Ṛk 1.51.3
Saṃhitā
त्वं गो॒त्रमंगि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥
त्वं गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अपोतात्रये शतदुरेषु गातुवित् |
ससेन चिद् विमदायावहो वस्व् आजाव् अद्रिं वावसानस्य नर्तयन् ||
tvám gotrámáṅgirobhyo’vṛṇorápotā́traye śatádureṣu gātuvít ǀ
saséna cidvimadā́yāvaho vásvājā́vádrim vāvasānásya nartáyan ǁ
tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit |
sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan ||
Padapāṭha
त्वम् । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ । उ॒त । अत्र॑ये । श॒तऽदु॑रेषु । गा॒तु॒ऽवित् ।
स॒सेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒व॒हः॒ । वसु॑ । आ॒जौ । अद्रि॑म् । व॒व॒सा॒नस्य॑ । न॒र्तय॑न् ॥
त्वम् । गोत्रम् । अङ्गिरःऽभ्यः । अवृणोः । अप । उत । अत्रये । शतऽदुरेषु । गातुऽवित् ।
ससेन । चित् । विऽमदाय । अवहः । वसु । आजौ । अद्रिम् । ववसानस्य । नर्तयन् ॥
tvám ǀ gotrám ǀ áṅgiraḥ-bhyaḥ ǀ avṛṇoḥ ǀ ápa ǀ utá ǀ átraye ǀ śatá-dureṣu ǀ gātu-vít ǀ
saséna ǀ cit ǀ vi-madā́ya ǀ avahaḥ ǀ vásu ǀ ājáu ǀ ádrim ǀ vavasānásya ǀ nartáyan ǁ
tvam ǀ gotram ǀ aṅgiraḥ-bhyaḥ ǀ avṛṇoḥ ǀ apa ǀ uta ǀ atraye ǀ śata-dureṣu ǀ gātu-vit ǀ
sasena ǀ cit ǀ vi-madāya ǀ avahaḥ ǀ vasu ǀ ājau ǀ adrim ǀ vavasānasya ǀ nartayan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.051.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.09.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.