Ṛgveda · Maṇḍala 1 · Sūkta 118
Ṛk 1.118.11
Saṃhitā
आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषाः॑ ।
हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः |
हवे हि वाम् अश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ||
ā́ śyenásya jávasā nū́tanenāsmé yātam nāsatyā sajóṣāḥ ǀ
háve hí vāmaśvinā rātáhavyaḥ śaśvattamā́yā uṣáso vyúṣṭau ǁ
ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ |
have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||
Padapāṭha
आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोषाः॑ ।
हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥
आ । श्येनस्य । जवसा । नूतनेन । अस्मे इति । यातम् । नासत्या । सऽजोषाः ।
हवे । हि । वाम् । अश्विना । रातऽहव्यः । शश्वत्ऽतमायाः । उषसः । विऽउष्टौ ॥
ā́ ǀ śyenásya ǀ jávasā ǀ nū́tanena ǀ asmé íti ǀ yātam ǀ nāsatyā ǀ sa-jóṣāḥ ǀ
háve ǀ hí ǀ vām ǀ aśvinā ǀ rātá-havyaḥ ǀ śaśvat-tamā́yāḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǁ
ā ǀ śyenasya ǀ javasā ǀ nūtanena ǀ asme iti ǀ yātam ǀ nāsatyā ǀ sa-joṣāḥ ǀ
have ǀ hi ǀ vām ǀ aśvinā ǀ rāta-havyaḥ ǀ śaśvat-tamāyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.118.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.19.06
- Maṇḍala · Anuvāka · Ṛk
- 1.17.061
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.