Sūkta 66
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
Metres by ṛk
1st set of styles dvipadā virāt (6-10); paṅktiḥ (1-3); virāṭpaṅkti (4, 5)
2nd set of styles dvipadā virāj
-
Ṛk 1
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥
रयिर् न चित्रा सूरो न संदृग् आयुर् न प्राणो नित्यो न सूनुः ||
rayírná citrā́ sū́ro ná saṃdṛ́gā́yurná prāṇó nítyo ná sūnúḥ ǁ
rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ ||
र॒यिः । न । चि॒त्रा । सूरः॑ । न । स॒म्ऽदृक् । आयुः॑ । न । प्रा॒णः । नित्यः॑ । न । सू॒नुः ॥
रयिः । न । चित्रा । सूरः । न । सम्ऽदृक् । आयुः । न । प्राणः । नित्यः । न । सूनुः ॥
rayíḥ ǀ ná ǀ citrā́ ǀ sū́raḥ ǀ ná ǀ sam-dṛ́k ǀ ā́yuḥ ǀ ná ǀ prāṇáḥ ǀ nítyaḥ ǀ ná ǀ sūnúḥ ǁ
rayiḥ ǀ na ǀ citrā ǀ sūraḥ ǀ na ǀ sam-dṛk ǀ āyuḥ ǀ na ǀ prāṇaḥ ǀ nityaḥ ǀ na ǀ sūnuḥ ǁ
1.66.1 Aṣṭaka 1.5.10.1Anuvāka 1.12.11
-
Ṛk 2
तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥
तक्वा न भूर्णिर् वना सिषक्ति पयो न धेनुः शुचिर् विभावा ||
tákvā ná bhū́rṇirvánā siṣakti páyo ná dhenúḥ śúcirvibhā́vā ǁ
takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā ||
तक्वा॑ । न । भूर्णिः॑ । वना॑ । सि॒स॒क्ति॒ । पयः॑ । न । धे॒नुः । शुचिः॑ । वि॒भाऽवा॑ ॥
तक्वा । न । भूर्णिः । वना । सिसक्ति । पयः । न । धेनुः । शुचिः । विभाऽवा ॥
tákvā ǀ ná ǀ bhū́rṇiḥ ǀ vánā ǀ sisakti ǀ páyaḥ ǀ ná ǀ dhenúḥ ǀ śúciḥ ǀ vibhā́-vā ǁ
takvā ǀ na ǀ bhūrṇiḥ ǀ vanā ǀ sisakti ǀ payaḥ ǀ na ǀ dhenuḥ ǀ śuciḥ ǀ vibhā-vā ǁ
1.66.2 Aṣṭaka 1.5.10.2Anuvāka 1.12.12
-
Ṛk 3
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नां ॥
दाधार क्षेमम् ओको न रण्वो यवो न पक्वो जेता जनानाम् ||
dādhā́ra kṣémamóko ná raṇvó yávo ná pakvó jétā jánānām ǁ
dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām ||
दा॒धार॑ । क्षेम॑म् । ओकः॑ । न । र॒ण्वः । यवः॑ । न । प॒क्वः । जेता॑ । जना॑नाम् ॥
दाधार । क्षेमम् । ओकः । न । रण्वः । यवः । न । पक्वः । जेता । जनानाम् ॥
dādhā́ra ǀ kṣémam ǀ ókaḥ ǀ ná ǀ raṇváḥ ǀ yávaḥ ǀ ná ǀ pakváḥ ǀ jétā ǀ jánānām ǁ
dādhāra ǀ kṣemam ǀ okaḥ ǀ na ǀ raṇvaḥ ǀ yavaḥ ǀ na ǀ pakvaḥ ǀ jetā ǀ janānām ǁ
1.66.3 Aṣṭaka 1.5.10.3Anuvāka 1.12.13
-
Ṛk 4
ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥
ऋषिर् न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ||
ṛ́ṣirná stúbhvā vikṣú praśastó vājī́ ná prītó váyo dadhāti ǁ
ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti ||
ऋषिः॑ । न । स्तुभ्वा॑ । वि॒क्षु । प्र॒ऽश॒स्तः । वा॒जी । न । प्री॒तः । वयः॑ । द॒धा॒ति॒ ॥
ऋषिः । न । स्तुभ्वा । विक्षु । प्रऽशस्तः । वाजी । न । प्रीतः । वयः । दधाति ॥
ṛ́ṣiḥ ǀ ná ǀ stúbhvā ǀ vikṣú ǀ pra-śastáḥ ǀ vājī́ ǀ ná ǀ prītáḥ ǀ váyaḥ ǀ dadhāti ǁ
ṛṣiḥ ǀ na ǀ stubhvā ǀ vikṣu ǀ pra-śastaḥ ǀ vājī ǀ na ǀ prītaḥ ǀ vayaḥ ǀ dadhāti ǁ
1.66.4 Aṣṭaka 1.5.10.4Anuvāka 1.12.14
-
Ṛk 5
दु॒रोक॑शोचिः॒ क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥
दुरोकशोचिः क्रतुर् न नित्यो जायेव योनाव् अरं विश्वस्मै ||
durókaśociḥ kráturná nítyo jāyéva yónāváram víśvasmai ǁ
durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai ||
दु॒रोक॑ऽशोचिः । क्रतुः॑ । न । नित्यः॑ । जा॒याऽइ॑व । योनौ॑ । अर॑म् । विश्व॑स्मै ॥
दुरोकऽशोचिः । क्रतुः । न । नित्यः । जायाऽइव । योनौ । अरम् । विश्वस्मै ॥
duróka-śociḥ ǀ krátuḥ ǀ ná ǀ nítyaḥ ǀ jāyā́-iva ǀ yónau ǀ áram ǀ víśvasmai ǁ
duroka-śociḥ ǀ kratuḥ ǀ na ǀ nityaḥ ǀ jāyā-iva ǀ yonau ǀ aram ǀ viśvasmai ǁ
1.66.5 Aṣṭaka 1.5.10.5Anuvāka 1.12.15
-
Ṛk 6
चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥
चित्रो यद् अभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ||
citró yádábhrāṭ chvetó ná vikṣú rátho ná rukmī́ tveṣáḥ samátsu ǁ
citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu ||
चि॒त्रः । यत् । अभ्रा॑ट् । श्वे॒तः । न । वि॒क्षु । रथः॑ । न । रु॒क्मी । त्वे॒षः । स॒मत्ऽसु॑ ॥
चित्रः । यत् । अभ्राट् । श्वेतः । न । विक्षु । रथः । न । रुक्मी । त्वेषः । समत्ऽसु ॥
citráḥ ǀ yát ǀ ábhrāṭ ǀ śvetáḥ ǀ ná ǀ vikṣú ǀ ráthaḥ ǀ ná ǀ rukmī́ ǀ tveṣáḥ ǀ samát-su ǁ
citraḥ ǀ yat ǀ abhrāṭ ǀ śvetaḥ ǀ na ǀ vikṣu ǀ rathaḥ ǀ na ǀ rukmī ǀ tveṣaḥ ǀ samat-su ǁ
1.66.6 Aṣṭaka 1.5.10.6Anuvāka 1.12.16
-
Ṛk 7
सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥
सेनेव सृष्टामं दधात्य् अस्तुर् न दिद्युत् त्वेषप्रतीका ||
séneva sṛṣṭā́mam dadhātyásturná didyúttveṣápratīkā ǁ
seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā ||
सेना॑ऽइव । सृ॒ष्टा । अम॑म् । द॒धा॒ति॒ । अस्तुः॑ । न । दि॒द्युत् । त्वे॒षऽप्र॑तीका ॥
सेनाऽइव । सृष्टा । अमम् । दधाति । अस्तुः । न । दिद्युत् । त्वेषऽप्रतीका ॥
sénā-iva ǀ sṛṣṭā́ ǀ ámam ǀ dadhāti ǀ ástuḥ ǀ ná ǀ didyút ǀ tveṣá-pratīkā ǁ
senā-iva ǀ sṛṣṭā ǀ amam ǀ dadhāti ǀ astuḥ ǀ na ǀ didyut ǀ tveṣa-pratīkā ǁ
1.66.7 Aṣṭaka 1.5.10.7Anuvāka 1.12.17
-
Ṛk 8
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नां ॥
यमो ह जातो यमो जनित्वं जारः कनीनाम् पतिर् जनीनाम् ||
yamó ha jātó yamó jánitvam jāráḥ kanī́nām pátirjánīnām ǁ
yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām ||
य॒मः । ह॒ । जा॒तः । य॒मः । जनि॑ऽत्वम् । जा॒रः । क॒नीना॑म् । पतिः॑ । जनी॑नाम् ॥
यमः । ह । जातः । यमः । जनिऽत्वम् । जारः । कनीनाम् । पतिः । जनीनाम् ॥
yamáḥ ǀ ha ǀ jātáḥ ǀ yamáḥ ǀ jáni-tvam ǀ jāráḥ ǀ kanī́nām ǀ pátiḥ ǀ jánīnām ǁ
yamaḥ ǀ ha ǀ jātaḥ ǀ yamaḥ ǀ jani-tvam ǀ jāraḥ ǀ kanīnām ǀ patiḥ ǀ janīnām ǁ
1.66.8 Aṣṭaka 1.5.10.8Anuvāka 1.12.18
-
Ṛk 9
तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्षं॑त इ॒द्धं ॥
तं वश् चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ||
tám vaścarā́thā vayám vasatyā́stam ná gā́vo nákṣanta iddhám ǁ
taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham ||
तम् । वः॒ । च॒राथा॑ । व॒यम् । व॒स॒त्या । अस्त॑म् । न । गावः॑ । नक्ष॑न्ते । इ॒द्धम् ॥
तम् । वः । चराथा । वयम् । वसत्या । अस्तम् । न । गावः । नक्षन्ते । इद्धम् ॥
tám ǀ vaḥ ǀ carā́thā ǀ vayám ǀ vasatyā́ ǀ ástam ǀ ná ǀ gā́vaḥ ǀ nákṣante ǀ iddhám ǁ
tam ǀ vaḥ ǀ carāthā ǀ vayam ǀ vasatyā ǀ astam ǀ na ǀ gāvaḥ ǀ nakṣante ǀ iddham ǁ
1.66.9 Aṣṭaka 1.5.10.9Anuvāka 1.12.19
-
Ṛk 10
सिंधु॒र्न क्षोदः॒ प्र नीची॑रैनो॒न्नवं॑त॒ गावः॒ स्व१॒॑र्दृशी॑के ॥
सिन्धुर् न क्षोदः प्र नीचीर् ऐनोन् नवन्त गावः स्वर् दृशीके ||
síndhurná kṣódaḥ prá nī́cīrainonnávanta gā́vaḥ svárdṛ́śīke ǁ
sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke ||
सिन्धुः॑ । न । क्षोदः॑ । प्र । नीचीः॑ । ऐ॒नो॒त् । नव॑न्त । गावः॑ । स्वः॑ । दृशी॑के ॥
सिन्धुः । न । क्षोदः । प्र । नीचीः । ऐनोत् । नवन्त । गावः । स्वः । दृशीके ॥
síndhuḥ ǀ ná ǀ kṣódaḥ ǀ prá ǀ nī́cīḥ ǀ ainot ǀ návanta ǀ gā́vaḥ ǀ sváḥ ǀ dṛ́śīke ǁ
sindhuḥ ǀ na ǀ kṣodaḥ ǀ pra ǀ nīcīḥ ǀ ainot ǀ navanta ǀ gāvaḥ ǀ svaḥ ǀ dṛśīke ǁ
1.66.10 Aṣṭaka 1.5.10.10Anuvāka 1.12.20
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.