Sūkta 15
- Devatā देवता
- 1, 5: Indra; 2: Maruts; 3: Tvaṣṭṛ; 4, 12: Agni; 6: Mitra, Varuṇa; 7-10: Draviṇodā; 11: Aśvins
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (3, 5-10); nicṛdgāyatrī (1, 12); bhuriggāyatrī (2, 4); pipīlikāmadhyānicṛdgāyatrī (11)
2nd set of styles gāyatrī
-
Ṛk 1
इंद्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा॑ विशं॒त्विंद॑वः ।
म॒त्स॒रास॒स्तदो॑कसः ॥इन्द्र सोमम् पिब ऋतुना त्वा विशन्त्व् इन्दवः |
मत्सरासस् तदोकसः ||índra sómam píba ṛtúnā́ tvā viśantvíndavaḥ ǀ
matsarā́sastádokasaḥ ǁindra somam piba ṛtunā tvā viśantv indavaḥ |
matsarāsas tadokasaḥ ||इन्द्र॑ । सोम॑म् । पिब॑ । ऋ॒तुना॑ । आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः ।
म॒त्स॒रासः॑ । तत्ऽओ॑कसः ॥इन्द्र । सोमम् । पिब । ऋतुना । आ । त्वा । विशन्तु । इन्दवः ।
मत्सरासः । तत्ऽओकसः ॥índra ǀ sómam ǀ píba ǀ ṛtúnā ǀ ā́ ǀ tvā ǀ viśantu ǀ índavaḥ ǀ
matsarā́saḥ ǀ tát-okasaḥ ǁindra ǀ somam ǀ piba ǀ ṛtunā ǀ ā ǀ tvā ǀ viśantu ǀ indavaḥ ǀ
matsarāsaḥ ǀ tat-okasaḥ ǁ1.15.1 Aṣṭaka 1.1.28.1Anuvāka 1.4.37
-
Ṛk 2
मरु॑तः॒ पिब॑त ऋ॒तुना॑ पो॒त्राद्य॒ज्ञं पु॑नीतन ।
यू॒यं हि ष्ठा सु॑दानवः ॥मरुतः पिबत ऋतुना पोत्राद् यज्ञम् पुनीतन |
यूयं हि ष्ठा सुदानवः ||márutaḥ píbata ṛtúnā potrā́dyajñám punītana ǀ
yūyám hí ṣṭhā́ sudānavaḥ ǁmarutaḥ pibata ṛtunā potrād yajñam punītana |
yūyaṃ hi ṣṭhā sudānavaḥ ||मरु॑तः । पिब॑त । ऋ॒तुना॑ । पो॒त्रात् । य॒ज्ञम् । पु॒नी॒त॒न॒ ।
यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ ॥मरुतः । पिबत । ऋतुना । पोत्रात् । यज्ञम् । पुनीतन ।
यूयम् । हि । स्थ । सुऽदानवः ॥márutaḥ ǀ píbata ǀ ṛtúnā ǀ potrā́t ǀ yajñám ǀ punītana ǀ
yūyám ǀ hí ǀ sthá ǀ su-dānavaḥ ǁmarutaḥ ǀ pibata ǀ ṛtunā ǀ potrāt ǀ yajñam ǀ punītana ǀ
yūyam ǀ hi ǀ stha ǀ su-dānavaḥ ǁ1.15.2 Aṣṭaka 1.1.28.2Anuvāka 1.4.38
-
Ṛk 3
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना॑ ।
त्वं हि र॑त्न॒धा असि॑ ॥अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना |
त्वं हि रत्नधा असि ||abhí yajñám gṛṇīhi no gnā́vo néṣṭaḥ píba ṛtúnā ǀ
tvám hí ratnadhā́ ási ǁabhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā |
tvaṃ hi ratnadhā asi ||अ॒भि । य॒ज्ञम् । गृ॒णी॒हि॒ । नः॒ । ग्नावः॑ । नेष्ट॒रिति॑ । पिब॑ । ऋ॒तुना॑ ।
त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ॥अभि । यज्ञम् । गृणीहि । नः । ग्नावः । नेष्टरिति । पिब । ऋतुना ।
त्वम् । हि । रत्नऽधाः । असि ॥abhí ǀ yajñám ǀ gṛṇīhi ǀ naḥ ǀ gnā́vaḥ ǀ néṣṭaríti ǀ píba ǀ ṛtúnā ǀ
tvám ǀ hí ǀ ratna-dhā́ḥ ǀ ási ǁabhi ǀ yajñam ǀ gṛṇīhi ǀ naḥ ǀ gnāvaḥ ǀ neṣṭariti ǀ piba ǀ ṛtunā ǀ
tvam ǀ hi ǀ ratna-dhāḥ ǀ asi ǁ1.15.3 Aṣṭaka 1.1.28.3Anuvāka 1.4.39
-
Ṛk 4
अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु ।
परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥अग्ने देवां इहा वह सादया योनिषु त्रिषु |
परि भूष पिब ऋतुना ||ágne devā́m̐ ihā́ vaha sādáyā yóniṣu triṣú ǀ
pári bhūṣa píba ṛtúnā ǁagne devāṃ ihā vaha sādayā yoniṣu triṣu |
pari bhūṣa piba ṛtunā ||अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । सा॒दय॑ । योनि॑षु । त्रि॒षु ।
परि॑ । भू॒ष॒ । पिब॑ । ऋ॒तुना॑ ॥अग्ने । देवान् । इह । आ । वह । सादय । योनिषु । त्रिषु ।
परि । भूष । पिब । ऋतुना ॥ágne ǀ devā́n ǀ ihá ǀ ā́ ǀ vaha ǀ sādáya ǀ yóniṣu ǀ triṣú ǀ
pári ǀ bhūṣa ǀ píba ǀ ṛtúnā ǁagne ǀ devān ǀ iha ǀ ā ǀ vaha ǀ sādaya ǀ yoniṣu ǀ triṣu ǀ
pari ǀ bhūṣa ǀ piba ǀ ṛtunā ǁ1.15.4 Aṣṭaka 1.1.28.4Anuvāka 1.4.40
-
Ṛk 5
ब्राह्म॑णादिंद्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ ।
तवेद्धि स॒ख्यमस्तृ॑तं ॥ब्राह्मणाद् इन्द्र राधसः पिबा सोमम् ऋतूंर् अनु |
तवेद् धि सख्यम् अस्तृतम् ||brā́hmaṇādindra rā́dhasaḥ píbā sómamṛtū́m̐ránu ǀ
távéddhí sakhyámástṛtam ǁbrāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu |
taved dhi sakhyam astṛtam ||ब्राह्म॑णात् । इ॒न्द्र॒ । राध॑सः । पिब॑ । सोम॑म् । ऋ॒तून् । अनु॑ ।
तव॑ । इत् । हि । स॒ख्यम् । अस्तृ॑तम् ॥ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु ।
तव । इत् । हि । सख्यम् । अस्तृतम् ॥brā́hmaṇāt ǀ indra ǀ rā́dhasaḥ ǀ píba ǀ sómam ǀ ṛtū́n ǀ ánu ǀ
táva ǀ ít ǀ hí ǀ sakhyám ǀ ástṛtam ǁbrāhmaṇāt ǀ indra ǀ rādhasaḥ ǀ piba ǀ somam ǀ ṛtūn ǀ anu ǀ
tava ǀ it ǀ hi ǀ sakhyam ǀ astṛtam ǁ1.15.5 Aṣṭaka 1.1.28.5Anuvāka 1.4.41
-
Ṛk 6
यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभं॑ ।
ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥युवं दक्षं धृतव्रत मित्रावरुण दूऌअभम् |
ऋतुना यज्ञम् आशाथे ||yuvám dákṣam dhṛtavrata mítrāvaruṇa dūḷábham ǀ
ṛtúnā yajñámāśāthe ǁyuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham |
ṛtunā yajñam āśāthe ||यु॒वम् । दक्ष॑म् । धृ॒त॒ऽव्र॒ता॒ । मित्रा॑वरुणा । दुः॒ऽदभ॑म् ।
ऋ॒तुना॑ । य॒ज्ञम् । आ॒शा॒थे॒ इति॑ ॥युवम् । दक्षम् । धृतऽव्रता । मित्रावरुणा । दुःऽदभम् ।
ऋतुना । यज्ञम् । आशाथे इति ॥yuvám ǀ dákṣam ǀ dhṛta-vratā ǀ mítrāvaruṇā ǀ duḥ-dábham ǀ
ṛtúnā ǀ yajñám ǀ āśāthe íti ǁyuvam ǀ dakṣam ǀ dhṛta-vratā ǀ mitrāvaruṇā ǀ duḥ-dabham ǀ
ṛtunā ǀ yajñam ǀ āśāthe iti ǁ1.15.6 Aṣṭaka 1.1.28.6Anuvāka 1.4.42
-
Ṛk 7
द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे ।
य॒ज्ञेषु॑ दे॒वमी॑ळते ॥द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे |
यज्ञेषु देवम् ईऌअते ||draviṇodā́ dráviṇaso grā́vahastāso adhvaré ǀ
yajñéṣu devámīḷate ǁdraviṇodā draviṇaso grāvahastāso adhvare |
yajñeṣu devam īḷate ||द्र॒वि॒णः॒ऽदाः । द्रवि॑णसः । ग्राव॑ऽहस्तासः । अ॒ध्व॒रे ।
य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥द्रविणःऽदाः । द्रविणसः । ग्रावऽहस्तासः । अध्वरे ।
यज्ञेषु । देवम् । ईळते ॥draviṇaḥ-dā́ḥ ǀ dráviṇasaḥ ǀ grā́va-hastāsaḥ ǀ adhvaré ǀ
yajñéṣu ǀ devám ǀ īḷate ǁdraviṇaḥ-dāḥ ǀ draviṇasaḥ ǀ grāva-hastāsaḥ ǀ adhvare ǀ
yajñeṣu ǀ devam ǀ īḷate ǁ1.15.7 Aṣṭaka 1.1.29.1Anuvāka 1.4.43
-
Ṛk 8
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे ।
दे॒वेषु॒ ता व॑नामहे ॥द्रविणोदा ददातु नो वसूनि यानि शृण्विरे |
देवेषु ता वनामहे ||draviṇodā́ dadātu no vásūni yā́ni śṛṇviré ǀ
devéṣu tā́ vanāmahe ǁdraviṇodā dadātu no vasūni yāni śṛṇvire |
deveṣu tā vanāmahe ||द्र॒वि॒णः॒ऽदाः । द॒दा॒तु॒ । नः॒ । वसू॑नि । यानि॑ । शृ॒ण्वि॒रे ।
दे॒वेषु॑ । ता । व॒ना॒म॒हे॒ ॥द्रविणःऽदाः । ददातु । नः । वसूनि । यानि । शृण्विरे ।
देवेषु । ता । वनामहे ॥draviṇaḥ-dā́ḥ ǀ dadātu ǀ naḥ ǀ vásūni ǀ yā́ni ǀ śṛṇviré ǀ
devéṣu ǀ tā́ ǀ vanāmahe ǁdraviṇaḥ-dāḥ ǀ dadātu ǀ naḥ ǀ vasūni ǀ yāni ǀ śṛṇvire ǀ
deveṣu ǀ tā ǀ vanāmahe ǁ1.15.8 Aṣṭaka 1.1.29.2Anuvāka 1.4.44
-
Ṛk 9
द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत ।
ने॒ष्ट्रादृ॒तुभि॑रिष्यत ॥द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत |
नेष्ट्राद् ऋतुभिर् इष्यत ||draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭhata ǀ
neṣṭrā́dṛtúbhiriṣyata ǁdraviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
neṣṭrād ṛtubhir iṣyata ||द्र॒वि॒णः॒ऽदाः । पि॒पी॒ष॒ति॒ । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ ।
ने॒ष्ट्रात् । ऋ॒तुऽभिः॑ । इ॒ष्य॒त॒ ॥द्रविणःऽदाः । पिपीषति । जुहोत । प्र । च । तिष्ठत ।
नेष्ट्रात् । ऋतुऽभिः । इष्यत ॥draviṇaḥ-dā́ḥ ǀ pipīṣati ǀ juhóta ǀ prá ǀ ca ǀ tiṣṭhata ǀ
neṣṭrā́t ǀ ṛtú-bhiḥ ǀ iṣyata ǁdraviṇaḥ-dāḥ ǀ pipīṣati ǀ juhota ǀ pra ǀ ca ǀ tiṣṭhata ǀ
neṣṭrāt ǀ ṛtu-bhiḥ ǀ iṣyata ǁ1.15.9 Aṣṭaka 1.1.29.3Anuvāka 1.4.45
-
Ṛk 10
यत्त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे ।
अध॑ स्मा नो द॒दिर्भ॑व ॥यत् त्वा तुरीयम् ऋतुभिर् द्रविणोदो यजामहे |
अध स्मा नो ददिर् भव ||yáttvā turī́yamṛtúbhirdráviṇodo yájāmahe ǀ
ádha smā no dadírbhava ǁyat tvā turīyam ṛtubhir draviṇodo yajāmahe |
adha smā no dadir bhava ||यत् । त्वा॒ । तु॒रीय॑म् । ऋ॒तुऽभिः॑ । द्रवि॑णःऽदः । यजा॑महे ।
अध॑ । स्म॒ । नः॒ । द॒दिः । भ॒व॒ ॥यत् । त्वा । तुरीयम् । ऋतुऽभिः । द्रविणःऽदः । यजामहे ।
अध । स्म । नः । ददिः । भव ॥yát ǀ tvā ǀ turī́yam ǀ ṛtú-bhiḥ ǀ dráviṇaḥ-daḥ ǀ yájāmahe ǀ
ádha ǀ sma ǀ naḥ ǀ dadíḥ ǀ bhava ǁyat ǀ tvā ǀ turīyam ǀ ṛtu-bhiḥ ǀ draviṇaḥ-daḥ ǀ yajāmahe ǀ
adha ǀ sma ǀ naḥ ǀ dadiḥ ǀ bhava ǁ1.15.10 Aṣṭaka 1.1.29.4Anuvāka 1.4.46
-
Ṛk 11
अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता ।
ऋ॒तुना॑ यज्ञवाहसा ॥अश्विना पिबतम् मधु दीद्यग्नी शुचिव्रता |
ऋतुना यज्ञवाहसा ||áśvinā píbatam mádhu dī́dyagnī śucivratā ǀ
ṛtúnā yajñavāhasā ǁaśvinā pibatam madhu dīdyagnī śucivratā |
ṛtunā yajñavāhasā ||अश्वि॑ना । पिब॑तम् । मधु॑ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी । शु॒चि॒ऽव्र॒ता॒ ।
ऋ॒तुना॑ । य॒ज्ञ॒ऽवा॒ह॒सा॒ ॥अश्विना । पिबतम् । मधु । दीद्यग्नी इति दीदिऽअग्नी । शुचिऽव्रता ।
ऋतुना । यज्ञऽवाहसा ॥áśvinā ǀ píbatam ǀ mádhu ǀ dī́dyagnī íti dī́di-agnī ǀ śuci-vratā ǀ
ṛtúnā ǀ yajña-vāhasā ǁaśvinā ǀ pibatam ǀ madhu ǀ dīdyagnī iti dīdi-agnī ǀ śuci-vratā ǀ
ṛtunā ǀ yajña-vāhasā ǁ1.15.11 Aṣṭaka 1.1.29.5Anuvāka 1.4.47
-
Ṛk 12
गार्ह॑पत्येन संत्य ऋ॒तुना॑ यज्ञ॒नीर॑सि ।
दे॒वांदे॑वय॒ते य॑ज ॥गार्हपत्येन सन्त्य ऋतुना यज्ञनीर् असि |
देवान् देवयते यज ||gā́rhapatyena santya ṛtúnā yajñanī́rasi ǀ
devā́ndevayaté yaja ǁgārhapatyena santya ṛtunā yajñanīr asi |
devān devayate yaja ||गार्ह॑ऽपत्येन । स॒न्त्य॒ । ऋ॒तुना॑ । य॒ज्ञ॒ऽनीः । अ॒सि॒ ।
दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥गार्हऽपत्येन । सन्त्य । ऋतुना । यज्ञऽनीः । असि ।
देवान् । देवऽयते । यज ॥gā́rha-patyena ǀ santya ǀ ṛtúnā ǀ yajña-nī́ḥ ǀ asi ǀ
devā́n ǀ deva-yaté ǀ yaja ǁgārha-patyena ǀ santya ǀ ṛtunā ǀ yajña-nīḥ ǀ asi ǀ
devān ǀ deva-yate ǀ yaja ǁ1.15.12 Aṣṭaka 1.1.29.6Anuvāka 1.4.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.