Sūkta 188
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 3, 5-7, 10); gāyatrī (2, 4, 8, 9, 11)
2nd set of styles gāyatrī
-
Ṛk 1
समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।
दू॒तो ह॒व्या क॒विर्व॑ह ॥समिद्धो अद्य राजसि देवो देवैः सहस्रजित् |
दूतो हव्या कविर् वह ||sámiddho adyá rājasi devó deváiḥ sahasrajit ǀ
dūtó havyā́ kavírvaha ǁsamiddho adya rājasi devo devaiḥ sahasrajit |
dūto havyā kavir vaha ||सम्ऽइ॑द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒ऽजि॒त् ।
दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥सम्ऽइद्धः । अद्य । राजसि । देवः । देवैः । सहस्रऽजित् ।
दूतः । हव्या । कविः । वह ॥sám-iddhaḥ ǀ adyá ǀ rājasi ǀ deváḥ ǀ deváiḥ ǀ sahasra-jit ǀ
dūtáḥ ǀ havyā́ ǀ kavíḥ ǀ vaha ǁsam-iddhaḥ ǀ adya ǀ rājasi ǀ devaḥ ǀ devaiḥ ǀ sahasra-jit ǀ
dūtaḥ ǀ havyā ǀ kaviḥ ǀ vaha ǁ1.188.1 Aṣṭaka 2.5.8.0
-
Ṛk 2
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।
दध॑त्सह॒स्रिणी॒रिषः॑ ॥तनूनपाद् ऋतं यते मध्वा यज्ञः सम् अज्यते |
दधत् सहस्रिणीर् इषः ||tánūnapādṛtám yaté mádhvā yajñáḥ sámajyate ǀ
dádhatsahasríṇīríṣaḥ ǁtanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate |
dadhat sahasriṇīr iṣaḥ ||तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ ।
दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥तनूऽनपात् । ऋतम् । यते । मध्वा । यज्ञः । सम् । अज्यते ।
दधत् । सहस्रिणीः । इषः ॥tánū-napāt ǀ ṛtám ǀ yaté ǀ mádhvā ǀ yajñáḥ ǀ sám ǀ ajyate ǀ
dádhat ǀ sahasríṇīḥ ǀ íṣaḥ ǁtanū-napāt ǀ ṛtam ǀ yate ǀ madhvā ǀ yajñaḥ ǀ sam ǀ ajyate ǀ
dadhat ǀ sahasriṇīḥ ǀ iṣaḥ ǁ1.188.2 Aṣṭaka 2.5.8.0
-
Ṛk 3
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् ।
अग्ने॑ सहस्र॒सा अ॑सि ॥आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् |
अग्ने सहस्रसा असि ||ājúhvāno na ī́ḍyo devā́m̐ ā́ vakṣi yajñíyān ǀ
ágne sahasrasā́ asi ǁājuhvāno na īḍyo devāṃ ā vakṣi yajñiyān |
agne sahasrasā asi ||आ॒ऽजुह्वा॑नः । नः॒ । ईड्यः॑ । दे॒वान् । आ । व॒क्षि॒ । य॒ज्ञिया॑न् ।
अग्ने॑ । स॒ह॒स्र॒ऽसाः । अ॒सि॒ ॥आऽजुह्वानः । नः । ईड्यः । देवान् । आ । वक्षि । यज्ञियान् ।
अग्ने । सहस्रऽसाः । असि ॥ā-júhvānaḥ ǀ naḥ ǀ ī́ḍyaḥ ǀ devā́n ǀ ā́ ǀ vakṣi ǀ yajñíyān ǀ
ágne ǀ sahasra-sā́ḥ ǀ asi ǁā-juhvānaḥ ǀ naḥ ǀ īḍyaḥ ǀ devān ǀ ā ǀ vakṣi ǀ yajñiyān ǀ
agne ǀ sahasra-sāḥ ǀ asi ǁ1.188.3 Aṣṭaka 2.5.8.0
-
Ṛk 4
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् ।
यत्रा॑दित्या वि॒राज॑थ ॥प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् |
यत्रादित्या विराजथ ||prācī́nam barhírójasā sahásravīramastṛṇan ǀ
yátrādityā virā́jatha ǁprācīnam barhir ojasā sahasravīram astṛṇan |
yatrādityā virājatha ||प्रा॒चीन॑म् । ब॒र्हिः । ओज॑सा । स॒हस्र॑ऽवीरम् । अ॒स्तृ॒ण॒न् ।
यत्र॑ । आ॒दि॒त्याः॒ । वि॒ऽराज॑थ ॥प्राचीनम् । बर्हिः । ओजसा । सहस्रऽवीरम् । अस्तृणन् ।
यत्र । आदित्याः । विऽराजथ ॥prācī́nam ǀ barhíḥ ǀ ójasā ǀ sahásra-vīram ǀ astṛṇan ǀ
yátra ǀ ādityāḥ ǀ vi-rā́jatha ǁprācīnam ǀ barhiḥ ǀ ojasā ǀ sahasra-vīram ǀ astṛṇan ǀ
yatra ǀ ādityāḥ ǀ vi-rājatha ǁ1.188.4 Aṣṭaka 2.5.8.0
-
Ṛk 5
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः ।
दुरो॑ घृ॒तान्य॑क्षरन् ॥विराट् सम्राड् विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः |
दुरो घृतान्य् अक्षरन् ||virā́ṭ samrā́ḍvibhvī́ḥ prabhvī́rbahvī́śca bhū́yasīśca yā́ḥ ǀ
dúro ghṛtā́nyakṣaran ǁvirāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ |
duro ghṛtāny akṣaran ||वि॒राट् । स॒म्ऽराट् । वि॒भ्वीः । प्र॒ऽभ्वीः । ब॒ह्वीः । च॒ । भूय॑सीः । च॒ । याः ।
दुरः॑ । घृ॒तानि॑ । अ॒क्ष॒र॒न् ॥विराट् । सम्ऽराट् । विभ्वीः । प्रऽभ्वीः । बह्वीः । च । भूयसीः । च । याः ।
दुरः । घृतानि । अक्षरन् ॥virā́ṭ ǀ sam-rā́ṭ ǀ vibhvī́ḥ ǀ pra-bhvī́ḥ ǀ bahvī́ḥ ǀ ca ǀ bhū́yasīḥ ǀ ca ǀ yā́ḥ ǀ
dúraḥ ǀ ghṛtā́ni ǀ akṣaran ǁvirāṭ ǀ sam-rāṭ ǀ vibhvīḥ ǀ pra-bhvīḥ ǀ bahvīḥ ǀ ca ǀ bhūyasīḥ ǀ ca ǀ yāḥ ǀ
duraḥ ǀ ghṛtāni ǀ akṣaran ǁ1.188.5 Aṣṭaka 2.5.8.0
-
Ṛk 6
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः ।
उ॒षासा॒वेह सी॑दतां ॥सुरुक्मे हि सुपेशसाधि श्रिया विराजतः |
उषासाव् एह सीदताम् ||surukmé hí supéśasā́dhi śriyā́ virā́jataḥ ǀ
uṣā́sāvéhá sīdatām ǁsurukme hi supeśasādhi śriyā virājataḥ |
uṣāsāv eha sīdatām ||सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । हि । सु॒ऽपेश॑सा । अधि॑ । श्रि॒या । वि॒ऽराज॑तः ।
उ॒षसौ॑ । आ । इ॒ह । सी॒द॒ता॒म् ॥सुरुक्मे इति सुऽरुक्मे । हि । सुऽपेशसा । अधि । श्रिया । विऽराजतः ।
उषसौ । आ । इह । सीदताम् ॥surukmé íti su-rukmé ǀ hí ǀ su-péśasā ǀ ádhi ǀ śriyā́ ǀ vi-rā́jataḥ ǀ
uṣásau ǀ ā́ ǀ ihá ǀ sīdatām ǁsurukme iti su-rukme ǀ hi ǀ su-peśasā ǀ adhi ǀ śriyā ǀ vi-rājataḥ ǀ
uṣasau ǀ ā ǀ iha ǀ sīdatām ǁ1.188.6 Aṣṭaka 2.5.9.0
-
Ṛk 7
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मं ॥प्रथमा हि सुवाचसा होतारा दैव्या कवी |
यज्ञं नो यक्षताम् इमम् ||prathamā́ hí suvā́casā hótārā dáivyā kavī́ ǀ
yajñám no yakṣatāmimám ǁprathamā hi suvācasā hotārā daivyā kavī |
yajñaṃ no yakṣatām imam ||प्र॒थ॒मा । हि । सु॒ऽवाच॑सा । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥प्रथमा । हि । सुऽवाचसा । होतारा । दैव्या । कवी इति ।
यज्ञम् । नः । यक्षताम् । इमम् ॥prathamā́ ǀ hí ǀ su-vā́casā ǀ hótārā ǀ dáivyā ǀ kavī́ íti ǀ
yajñám ǀ naḥ ǀ yakṣatām ǀ imám ǁprathamā ǀ hi ǀ su-vācasā ǀ hotārā ǀ daivyā ǀ kavī iti ǀ
yajñam ǀ naḥ ǀ yakṣatām ǀ imam ǁ1.188.7 Aṣṭaka 2.5.9.0
-
Ṛk 8
भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा॑ उपब्रु॒वे ।
ता न॑श्चोदयत श्रि॒ये ॥भारतीळे सरस्वति या वः सर्वा उपब्रुवे |
ता नश् चोदयत श्रिये ||bhā́ratī́ḷe sárasvati yā́ vaḥ sárvā upabruvé ǀ
tā́ naścodayata śriyé ǁbhāratīḷe sarasvati yā vaḥ sarvā upabruve |
tā naś codayata śriye ||भार॑ति । इळे॑ । सर॑स्वति । याः । वः॒ । सर्वाः॑ । उ॒प॒ऽब्रु॒वे ।
ताः । नः॒ । चो॒द॒य॒त॒ । श्रि॒ये ॥भारति । इळे । सरस्वति । याः । वः । सर्वाः । उपऽब्रुवे ।
ताः । नः । चोदयत । श्रिये ॥bhā́rati ǀ íḷe ǀ sárasvati ǀ yā́ḥ ǀ vaḥ ǀ sárvāḥ ǀ upa-bruvé ǀ
tā́ḥ ǀ naḥ ǀ codayata ǀ śriyé ǁbhārati ǀ iḷe ǀ sarasvati ǀ yāḥ ǀ vaḥ ǀ sarvāḥ ǀ upa-bruve ǀ
tāḥ ǀ naḥ ǀ codayata ǀ śriye ǁ1.188.8 Aṣṭaka 2.5.9.0
-
Ṛk 9
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे ।
तेषां॑ नः स्फा॒तिमा य॑ज ॥त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे |
तेषां न स्फातिम् आ यज ||tváṣṭā rūpā́ṇi hí prabhúḥ paśū́nvíśvāntsamānajé ǀ
téṣām naḥ sphātímā́ yaja ǁtvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje |
teṣāṃ na sphātim ā yaja ||त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे ।
तेषा॑म् । नः॒ । स्फा॒तिम् । आ । य॒ज॒ ॥त्वष्टा । रूपाणि । हि । प्रऽभुः । पशून् । विश्वान् । सम्ऽआनजे ।
तेषाम् । नः । स्फातिम् । आ । यज ॥tváṣṭā ǀ rūpā́ṇi ǀ hí ǀ pra-bhúḥ ǀ paśū́n ǀ víśvān ǀ sam-ānajé ǀ
téṣām ǀ naḥ ǀ sphātím ǀ ā́ ǀ yaja ǁtvaṣṭā ǀ rūpāṇi ǀ hi ǀ pra-bhuḥ ǀ paśūn ǀ viśvān ǀ sam-ānaje ǀ
teṣām ǀ naḥ ǀ sphātim ǀ ā ǀ yaja ǁ1.188.9 Aṣṭaka 2.5.9.0
-
Ṛk 10
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज ।
अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥उप त्मन्या वनस्पते पाथो देवेभ्यः सृज |
अग्निर् हव्यानि सिष्वदत् ||úpa tmányā vanaspate pā́tho devébhyaḥ sṛja ǀ
agnírhavyā́ni siṣvadat ǁupa tmanyā vanaspate pātho devebhyaḥ sṛja |
agnir havyāni siṣvadat ||उप॑ । त्मन्या॑ । व॒न॒स्प॒ते॒ । पाथः॑ । दे॒वेभ्यः॑ । सृ॒ज॒ ।
अ॒ग्निः । ह॒व्यानि॑ । सि॒स्व॒द॒त् ॥उप । त्मन्या । वनस्पते । पाथः । देवेभ्यः । सृज ।
अग्निः । हव्यानि । सिस्वदत् ॥úpa ǀ tmányā ǀ vanaspate ǀ pā́thaḥ ǀ devébhyaḥ ǀ sṛja ǀ
agníḥ ǀ havyā́ni ǀ sisvadat ǁupa ǀ tmanyā ǀ vanaspate ǀ pāthaḥ ǀ devebhyaḥ ǀ sṛja ǀ
agniḥ ǀ havyāni ǀ sisvadat ǁ1.188.10 Aṣṭaka 2.5.9.0
-
Ṛk 11
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते ।
स्वाहा॑कृतीषु रोचते ॥पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते |
स्वाहाकृतीषु रोचते ||purogā́ agnírdevā́nām gāyatréṇa sámajyate ǀ
svā́hākṛtīṣu rocate ǁpurogā agnir devānāṃ gāyatreṇa sam ajyate |
svāhākṛtīṣu rocate ||पु॒रः॒ऽगाः । अ॒ग्निः । दे॒वाना॑म् । गा॒य॒त्रेण॑ । सम् । अ॒ज्य॒ते॒ ।
स्वाहा॑ऽकृतीषु । रो॒च॒ते॒ ॥पुरःऽगाः । अग्निः । देवानाम् । गायत्रेण । सम् । अज्यते ।
स्वाहाऽकृतीषु । रोचते ॥puraḥ-gā́ḥ ǀ agníḥ ǀ devā́nām ǀ gāyatréṇa ǀ sám ǀ ajyate ǀ
svā́hā-kṛtīṣu ǀ rocate ǁpuraḥ-gāḥ ǀ agniḥ ǀ devānām ǀ gāyatreṇa ǀ sam ǀ ajyate ǀ
svāhā-kṛtīṣu ǀ rocate ǁ1.188.11 Aṣṭaka 2.5.9.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.