Sūkta 187
- Devatā देवता
- Pitu
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Anuṣṭubhgarbhā, Anuṣṭubh Or Bṛhatī
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 8); nicṛdanuṣṭup (3, 5); bhuriguṣṇik (6, 7); gāyatrī (9, 10); uṣṇik (1); virāḍgāyatrī (4); svarāḍanuṣṭup (11)
2nd set of styles gāyatrī (2, 4, 8-10); anuṣṭubh (3, 5-7); anuṣṭubhgarbhā (1); anuṣṭubh or bṛhatī (11)
-
Ṛk 1
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीं ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥पितुं नु स्तोषम् महो धर्माणं तविषीम् |
यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ||pitúm nú stoṣam mahó dharmā́ṇam táviṣīm ǀ
yásya tritó vyójasā vṛtrám víparvamardáyat ǁpituṃ nu stoṣam maho dharmāṇaṃ taviṣīm |
yasya trito vy ojasā vṛtraṃ viparvam ardayat ||पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् ।
यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् ।
यस्य । त्रितः । वि । ओजसा । वृत्रम् । विऽपर्वम् । अर्दयत् ॥pitúm ǀ nú ǀ stoṣam ǀ maháḥ ǀ dharmā́ṇam ǀ táviṣīm ǀ
yásya ǀ tritáḥ ǀ ví ǀ ójasā ǀ vṛtrám ǀ ví-parvam ǀ ardáyat ǁpitum ǀ nu ǀ stoṣam ǀ mahaḥ ǀ dharmāṇam ǀ taviṣīm ǀ
yasya ǀ tritaḥ ǀ vi ǀ ojasā ǀ vṛtram ǀ vi-parvam ǀ ardayat ǁ1.187.1 Aṣṭaka 2.5.6.0
-
Ṛk 2
स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।
अ॒स्माक॑मवि॒ता भ॑व ॥स्वादो पितो मधो पितो वयं त्वा ववृमहे |
अस्माकम् अविता भव ||svā́do pito mádho pito vayám tvā vavṛmahe ǀ
asmā́kamavitā́ bhava ǁsvādo pito madho pito vayaṃ tvā vavṛmahe |
asmākam avitā bhava ||स्वादो॒ इति॑ । पि॒तो॒ इति॑ । मधो॒ इति॑ । पि॒तो॒ इति॑ । व॒यम् । त्वा॒ । व॒वृ॒म॒हे॒ ।
अ॒स्माक॑म् । अ॒वि॒ता । भ॒व॒ ॥स्वादो इति । पितो इति । मधो इति । पितो इति । वयम् । त्वा । ववृमहे ।
अस्माकम् । अविता । भव ॥svā́do íti ǀ pito íti ǀ mádho íti ǀ pito íti ǀ vayám ǀ tvā ǀ vavṛmahe ǀ
asmā́kam ǀ avitā́ ǀ bhava ǁsvādo iti ǀ pito iti ǀ madho iti ǀ pito iti ǀ vayam ǀ tvā ǀ vavṛmahe ǀ
asmākam ǀ avitā ǀ bhava ǁ1.187.2 Aṣṭaka 2.5.6.0
-
Ṛk 3
उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ ।
म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः |
मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ||úpa naḥ pitavā́ cara śiváḥ śivā́bhirūtíbhiḥ ǀ
mayobhúradviṣeṇyáḥ sákhā suśévo ádvayāḥ ǁupa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ |
mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ ||उप॑ । नः॒ । पि॒तो॒ इति॑ । आ । च॒र॒ । शि॒वः । शि॒वाभिः॑ । ऊ॒तिऽभिः॑ ।
म॒यः॒ऽभुः । अ॒द्वि॒षे॒ण्यः । सखा॑ । सु॒ऽशेवः॑ । अद्व॑याः ॥उप । नः । पितो इति । आ । चर । शिवः । शिवाभिः । ऊतिऽभिः ।
मयःऽभुः । अद्विषेण्यः । सखा । सुऽशेवः । अद्वयाः ॥úpa ǀ naḥ ǀ pito íti ǀ ā́ ǀ cara ǀ śiváḥ ǀ śivā́bhiḥ ǀ ūtí-bhiḥ ǀ
mayaḥ-bhúḥ ǀ adviṣeṇyáḥ ǀ sákhā ǀ su-śévaḥ ǀ ádvayāḥ ǁupa ǀ naḥ ǀ pito iti ǀ ā ǀ cara ǀ śivaḥ ǀ śivābhiḥ ǀ ūti-bhiḥ ǀ
mayaḥ-bhuḥ ǀ adviṣeṇyaḥ ǀ sakhā ǀ su-śevaḥ ǀ advayāḥ ǁ1.187.3 Aṣṭaka 2.5.6.0
-
Ṛk 4
तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।
दि॒वि वाता॑ इव श्रि॒ताः ॥तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः |
दिवि वाता इव श्रिताः ||táva tyé pito rásā rájāṃsyánu víṣṭhitāḥ ǀ
diví vā́tā iva śritā́ḥ ǁtava tye pito rasā rajāṃsy anu viṣṭhitāḥ |
divi vātā iva śritāḥ ||तव॑ । त्ये । पि॒तो॒ इति॑ । रसाः॑ । रजां॑सि । अनु॑ । विऽस्थि॑ताः ।
दि॒वि । वाताः॑ऽइव । श्रि॒ताः ॥तव । त्ये । पितो इति । रसाः । रजांसि । अनु । विऽस्थिताः ।
दिवि । वाताःऽइव । श्रिताः ॥táva ǀ tyé ǀ pito íti ǀ rásāḥ ǀ rájāṃsi ǀ ánu ǀ ví-sthitāḥ ǀ
diví ǀ vā́tāḥ-iva ǀ śritā́ḥ ǁtava ǀ tye ǀ pito iti ǀ rasāḥ ǀ rajāṃsi ǀ anu ǀ vi-sthitāḥ ǀ
divi ǀ vātāḥ-iva ǀ śritāḥ ǁ1.187.4 Aṣṭaka 2.5.6.0
-
Ṛk 5
तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।
प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो |
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ||táva tyé pito dádatastáva svādiṣṭha té pito ǀ
prá svādmā́no rásānām tuvigrī́vā iverate ǁtava tye pito dadatas tava svādiṣṭha te pito |
pra svādmāno rasānāṃ tuvigrīvā iverate ||तव॑ । त्ये । पि॒तो॒ इति॑ । दद॑तः । तव॑ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति॑ ।
प्र । स्वा॒द्मानः॑ । रसा॑नाम् । तु॒वि॒ग्रीवाः॑ऽइव । ई॒र॒ते॒ ॥तव । त्ये । पितो इति । ददतः । तव । स्वादिष्ठ । ते । पितो इति ।
प्र । स्वाद्मानः । रसानाम् । तुविग्रीवाःऽइव । ईरते ॥táva ǀ tyé ǀ pito íti ǀ dádataḥ ǀ táva ǀ svādiṣṭha ǀ té ǀ pito íti ǀ
prá ǀ svādmā́naḥ ǀ rásānām ǀ tuvigrī́vāḥ-iva ǀ īrate ǁtava ǀ tye ǀ pito iti ǀ dadataḥ ǀ tava ǀ svādiṣṭha ǀ te ǀ pito iti ǀ
pra ǀ svādmānaḥ ǀ rasānām ǀ tuvigrīvāḥ-iva ǀ īrate ǁ1.187.5 Aṣṭaka 2.5.6.0
-
Ṛk 6
त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तं ।
अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥त्वे पितो महानां देवानाम् मनो हितम् |
अकारि चारु केतुना तवाहिम् अवसावधीत् ||tvé pito mahā́nām devā́nām máno hitám ǀ
ákāri cā́ru ketúnā távā́himávasāvadhīt ǁtve pito mahānāṃ devānām mano hitam |
akāri cāru ketunā tavāhim avasāvadhīt ||त्वे इति॑ । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् ।
अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥त्वे इति । पितो इति । महानाम् । देवानाम् । मनः । हितम् ।
अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥tvé íti ǀ pito íti ǀ mahā́nām ǀ devā́nām ǀ mánaḥ ǀ hitám ǀ
ákāri ǀ cā́ru ǀ ketúnā ǀ táva ǀ áhim ǀ ávasā ǀ avadhīt ǁtve iti ǀ pito iti ǀ mahānām ǀ devānām ǀ manaḥ ǀ hitam ǀ
akāri ǀ cāru ǀ ketunā ǀ tava ǀ ahim ǀ avasā ǀ avadhīt ǁ1.187.6 Aṣṭaka 2.5.7.0
-
Ṛk 7
यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानां ।
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥यद् अदो पितो अजगन् विवस्व पर्वतानाम् |
अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ||yádadó pito ájaganvivásva párvatānām ǀ
átrā cinno madho pitó’ram bhakṣā́ya gamyāḥ ǁyad ado pito ajagan vivasva parvatānām |
atrā cin no madho pito 'ram bhakṣāya gamyāḥ ||यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् ।
अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् ।
अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥yát ǀ adáḥ ǀ pito íti ǀ ájagan ǀ vivásva ǀ párvatānām ǀ
átra ǀ cit ǀ naḥ ǀ madho íti ǀ pito íti ǀ áram ǀ bhakṣā́ya ǀ gamyāḥ ǁyat ǀ adaḥ ǀ pito iti ǀ ajagan ǀ vivasva ǀ parvatānām ǀ
atra ǀ cit ǀ naḥ ǀ madho iti ǀ pito iti ǀ aram ǀ bhakṣāya ǀ gamyāḥ ǁ1.187.7 Aṣṭaka 2.5.7.0
-
Ṛk 8
यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे |
वातापे पीव इद् भव ||yádapā́móṣadhīnām pariṃśámāriśā́mahe ǀ
vā́tāpe pī́va ídbhava ǁyad apām oṣadhīnām pariṃśam āriśāmahe |
vātāpe pīva id bhava ||यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे ।
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥यत् । अपाम् । ओषधीनाम् । परिंशम् । आऽरिशामहे ।
वातापे । पीवः । इत् । भव ॥yát ǀ apā́m ǀ óṣadhīnām ǀ pariṃśám ǀ ā-riśā́mahe ǀ
vā́tāpe ǀ pī́vaḥ ǀ ít ǀ bhava ǁyat ǀ apām ǀ oṣadhīnām ǀ pariṃśam ǀ ā-riśāmahe ǀ
vātāpe ǀ pīvaḥ ǀ it ǀ bhava ǁ1.187.8 Aṣṭaka 2.5.7.0
-
Ṛk 9
यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥यत् ते सोम गवाशिरो यवाशिरो भजामहे |
वातापे पीव इद् भव ||yátte soma gávāśiro yávāśiro bhájāmahe ǀ
vā́tāpe pī́va ídbhava ǁyat te soma gavāśiro yavāśiro bhajāmahe |
vātāpe pīva id bhava ||यत् । ते॒ । सो॒म॒ । गोऽआ॑शिरः । यव॑ऽआशिरः । भजा॑महे ।
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥यत् । ते । सोम । गोऽआशिरः । यवऽआशिरः । भजामहे ।
वातापे । पीवः । इत् । भव ॥yát ǀ te ǀ soma ǀ gó-āśiraḥ ǀ yáva-āśiraḥ ǀ bhájāmahe ǀ
vā́tāpe ǀ pī́vaḥ ǀ ít ǀ bhava ǁyat ǀ te ǀ soma ǀ go-āśiraḥ ǀ yava-āśiraḥ ǀ bhajāmahe ǀ
vātāpe ǀ pīvaḥ ǀ it ǀ bhava ǁ1.187.9 Aṣṭaka 2.5.7.0
-
Ṛk 10
क॒रं॒भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥करम्भ ओषधे भव पीवो वृक्क उदारथिः |
वातापे पीव इद् भव ||karambhá oṣadhe bhava pī́vo vṛkká udārathíḥ ǀ
vā́tāpe pī́va ídbhava ǁkarambha oṣadhe bhava pīvo vṛkka udārathiḥ |
vātāpe pīva id bhava ||क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः ।
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥करम्भः । ओषधे । भव । पीवः । वृक्कः । उदारथिः ।
वातापे । पीवः । इत् । भव ॥karambháḥ ǀ oṣadhe ǀ bhava ǀ pī́vaḥ ǀ vṛkkáḥ ǀ udārathíḥ ǀ
vā́tāpe ǀ pī́vaḥ ǀ ít ǀ bhava ǁkarambhaḥ ǀ oṣadhe ǀ bhava ǀ pīvaḥ ǀ vṛkkaḥ ǀ udārathiḥ ǀ
vātāpe ǀ pīvaḥ ǀ it ǀ bhava ǁ1.187.10 Aṣṭaka 2.5.7.0
-
Ṛk 11
तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒मादं॑ ॥तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम |
देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ||tám tvā vayám pito vácobhirgā́vo ná havyā́ suṣūdima ǀ
devébhyastvā sadhamā́damasmábhyam tvā sadhamā́dam ǁtaṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima |
devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam ||तम् । त्वा॒ । व॒यम् । पि॒तो॒ इति॑ । वचः॑ऽभिः । गावः॑ । न । ह॒व्या । सु॒सू॒दि॒म॒ ।
दे॒वेभ्यः॑ । त्वा॒ । स॒ध॒ऽमाद॑म् । अ॒स्मभ्य॑म् । त्वा॒ । स॒ध॒ऽमाद॑म् ॥तम् । त्वा । वयम् । पितो इति । वचःऽभिः । गावः । न । हव्या । सुसूदिम ।
देवेभ्यः । त्वा । सधऽमादम् । अस्मभ्यम् । त्वा । सधऽमादम् ॥tám ǀ tvā ǀ vayám ǀ pito íti ǀ vácaḥ-bhiḥ ǀ gā́vaḥ ǀ ná ǀ havyā́ ǀ susūdima ǀ
devébhyaḥ ǀ tvā ǀ sadha-mā́dam ǀ asmábhyam ǀ tvā ǀ sadha-mā́dam ǁtam ǀ tvā ǀ vayam ǀ pito iti ǀ vacaḥ-bhiḥ ǀ gāvaḥ ǀ na ǀ havyā ǀ susūdima ǀ
devebhyaḥ ǀ tvā ǀ sadha-mādam ǀ asmabhyam ǀ tvā ǀ sadha-mādam ǁ1.187.11 Aṣṭaka 2.5.7.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.