Sūkta 51
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1, 9, 10); virāḍjagatī (2, 5, 8); nicṛjjagatī (11-13); bhuriktriṣṭup (3, 4); triṣṭup (6, 7); virāṭtrisṭup (14, 15)
2nd set of styles jagatī (1-13); triṣṭubh (14-15)
-
Ṛk 1
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिंद्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वं ।
यस्य॒ द्यावो॒ न वि॒चरं॑ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥अभि त्यम् मेषम् पुरुहूतम् ऋग्मियम् इन्द्रं गीर्भिर् मदता वस्वो अर्णवम् |
यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठम् अभि विप्रम् अर्चत ||abhí tyám meṣám puruhūtámṛgmíyamíndram gīrbhírmadatā vásvo arṇavám ǀ
yásya dyā́vo ná vicáranti mā́nuṣā bhujé máṃhiṣṭhamabhí vípramarcata ǁabhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam |
yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata ||अ॒भि । त्यम् । मे॒षम् । पु॒रु॒ऽहू॒तम् । ऋ॒ग्मिय॑म् । इन्द्र॑म् । गीः॒ऽभिः । म॒द॒त॒ । वस्वः॑ । अ॒र्ण॒वम् ।
यस्य॑ । द्यावः॑ । न । वि॒ऽचर॑न्ति । मानु॑षा । भु॒जे । मंहि॑ष्ठम् । अ॒भि । विप्र॑म् । अ॒र्च॒त॒ ॥अभि । त्यम् । मेषम् । पुरुऽहूतम् । ऋग्मियम् । इन्द्रम् । गीःऽभिः । मदत । वस्वः । अर्णवम् ।
यस्य । द्यावः । न । विऽचरन्ति । मानुषा । भुजे । मंहिष्ठम् । अभि । विप्रम् । अर्चत ॥abhí ǀ tyám ǀ meṣám ǀ puru-hūtám ǀ ṛgmíyam ǀ índram ǀ gīḥ-bhíḥ ǀ madata ǀ vásvaḥ ǀ arṇavám ǀ
yásya ǀ dyā́vaḥ ǀ ná ǀ vi-cáranti ǀ mā́nuṣā ǀ bhujé ǀ máṃhiṣṭham ǀ abhí ǀ vípram ǀ arcata ǁabhi ǀ tyam ǀ meṣam ǀ puru-hūtam ǀ ṛgmiyam ǀ indram ǀ gīḥ-bhiḥ ǀ madata ǀ vasvaḥ ǀ arṇavam ǀ
yasya ǀ dyāvaḥ ǀ na ǀ vi-caranti ǀ mānuṣā ǀ bhuje ǀ maṃhiṣṭham ǀ abhi ǀ vipram ǀ arcata ǁ1.51.1 Aṣṭaka 1.4.9.0
-
Ṛk 2
अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽंतरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तं ।
इंद्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥अभीम् अवन्वन् स्वभिष्टिम् ऊतयो ऽन्तरिक्षप्रां तविषीभिर् आवृतम् |
इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ||abhī́mavanvantsvabhiṣṭímūtáyo’ntarikṣaprā́m táviṣībhirā́vṛtam ǀ
índram dákṣāsa ṛbhávo madacyútam śatákratum jávanī sūnṛ́tā́ruhat ǁabhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam |
indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat ||अ॒भि । ई॒म् । अ॒व॒न्व॒न् । सु॒ऽअ॒भि॒ष्टिम् । ऊ॒तयः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राम् । तवि॑षीभिः । आऽवृ॑तम् ।
इन्द्र॑म् । दक्षा॑सः । ऋ॒भवः॑ । म॒द॒ऽच्युत॑म् । श॒तऽक्र॑तुम् । जव॑नी । सू॒नृता॑ । आ । अ॒रु॒ह॒त् ॥अभि । ईम् । अवन्वन् । सुऽअभिष्टिम् । ऊतयः । अन्तरिक्षऽप्राम् । तविषीभिः । आऽवृतम् ।
इन्द्रम् । दक्षासः । ऋभवः । मदऽच्युतम् । शतऽक्रतुम् । जवनी । सूनृता । आ । अरुहत् ॥abhí ǀ īm ǀ avanvan ǀ su-abhiṣṭím ǀ ūtáyaḥ ǀ antarikṣa-prā́m ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ
índram ǀ dákṣāsaḥ ǀ ṛbhávaḥ ǀ mada-cyútam ǀ śatá-kratum ǀ jávanī ǀ sūnṛ́tā ǀ ā́ ǀ aruhat ǁabhi ǀ īm ǀ avanvan ǀ su-abhiṣṭim ǀ ūtayaḥ ǀ antarikṣa-prām ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ
indram ǀ dakṣāsaḥ ǀ ṛbhavaḥ ǀ mada-cyutam ǀ śata-kratum ǀ javanī ǀ sūnṛtā ǀ ā ǀ aruhat ǁ1.51.2 Aṣṭaka 1.4.9.0
-
Ṛk 3
त्वं गो॒त्रमंगि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् |
ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ||tvám gotrámáṅgirobhyo’vṛṇorápotā́traye śatádureṣu gātuvít ǀ
saséna cidvimadā́yāvaho vásvājā́vádrim vāvasānásya nartáyan ǁtvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit |
sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan ||त्वम् । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ । उ॒त । अत्र॑ये । श॒तऽदु॑रेषु । गा॒तु॒ऽवित् ।
स॒सेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒व॒हः॒ । वसु॑ । आ॒जौ । अद्रि॑म् । व॒व॒सा॒नस्य॑ । न॒र्तय॑न् ॥त्वम् । गोत्रम् । अङ्गिरःऽभ्यः । अवृणोः । अप । उत । अत्रये । शतऽदुरेषु । गातुऽवित् ।
ससेन । चित् । विऽमदाय । अवहः । वसु । आजौ । अद्रिम् । ववसानस्य । नर्तयन् ॥tvám ǀ gotrám ǀ áṅgiraḥ-bhyaḥ ǀ avṛṇoḥ ǀ ápa ǀ utá ǀ átraye ǀ śatá-dureṣu ǀ gātu-vít ǀ
saséna ǀ cit ǀ vi-madā́ya ǀ avahaḥ ǀ vásu ǀ ājáu ǀ ádrim ǀ vavasānásya ǀ nartáyan ǁtvam ǀ gotram ǀ aṅgiraḥ-bhyaḥ ǀ avṛṇoḥ ǀ apa ǀ uta ǀ atraye ǀ śata-dureṣu ǀ gātu-vit ǀ
sasena ǀ cit ǀ vi-madāya ǀ avahaḥ ǀ vasu ǀ ājau ǀ adrim ǀ vavasānasya ǀ nartayan ǁ1.51.3 Aṣṭaka 1.4.9.0
-
Ṛk 4
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
वृ॒त्रं यदिं॑द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥त्वम् अपाम् अपिधानावृणोर् अपाधारयः पर्वते दानुमद् वसु |
वृत्रं यद् इन्द्र शवसावधीर् अहिम् आद् इत् सूर्यं दिव्य् आरोहयो दृशे ||tvámapā́mapidhā́nāvṛṇorápā́dhārayaḥ párvate dā́numadvásu ǀ
vṛtrám yádindra śávasā́vadhīráhimā́dítsū́ryam divyā́rohayo dṛśé ǁtvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu |
vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe ||त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ ।
वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥त्वम् । अपाम् । अपिऽधाना । अवृणोः । अप । अधारयः । पर्वते । दानुऽमत् । वसु ।
वृत्रम् । यत् । इन्द्र । शवसा । अवधीः । अहिम् । आत् । इत् । सूर्यम् । दिवि । आ । अरोहयः । दृशे ॥tvám ǀ apā́m ǀ api-dhā́nā ǀ avṛṇoḥ ǀ ápa ǀ ádhārayaḥ ǀ párvate ǀ dā́nu-mat ǀ vásu ǀ
vṛtrám ǀ yát ǀ indra ǀ śávasā ǀ ávadhīḥ ǀ áhim ǀ ā́t ǀ ít ǀ sū́ryam ǀ diví ǀ ā́ ǀ arohayaḥ ǀ dṛśé ǁtvam ǀ apām ǀ api-dhānā ǀ avṛṇoḥ ǀ apa ǀ adhārayaḥ ǀ parvate ǀ dānu-mat ǀ vasu ǀ
vṛtram ǀ yat ǀ indra ǀ śavasā ǀ avadhīḥ ǀ ahim ǀ āt ǀ it ǀ sūryam ǀ divi ǀ ā ǀ arohayaḥ ǀ dṛśe ǁ1.51.4 Aṣṭaka 1.4.9.0
-
Ṛk 5
त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥त्वम् मायाभिर् अप मायिनो ऽधमः स्वधाभिर् ये अधि शुप्ताव् अजुह्वत |
त्वम् पिप्रोर् नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्व् आविथ ||tvám māyā́bhirápa māyíno’dhamaḥ svadhā́bhiryé ádhi śúptāvájuhvata ǀ
tvám píprornṛmaṇaḥ prā́rujaḥ púraḥ prá ṛjíśvānam dasyuhátyeṣvāvitha ǁtvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata |
tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha ||त्वम् । मा॒याभिः॑ । अप॑ । मा॒यिनः॑ । अ॒ध॒मः॒ । स्व॒धाभिः॑ । ये । अधि॑ । शुप्तौ॑ । अजु॑ह्वत ।
त्वम् । पिप्रोः॑ । नृ॒ऽम॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः॑ । प्र । ऋ॒जिश्वा॑नम् । द॒स्यु॒ऽहत्ये॑षु । आ॒वि॒थ॒ ॥त्वम् । मायाभिः । अप । मायिनः । अधमः । स्वधाभिः । ये । अधि । शुप्तौ । अजुह्वत ।
त्वम् । पिप्रोः । नृऽमनः । प्र । अरुजः । पुरः । प्र । ऋजिश्वानम् । दस्युऽहत्येषु । आविथ ॥tvám ǀ māyā́bhiḥ ǀ ápa ǀ māyínaḥ ǀ adhamaḥ ǀ svadhā́bhiḥ ǀ yé ǀ ádhi ǀ śúptau ǀ ájuhvata ǀ
tvám ǀ píproḥ ǀ nṛ-manaḥ ǀ prá ǀ arujaḥ ǀ púraḥ ǀ prá ǀ ṛjíśvānam ǀ dasyu-hátyeṣu ǀ āvitha ǁtvam ǀ māyābhiḥ ǀ apa ǀ māyinaḥ ǀ adhamaḥ ǀ svadhābhiḥ ǀ ye ǀ adhi ǀ śuptau ǀ ajuhvata ǀ
tvam ǀ piproḥ ǀ nṛ-manaḥ ǀ pra ǀ arujaḥ ǀ puraḥ ǀ pra ǀ ṛjiśvānam ǀ dasyu-hatyeṣu ǀ āvitha ǁ1.51.5 Aṣṭaka 1.4.9.0
-
Ṛk 6
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थारं॑धयोऽतिथि॒ग्वाय॒ शंब॑रं ।
म॒हांतं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥त्वं कुत्सं शुष्णहत्येष्व् आविथारन्धयो ऽतिथिग्वाय शम्बरम् |
महान्तं चिद् अर्बुदं नि क्रमीः पदा सनाद् एव दस्युहत्याय जज्ञिषे ||tvám kútsam śuṣṇahátyeṣvāvithā́randhayo’tithigvā́ya śámbaram ǀ
mahā́ntam cidarbudám ní kramīḥ padā́ sanā́devá dasyuhátyāya jajñiṣe ǁtvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram |
mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe ||त्वम् । कुत्स॑म् । शु॒ष्ण॒ऽहत्ये॑षु । आ॒वि॒थ॒ । अर॑न्धयः । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् ।
म॒हान्त॑म् । चि॒त् । अ॒र्बु॒दम् । नि । क्र॒मीः॒ । प॒दा । स॒नात् । ए॒व । द॒स्यु॒ऽहत्या॑य । ज॒ज्ञि॒षे॒ ॥त्वम् । कुत्सम् । शुष्णऽहत्येषु । आविथ । अरन्धयः । अतिथिऽग्वाय । शम्बरम् ।
महान्तम् । चित् । अर्बुदम् । नि । क्रमीः । पदा । सनात् । एव । दस्युऽहत्याय । जज्ञिषे ॥tvám ǀ kútsam ǀ śuṣṇa-hátyeṣu ǀ āvitha ǀ árandhayaḥ ǀ atithi-gvā́ya ǀ śámbaram ǀ
mahā́ntam ǀ cit ǀ arbudám ǀ ní ǀ kramīḥ ǀ padā́ ǀ sanā́t ǀ evá ǀ dasyu-hátyāya ǀ jajñiṣe ǁtvam ǀ kutsam ǀ śuṣṇa-hatyeṣu ǀ āvitha ǀ arandhayaḥ ǀ atithi-gvāya ǀ śambaram ǀ
mahāntam ǀ cit ǀ arbudam ǀ ni ǀ kramīḥ ǀ padā ǀ sanāt ǀ eva ǀ dasyu-hatyāya ǀ jajñiṣe ǁ1.51.6 Aṣṭaka 1.4.10.1Anuvāka 1.10.6
-
Ṛk 7
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥त्वे विश्वा तविषी सध्र्यग् घिता तव राधः सोमपीथाय हर्षते |
तव वज्रश् चिकिते बाह्वोर् हितो वृश्चा शत्रोर् अव विश्वानि वृष्ण्या ||tvé víśvā táviṣī sadhryágghitā́ táva rā́dhaḥ somapīthā́ya harṣate ǀ
táva vájraścikite bāhvórhitó vṛścā́ śátroráva víśvāni vṛ́ṣṇyā ǁtve viśvā taviṣī sadhryag ghitā tava rādhaḥ somapīthāya harṣate |
tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā ||त्वे इति॑ । विश्वा॑ । तवि॑षी । स॒ध्र्य॑क् । हि॒ता । तव॑ । राधः॑ । सो॒म॒ऽपी॒थाय॑ । ह॒र्ष॒ते॒ ।
तव॑ । वज्रः॑ । चि॒कि॒ते॒ । बा॒ह्वोः । हि॒तः । वृ॒श्च । शत्रोः॑ । अव॑ । विश्वा॑नि । वृष्ण्या॑ ॥त्वे इति । विश्वा । तविषी । सध्र्यक् । हिता । तव । राधः । सोमऽपीथाय । हर्षते ।
तव । वज्रः । चिकिते । बाह्वोः । हितः । वृश्च । शत्रोः । अव । विश्वानि । वृष्ण्या ॥tvé íti ǀ víśvā ǀ táviṣī ǀ sadhryák ǀ hitā́ ǀ táva ǀ rā́dhaḥ ǀ soma-pīthā́ya ǀ harṣate ǀ
táva ǀ vájraḥ ǀ cikite ǀ bāhvóḥ ǀ hitáḥ ǀ vṛścá ǀ śátroḥ ǀ áva ǀ víśvāni ǀ vṛ́ṣṇyā ǁtve iti ǀ viśvā ǀ taviṣī ǀ sadhryak ǀ hitā ǀ tava ǀ rādhaḥ ǀ soma-pīthāya ǀ harṣate ǀ
tava ǀ vajraḥ ǀ cikite ǀ bāhvoḥ ǀ hitaḥ ǀ vṛśca ǀ śatroḥ ǀ ava ǀ viśvāni ǀ vṛṣṇyā ǁ1.51.7 Aṣṭaka 1.4.10.2Anuvāka 1.10.7
-
Ṛk 8
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रंधया॒ शास॑दव्र॒तान् ।
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥वि जानीह्य् आर्यान् ये च दस्यवो बर्हिष्मते रन्धया शासद् अव्रतान् |
शाकी भव यजमानस्य चोदिता विश्वेत् ता ते सधमादेषु चाकन ||ví jānīhyā́ryānyé ca dásyavo barhíṣmate randhayā śā́sadavratā́n ǀ
śā́kī bhava yájamānasya coditā́ víśvéttā́ te sadhamā́deṣu cākana ǁvi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān |
śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana ||वि । जा॒नी॒हि॒ । आर्या॑न् । ये । च॒ । दस्य॑वः । ब॒र्हिष्म॑ते । र॒न्ध॒य॒ । शास॑त् । अ॒व्र॒तान् ।
शाकी॑ । भ॒व॒ । यज॑मानस्य । चो॒दि॒ता । विश्वा॑ । इत् । ता । ते॒ । स॒ध॒ऽमादे॑षु । चा॒क॒न॒ ॥वि । जानीहि । आर्यान् । ये । च । दस्यवः । बर्हिष्मते । रन्धय । शासत् । अव्रतान् ।
शाकी । भव । यजमानस्य । चोदिता । विश्वा । इत् । ता । ते । सधऽमादेषु । चाकन ॥ví ǀ jānīhi ǀ ā́ryān ǀ yé ǀ ca ǀ dásyavaḥ ǀ barhíṣmate ǀ randhaya ǀ śā́sat ǀ avratā́n ǀ
śā́kī ǀ bhava ǀ yájamānasya ǀ coditā́ ǀ víśvā ǀ ít ǀ tā́ ǀ te ǀ sadha-mā́deṣu ǀ cākana ǁvi ǀ jānīhi ǀ āryān ǀ ye ǀ ca ǀ dasyavaḥ ǀ barhiṣmate ǀ randhaya ǀ śāsat ǀ avratān ǀ
śākī ǀ bhava ǀ yajamānasya ǀ coditā ǀ viśvā ǀ it ǀ tā ǀ te ǀ sadha-mādeṣu ǀ cākana ǁ1.51.8 Aṣṭaka 1.4.10.3Anuvāka 1.10.8
-
Ṛk 9
अनु॑व्रताय रं॒धय॒न्नप॑व्रताना॒भूभि॒रिंद्रः॑ श्न॒थय॒न्नना॑भुवः ।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥अनुव्रताय रन्धयन्न् अपव्रतान् आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः |
वृद्धस्य चिद् वर्धतो द्याम् इनक्षत स्तवानो वम्रो वि जघान संदिहः ||ánuvratāya randháyannápavratānābhū́bhiríndraḥ śnatháyannánābhuvaḥ ǀ
vṛddhásya cidvárdhato dyā́mínakṣataḥ stávāno vamró ví jaghāna saṃdíhaḥ ǁanuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ |
vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ ||अनु॑ऽव्रताय । र॒न्धय॑न् । अप॑ऽव्रतान् । आ॒ऽभूभिः॑ । इन्द्रः॑ । श्न॒थय॑न् । अना॑भुवः ।
वृ॒द्धस्य॑ । चि॒त् । वर्ध॑तः । द्याम् । इन॑क्षतः । स्तवा॑नः । व॒म्रः । वि । ज॒घा॒न॒ । स॒म्ऽदिहः॑ ॥अनुऽव्रताय । रन्धयन् । अपऽव्रतान् । आऽभूभिः । इन्द्रः । श्नथयन् । अनाभुवः ।
वृद्धस्य । चित् । वर्धतः । द्याम् । इनक्षतः । स्तवानः । वम्रः । वि । जघान । सम्ऽदिहः ॥ánu-vratāya ǀ randháyan ǀ ápa-vratān ǀ ā-bhū́bhiḥ ǀ índraḥ ǀ śnatháyan ǀ ánābhuvaḥ ǀ
vṛddhásya ǀ cit ǀ várdhataḥ ǀ dyā́m ǀ ínakṣataḥ ǀ stávānaḥ ǀ vamráḥ ǀ ví ǀ jaghāna ǀ sam-díhaḥ ǁanu-vratāya ǀ randhayan ǀ apa-vratān ǀ ā-bhūbhiḥ ǀ indraḥ ǀ śnathayan ǀ anābhuvaḥ ǀ
vṛddhasya ǀ cit ǀ vardhataḥ ǀ dyām ǀ inakṣataḥ ǀ stavānaḥ ǀ vamraḥ ǀ vi ǀ jaghāna ǀ sam-dihaḥ ǁ1.51.9 Aṣṭaka 1.4.10.4Anuvāka 1.10.9
-
Ṛk 10
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥तक्षद् यत् त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः |
आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणम् अवहन्न् अभि श्रवः ||tákṣadyátta uśánā sáhasā sáho ví ródasī majmánā bādhate śávaḥ ǀ
ā́ tvā vā́tasya nṛmaṇo manoyúja ā́ pū́ryamāṇamavahannabhí śrávaḥ ǁtakṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ |
ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ ||तक्ष॑त् । यत् । ते॒ । उ॒शना॑ । सह॑सा । सहः॑ । वि । रोद॑सी॒ इति॑ । म॒ज्मना॑ । बा॒ध॒ते॒ । शवः॑ ।
आ । त्वा॒ । वात॑स्य । नृ॒ऽम॒नः॒ । म॒नः॒ऽयुजः॑ । आ । पूर्य॑माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः॑ ॥तक्षत् । यत् । ते । उशना । सहसा । सहः । वि । रोदसी इति । मज्मना । बाधते । शवः ।
आ । त्वा । वातस्य । नृऽमनः । मनःऽयुजः । आ । पूर्यमाणम् । अवहन् । अभि । श्रवः ॥tákṣat ǀ yát ǀ te ǀ uśánā ǀ sáhasā ǀ sáhaḥ ǀ ví ǀ ródasī íti ǀ majmánā ǀ bādhate ǀ śávaḥ ǀ
ā́ ǀ tvā ǀ vā́tasya ǀ nṛ-manaḥ ǀ manaḥ-yújaḥ ǀ ā́ ǀ pū́ryamāṇam ǀ avahan ǀ abhí ǀ śrávaḥ ǁtakṣat ǀ yat ǀ te ǀ uśanā ǀ sahasā ǀ sahaḥ ǀ vi ǀ rodasī iti ǀ majmanā ǀ bādhate ǀ śavaḥ ǀ
ā ǀ tvā ǀ vātasya ǀ nṛ-manaḥ ǀ manaḥ-yujaḥ ǀ ā ǀ pūryamāṇam ǀ avahan ǀ abhi ǀ śravaḥ ǁ1.51.10 Aṣṭaka 1.4.10.5Anuvāka 1.10.10
-
Ṛk 11
मंदि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इंद्रो॑ वं॒कू वं॑कु॒तराधि॑ तिष्ठति ।
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥मन्दिष्ट यद् उशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति |
उग्रो ययिं निर् अपः स्रोतसासृजद् वि शुष्णस्य दृंहिता ऐरयत् पुरः ||mándiṣṭa yáduśáne kāvyé sácām̐ índro vaṅkū́ vaṅkutárā́dhi tiṣṭhati ǀ
ugró yayím nírapáḥ srótasāsṛjadví śúṣṇasya dṛṃhitā́ airayatpúraḥ ǁmandiṣṭa yad uśane kāvye sacāṃ indro vaṅkū vaṅkutarādhi tiṣṭhati |
ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ ||मन्दि॑ष्ट । यत् । उ॒शने॑ । का॒व्ये । सचा॑ । इन्द्रः॑ । व॒ङ्कू इति॑ । व॒ङ्कु॒ऽतरा । अधि॑ । ति॒ष्ठ॒ति॒ ।
उ॒ग्रः । य॒यिम् । निः । अ॒पः । स्रोत॑सा । अ॒सृ॒ज॒त् । वि । शुष्ण॑स्य । दृं॒हि॒ताः । ऐ॒र॒य॒त् । पुरः॑ ॥मन्दिष्ट । यत् । उशने । काव्ये । सचा । इन्द्रः । वङ्कू इति । वङ्कुऽतरा । अधि । तिष्ठति ।
उग्रः । ययिम् । निः । अपः । स्रोतसा । असृजत् । वि । शुष्णस्य । दृंहिताः । ऐरयत् । पुरः ॥mándiṣṭa ǀ yát ǀ uśáne ǀ kāvyé ǀ sácā ǀ índraḥ ǀ vaṅkū́ íti ǀ vaṅku-tárā́ ǀ ádhi ǀ tiṣṭhati ǀ
ugráḥ ǀ yayím ǀ níḥ ǀ apáḥ ǀ srótasā ǀ asṛjat ǀ ví ǀ śúṣṇasya ǀ dṛṃhitā́ḥ ǀ airayat ǀ púraḥ ǁmandiṣṭa ǀ yat ǀ uśane ǀ kāvye ǀ sacā ǀ indraḥ ǀ vaṅkū iti ǀ vaṅku-tarā ǀ adhi ǀ tiṣṭhati ǀ
ugraḥ ǀ yayim ǀ niḥ ǀ apaḥ ǀ srotasā ǀ asṛjat ǀ vi ǀ śuṣṇasya ǀ dṛṃhitāḥ ǀ airayat ǀ puraḥ ǁ1.51.11 Aṣṭaka 1.4.11.1Anuvāka 1.10.11
-
Ṛk 12
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मंद॑से ।
इंद्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे |
इन्द्र यथा सुतसोमेषु चाकनो ऽनर्वाणं श्लोकम् आ रोहसे दिवि ||ā́ smā rátham vṛṣapā́ṇeṣu tiṣṭhasi śāryātásya prábhṛtā yéṣu mándase ǀ
índra yáthā sutásomeṣu cākáno’narvā́ṇam ślókamā́ rohase diví ǁā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase |
indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi ||आ । स्म॒ । रथ॑म् । वृ॒ष॒ऽपाने॑षु । ति॒ष्ठ॒सि॒ । शा॒र्या॒तस्य॑ । प्रऽभृ॑ताः । येषु॑ । मन्द॑से ।
इन्द्र॑ । यथा॑ । सु॒तऽसो॑मेषु । चा॒कनः॑ । अ॒न॒र्वाण॑म् । श्लोक॑म् । आ । रो॒ह॒से॒ । दि॒वि ॥आ । स्म । रथम् । वृषऽपानेषु । तिष्ठसि । शार्यातस्य । प्रऽभृताः । येषु । मन्दसे ।
इन्द्र । यथा । सुतऽसोमेषु । चाकनः । अनर्वाणम् । श्लोकम् । आ । रोहसे । दिवि ॥ā́ ǀ sma ǀ rátham ǀ vṛṣa-pā́neṣu ǀ tiṣṭhasi ǀ śāryātásya ǀ prá-bhṛtāḥ ǀ yéṣu ǀ mándase ǀ
índra ǀ yáthā ǀ sutá-someṣu ǀ cākánaḥ ǀ anarvā́ṇam ǀ ślókam ǀ ā́ ǀ rohase ǀ diví ǁā ǀ sma ǀ ratham ǀ vṛṣa-pāneṣu ǀ tiṣṭhasi ǀ śāryātasya ǀ pra-bhṛtāḥ ǀ yeṣu ǀ mandase ǀ
indra ǀ yathā ǀ suta-someṣu ǀ cākanaḥ ǀ anarvāṇam ǀ ślokam ǀ ā ǀ rohase ǀ divi ǁ1.51.12 Aṣṭaka 1.4.11.2Anuvāka 1.10.12
-
Ṛk 13
अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामिं॑द्र सुन्व॒ते ।
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥अददा अर्भाम् महते वचस्यवे कक्षीवते वृचयाम् इन्द्र सुन्वते |
मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत् ता ते सवनेषु प्रवाच्या ||ádadā árbhām mahaté vacasyáve kakṣī́vate vṛcayā́mindra sunvaté ǀ
ménābhavo vṛṣaṇaśvásya sukrato víśvéttā́ te sávaneṣu pravā́cyā ǁadadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate |
menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā ||अद॑दाः । अर्भा॑म् । म॒ह॒ते । व॒च॒स्यवे॑ । क॒क्षीव॑ते । वृ॒च॒याम् । इ॒न्द्र॒ । सु॒न्व॒ते ।
मेना॑ । अ॒भ॒वः॒ । वृ॒ष॒ण॒श्वस्य॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ ॥अददाः । अर्भाम् । महते । वचस्यवे । कक्षीवते । वृचयाम् । इन्द्र । सुन्वते ।
मेना । अभवः । वृषणश्वस्य । सुक्रतो इति सुऽक्रतो । विश्वा । इत् । ता । ते । सवनेषु । प्रऽवाच्या ॥ádadāḥ ǀ árbhām ǀ mahaté ǀ vacasyáve ǀ kakṣī́vate ǀ vṛcayā́m ǀ indra ǀ sunvaté ǀ
ménā ǀ abhavaḥ ǀ vṛṣaṇaśvásya ǀ sukrato íti su-krato ǀ víśvā ǀ ít ǀ tā́ ǀ te ǀ sávaneṣu ǀ pra-vā́cyā ǁadadāḥ ǀ arbhām ǀ mahate ǀ vacasyave ǀ kakṣīvate ǀ vṛcayām ǀ indra ǀ sunvate ǀ
menā ǀ abhavaḥ ǀ vṛṣaṇaśvasya ǀ sukrato iti su-krato ǀ viśvā ǀ it ǀ tā ǀ te ǀ savaneṣu ǀ pra-vācyā ǁ1.51.13 Aṣṭaka 1.4.11.3Anuvāka 1.10.13
-
Ṛk 14
इंद्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिंद्र॒ इद्रा॒यः क्ष॑यति प्रयं॒ता ॥इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः |
अश्वयुर् गव्यू रथयुर् वसूयुर् इन्द्र इद् रायः क्षयति प्रयन्ता ||índro aśrāyi sudhyó nireké pajréṣu stómo dúryo ná yū́paḥ ǀ
aśvayúrgavyū́ rathayúrvasūyúríndra ídrāyáḥ kṣayati prayantā́ ǁindro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā ||इन्द्रः॑ । अ॒श्रा॒यि॒ । सु॒ऽध्यः॑ । नि॒रे॒के । प॒ज्रेषु॑ । स्तोमः॑ । दुर्यः॑ । न । यूपः॑ ।
अ॒श्व॒ऽयुः । ग॒व्युः । र॒थ॒ऽयुः । व॒सु॒ऽयुः । इन्द्रः॑ । इत् । रा॒यः । क्ष॒य॒ति॒ । प्र॒ऽय॒न्ता ॥इन्द्रः । अश्रायि । सुऽध्यः । निरेके । पज्रेषु । स्तोमः । दुर्यः । न । यूपः ।
अश्वऽयुः । गव्युः । रथऽयुः । वसुऽयुः । इन्द्रः । इत् । रायः । क्षयति । प्रऽयन्ता ॥índraḥ ǀ aśrāyi ǀ su-dhyáḥ ǀ nireké ǀ pajréṣu ǀ stómaḥ ǀ dúryaḥ ǀ ná ǀ yū́paḥ ǀ
aśva-yúḥ ǀ gavyúḥ ǀ ratha-yúḥ ǀ vasu-yúḥ ǀ índraḥ ǀ ít ǀ rāyáḥ ǀ kṣayati ǀ pra-yantā́ ǁindraḥ ǀ aśrāyi ǀ su-dhyaḥ ǀ nireke ǀ pajreṣu ǀ stomaḥ ǀ duryaḥ ǀ na ǀ yūpaḥ ǀ
aśva-yuḥ ǀ gavyuḥ ǀ ratha-yuḥ ǀ vasu-yuḥ ǀ indraḥ ǀ it ǀ rāyaḥ ǀ kṣayati ǀ pra-yantā ǁ1.51.14 Aṣṭaka 1.4.11.4Anuvāka 1.10.14
-
Ṛk 15
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
अ॒स्मिन्निं॑द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसे ऽवाचि |
अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन् स्याम ||idám námo vṛṣabhā́ya svarā́je satyáśuṣmāya taváse’vāci ǀ
asmínnindra vṛjáne sárvavīrāḥ smátsūríbhistáva śármantsyāma ǁidaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci |
asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma ||इ॒दम् । नमः॑ । वृ॒ष॒भाय॑ । स्व॒ऽराजे॑ । स॒त्यऽशु॑ष्माय । त॒वसे॑ । अ॒वा॒चि॒ ।
अ॒स्मिन् । इ॒न्द्र॒ । वृ॒जने॑ । सर्व॑ऽवीराः । स्मत् । सू॒रिऽभिः॑ । तव॑ । शर्म॑न् । स्या॒म॒ ॥इदम् । नमः । वृषभाय । स्वऽराजे । सत्यऽशुष्माय । तवसे । अवाचि ।
अस्मिन् । इन्द्र । वृजने । सर्वऽवीराः । स्मत् । सूरिऽभिः । तव । शर्मन् । स्याम ॥idám ǀ námaḥ ǀ vṛṣabhā́ya ǀ sva-rā́je ǀ satyá-śuṣmāya ǀ taváse ǀ avāci ǀ
asmín ǀ indra ǀ vṛjáne ǀ sárva-vīrāḥ ǀ smát ǀ sūrí-bhiḥ ǀ táva ǀ śárman ǀ syāma ǁidam ǀ namaḥ ǀ vṛṣabhāya ǀ sva-rāje ǀ satya-śuṣmāya ǀ tavase ǀ avāci ǀ
asmin ǀ indra ǀ vṛjane ǀ sarva-vīrāḥ ǀ smat ǀ sūri-bhiḥ ǀ tava ǀ śarman ǀ syāma ǁ1.51.15 Aṣṭaka 1.4.11.5Anuvāka 1.10.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.