Sūkta 118
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 6, 9, 10); triṣṭup (2, 5, 7); bhurikpaṅkti (1, 11); virāṭtrisṭup (4, 8)
2nd set of styles triṣṭubh
-
Ṛk 1
आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यांत्रिवंधु॒रो वृ॑षणा॒ वात॑रंहाः ॥आ वां रथो अश्विना श्येनपत्वा सुमृऌईकः स्ववां यात्व् अर्वाङ् |
यो मर्त्यस्य मनसो जवीयान् त्रिवन्धुरो वृषणा वातरंहाः ||ā́ vām rátho aśvinā śyenápatvā sumṛḷīkáḥ svávām̐ yātvarvā́ṅ ǀ
yó mártyasya mánaso jávīyāntrivandhuró vṛṣaṇā vā́taraṃhāḥ ǁā vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavāṃ yātv arvāṅ |
yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ ||आ । वा॒म् । रथः॑ । अ॒श्वि॒ना॒ । श्ये॒नऽप॑त्वा । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।
यः । मर्त्य॑स्य । मन॑सः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । वात॑ऽरंहाः ॥आ । वाम् । रथः । अश्विना । श्येनऽपत्वा । सुऽमृळीकः । स्वऽवान् । यातु । अर्वाङ् ।
यः । मर्त्यस्य । मनसः । जवीयान् । त्रिऽवन्धुरः । वृषणा । वातऽरंहाः ॥ā́ ǀ vām ǀ ráthaḥ ǀ aśvinā ǀ śyená-patvā ǀ su-mṛḷīkáḥ ǀ svá-vān ǀ yātu ǀ arvā́ṅ ǀ
yáḥ ǀ mártyasya ǀ mánasaḥ ǀ jávīyān ǀ tri-vandhuráḥ ǀ vṛṣaṇā ǀ vā́ta-raṃhāḥ ǁā ǀ vām ǀ rathaḥ ǀ aśvinā ǀ śyena-patvā ǀ su-mṛḷīkaḥ ǀ sva-vān ǀ yātu ǀ arvāṅ ǀ
yaḥ ǀ martyasya ǀ manasaḥ ǀ javīyān ǀ tri-vandhuraḥ ǀ vṛṣaṇā ǀ vāta-raṃhāḥ ǁ1.118.1 Aṣṭaka 1.8.18.1Anuvāka 1.17.51
-
Ṛk 2
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् ।
पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् |
पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ||trivandhuréṇa trivṛ́tā ráthena tricakréṇa suvṛ́tā́ yātamarvā́k ǀ
pínvatam gā́ jínvatamárvato no vardháyatamaśvinā vīrámasmé ǁtrivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk |
pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme ||त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् ।
पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । त्रिऽचक्रेण । सुऽवृता । आ । यातम् । अर्वाक् ।
पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति ॥tri-vandhuréṇa ǀ tri-vṛ́tā ǀ ráthena ǀ tri-cakréṇa ǀ su-vṛ́tā ǀ ā́ ǀ yātam ǀ arvā́k ǀ
pínvatam ǀ gā́ḥ ǀ jínvatam ǀ árvataḥ ǀ naḥ ǀ vardháyatam ǀ aśvinā ǀ vīrám ǀ asmé íti ǁtri-vandhureṇa ǀ tri-vṛtā ǀ rathena ǀ tri-cakreṇa ǀ su-vṛtā ǀ ā ǀ yātam ǀ arvāk ǀ
pinvatam ǀ gāḥ ǀ jinvatam ǀ arvataḥ ǀ naḥ ǀ vardhayatam ǀ aśvinā ǀ vīram ǀ asme iti ǁ1.118.2 Aṣṭaka 1.8.18.2Anuvāka 1.17.52
-
Ṛk 3
प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।
किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः |
किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ||pravádyāmanā suvṛ́tā ráthena dásrāvimám śṛṇutam ślókamádreḥ ǀ
kímaṅgá vām prátyávartim gámiṣṭhāhúrvíprāso aśvinā purājā́ḥ ǁpravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ |
kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ ||प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥प्रवत्ऽयामना । सुऽवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः ।
किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥pravát-yāmanā ǀ su-vṛ́tā ǀ ráthena ǀ dásrau ǀ imám ǀ śṛṇutam ǀ ślókam ǀ ádreḥ ǀ
kím ǀ aṅgá ǀ vām ǀ práti ǀ ávartim ǀ gámiṣṭhā ǀ āhúḥ ǀ víprāsaḥ ǀ aśvinā ǀ purā-jā́ḥ ǁpravat-yāmanā ǀ su-vṛtā ǀ rathena ǀ dasrau ǀ imam ǀ śṛṇutam ǀ ślokam ǀ adreḥ ǀ
kim ǀ aṅga ǀ vām ǀ prati ǀ avartim ǀ gamiṣṭhā ǀ āhuḥ ǀ viprāsaḥ ǀ aśvinā ǀ purā-jāḥ ǁ1.118.3 Aṣṭaka 1.8.18.3Anuvāka 1.17.53
-
Ṛk 4
आ वां॑ श्ये॒नासो॑ अश्विना वहंतु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः ।
ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वहं॑ति ॥आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः |
ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ||ā́ vām śyenā́so aśvinā vahantu ráthe yuktā́sa āśávaḥ pataṃgā́ḥ ǀ
yé aptúro divyā́so ná gṛ́dhrā abhí práyo nāsatyā váhanti ǁā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ |
ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti ||आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः ।
ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे । युक्तासः । आशवः । पतङ्गाः ।
ये । अप्ऽतुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वहन्ति ॥ā́ ǀ vām ǀ śyenā́saḥ ǀ aśvinā ǀ vahantu ǀ ráthe ǀ yuktā́saḥ ǀ āśávaḥ ǀ pataṅgā́ḥ ǀ
yé ǀ ap-túraḥ ǀ divyā́saḥ ǀ ná ǀ gṛ́dhrāḥ ǀ abhí ǀ práyaḥ ǀ nāsatyā ǀ váhanti ǁā ǀ vām ǀ śyenāsaḥ ǀ aśvinā ǀ vahantu ǀ rathe ǀ yuktāsaḥ ǀ āśavaḥ ǀ pataṅgāḥ ǀ
ye ǀ ap-turaḥ ǀ divyāsaḥ ǀ na ǀ gṛdhrāḥ ǀ abhi ǀ prayaḥ ǀ nāsatyā ǀ vahanti ǁ1.118.4 Aṣṭaka 1.8.18.4Anuvāka 1.17.54
-
Ṛk 5
आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य ।
परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहंत्वरु॒षा अ॒भीके॑ ॥आ वां रथं युवतिस् तिष्ठद् अत्र जुष्ट्वी नरा दुहिता सूर्यस्य |
परि वाम् अश्वा वपुषः पतङ्गा वयो वहन्त्व् अरुषा अभीके ||ā́ vām rátham yuvatístiṣṭhadátra juṣṭvī́ narā duhitā́ sū́ryasya ǀ
pári vāmáśvā vápuṣaḥ pataṃgā́ váyo vahantvaruṣā́ abhī́ke ǁā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya |
pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke ||आ । वा॒म् । रथ॑म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र॑ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य॑स्य ।
परि॑ । वा॒म् । अश्वाः॑ । वपु॑षः । प॒त॒ङ्गाः । वयः॑ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके॑ ॥आ । वाम् । रथम् । युवतिः । तिष्ठत् । अत्र । जुष्ट्वी । नरा । दुहिता । सूर्यस्य ।
परि । वाम् । अश्वाः । वपुषः । पतङ्गाः । वयः । वहन्तु । अरुषाः । अभीके ॥ā́ ǀ vām ǀ rátham ǀ yuvatíḥ ǀ tiṣṭhat ǀ átra ǀ juṣṭvī́ ǀ narā ǀ duhitā́ ǀ sū́ryasya ǀ
pári ǀ vām ǀ áśvāḥ ǀ vápuṣaḥ ǀ pataṅgā́ḥ ǀ váyaḥ ǀ vahantu ǀ aruṣā́ḥ ǀ abhī́ke ǁā ǀ vām ǀ ratham ǀ yuvatiḥ ǀ tiṣṭhat ǀ atra ǀ juṣṭvī ǀ narā ǀ duhitā ǀ sūryasya ǀ
pari ǀ vām ǀ aśvāḥ ǀ vapuṣaḥ ǀ pataṅgāḥ ǀ vayaḥ ǀ vahantu ǀ aruṣāḥ ǀ abhīke ǁ1.118.5 Aṣṭaka 1.8.18.5Anuvāka 1.17.55
-
Ṛk 6
उद्वंद॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः ।
निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नं ॥उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः |
निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ||údvándanamairatam daṃsánābhirúdrebhám dasrā vṛṣaṇā śácībhiḥ ǀ
níṣṭaugryám pārayathaḥ samudrā́tpúnaścyávānam cakrathuryúvānam ǁud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ |
niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam ||उत् । वन्द॑नम् । ऐ॒र॒त॒म् । दं॒सना॑भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची॑भिः ।
निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति॑ । च्यवा॑नम् । च॒क्र॒थुः॒ । युवा॑नम् ॥उत् । वन्दनम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः ।
निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम् ॥út ǀ vándanam ǀ airatam ǀ daṃsánābhiḥ ǀ út ǀ rebhám ǀ dasrā ǀ vṛṣaṇā ǀ śácībhiḥ ǀ
níḥ ǀ taugryám ǀ pārayathaḥ ǀ samudrā́t ǀ púnaríti ǀ cyávānam ǀ cakrathuḥ ǀ yúvānam ǁut ǀ vandanam ǀ airatam ǀ daṃsanābhiḥ ǀ ut ǀ rebham ǀ dasrā ǀ vṛṣaṇā ǀ śacībhiḥ ǀ
niḥ ǀ taugryam ǀ pārayathaḥ ǀ samudrāt ǀ punariti ǀ cyavānam ǀ cakrathuḥ ǀ yuvānam ǁ1.118.6 Aṣṭaka 1.8.19.1Anuvāka 1.17.56
-
Ṛk 7
यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तं ।
यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ॥युवम् अत्रये ऽवनीताय तप्तम् ऊर्जम् ओमानम् अश्विनाव् अधत्तम् |
युवं कण्वायापिरिप्ताय चक्षुः प्रत्य् अधत्तं सुष्टुतिं जुजुषाणा ||yuvámátrayé’vanītāya taptámū́rjamomā́namaśvināvadhattam ǀ
yuvám káṇvāyā́piriptāya cákṣuḥ prátyadhattam suṣṭutím jujuṣāṇā́ ǁyuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam |
yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā ||यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओ॒मान॑म् । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् ।
यु॒वम् । कण्वा॑य । अपि॑ऽरिप्ताय । चक्षुः॑ । प्रति॑ । अ॒ध॒त्त॒म् । सु॒ऽस्तु॒तिम् । जु॒जु॒षा॒णा ॥युवम् । अत्रये । अवऽनीताय । तप्तम् । ऊर्जम् । ओमानम् । अश्विनौ । अधत्तम् ।
युवम् । कण्वाय । अपिऽरिप्ताय । चक्षुः । प्रति । अधत्तम् । सुऽस्तुतिम् । जुजुषाणा ॥yuvám ǀ átraye ǀ áva-nītāya ǀ taptám ǀ ū́rjam ǀ omā́nam ǀ aśvinau ǀ adhattam ǀ
yuvám ǀ káṇvāya ǀ ápi-riptāya ǀ cákṣuḥ ǀ práti ǀ adhattam ǀ su-stutím ǀ jujuṣāṇā́ ǁyuvam ǀ atraye ǀ ava-nītāya ǀ taptam ǀ ūrjam ǀ omānam ǀ aśvinau ǀ adhattam ǀ
yuvam ǀ kaṇvāya ǀ api-riptāya ǀ cakṣuḥ ǀ prati ǀ adhattam ǀ su-stutim ǀ jujuṣāṇā ǁ1.118.7 Aṣṭaka 1.8.19.2Anuvāka 1.17.57
-
Ṛk 8
यु॒वं धे॒नुं श॒यवे॑ नाधि॒तायापि॑न्वतमश्विना पू॒र्व्याय॑ ।
अमुं॑चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जंघां॑ वि॒श्पला॑या अधत्तं ॥युवं धेनुं शयवे नाधितायापिन्वतम् अश्विना पूर्व्याय |
अमुञ्चतं वर्तिकाम् अंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ||yuvám dhenúm śayáve nādhitā́yā́pinvatamaśvinā pūrvyā́ya ǀ
ámuñcatam vártikāmáṃhaso níḥ práti jáṅghām viśpálāyā adhattam ǁyuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya |
amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam ||यु॒वम् । धे॒नुम् । श॒यवे॑ । ना॒धि॒ताय॑ । अपि॑न्वतम् । अ॒श्वि॒ना॒ । पू॒र्व्याय॑ ।
अमु॑ञ्चतम् । वर्ति॑काम् । अंह॑सः । निः । प्रति॑ । जङ्घा॑म् । वि॒श्पला॑याः । अ॒ध॒त्त॒म् ॥युवम् । धेनुम् । शयवे । नाधिताय । अपिन्वतम् । अश्विना । पूर्व्याय ।
अमुञ्चतम् । वर्तिकाम् । अंहसः । निः । प्रति । जङ्घाम् । विश्पलायाः । अधत्तम् ॥yuvám ǀ dhenúm ǀ śayáve ǀ nādhitā́ya ǀ ápinvatam ǀ aśvinā ǀ pūrvyā́ya ǀ
ámuñcatam ǀ vártikām ǀ áṃhasaḥ ǀ níḥ ǀ práti ǀ jáṅghām ǀ viśpálāyāḥ ǀ adhattam ǁyuvam ǀ dhenum ǀ śayave ǀ nādhitāya ǀ apinvatam ǀ aśvinā ǀ pūrvyāya ǀ
amuñcatam ǀ vartikām ǀ aṃhasaḥ ǀ niḥ ǀ prati ǀ jaṅghām ǀ viśpalāyāḥ ǀ adhattam ǁ1.118.8 Aṣṭaka 1.8.19.3Anuvāka 1.17.58
-
Ṛk 9
यु॒वं श्वे॒तं पे॒दव॒ इंद्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्वं॑ ।
जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्वं॑गं ॥युवं श्वेतम् पेदव इन्द्रजूतम् अहिहनम् अश्विनादत्तम् अश्वम् |
जोहूत्रम् अर्यो अभिभूतिम् उग्रं सहस्रसां वृषणं वीड्वङ्गम् ||yuvám śvetám pedáva índrajūtamahihánamaśvinādattamáśvam ǀ
johū́tramaryó abhíbhūtimugrám sahasrasā́m vṛ́ṣaṇam vīḍváṅgam ǁyuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam |
johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam ||यु॒वम् । श्वे॒तम् । पे॒दवे॑ । इन्द्र॑ऽजूतम् । अ॒हि॒ऽहन॑म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व॑म् ।
जो॒हूत्र॑म् । अ॒र्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् । स॒ह॒स्र॒ऽसाम् । वृष॑णम् । वी॒ळुऽअ॑ङ्गम् ॥युवम् । श्वेतम् । पेदवे । इन्द्रऽजूतम् । अहिऽहनम् । अश्विना । अदत्तम् । अश्वम् ।
जोहूत्रम् । अर्यः । अभिऽभूतिम् । उग्रम् । सहस्रऽसाम् । वृषणम् । वीळुऽअङ्गम् ॥yuvám ǀ śvetám ǀ pedáve ǀ índra-jūtam ǀ ahi-hánam ǀ aśvinā ǀ adattam ǀ áśvam ǀ
johū́tram ǀ aryáḥ ǀ abhí-bhūtim ǀ ugrám ǀ sahasra-sā́m ǀ vṛ́ṣaṇam ǀ vīḷú-aṅgam ǁyuvam ǀ śvetam ǀ pedave ǀ indra-jūtam ǀ ahi-hanam ǀ aśvinā ǀ adattam ǀ aśvam ǀ
johūtram ǀ aryaḥ ǀ abhi-bhūtim ǀ ugram ǀ sahasra-sām ǀ vṛṣaṇam ǀ vīḷu-aṅgam ǁ1.118.9 Aṣṭaka 1.8.19.4Anuvāka 1.17.59
-
Ṛk 10
ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः ।
आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातं ॥ता वां नरा स्व् अवसे सुजाता हवामहे अश्विना नाधमानाः |
आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ||tā́ vām narā svávase sujātā́ hávāmahe aśvinā nā́dhamānāḥ ǀ
ā́ na úpa vásumatā ráthena gíro juṣāṇā́ suvitā́ya yātam ǁtā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ |
ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam ||ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः ।
आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । या॒त॒म् ॥ता । वाम् । नरा । सु । अवसे । सुऽजाता । हवामहे । अश्विना । नाधमानाः ।
आ । नः । उप । वसुऽमता । रथेन । गिरः । जुषाणा । सुविताय । यातम् ॥tā́ ǀ vām ǀ narā ǀ sú ǀ ávase ǀ su-jātā́ ǀ hávāmahe ǀ aśvinā ǀ nā́dhamānāḥ ǀ
ā́ ǀ naḥ ǀ úpa ǀ vásu-matā ǀ ráthena ǀ gíraḥ ǀ juṣāṇā́ ǀ suvitā́ya ǀ yātam ǁtā ǀ vām ǀ narā ǀ su ǀ avase ǀ su-jātā ǀ havāmahe ǀ aśvinā ǀ nādhamānāḥ ǀ
ā ǀ naḥ ǀ upa ǀ vasu-matā ǀ rathena ǀ giraḥ ǀ juṣāṇā ǀ suvitāya ǀ yātam ǁ1.118.10 Aṣṭaka 1.8.19.5Anuvāka 1.17.60
-
Ṛk 11
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ ।
हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः |
हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ||ā́ śyenásya jávasā nū́tanenāsmé yātam nāsatyā sajóṣāḥ ǀ
háve hí vāmaśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyúṣṭau ǁā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ |
have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोषाः॑ ।
हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥आ । श्येनस्य । जवसा । नूतनेन । अस्मे इति । यातम् । नासत्या । सऽजोषाः ।
हवे । हि । वाम् । अश्विना । रातऽहव्यः । शश्वत्ऽतमायाः । उषसः । विऽउष्टौ ॥ā́ ǀ śyenásya ǀ jávasā ǀ nū́tanena ǀ asmé íti ǀ yātam ǀ nāsatyā ǀ sa-jóṣāḥ ǀ
háve ǀ hí ǀ vām ǀ aśvinā ǀ rātá-havyaḥ ǀ śaśvat-tamā́yāḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǁā ǀ śyenasya ǀ javasā ǀ nūtanena ǀ asme iti ǀ yātam ǀ nāsatyā ǀ sa-joṣāḥ ǀ
have ǀ hi ǀ vām ǀ aśvinā ǀ rāta-havyaḥ ǀ śaśvat-tamāyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǁ1.118.11 Aṣṭaka 1.8.19.6Anuvāka 1.17.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.