ǀ
váhantu ǀ aruṇá-psavaḥ ǀ úpa ǀ tvā ǀ somínaḥ ǀ gṛhám ǁuṣaḥ ǀ bhadrebhiḥ ǀ ā ǀ gahi ǀ divaḥ ǀ cit ǀ rocanāt ǀ adhi ǀ
vahantu ǀ aruṇa-psavaḥ ǀ upa ǀ tvā ǀ sominaḥ ǀ gṛham ǁ1.49.1 Aṣṭaka 1.4.6.1Anuvāka 1.9.66
-
Ṛk 2
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वं ।
तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥सुपेशसं सुखं रथं यम् अध्यस्था उषस् त्वम् |
तेना सुश्रवसं जनम् प्रावाद्य दुहितर् दिवः ||supéśasam sukhám rátham yámadhyásthā uṣastvám ǀ
ténā suśrávasam jánam prā́vādyá duhitardivaḥ ǁsupeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam |
tenā suśravasaṃ janam prāvādya duhitar divaḥ ||सु॒ऽपेश॑सम् । सु॒ऽखम् । रथ॑म् । यम् । अ॒धि॒ऽअस्थाः॑ । उ॒षः॒ । त्वम् ।
तेन॑ । सु॒ऽश्रव॑सम् । जन॑म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒ ॥सुऽपेशसम् । सुऽखम् । रथम् । यम् । अधिऽअस्थाः । उषः । त्वम् ।
तेन । सुऽश्रवसम् । जनम् । प्र । अव । अद्य । दुहितः । दिवः ॥su-péśasam ǀ su-khám ǀ rátham ǀ yám ǀ adhi-ásthāḥ ǀ uṣaḥ ǀ tvám ǀ
téna ǀ su-śrávasam ǀ jánam ǀ prá ǀ ava ǀ adyá ǀ duhitaḥ ǀ divaḥ ǁsu-peśasam ǀ su-kham ǀ ratham ǀ yam ǀ adhi-asthāḥ ǀ uṣaḥ ǀ tvam ǀ
tena ǀ su-śravasam ǀ janam ǀ pra ǀ ava ǀ adya ǀ duhitaḥ ǀ divaḥ ǁ1.49.2 Aṣṭaka 1.4.6.2Anuvāka 1.9.67
-
Ṛk 3
वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।
उषः॒ प्रार॑न्नृ॒तूँरनु॑ दि॒वो अंते॑भ्य॒स्परि॑ ॥वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि |
उषः प्रारन्न् ऋतूंर् अनु दिवो अन्तेभ्यस् परि ||váyaścitte patatríṇo dvipáccátuṣpadarjuni ǀ
úṣaḥ prā́rannṛtū́m̐ránu divó ántebhyaspári ǁvayaś cit te patatriṇo dvipac catuṣpad arjuni |
uṣaḥ prārann ṛtūṃr anu divo antebhyas pari ||वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒र्जु॒नि॒ ।
उषः॑ । प्र । आ॒र॒न् । ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑ ॥वयः । चित् । ते । पतत्रिणः । द्विऽपत् । चतुःऽपत् । अर्जुनि ।
उषः । प्र । आरन् । ऋतून् । अनु । दिवः । अन्तेभ्यः । परि ॥váyaḥ ǀ cit ǀ te ǀ patatríṇaḥ ǀ dvi-pát ǀ cátuḥ-pat ǀ arjuni ǀ
úṣaḥ ǀ prá ǀ āran ǀ ṛtū́n ǀ ánu ǀ diváḥ ǀ ántebhyaḥ ǀ pári ǁvayaḥ ǀ cit ǀ te ǀ patatriṇaḥ ǀ dvi-pat ǀ catuḥ-pat ǀ arjuni ǀ
uṣaḥ ǀ pra ǀ āran ǀ ṛtūn ǀ anu ǀ divaḥ ǀ antebhyaḥ ǀ pari ǁ1.49.3 Aṣṭaka 1.4.6.3Anuvāka 1.9.68
-
Ṛk 4
व्यु॒च्छंती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नं ।
तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् |
तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ||vyucchántī hí raśmíbhirvíśvamābhā́si rocanám ǀ
tā́m tvā́muṣarvasūyávo gīrbhíḥ káṇvā ahūṣata ǁvyucchantī hi raśmibhir viśvam ābhāsi rocanam |
tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata ||वि॒ऽउ॒च्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् ।
ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥विऽउच्छन्ती । हि । रश्मिऽभिः । विश्वम् । आऽभासि । रोचनम् ।
ताम् । त्वाम् । उषः । वसुऽयवः । गीःऽभिः । कण्वाः । अहूषत ॥vi-ucchántī ǀ hí ǀ raśmí-bhiḥ ǀ víśvam ǀ ā-bhā́si ǀ rocanám ǀ
tā́m ǀ tvā́m ǀ uṣaḥ ǀ vasu-yávaḥ ǀ gīḥ-bhíḥ ǀ káṇvāḥ ǀ ahūṣata ǁvi-ucchantī ǀ hi ǀ raśmi-bhiḥ ǀ viśvam ǀ ā-bhāsi ǀ rocanam ǀ
tām ǀ tvām ǀ uṣaḥ ǀ vasu-yavaḥ ǀ gīḥ-bhiḥ ǀ kaṇvāḥ ǀ ahūṣata ǁ1.49.4 Aṣṭaka 1.4.6.4Anuvāka 1.9.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.