Sūkta 133
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Gāyatrī, Dhṛti, Atyaṣṭi
Metres by ṛk
1st set of styles nicṛdanuṣṭup (2, 3); triṣṭup (1); virāḍanuṣṭup (4); ārṣīgāyatrī (5); virāḍbrāhmījagatī (6); virāḍaṣṭiḥ (7)
2nd set of styles anuṣṭubh (2-4); triṣṭubh (1); gāyatrī (5); dhṛti (6); atyaṣṭi (7)
-
Ṛk 1
उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑निं॒द्राः ।
अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सम् महीर् अनिन्द्राः |
अभिव्लग्य यत्र हता अमित्रा वैलस्थानम् परि तृऌहा अशेरन् ||ubhé punāmi ródasī ṛténa drúho dahāmi sám mahī́ranindrā́ḥ ǀ
abhivlágya yátra hatā́ amítrā vailasthānám pári tṛḷhā́ áśeran ǁubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ |
abhivlagya yatra hatā amitrā vailasthānam pari tṛḷhā aśeran ||उ॒भे इति॑ । पु॒ना॒मि॒ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । द्रुहः॑ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः ।
अ॒भि॒ऽव्लग्य॑ । यत्र॑ । ह॒ताः । अ॒मित्राः॑ । वै॒ल॒ऽस्था॒नम् । परि॑ । तृ॒ळ्हाः । अशे॑रन् ॥उभे इति । पुनामि । रोदसी इति । ऋतेन । द्रुहः । दहामि । सम् । महीः । अनिन्द्राः ।
अभिऽव्लग्य । यत्र । हताः । अमित्राः । वैलऽस्थानम् । परि । तृळ्हाः । अशेरन् ॥ubhé íti ǀ punāmi ǀ ródasī íti ǀ ṛténa ǀ drúhaḥ ǀ dahāmi ǀ sám ǀ mahī́ḥ ǀ anindrā́ḥ ǀ
abhi-vlágya ǀ yátra ǀ hatā́ḥ ǀ amítrāḥ ǀ vaila-sthānám ǀ pári ǀ tṛḷhā́ḥ ǀ áśeran ǁubhe iti ǀ punāmi ǀ rodasī iti ǀ ṛtena ǀ druhaḥ ǀ dahāmi ǀ sam ǀ mahīḥ ǀ anindrāḥ ǀ
abhi-vlagya ǀ yatra ǀ hatāḥ ǀ amitrāḥ ǀ vaila-sthānam ǀ pari ǀ tṛḷhāḥ ǀ aśeran ǁ1.133.1 Aṣṭaka 2.1.22.1Anuvāka 1.19.54
-
Ṛk 2
अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नां ।
छिं॒धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥अभिव्लग्या चिद् अद्रिवः शीर्षा यातुमतीनाम् |
छिन्धि वटूरिणा पदा महावटूरिणा पदा ||abhivlágyā cidadrivaḥ śīrṣā́ yātumátīnām ǀ
chindhí vaṭūríṇā padā́ mahā́vaṭūriṇā padā́ ǁabhivlagyā cid adrivaḥ śīrṣā yātumatīnām |
chindhi vaṭūriṇā padā mahāvaṭūriṇā padā ||अ॒भि॒ऽव्लग्य॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । शी॒र्षा । या॒तु॒ऽमती॑नाम् ।
छि॒न्धि । व॒टू॒रिणा॑ । प॒दा । म॒हाऽव॑टूरिणा । प॒दा ॥अभिऽव्लग्य । चित् । अद्रिऽवः । शीर्षा । यातुऽमतीनाम् ।
छिन्धि । वटूरिणा । पदा । महाऽवटूरिणा । पदा ॥abhi-vlágya ǀ cit ǀ adri-vaḥ ǀ śīrṣā́ ǀ yātu-mátīnām ǀ
chindhí ǀ vaṭūríṇā ǀ padā́ ǀ mahā́-vaṭūriṇā ǀ padā́ ǁabhi-vlagya ǀ cit ǀ adri-vaḥ ǀ śīrṣā ǀ yātu-matīnām ǀ
chindhi ǀ vaṭūriṇā ǀ padā ǀ mahā-vaṭūriṇā ǀ padā ǁ1.133.2 Aṣṭaka 2.1.22.2Anuvāka 1.19.55
-
Ṛk 3
अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नां ।
वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥अवासाम् मघवञ् जहि शर्धो यातुमतीनाम् |
वैलस्थानके अर्मके महावैलस्थे अर्मके ||ávāsām maghavañjahi śárdho yātumátīnām ǀ
vailasthānaké armaké mahā́vailasthe armaké ǁavāsām maghavañ jahi śardho yātumatīnām |
vailasthānake armake mahāvailasthe armake ||अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् ।
वै॒ल॒ऽस्था॒न॒के । अ॒र्म॒के । म॒हाऽवै॑लस्थे । अ॒र्म॒के ॥अव । आसाम् । मघऽवन् । जहि । शर्धः । यातुऽमतीनाम् ।
वैलऽस्थानके । अर्मके । महाऽवैलस्थे । अर्मके ॥áva ǀ āsām ǀ magha-van ǀ jahi ǀ śárdhaḥ ǀ yātu-mátīnām ǀ
vaila-sthānaké ǀ armaké ǀ mahā́-vailasthe ǀ armaké ǁava ǀ āsām ǀ magha-van ǀ jahi ǀ śardhaḥ ǀ yātu-matīnām ǀ
vaila-sthānake ǀ armake ǀ mahā-vailasthe ǀ armake ǁ1.133.3 Aṣṭaka 2.1.22.3Anuvāka 1.19.56
-
Ṛk 4
यासां॑ ति॒स्रः पं॑चा॒शतो॑ऽभिव्लं॒गैर॒पाव॑पः ।
तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥यासां तिस्रः पञ्चाशतो ऽभिव्लङ्गैर् अपावपः |
तत् सु ते मनायति तकत् सु ते मनायति ||yā́sām tisráḥ pañcāśáto’bhivlaṅgáirapā́vapaḥ ǀ
tátsú te manāyati takátsú te manāyati ǁyāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ |
tat su te manāyati takat su te manāyati ||यासा॑म् । ति॒स्रः । प॒ञ्चा॒शतः॑ । अ॒भि॒ऽव्ल॒ङ्गैः । अ॒प॒ऽअव॑पः ।
तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥यासाम् । तिस्रः । पञ्चाशतः । अभिऽव्लङ्गैः । अपऽअवपः ।
तत् । सु । ते । मनायति । तकत् । सु । ते । मनायति ॥yā́sām ǀ tisráḥ ǀ pañcāśátaḥ ǀ abhi-vlaṅgáiḥ ǀ apa-ávapaḥ ǀ
tát ǀ sú ǀ te ǀ manāyati ǀ takát ǀ sú ǀ te ǀ manāyati ǁyāsām ǀ tisraḥ ǀ pañcāśataḥ ǀ abhi-vlaṅgaiḥ ǀ apa-avapaḥ ǀ
tat ǀ su ǀ te ǀ manāyati ǀ takat ǀ su ǀ te ǀ manāyati ǁ1.133.4 Aṣṭaka 2.1.22.4Anuvāka 1.19.57
-
Ṛk 5
पि॒शंग॑भृष्टिमंभृ॒णं पि॒शाचि॑मिंद्र॒ सं मृ॑ण ।
सर्वं॒ रक्षो॒ नि ब॑र्हय ॥पिशङ्गभृष्टिम् अम्भृणम् पिशाचिम् इन्द्र सम् मृण |
सर्वं रक्षो नि बर्हय ||piśáṅgabhṛṣṭimambhṛṇám piśā́cimindra sám mṛṇa ǀ
sárvam rákṣo ní barhaya ǁpiśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa |
sarvaṃ rakṣo ni barhaya ||पि॒शङ्ग॑ऽभृष्टिम् । अ॒म्भृ॒णम् । पि॒शाचि॑म् । इ॒न्द्र॒ । सम् । मृ॒ण॒ ।
सर्व॑म् । रक्षः॑ । नि । ब॒र्ह॒य॒ ॥पिशङ्गऽभृष्टिम् । अम्भृणम् । पिशाचिम् । इन्द्र । सम् । मृण ।
सर्वम् । रक्षः । नि । बर्हय ॥piśáṅga-bhṛṣṭim ǀ ambhṛṇám ǀ piśā́cim ǀ indra ǀ sám ǀ mṛṇa ǀ
sárvam ǀ rákṣaḥ ǀ ní ǀ barhaya ǁpiśaṅga-bhṛṣṭim ǀ ambhṛṇam ǀ piśācim ǀ indra ǀ sam ǀ mṛṇa ǀ
sarvam ǀ rakṣaḥ ǀ ni ǀ barhaya ǁ1.133.5 Aṣṭaka 2.1.22.5Anuvāka 1.19.58
-
Ṛk 6
अ॒वर्म॒ह इं॑द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः ।
शु॒ष्मिंत॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से ।
अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥अवर् मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान् न भीषां अद्रिवः |
शुष्मिन्तमो हि शुष्मिभिर् वधैर् उग्रेभिर् ईयसे |
अपूरुषघ्नो अप्रतीत शूर सत्वभिस् त्रिसप्तैः शूर सत्वभिः ||avármahá indra dādṛhí śrudhī́ naḥ śuśóca hí dyáuḥ kṣā́ ná bhīṣā́m̐ adrivo ghṛṇā́nná bhīṣā́m̐ adrivaḥ ǀ
śuṣmíntamo hí śuṣmíbhirvadháirugrébhirī́yase ǀ
ápūruṣaghno apratīta śūra sátvabhistrisaptáiḥ śūra sátvabhiḥ ǁavar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṃ adrivo ghṛṇān na bhīṣāṃ adrivaḥ |
śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase |
apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ ||अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच॑ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒ऽवः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒ऽवः॒ ।
शु॒ष्मिन्ऽत॑मः । हि । शु॒ष्मिऽभिः॑ । व॒धैः । उ॒ग्रेभिः॑ । ईय॑से ।
अपु॑रुषऽघ्नः । अ॒प्र॒ति॒ऽइ॒त॒ । शू॒र॒ । सत्व॑ऽभिः । त्रि॒ऽस॒प्तैः । शू॒र॒ । सत्व॑ऽभिः ॥अवः । महः । इन्द्र । ददृहि । श्रुधि । नः । शुशोच । हि । द्यौः । क्षाः । न । भीषा । अद्रिऽवः । घृणात् । न । भीषा । अद्रिऽवः ।
शुष्मिन्ऽतमः । हि । शुष्मिऽभिः । वधैः । उग्रेभिः । ईयसे ।
अपुरुषऽघ्नः । अप्रतिऽइत । शूर । सत्वऽभिः । त्रिऽसप्तैः । शूर । सत्वऽभिः ॥aváḥ ǀ maháḥ ǀ indra ǀ dadṛhí ǀ śrudhí ǀ naḥ ǀ śuśóca ǀ hí ǀ dyáuḥ ǀ kṣā́ḥ ǀ ná ǀ bhīṣā́ ǀ adri-vaḥ ǀ ghṛṇā́t ǀ ná ǀ bhīṣā́ ǀ adri-vaḥ ǀ
śuṣmín-tamaḥ ǀ hí ǀ śuṣmí-bhiḥ ǀ vadháiḥ ǀ ugrébhiḥ ǀ ī́yase ǀ
ápuruṣa-ghnaḥ ǀ aprati-ita ǀ śūra ǀ sátva-bhiḥ ǀ tri-saptáiḥ ǀ śūra ǀ sátva-bhiḥ ǁavaḥ ǀ mahaḥ ǀ indra ǀ dadṛhi ǀ śrudhi ǀ naḥ ǀ śuśoca ǀ hi ǀ dyauḥ ǀ kṣāḥ ǀ na ǀ bhīṣā ǀ adri-vaḥ ǀ ghṛṇāt ǀ na ǀ bhīṣā ǀ adri-vaḥ ǀ
śuṣmin-tamaḥ ǀ hi ǀ śuṣmi-bhiḥ ǀ vadhaiḥ ǀ ugrebhiḥ ǀ īyase ǀ
apuruṣa-ghnaḥ ǀ aprati-ita ǀ śūra ǀ satva-bhiḥ ǀ tri-saptaiḥ ǀ śūra ǀ satva-bhiḥ ǁ1.133.6 Aṣṭaka 2.1.22.6Anuvāka 1.19.59
-
Ṛk 7
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ ।
सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः ।
सु॒न्वा॒नायेंद्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुवं॑ ॥वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानो हि ष्मा यजत्य् अव द्विषो देवानाम् अव द्विषः |
सुन्वान इत् सिषासति सहस्रा वाज्य् अवृतः |
सुन्वानायेन्द्रो ददात्य् आभुवं रयिं ददात्य् आभुवम् ||vanóti hí sunvánkṣáyam párīṇasaḥ sunvānó hí ṣmā yájatyáva dvíṣo devā́nāmáva dvíṣaḥ ǀ
sunvāná ítsiṣāsati sahásrā vājyávṛtaḥ ǀ
sunvānā́yéndro dadātyābhúvam rayím dadātyābhúvam ǁvanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ |
sunvāna it siṣāsati sahasrā vājy avṛtaḥ |
sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam ||व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ । यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ ।
सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।
सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥वनोति । हि । सुन्वन् । क्षयम् । परीणसः । सुन्वानः । हि । स्म । यजति । अव । द्विषः । देवानाम् । अव । द्विषः ।
सुन्वानः । इत् । सिसासति । सहस्रा । वाजी । अवृतः ।
सुन्वानाय । इन्द्रः । ददाति । आऽभुवम् । रयिम् । ददाति । आऽभुवम् ॥vanóti ǀ hí ǀ sunván ǀ kṣáyam ǀ párīṇasaḥ ǀ sunvānáḥ ǀ hí ǀ sma ǀ yájati ǀ áva ǀ dvíṣaḥ ǀ devā́nām ǀ áva ǀ dvíṣaḥ ǀ
sunvānáḥ ǀ ít ǀ sisāsati ǀ sahásrā ǀ vājī́ ǀ ávṛtaḥ ǀ
sunvānā́ya ǀ índraḥ ǀ dadāti ǀ ā-bhúvam ǀ rayím ǀ dadāti ǀ ā-bhúvam ǁvanoti ǀ hi ǀ sunvan ǀ kṣayam ǀ parīṇasaḥ ǀ sunvānaḥ ǀ hi ǀ sma ǀ yajati ǀ ava ǀ dviṣaḥ ǀ devānām ǀ ava ǀ dviṣaḥ ǀ
sunvānaḥ ǀ it ǀ sisāsati ǀ sahasrā ǀ vājī ǀ avṛtaḥ ǀ
sunvānāya ǀ indraḥ ǀ dadāti ǀ ā-bhuvam ǀ rayim ǀ dadāti ǀ ā-bhuvam ǁ1.133.7 Aṣṭaka 2.1.22.7Anuvāka 1.19.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.