Sūkta 138
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
Metres by ṛk
1st set of styles nicṛdatyaṣṭiḥ (1-3); virāḍatyaṣṭiḥ (4)
2nd set of styles atyaṣṭi
-
Ṛk 1
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न तं॑दते स्तो॒त्रम॑स्य॒ न तं॑दते ।
अर्चा॑मि सुम्न॒यन्न॒हमंत्यू॑तिं मयो॒भुवं॑ ।
विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥प्र-प्र पूष्णस् तुविजातस्य शस्यते महित्वम् अस्य तवसो न तन्दते स्तोत्रम् अस्य न तन्दते |
अर्चामि सुम्नयन्न् अहम् अन्त्यूतिम् मयोभुवम् |
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ||prápra pūṣṇástuvijātásya śasyate mahitvámasya taváso ná tandate stotrámasya ná tandate ǀ
árcāmi sumnayánnahámántyūtim mayobhúvam ǀ
víśvasya yó mána āyuyuvé makhó devá āyuyuvé makháḥ ǁpra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate |
arcāmi sumnayann aham antyūtim mayobhuvam |
viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ||प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ ।
अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् ।
विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥प्रऽप्र । पूष्णः । तुविऽजातस्य । शस्यते । महिऽत्वम् । अस्य । तवसः । न । तन्दते । स्तोत्रम् । अस्य । न । तन्दते ।
अर्चामि । सुम्नऽयन् । अहम् । अन्तिऽऊतिम् । मयःऽभुवम् ।
विश्वस्य । यः । मनः । आऽयुयुवे । मखः । देवः । आऽयुयुवे । मखः ॥prá-pra ǀ pūṣṇáḥ ǀ tuvi-jātásya ǀ śasyate ǀ mahi-tvám ǀ asya ǀ tavásaḥ ǀ ná ǀ tandate ǀ stotrám ǀ asya ǀ ná ǀ tandate ǀ
árcāmi ǀ sumna-yán ǀ ahám ǀ ánti-ūtim ǀ mayaḥ-bhúvam ǀ
víśvasya ǀ yáḥ ǀ mánaḥ ǀ ā-yuyuvé ǀ makháḥ ǀ deváḥ ǀ ā-yuyuvé ǀ makháḥ ǁpra-pra ǀ pūṣṇaḥ ǀ tuvi-jātasya ǀ śasyate ǀ mahi-tvam ǀ asya ǀ tavasaḥ ǀ na ǀ tandate ǀ stotram ǀ asya ǀ na ǀ tandate ǀ
arcāmi ǀ sumna-yan ǀ aham ǀ anti-ūtim ǀ mayaḥ-bhuvam ǀ
viśvasya ǀ yaḥ ǀ manaḥ ǀ ā-yuyuve ǀ makhaḥ ǀ devaḥ ǀ ā-yuyuve ǀ makhaḥ ǁ1.138.1 Aṣṭaka 2.2.2.0
-
Ṛk 2
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृधः॑ ।
हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्यः॑ ।
अ॒स्माक॑मांगू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥प्र हि त्वा पूषन्न् अजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः |
हुवे यत् त्वा मयोभुवं देवं सख्याय मर्त्यः |
अस्माकम् आङ्गूषान् द्युम्निनस् कृधि वाजेषु द्युम्निनस् कृधि ||prá hí tvā pūṣannajirám ná yā́mani stómebhiḥ kṛṇvá ṛṇávo yáthā mṛ́dha úṣṭro ná pīparo mṛ́dhaḥ ǀ
huvé yáttvā mayobhúvam devám sakhyā́ya mártyaḥ ǀ
asmā́kamāṅgūṣā́ndyumnínaskṛdhi vā́jeṣu dyumnínaskṛdhi ǁpra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ |
huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ |
asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi ||प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ ।
हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ ।
अ॒स्माक॑म् । आ॒ङ्गू॒षान् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥प्र । हि । त्वा । पूषन् । अजिरम् । न । यामनि । स्तोमेभिः । कृण्वे । ऋणवः । यथा । मृधः । उष्ट्रः । न । पीपरः । मृधः ।
हुवे । यत् । त्वा । मयःऽभुवम् । देवम् । सख्याय । मर्त्यः ।
अस्माकम् । आङ्गूषान् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥prá ǀ hí ǀ tvā ǀ pūṣan ǀ ajirám ǀ ná ǀ yā́mani ǀ stómebhiḥ ǀ kṛṇvé ǀ ṛṇávaḥ ǀ yáthā ǀ mṛ́dhaḥ ǀ úṣṭraḥ ǀ ná ǀ pīparaḥ ǀ mṛ́dhaḥ ǀ
huvé ǀ yát ǀ tvā ǀ mayaḥ-bhúvam ǀ devám ǀ sakhyā́ya ǀ mártyaḥ ǀ
asmā́kam ǀ āṅgūṣā́n ǀ dyumnínaḥ ǀ kṛdhi ǀ vā́jeṣu ǀ dyumnínaḥ ǀ kṛdhi ǁpra ǀ hi ǀ tvā ǀ pūṣan ǀ ajiram ǀ na ǀ yāmani ǀ stomebhiḥ ǀ kṛṇve ǀ ṛṇavaḥ ǀ yathā ǀ mṛdhaḥ ǀ uṣṭraḥ ǀ na ǀ pīparaḥ ǀ mṛdhaḥ ǀ
huve ǀ yat ǀ tvā ǀ mayaḥ-bhuvam ǀ devam ǀ sakhyāya ǀ martyaḥ ǀ
asmākam ǀ āṅgūṣān ǀ dyumninaḥ ǀ kṛdhi ǀ vājeṣu ǀ dyumninaḥ ǀ kṛdhi ǁ1.138.2 Aṣṭaka 2.2.2.0
-
Ṛk 3
यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा॑ चि॒त्संतोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।
तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।
अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥यस्य ते पूषन् सख्ये विपन्यवः क्रत्वा चित् सन्तो ऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे |
ताम् अनु त्वा नवीयसीं नियुतं राय ईमहे |
अहेऌअमान उरुशंस सरी भव वाजे-वाजे सरी भव ||yásya te pūṣantsakhyé vipanyávaḥ krátvā citsántó’vasā bubhujrirá íti krátvā bubhujriré ǀ
tā́mánu tvā návīyasīm niyútam rāyá īmahe ǀ
áheḷamāna uruśaṃsa sárī bhava vā́jevāje sárī bhava ǁyasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire |
tām anu tvā navīyasīṃ niyutaṃ rāya īmahe |
aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava ||यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे ।
ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ ।
अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥यस्य । ते । पूषन् । सख्ये । विपन्यवः । क्रत्वा । चित् । सन्तः । अवसा । बुभुज्रिरे । इति । क्रत्वा । बुभुज्रिरे ।
ताम् । अनु । त्वा । नवीयसीम् । निऽयुतम् । रायः । ईमहे ।
अहेळमानः । उरुऽशंस । सरी । भव । वाजेऽवाजे । सरी । भव ॥yásya ǀ te ǀ pūṣan ǀ sakhyé ǀ vipanyávaḥ ǀ krátvā ǀ cit ǀ sántaḥ ǀ ávasā ǀ bubhujriré ǀ íti ǀ krátvā ǀ bubhujriré ǀ
tā́m ǀ ánu ǀ tvā ǀ návīyasīm ǀ ni-yútam ǀ rāyáḥ ǀ īmahe ǀ
áheḷamānaḥ ǀ uru-śaṃsa ǀ sárī ǀ bhava ǀ vā́je-vāje ǀ sárī ǀ bhava ǁyasya ǀ te ǀ pūṣan ǀ sakhye ǀ vipanyavaḥ ǀ kratvā ǀ cit ǀ santaḥ ǀ avasā ǀ bubhujrire ǀ iti ǀ kratvā ǀ bubhujrire ǀ
tām ǀ anu ǀ tvā ǀ navīyasīm ǀ ni-yutam ǀ rāyaḥ ǀ īmahe ǀ
aheḷamānaḥ ǀ uru-śaṃsa ǀ sarī ǀ bhava ǀ vāje-vāje ǀ sarī ǀ bhava ǁ1.138.3 Aṣṭaka 2.2.2.0
-
Ṛk 4
अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व ।
ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभिः॑ ।
न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥अस्या ऊ षु ण उप सातये भुवो ऽहेऌअमानो ररिवां अजाश्व श्रवस्यताम् अजाश्व |
ओ षु त्वा ववृतीमहि स्तोमेभिर् दस्म साधुभिः |
नहि त्वा पूषन्न् अतिमन्य आघृणे न ते सख्यम् अपह्नुवे ||asyā́ ū ṣú ṇa úpa sātáye bhuvó’heḷamāno rarivā́m̐ ajāśva śravasyatā́majāśva ǀ
ó ṣú tvā vavṛtīmahi stómebhirdasma sādhúbhiḥ ǀ
nahí tvā pūṣannatimánya āghṛṇe ná te sakhyámapahnuvé ǁasyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva |
o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ |
nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||अ॒स्याः । ऊं॒ इति॑ । सु । नः॒ । उप॑ । सा॒तये॑ । भु॒वः॒ । अहे॑ळमानः । र॒रि॒ऽवान् । अ॒ज॒ऽअ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒ऽअ॒श्व॒ ।
ओ इति॑ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे॑भिः । द॒स्म॒ । सा॒धुऽभिः॑ ।
न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒ऽमन्ये॑ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒ऽह्नु॒वे ॥अस्याः । ऊं इति । सु । नः । उप । सातये । भुवः । अहेळमानः । ररिऽवान् । अजऽअश्व । श्रवस्यताम् । अजऽअश्व ।
ओ इति । सु । त्वा । ववृतीमहि । स्तोमेभिः । दस्म । साधुऽभिः ।
नहि । त्वा । पूषन् । अतिऽमन्ये । आघृणे । न । ते । सख्यम् । अपऽह्नुवे ॥asyā́ḥ ǀ ūṃ íti ǀ sú ǀ naḥ ǀ úpa ǀ sātáye ǀ bhuvaḥ ǀ áheḷamānaḥ ǀ rari-vā́n ǀ aja-aśva ǀ śravasyatā́m ǀ aja-aśva ǀ
ó íti ǀ sú ǀ tvā ǀ vavṛtīmahi ǀ stómebhiḥ ǀ dasma ǀ sādhú-bhiḥ ǀ
nahí ǀ tvā ǀ pūṣan ǀ ati-mánye ǀ āghṛṇe ǀ ná ǀ te ǀ sakhyám ǀ apa-hnuvé ǁasyāḥ ǀ ūṃ iti ǀ su ǀ naḥ ǀ upa ǀ sātaye ǀ bhuvaḥ ǀ aheḷamānaḥ ǀ rari-vān ǀ aja-aśva ǀ śravasyatām ǀ aja-aśva ǀ
o iti ǀ su ǀ tvā ǀ vavṛtīmahi ǀ stomebhiḥ ǀ dasma ǀ sādhu-bhiḥ ǀ
nahi ǀ tvā ǀ pūṣan ǀ ati-manye ǀ āghṛṇe ǀ na ǀ te ǀ sakhyam ǀ apa-hnuve ǁ1.138.4 Aṣṭaka 2.2.2.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.