Sūkta 73
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 2, 4-7, 9, 10); triṣṭup (3); bhurikpaṅkti (8)
2nd set of styles triṣṭubh
-
Ṛk 1
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासुः॑ ।
स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥रयिर् न यः पितृवित्तो वयोधाः सुप्रणीतिश् चिकितुषो न शासुः |
स्योनशीर् अतिथिर् न प्रीणानो होतेव सद्म विधतो वि तारीत् ||rayírná yáḥ pitṛvittó vayodhā́ḥ supráṇītiścikitúṣo ná śā́suḥ ǀ
syonaśī́rátithirná prīṇānó hóteva sádma vidható ví tārīt ǁrayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ |
syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt ||र॒यिः । न । यः । पि॒तृ॒ऽवि॒त्तः । व॒यः॒ऽधाः । सु॒ऽप्रनी॑तिः । चि॒कि॒तुषः॑ । न । शासुः॑ ।
स्यो॒न॒ऽशीः । अति॑थिः । न । प्री॒णा॒नः । होता॑ऽइव । सद्म॑ । वि॒ध॒तः । वि । ता॒री॒त् ॥रयिः । न । यः । पितृऽवित्तः । वयःऽधाः । सुऽप्रनीतिः । चिकितुषः । न । शासुः ।
स्योनऽशीः । अतिथिः । न । प्रीणानः । होताऽइव । सद्म । विधतः । वि । तारीत् ॥rayíḥ ǀ ná ǀ yáḥ ǀ pitṛ-vittáḥ ǀ vayaḥ-dhā́ḥ ǀ su-pránītiḥ ǀ cikitúṣaḥ ǀ ná ǀ śā́suḥ ǀ
syona-śī́ḥ ǀ átithiḥ ǀ ná ǀ prīṇānáḥ ǀ hótā-iva ǀ sádma ǀ vidhatáḥ ǀ ví ǀ tārīt ǁrayiḥ ǀ na ǀ yaḥ ǀ pitṛ-vittaḥ ǀ vayaḥ-dhāḥ ǀ su-pranītiḥ ǀ cikituṣaḥ ǀ na ǀ śāsuḥ ǀ
syona-śīḥ ǀ atithiḥ ǀ na ǀ prīṇānaḥ ǀ hotā-iva ǀ sadma ǀ vidhataḥ ǀ vi ǀ tārīt ǁ1.73.1 Aṣṭaka 1.5.19.1Anuvāka 1.12.82
-
Ṛk 2
दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ ।
पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा |
पुरुप्रशस्तो अमतिर् न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ||devó ná yáḥ savitā́ satyámanmā krátvā nipā́ti vṛjánāni víśvā ǀ
purupraśastó amátirná satyá ātméva śévo didhiṣā́yyo bhūt ǁdevo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā |
purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt ||दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा । क्रत्वा॑ । नि॒ऽपाति॑ । वृ॒जना॑नि । विश्वा॑ ।
पु॒रु॒ऽप्र॒श॒स्तः । अ॒मतिः॑ । न । स॒त्यः । आ॒त्माऽइ॑व । शेवः॑ । दि॒धि॒षाय्यः॑ । भू॒त् ॥देवः । न । यः । सविता । सत्यऽमन्मा । क्रत्वा । निऽपाति । वृजनानि । विश्वा ।
पुरुऽप्रशस्तः । अमतिः । न । सत्यः । आत्माऽइव । शेवः । दिधिषाय्यः । भूत् ॥deváḥ ǀ ná ǀ yáḥ ǀ savitā́ ǀ satyá-manmā ǀ krátvā ǀ ni-pā́ti ǀ vṛjánāni ǀ víśvā ǀ
puru-praśastáḥ ǀ amátiḥ ǀ ná ǀ satyáḥ ǀ ātmā́-iva ǀ śévaḥ ǀ didhiṣā́yyaḥ ǀ bhūt ǁdevaḥ ǀ na ǀ yaḥ ǀ savitā ǀ satya-manmā ǀ kratvā ǀ ni-pāti ǀ vṛjanāni ǀ viśvā ǀ
puru-praśastaḥ ǀ amatiḥ ǀ na ǀ satyaḥ ǀ ātmā-iva ǀ śevaḥ ǀ didhiṣāyyaḥ ǀ bhūt ǁ1.73.2 Aṣṭaka 1.5.19.2Anuvāka 1.12.83
-
Ṛk 3
दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ ।
पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा |
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ||devó ná yáḥ pṛthivī́m viśvádhāyā upakṣéti hitámitro ná rā́jā ǀ
puraḥsádaḥ śarmasádo ná vīrā́ anavadyā́ pátijuṣṭeva nā́rī ǁdevo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā |
puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī ||दे॒वः । न । यः । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उ॒प॒ऽक्षेति॑ । हि॒तऽमि॑त्रः । न । राजा॑ ।
पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । अ॒न॒व॒द्या । पति॑जुष्टाऽइव । नारी॑ ॥देवः । न । यः । पृथिवीम् । विश्वऽधायाः । उपऽक्षेति । हितऽमित्रः । न । राजा ।
पुरःऽसदः । शर्मऽसदः । न । वीराः । अनवद्या । पतिजुष्टाऽइव । नारी ॥deváḥ ǀ ná ǀ yáḥ ǀ pṛthivī́m ǀ viśvá-dhāyāḥ ǀ upa-kṣéti ǀ hitá-mitraḥ ǀ ná ǀ rā́jā ǀ
puraḥ-sádaḥ ǀ śarma-sádaḥ ǀ ná ǀ vīrā́ḥ ǀ anavadyā́ ǀ pátijuṣṭā-iva ǀ nā́rī ǁdevaḥ ǀ na ǀ yaḥ ǀ pṛthivīm ǀ viśva-dhāyāḥ ǀ upa-kṣeti ǀ hita-mitraḥ ǀ na ǀ rājā ǀ
puraḥ-sadaḥ ǀ śarma-sadaḥ ǀ na ǀ vīrāḥ ǀ anavadyā ǀ patijuṣṭā-iva ǀ nārī ǁ1.73.3 Aṣṭaka 1.5.19.3Anuvāka 1.12.84
-
Ṛk 4
तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सचं॑त क्षि॒तिषु॑ ध्रु॒वासु॑ ।
अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णां ॥तं त्वा नरो दम आ नित्यम् इद्धम् अग्ने सचन्त क्षितिषु ध्रुवासु |
अधि द्युम्नं नि दधुर् भूर्य् अस्मिन् भवा विश्वायुर् धरुणो रयीणाम् ||tám tvā náro dáma ā́ nítyamiddhámágne sácanta kṣitíṣu dhruvā́su ǀ
ádhi dyumnám ní dadhurbhū́ryasminbhávā viśvā́yurdharúṇo rayīṇā́m ǁtaṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu |
adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām ||तम् । त्वा॒ । नरः॑ । दमे॑ । आ । नित्य॑म् । इ॒द्धम् । अ॒ग्ने॒ । सच॑न्त । क्षि॒तिषु॑ । ध्रु॒वासु॑ ।
अधि॑ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि॑ । अ॒स्मि॒न् । भव॑ । वि॒श्वऽआ॑युः । ध॒रुणः॑ । र॒यी॒णाम् ॥तम् । त्वा । नरः । दमे । आ । नित्यम् । इद्धम् । अग्ने । सचन्त । क्षितिषु । ध्रुवासु ।
अधि । द्युम्नम् । नि । दधुः । भूरि । अस्मिन् । भव । विश्वऽआयुः । धरुणः । रयीणाम् ॥tám ǀ tvā ǀ náraḥ ǀ dáme ǀ ā́ ǀ nítyam ǀ iddhám ǀ agne ǀ sácanta ǀ kṣitíṣu ǀ dhruvā́su ǀ
ádhi ǀ dyumnám ǀ ní ǀ dadhuḥ ǀ bhū́ri ǀ asmin ǀ bháva ǀ viśvá-āyuḥ ǀ dharúṇaḥ ǀ rayīṇā́m ǁtam ǀ tvā ǀ naraḥ ǀ dame ǀ ā ǀ nityam ǀ iddham ǀ agne ǀ sacanta ǀ kṣitiṣu ǀ dhruvāsu ǀ
adhi ǀ dyumnam ǀ ni ǀ dadhuḥ ǀ bhūri ǀ asmin ǀ bhava ǀ viśva-āyuḥ ǀ dharuṇaḥ ǀ rayīṇām ǁ1.73.4 Aṣṭaka 1.5.19.4Anuvāka 1.12.85
-
Ṛk 5
वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ ।
स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः |
सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ||ví pṛ́kṣo agne maghávāno aśyurví sūráyo dádato víśvamā́yuḥ ǀ
sanéma vā́jam samithéṣvaryó bhāgám devéṣu śrávase dádhānāḥ ǁvi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ |
sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ ||वि । पृक्षः॑ । अ॒ग्ने॒ । म॒घऽवा॑नः । अश्युः॑ । वि । सू॒रयः॑ । दद॑तः । विश्व॑म् । आयुः॑ ।
स॒नेम॑ । वाज॑म् । स॒म्ऽइ॒थेषु॑ । अ॒र्यः । भा॒गम् । दे॒वेषु॑ । श्रव॑से । दधा॑नाः ॥वि । पृक्षः । अग्ने । मघऽवानः । अश्युः । वि । सूरयः । ददतः । विश्वम् । आयुः ।
सनेम । वाजम् । सम्ऽइथेषु । अर्यः । भागम् । देवेषु । श्रवसे । दधानाः ॥ví ǀ pṛ́kṣaḥ ǀ agne ǀ maghá-vānaḥ ǀ áśyuḥ ǀ ví ǀ sūráyaḥ ǀ dádataḥ ǀ víśvam ǀ ā́yuḥ ǀ
sanéma ǀ vā́jam ǀ sam-ithéṣu ǀ aryáḥ ǀ bhāgám ǀ devéṣu ǀ śrávase ǀ dádhānāḥ ǁvi ǀ pṛkṣaḥ ǀ agne ǀ magha-vānaḥ ǀ aśyuḥ ǀ vi ǀ sūrayaḥ ǀ dadataḥ ǀ viśvam ǀ āyuḥ ǀ
sanema ǀ vājam ǀ sam-itheṣu ǀ aryaḥ ǀ bhāgam ǀ deveṣu ǀ śravase ǀ dadhānāḥ ǁ1.73.5 Aṣṭaka 1.5.19.5Anuvāka 1.12.86
-
Ṛk 6
ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पयं॑त॒ द्युभ॑क्ताः ।
प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिंध॑वः स॒मया॑ सस्रु॒रद्रिं॑ ॥ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः |
परावतः सुमतिम् भिक्षमाणा वि सिन्धवः समया सस्रुर् अद्रिम् ||ṛtásya hí dhenávo vāvaśānā́ḥ smádūdhnīḥ pīpáyanta dyúbhaktāḥ ǀ
parāvátaḥ sumatím bhíkṣamāṇā ví síndhavaḥ samáyā sasrurádrim ǁṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ |
parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim ||ऋ॒तस्य॑ । हि । धे॒नवः॑ । वा॒व॒शा॒नाः । स्मत्ऽऊ॑ध्नीः । पी॒पय॑न्त । द्युऽभ॑क्ताः ।
प॒रा॒ऽवतः॑ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । वि । सिन्ध॑वः । स॒मया॑ । स॒स्रुः॒ । अद्रि॑म् ॥ऋतस्य । हि । धेनवः । वावशानाः । स्मत्ऽऊध्नीः । पीपयन्त । द्युऽभक्ताः ।
पराऽवतः । सुऽमतिम् । भिक्षमाणाः । वि । सिन्धवः । समया । सस्रुः । अद्रिम् ॥ṛtásya ǀ hí ǀ dhenávaḥ ǀ vāvaśānā́ḥ ǀ smát-ūdhnīḥ ǀ pīpáyanta ǀ dyú-bhaktāḥ ǀ
parā-vátaḥ ǀ su-matím ǀ bhíkṣamāṇāḥ ǀ ví ǀ síndhavaḥ ǀ samáyā ǀ sasruḥ ǀ ádrim ǁṛtasya ǀ hi ǀ dhenavaḥ ǀ vāvaśānāḥ ǀ smat-ūdhnīḥ ǀ pīpayanta ǀ dyu-bhaktāḥ ǀ
parā-vataḥ ǀ su-matim ǀ bhikṣamāṇāḥ ǀ vi ǀ sindhavaḥ ǀ samayā ǀ sasruḥ ǀ adrim ǁ1.73.6 Aṣṭaka 1.5.20.1Anuvāka 1.12.87
-
Ṛk 7
त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।
नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ॥त्वे अग्ने सुमतिम् भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः |
नक्ता च चक्रुर् उषसा विरूपे कृष्णं च वर्णम् अरुणं च सं धुः ||tvé agne sumatím bhíkṣamāṇā diví śrávo dadhire yajñíyāsaḥ ǀ
náktā ca cakrúruṣásā vírūpe kṛṣṇám ca várṇamaruṇám ca sám dhuḥ ǁtve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ |
naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ ||त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । दि॒वि । श्रवः॑ । द॒धि॒रे॒ । य॒ज्ञियाः॑ ।
नक्ता॑ । च॒ । च॒क्रुः । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । कृ॒ष्णम् । च॒ । वर्ण॑म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति॑ धुः ॥त्वे इति । अग्ने । सुऽमतिम् । भिक्षमाणाः । दिवि । श्रवः । दधिरे । यज्ञियाः ।
नक्ता । च । चक्रुः । उषसा । विरूपे इति विऽरूपे । कृष्णम् । च । वर्णम् । अरुणम् । च । सम् । धुरिति धुः ॥tvé íti ǀ agne ǀ su-matím ǀ bhíkṣamāṇāḥ ǀ diví ǀ śrávaḥ ǀ dadhire ǀ yajñíyāḥ ǀ
náktā ǀ ca ǀ cakrúḥ ǀ uṣásā ǀ vírūpe íti ví-rūpe ǀ kṛṣṇám ǀ ca ǀ várṇam ǀ aruṇám ǀ ca ǀ sám ǀ dhuríti dhuḥ ǁtve iti ǀ agne ǀ su-matim ǀ bhikṣamāṇāḥ ǀ divi ǀ śravaḥ ǀ dadhire ǀ yajñiyāḥ ǀ
naktā ǀ ca ǀ cakruḥ ǀ uṣasā ǀ virūpe iti vi-rūpe ǀ kṛṣṇam ǀ ca ǀ varṇam ǀ aruṇam ǀ ca ǀ sam ǀ dhuriti dhuḥ ǁ1.73.7 Aṣṭaka 1.5.20.2Anuvāka 1.12.88
-
Ṛk 8
यान्रा॒ये मर्ता॒न्त्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ ।
छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अं॒तरि॑क्षं ॥यान् राये मर्तान् सुषूदो अग्ने ते स्याम मघवानो वयं च |
छायेव विश्वम् भुवनं सिसक्ष्य् आपप्रिवान् रोदसी अन्तरिक्षम् ||yā́nrāyé mártāntsúṣūdo agne té syāma maghávāno vayám ca ǀ
chāyéva víśvam bhúvanam sisakṣyāpaprivā́nródasī antárikṣam ǁyān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca |
chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam ||यान् । रा॒ये । मर्ता॑न् । सुसू॑दः । अ॒ग्ने॒ । ते । स्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ।
छा॒याऽइ॑व । विश्व॑म् । भुव॑नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥यान् । राये । मर्तान् । सुसूदः । अग्ने । ते । स्याम । मघऽवानः । वयम् । च ।
छायाऽइव । विश्वम् । भुवनम् । सिसक्षि । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ॥yā́n ǀ rāyé ǀ mártān ǀ súsūdaḥ ǀ agne ǀ té ǀ syāma ǀ maghá-vānaḥ ǀ vayám ǀ ca ǀ
chāyā́-iva ǀ víśvam ǀ bhúvanam ǀ sisakṣi ǀ āpapri-vā́n ǀ ródasī íti ǀ antárikṣam ǁyān ǀ rāye ǀ martān ǀ susūdaḥ ǀ agne ǀ te ǀ syāma ǀ magha-vānaḥ ǀ vayam ǀ ca ǀ
chāyā-iva ǀ viśvam ǀ bhuvanam ǀ sisakṣi ǀ āpapri-vān ǀ rodasī iti ǀ antarikṣam ǁ1.73.8 Aṣṭaka 1.5.20.3Anuvāka 1.12.89
-
Ṛk 9
अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑ ।
ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥अर्वद्भिर् अग्ने अर्वतो नृभिर् नॄन् वीरैर् वीरान् वनुयामा त्वोताः |
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ||árvadbhiragne árvato nṛ́bhirnṝ́nvīráirvīrā́nvanuyāmā tvótāḥ ǀ
īśānā́saḥ pitṛvittásya rāyó ví sūráyaḥ śatáhimā no aśyuḥ ǁarvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ |
īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ ||अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः ।
ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥अर्वत्ऽभिः । अग्ने । अर्वतः । नृऽभिः । नॄन् । वीरैः । वीरान् । वनुयाम । त्वाऽऊताः ।
ईशानासः । पितृऽवित्तस्य । रायः । वि । सूरयः । शतऽहिमाः । नः । अश्युः ॥árvat-bhiḥ ǀ agne ǀ árvataḥ ǀ nṛ́-bhiḥ ǀ nṝ́n ǀ vīráiḥ ǀ vīrā́n ǀ vanuyāma ǀ tvā́-ūtāḥ ǀ
īśānā́saḥ ǀ pitṛ-vittásya ǀ rāyáḥ ǀ ví ǀ sūráyaḥ ǀ śatá-himāḥ ǀ naḥ ǀ aśyuḥ ǁarvat-bhiḥ ǀ agne ǀ arvataḥ ǀ nṛ-bhiḥ ǀ nṝn ǀ vīraiḥ ǀ vīrān ǀ vanuyāma ǀ tvā-ūtāḥ ǀ
īśānāsaḥ ǀ pitṛ-vittasya ǀ rāyaḥ ǀ vi ǀ sūrayaḥ ǀ śata-himāḥ ǀ naḥ ǀ aśyuḥ ǁ1.73.9 Aṣṭaka 1.5.20.4Anuvāka 1.12.90
-
Ṛk 10
ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि संतु॒ मन॑से हृ॒दे च॑ ।
श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च |
शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ||etā́ te agna ucáthāni vedho júṣṭāni santu mánase hṛdé ca ǀ
śakéma rāyáḥ sudhúro yámam té’dhi śrávo devábhaktam dádhānāḥ ǁetā te agna ucathāni vedho juṣṭāni santu manase hṛde ca |
śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ ||ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । जुष्टा॑नि । स॒न्तु॒ । मन॑से । हृ॒दे । च॒ ।
श॒केम॑ । रा॒यः । सु॒ऽधुरः॑ । यम॑म् । ते॒ । अधि॑ । श्रवः॑ । दे॒वऽभ॑क्तम् । दधा॑नाः ॥एता । ते । अग्ने । उचथानि । वेधः । जुष्टानि । सन्तु । मनसे । हृदे । च ।
शकेम । रायः । सुऽधुरः । यमम् । ते । अधि । श्रवः । देवऽभक्तम् । दधानाः ॥etā́ ǀ te ǀ agne ǀ ucáthāni ǀ vedhaḥ ǀ júṣṭāni ǀ santu ǀ mánase ǀ hṛdé ǀ ca ǀ
śakéma ǀ rāyáḥ ǀ su-dhúraḥ ǀ yámam ǀ te ǀ ádhi ǀ śrávaḥ ǀ devá-bhaktam ǀ dádhānāḥ ǁetā ǀ te ǀ agne ǀ ucathāni ǀ vedhaḥ ǀ juṣṭāni ǀ santu ǀ manase ǀ hṛde ǀ ca ǀ
śakema ǀ rāyaḥ ǀ su-dhuraḥ ǀ yamam ǀ te ǀ adhi ǀ śravaḥ ǀ deva-bhaktam ǀ dadhānāḥ ǁ1.73.10 Aṣṭaka 1.5.20.5Anuvāka 1.12.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.