Sūkta 140
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Jagatī Or Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1, 5, 8); virāḍjagatī (2, 7, 11); nicṛjjagatī (3, 4, 9); nicṛttriṣṭup (10, 12); bhuriktriṣṭup (6); paṅktiḥ (13)
2nd set of styles jagatī (1-9, 11); triṣṭubh (12-13); jagatī or triṣṭubh (10)
-
Ṛk 1
वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।
वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हनं॑ ॥वेदिषदे प्रियधामाय सुद्युते धासिम् इव प्र भरा योनिम् अग्नये |
वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ||vediṣáde priyádhāmāya sudyúte dhāsímiva prá bharā yónimagnáye ǀ
vástreṇeva vāsayā mánmanā śúcim jyotī́ratham śukrávarṇam tamohánam ǁvediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye |
vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam ||वे॒दि॒ऽसदे॑ । प्रि॒यऽधा॑माय । सु॒ऽद्युते॑ । धा॒सिम्ऽइ॑व । प्र । भ॒र॒ । योनि॑म् । अ॒ग्नये॑ ।
वस्त्रे॑णऽइव । वा॒स॒य॒ । मन्म॑ना । शुचि॑म् । ज्यो॒तिःऽर॑थम् । शु॒क्रऽव॑र्णम् । त॒मः॒ऽहन॑म् ॥वेदिऽसदे । प्रियऽधामाय । सुऽद्युते । धासिम्ऽइव । प्र । भर । योनिम् । अग्नये ।
वस्त्रेणऽइव । वासय । मन्मना । शुचिम् । ज्योतिःऽरथम् । शुक्रऽवर्णम् । तमःऽहनम् ॥vedi-sáde ǀ priyá-dhāmāya ǀ su-dyúte ǀ dhāsím-iva ǀ prá ǀ bhara ǀ yónim ǀ agnáye ǀ
vástreṇa-iva ǀ vāsaya ǀ mánmanā ǀ śúcim ǀ jyotíḥ-ratham ǀ śukrá-varṇam ǀ tamaḥ-hánam ǁvedi-sade ǀ priya-dhāmāya ǀ su-dyute ǀ dhāsim-iva ǀ pra ǀ bhara ǀ yonim ǀ agnaye ǀ
vastreṇa-iva ǀ vāsaya ǀ manmanā ǀ śucim ǀ jyotiḥ-ratham ǀ śukra-varṇam ǀ tamaḥ-hanam ǁ1.140.1 Aṣṭaka 2.2.5.0
-
Ṛk 2
अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ ।
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः |
अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट वारणः ||abhí dvijánmā trivṛ́dánnamṛjyate saṃvatsaré vāvṛdhe jagdhámī púnaḥ ǀ
anyásyāsā́ jihváyā jényo vṛ́ṣā nyányéna vaníno mṛṣṭa vāraṇáḥ ǁabhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ |
anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ ||अ॒भि । द्वि॒ऽजन्मा॑ । त्रि॒ऽवृत् । अन्न॑म् । ऋ॒ज्य॒ते॒ । सं॒व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒मिति॑ । पुन॒रिति॑ ।
अ॒न्यस्य॑ । आ॒सा । जि॒ह्वया॑ । जेन्यः॑ । वृषा॑ । नि । अ॒न्येन॑ । व॒निनः॑ । मृ॒ष्ट॒ । वा॒र॒णः ॥अभि । द्विऽजन्मा । त्रिऽवृत् । अन्नम् । ऋज्यते । संवत्सरे । ववृधे । जग्धम् । ईमिति । पुनरिति ।
अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः ॥abhí ǀ dvi-jánmā ǀ tri-vṛ́t ǀ ánnam ǀ ṛjyate ǀ saṃvatsaré ǀ vavṛdhe ǀ jagdhám ǀ īmíti ǀ púnaríti ǀ
anyásya ǀ āsā́ ǀ jihváyā ǀ jényaḥ ǀ vṛ́ṣā ǀ ní ǀ anyéna ǀ vanínaḥ ǀ mṛṣṭa ǀ vāraṇáḥ ǁabhi ǀ dvi-janmā ǀ tri-vṛt ǀ annam ǀ ṛjyate ǀ saṃvatsare ǀ vavṛdhe ǀ jagdham ǀ īmiti ǀ punariti ǀ
anyasya ǀ āsā ǀ jihvayā ǀ jenyaḥ ǀ vṛṣā ǀ ni ǀ anyena ǀ vaninaḥ ǀ mṛṣṭa ǀ vāraṇaḥ ǁ1.140.2 Aṣṭaka 2.2.5.0
-
Ṛk 3
कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशुं॑ ।
प्रा॒चाजि॑ह्वं ध्व॒सयं॑तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् |
प्राचाजिह्वं ध्वसयन्तं तृषुच्युतम् आ साच्यं कुपयं वर्धनम् पितुः ||kṛṣṇaprútau vevijé asya sakṣítā ubhā́ tarete abhí mātárā śíśum ǀ
prācā́jihvam dhvasáyantam tṛṣucyútamā́ sā́cyam kúpayam várdhanam pitúḥ ǁkṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum |
prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ ||कृ॒ष्ण॒ऽप्रुतौ॑ । वे॒वि॒जे इति॑ । अ॒स्य॒ । स॒ऽक्षितौ॑ । उ॒भा । त॒रे॒ते॒ इति॑ । अ॒भि । मा॒तरा॑ । शिशु॑म् ।
प्रा॒चाऽजि॑ह्वम् । ध्व॒सय॑न्तम् । तृ॒षु॒ऽच्युत॑म् । आ । साच्य॑म् । कुप॑यम् । वर्ध॑नम् । पि॒तुः ॥कृष्णऽप्रुतौ । वेविजे इति । अस्य । सऽक्षितौ । उभा । तरेते इति । अभि । मातरा । शिशुम् ।
प्राचाऽजिह्वम् । ध्वसयन्तम् । तृषुऽच्युतम् । आ । साच्यम् । कुपयम् । वर्धनम् । पितुः ॥kṛṣṇa-prútau ǀ vevijé íti ǀ asya ǀ sa-kṣítau ǀ ubhā́ ǀ tarete íti ǀ abhí ǀ mātárā ǀ śíśum ǀ
prācā́-jihvam ǀ dhvasáyantam ǀ tṛṣu-cyútam ǀ ā́ ǀ sā́cyam ǀ kúpayam ǀ várdhanam ǀ pitúḥ ǁkṛṣṇa-prutau ǀ vevije iti ǀ asya ǀ sa-kṣitau ǀ ubhā ǀ tarete iti ǀ abhi ǀ mātarā ǀ śiśum ǀ
prācā-jihvam ǀ dhvasayantam ǀ tṛṣu-cyutam ǀ ā ǀ sācyam ǀ kupayam ǀ vardhanam ǀ pituḥ ǁ1.140.3 Aṣṭaka 2.2.5.0
-
Ṛk 4
मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी॑तास ऊ॒ जुवः॑ ।
अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यंत आ॒शवः॑ ॥मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः |
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ||mumukṣvó mánave mānavasyaté raghudrúvaḥ kṛṣṇásītāsa ū júvaḥ ǀ
asamanā́ ajirā́so raghuṣyádo vā́tajūtā úpa yujyanta āśávaḥ ǁmumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ |
asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ ||मु॒मु॒क्ष्वः॑ । मन॑वे । मा॒न॒व॒स्य॒ते । र॒घु॒ऽद्रुवः॑ । कृ॒ष्णऽसी॑तासः । ऊं॒ इति॑ । जुवः॑ ।
अ॒स॒म॒नाः । अ॒जि॒रासः॑ । र॒घु॒ऽस्यदः॑ । वात॑ऽजूताः । उप॑ । यु॒ज्य॒न्ते॒ । आ॒शवः॑ ॥मुमुक्ष्वः । मनवे । मानवस्यते । रघुऽद्रुवः । कृष्णऽसीतासः । ऊं इति । जुवः ।
असमनाः । अजिरासः । रघुऽस्यदः । वातऽजूताः । उप । युज्यन्ते । आशवः ॥mumukṣváḥ ǀ mánave ǀ mānavasyaté ǀ raghu-drúvaḥ ǀ kṛṣṇá-sītāsaḥ ǀ ūṃ íti ǀ júvaḥ ǀ
asamanā́ḥ ǀ ajirā́saḥ ǀ raghu-syádaḥ ǀ vā́ta-jūtāḥ ǀ úpa ǀ yujyante ǀ āśávaḥ ǁmumukṣvaḥ ǀ manave ǀ mānavasyate ǀ raghu-druvaḥ ǀ kṛṣṇa-sītāsaḥ ǀ ūṃ iti ǀ juvaḥ ǀ
asamanāḥ ǀ ajirāsaḥ ǀ raghu-syadaḥ ǀ vāta-jūtāḥ ǀ upa ǀ yujyante ǀ āśavaḥ ǁ1.140.4 Aṣṭaka 2.2.5.0
-
Ṛk 5
आद॑स्य॒ ते ध्व॒सयं॑तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः ।
यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥आद् अस्य ते ध्वसयन्तो वृथेरते कृष्णम् अभ्वम् महि वर्पः करिक्रतः |
यत् सीम् महीम् अवनिम् प्राभि मर्मृशद् अभिश्वसन् स्तनयन्न् एति नानदत् ||ā́dasya té dhvasáyanto vṛ́therate kṛṣṇámábhvam máhi várpaḥ kárikrataḥ ǀ
yátsīm mahī́mavánim prā́bhí mármṛśadabhiśvasántstanáyannéti nā́nadat ǁād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ |
yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat ||आत् । अ॒स्य॒ । ते । ध्व॒सय॑न्तः । वृथा॑ । ई॒र॒ते॒ । कृ॒ष्णम् । अभ्व॑म् । महि॑ । वर्पः॑ । करि॑क्रतः ।
यत् । सी॒म् । म॒हीम् । अ॒वनि॑म् । प्र । अ॒भि । मर्मृ॑शत् । अ॒भि॒ऽश्व॒सन् । स्त॒नय॑न् । एति॑ । नान॑दत् ॥आत् । अस्य । ते । ध्वसयन्तः । वृथा । ईरते । कृष्णम् । अभ्वम् । महि । वर्पः । करिक्रतः ।
यत् । सीम् । महीम् । अवनिम् । प्र । अभि । मर्मृशत् । अभिऽश्वसन् । स्तनयन् । एति । नानदत् ॥ā́t ǀ asya ǀ té ǀ dhvasáyantaḥ ǀ vṛ́thā ǀ īrate ǀ kṛṣṇám ǀ ábhvam ǀ máhi ǀ várpaḥ ǀ kárikrataḥ ǀ
yát ǀ sīm ǀ mahī́m ǀ avánim ǀ prá ǀ abhí ǀ mármṛśat ǀ abhi-śvasán ǀ stanáyan ǀ éti ǀ nā́nadat ǁāt ǀ asya ǀ te ǀ dhvasayantaḥ ǀ vṛthā ǀ īrate ǀ kṛṣṇam ǀ abhvam ǀ mahi ǀ varpaḥ ǀ karikrataḥ ǀ
yat ǀ sīm ǀ mahīm ǀ avanim ǀ pra ǀ abhi ǀ marmṛśat ǀ abhi-śvasan ǀ stanayan ǀ eti ǀ nānadat ǁ1.140.5 Aṣṭaka 2.2.5.0
-
Ṛk 6
भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।
ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुंभते भी॒मो न शृंगा॑ दविधाव दु॒र्गृभिः॑ ॥भूषन् न यो ऽधि बभ्रूषु नम्नते वृषेव पत्नीर् अभ्य् एति रोरुवत् |
ओजायमानस् तन्वश् च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ||bhū́ṣanná yó’dhi babhrū́ṣu námnate vṛ́ṣeva pátnīrabhyéti róruvat ǀ
ojāyámānastanváśca śumbhate bhīmó ná śṛ́ṅgā davidhāva durgṛ́bhiḥ ǁbhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat |
ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ ||भूष॑न् । न । यः । अधि॑ । ब॒भ्रूषु॑ । नम्न॑ते । वृषा॑ऽइव । पत्नीः॑ । अ॒भि । ए॒ति॒ । रोरु॑वत् ।
ओ॒जा॒यमा॑नः । त॒न्वः॑ । च॒ । शु॒म्भ॒ते॒ । भी॒मः । न । शृङ्गा॑ । द॒वि॒धा॒व॒ । दुः॒ऽगृभिः॑ ॥भूषन् । न । यः । अधि । बभ्रूषु । नम्नते । वृषाऽइव । पत्नीः । अभि । एति । रोरुवत् ।
ओजायमानः । तन्वः । च । शुम्भते । भीमः । न । शृङ्गा । दविधाव । दुःऽगृभिः ॥bhū́ṣan ǀ ná ǀ yáḥ ǀ ádhi ǀ babhrū́ṣu ǀ námnate ǀ vṛ́ṣā-iva ǀ pátnīḥ ǀ abhí ǀ eti ǀ róruvat ǀ
ojāyámānaḥ ǀ tanváḥ ǀ ca ǀ śumbhate ǀ bhīmáḥ ǀ ná ǀ śṛ́ṅgā ǀ davidhāva ǀ duḥ-gṛ́bhiḥ ǁbhūṣan ǀ na ǀ yaḥ ǀ adhi ǀ babhrūṣu ǀ namnate ǀ vṛṣā-iva ǀ patnīḥ ǀ abhi ǀ eti ǀ roruvat ǀ
ojāyamānaḥ ǀ tanvaḥ ǀ ca ǀ śumbhate ǀ bhīmaḥ ǀ na ǀ śṛṅgā ǀ davidhāva ǀ duḥ-gṛbhiḥ ǁ1.140.6 Aṣṭaka 2.2.6.0
-
Ṛk 7
स सं॒स्तिरो॑ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।
पुन॑र्वर्धंते॒ अपि॑ यंति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥स संस्तिरो विष्टिरः सं गृभायति जानन्न् एव जानतीर् नित्य आ शये |
पुनर् वर्धन्ते अपि यन्ति देव्यम् अन्यद् वर्पः पित्रोः कृण्वते सचा ||sá saṃstíro viṣṭíraḥ sám gṛbhāyati jānánnevá jānatī́rnítya ā́ śaye ǀ
púnarvardhante ápi yanti devyámanyádvárpaḥ pitróḥ kṛṇvate sácā ǁsa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye |
punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā ||सः । स॒म्ऽस्तिरः॑ । वि॒ऽस्तिरः॑ । सम् । गृ॒भा॒य॒ति॒ । जा॒नन् । ए॒व । जा॒न॒तीः । नित्यः॑ । आ । श॒ये॒ ।
पुनः॑ । व॒र्ध॒न्ते॒ । अपि॑ । य॒न्ति॒ । दे॒व्य॑म् । अ॒न्यत् । वर्पः॑ । पि॒त्रोः । कृ॒ण्व॒ते॒ । सचा॑ ॥सः । सम्ऽस्तिरः । विऽस्तिरः । सम् । गृभायति । जानन् । एव । जानतीः । नित्यः । आ । शये ।
पुनः । वर्धन्ते । अपि । यन्ति । देव्यम् । अन्यत् । वर्पः । पित्रोः । कृण्वते । सचा ॥sáḥ ǀ sam-stíraḥ ǀ vi-stíraḥ ǀ sám ǀ gṛbhāyati ǀ jānán ǀ evá ǀ jānatī́ḥ ǀ nítyaḥ ǀ ā́ ǀ śaye ǀ
púnaḥ ǀ vardhante ǀ ápi ǀ yanti ǀ devyám ǀ anyát ǀ várpaḥ ǀ pitróḥ ǀ kṛṇvate ǀ sácā ǁsaḥ ǀ sam-stiraḥ ǀ vi-stiraḥ ǀ sam ǀ gṛbhāyati ǀ jānan ǀ eva ǀ jānatīḥ ǀ nityaḥ ǀ ā ǀ śaye ǀ
punaḥ ǀ vardhante ǀ api ǀ yanti ǀ devyam ǀ anyat ǀ varpaḥ ǀ pitroḥ ǀ kṛṇvate ǀ sacā ǁ1.140.7 Aṣṭaka 2.2.6.0
-
Ṛk 8
तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ ।
तासां॑ ज॒रां प्र॑मुं॒चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नयं॑जी॒वमस्तृ॑तं ॥तम् अग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास् तस्थुर् मम्रुषीः प्रायवे पुनः |
तासां जराम् प्रमुञ्चन्न् एति नानदद् असुम् परं जनयञ् जीवम् अस्तृतम् ||támagrúvaḥ keśínīḥ sám hí rebhirá ūrdhvā́stasthurmamrúṣīḥ prā́yáve púnaḥ ǀ
tā́sām jarā́m pramuñcánneti nā́nadadásum páram janáyañjīvámástṛtam ǁtam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ |
tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam ||तम् । अ॒ग्रुवः॑ । के॒शिनीः॑ । सम् । हि । रे॒भि॒रे । ऊ॒र्ध्वाः । त॒स्थुः॒ । म॒म्रुषीः॑ । प्र । आ॒यवे॑ । पुन॒रिति॑ ।
तासा॑म् । ज॒राम् । प्र॑ऽमु॒ञ्चन् । ए॒ति॒ । नान॑दत् । असु॑म् । पर॑म् । ज॒नय॑न् । जी॒वम् । अस्तृ॑तम् ॥तम् । अग्रुवः । केशिनीः । सम् । हि । रेभिरे । ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र । आयवे । पुनरिति ।
तासाम् । जराम् । प्रऽमुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन् । जीवम् । अस्तृतम् ॥tám ǀ agrúvaḥ ǀ keśínīḥ ǀ sám ǀ hí ǀ rebhiré ǀ ūrdhvā́ḥ ǀ tasthuḥ ǀ mamrúṣīḥ ǀ prá ǀ āyáve ǀ púnaríti ǀ
tā́sām ǀ jarā́m ǀ prá-muñcán ǀ eti ǀ nā́nadat ǀ ásum ǀ páram ǀ janáyan ǀ jīvám ǀ ástṛtam ǁtam ǀ agruvaḥ ǀ keśinīḥ ǀ sam ǀ hi ǀ rebhire ǀ ūrdhvāḥ ǀ tasthuḥ ǀ mamruṣīḥ ǀ pra ǀ āyave ǀ punariti ǀ
tāsām ǀ jarām ǀ pra-muñcan ǀ eti ǀ nānadat ǀ asum ǀ param ǀ janayan ǀ jīvam ǀ astṛtam ǁ1.140.8 Aṣṭaka 2.2.6.0
-
Ṛk 9
अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ ।
वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥अधीवासम् परि मातू रिहन्न् अह तुविग्रेभिः सत्वभिर् याति वि ज्रयः |
वयो दधत् पद्वते रेरिहत् सदानु श्येनी सचते वर्तनीर् अह ||adhīvāsám pári mātū́ rihánnáha tuvigrébhiḥ sátvabhiryāti ví jráyaḥ ǀ
váyo dádhatpadváte rérihatsádā́nu śyénī sacate vartanī́ráha ǁadhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ |
vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha ||अ॒धी॒वा॒सम् । परि॑ । मा॒तुः । रि॒हन् । अह॑ । तु॒वि॒ऽग्रेभिः॑ । सत्व॑ऽभिः । या॒ति॒ । वि । ज्रयः॑ ।
वयः॑ । दध॑त् । प॒त्ऽवते॑ । रेरि॑हत् । सदा॑ । अनु॑ । श्येनी॑ । स॒च॒ते॒ । व॒र्त॒निः । अह॑ ॥अधीवासम् । परि । मातुः । रिहन् । अह । तुविऽग्रेभिः । सत्वऽभिः । याति । वि । ज्रयः ।
वयः । दधत् । पत्ऽवते । रेरिहत् । सदा । अनु । श्येनी । सचते । वर्तनिः । अह ॥adhīvāsám ǀ pári ǀ mātúḥ ǀ rihán ǀ áha ǀ tuvi-grébhiḥ ǀ sátva-bhiḥ ǀ yāti ǀ ví ǀ jráyaḥ ǀ
váyaḥ ǀ dádhat ǀ pat-váte ǀ rérihat ǀ sádā ǀ ánu ǀ śyénī ǀ sacate ǀ vartaníḥ ǀ áha ǁadhīvāsam ǀ pari ǀ mātuḥ ǀ rihan ǀ aha ǀ tuvi-grebhiḥ ǀ satva-bhiḥ ǀ yāti ǀ vi ǀ jrayaḥ ǀ
vayaḥ ǀ dadhat ǀ pat-vate ǀ rerihat ǀ sadā ǀ anu ǀ śyenī ǀ sacate ǀ vartaniḥ ǀ aha ǁ1.140.9 Aṣṭaka 2.2.6.0
-
Ṛk 10
अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।
अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥अस्माकम् अग्ने मघवत्सु दीदिह्य् अध श्वसीवान् वृषभो दमूनाः |
अवास्या शिशुमतीर् अदीदेर् वर्मेव युत्सु परिजर्भुराणः ||asmā́kamagne maghávatsu dīdihyádha śvásīvānvṛṣabhó dámūnāḥ ǀ
avā́syā śíśumatīradīdervármeva yutsú parijárbhurāṇaḥ ǁasmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ |
avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ ||अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । दी॒दि॒हि॒ । अध॑ । श्वसी॑वान् । वृ॒ष॒भः । दमू॑नाः ।
अ॒व॒ऽअस्य॑ । शिशु॑ऽमतीः । अ॒दी॒देः॒ । वर्म॑ऽइव । यु॒त्ऽसु । प॒रि॒ऽजर्भु॑राणः ॥अस्माकम् । अग्ने । मघवत्ऽसु । दीदिहि । अध । श्वसीवान् । वृषभः । दमूनाः ।
अवऽअस्य । शिशुऽमतीः । अदीदेः । वर्मऽइव । युत्ऽसु । परिऽजर्भुराणः ॥asmā́kam ǀ agne ǀ maghávat-su ǀ dīdihi ǀ ádha ǀ śvásīvān ǀ vṛṣabháḥ ǀ dámūnāḥ ǀ
ava-ásya ǀ śíśu-matīḥ ǀ adīdeḥ ǀ várma-iva ǀ yut-sú ǀ pari-járbhurāṇaḥ ǁasmākam ǀ agne ǀ maghavat-su ǀ dīdihi ǀ adha ǀ śvasīvān ǀ vṛṣabhaḥ ǀ damūnāḥ ǀ
ava-asya ǀ śiśu-matīḥ ǀ adīdeḥ ǀ varma-iva ǀ yut-su ǀ pari-jarbhurāṇaḥ ǁ1.140.10 Aṣṭaka 2.2.6.0
-
Ṛk 11
इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो॑ अस्तु ते ।
यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वं ॥इदम् अग्ने सुधितं दुर्धिताद् अधि प्रियाद् उ चिन् मन्मनः प्रेयो अस्तु ते |
यत् ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नम् आ त्वम् ||idámagne súdhitam dúrdhitādádhi priyā́du cinmánmanaḥ préyo astu te ǀ
yátte śukrám tanvó rócate śúci ténāsmábhyam vanase rátnamā́ tvám ǁidam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te |
yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam ||इ॒दम् । अ॒ग्ने॒ । सुऽधि॑तम् । दुःऽधि॑तात् । अधि॑ । प्रि॒यात् । ऊं॒ इति॑ । चि॒त् । मन्म॑नः । प्रेयः॑ । अ॒स्तु॒ । ते॒ ।
यत् । ते॒ । शु॒क्रम् । त॒न्वः॑ । रोच॑ते । शुचि॑ । तेन॑ । अ॒स्मभ्य॑म् । व॒न॒से॒ । रत्न॑म् । आ । त्वम् ॥इदम् । अग्ने । सुऽधितम् । दुःऽधितात् । अधि । प्रियात् । ऊं इति । चित् । मन्मनः । प्रेयः । अस्तु । ते ।
यत् । ते । शुक्रम् । तन्वः । रोचते । शुचि । तेन । अस्मभ्यम् । वनसे । रत्नम् । आ । त्वम् ॥idám ǀ agne ǀ sú-dhitam ǀ dúḥ-dhitāt ǀ ádhi ǀ priyā́t ǀ ūṃ íti ǀ cit ǀ mánmanaḥ ǀ préyaḥ ǀ astu ǀ te ǀ
yát ǀ te ǀ śukrám ǀ tanváḥ ǀ rócate ǀ śúci ǀ téna ǀ asmábhyam ǀ vanase ǀ rátnam ǀ ā́ ǀ tvám ǁidam ǀ agne ǀ su-dhitam ǀ duḥ-dhitāt ǀ adhi ǀ priyāt ǀ ūṃ iti ǀ cit ǀ manmanaḥ ǀ preyaḥ ǀ astu ǀ te ǀ
yat ǀ te ǀ śukram ǀ tanvaḥ ǀ rocate ǀ śuci ǀ tena ǀ asmabhyam ǀ vanase ǀ ratnam ǀ ā ǀ tvam ǁ1.140.11 Aṣṭaka 2.2.7.0
-
Ṛk 12
रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।
अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनां॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥रथाय नावम् उत नो गृहाय नित्यारित्राम् पद्वतीं रास्य् अग्ने |
अस्माकं वीरां उत नो मघोनो जनांश् च या पारयाच् छर्म या च ||ráthāya nā́vamutá no gṛhā́ya nítyāritrām padvátīm rāsyagne ǀ
asmā́kam vīrā́m̐ utá no maghóno jánāṃśca yā́ pāráyācchárma yā́ ca ǁrathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne |
asmākaṃ vīrāṃ uta no maghono janāṃś ca yā pārayāc charma yā ca ||रथा॑य । नाव॑म् । उ॒त । नः॒ । गृ॒हाय॑ । नित्य॑ऽअरित्राम् । प॒त्ऽवती॑म् । रा॒सि॒ । अ॒ग्ने॒ ।
अ॒स्माक॑म् । वी॒रान् । उ॒त । नः॒ । म॒घोनः॑ । जना॑न् । च॒ । या । पा॒रया॑त् । शर्म॑ । या । च॒ ॥रथाय । नावम् । उत । नः । गृहाय । नित्यऽअरित्राम् । पत्ऽवतीम् । रासि । अग्ने ।
अस्माकम् । वीरान् । उत । नः । मघोनः । जनान् । च । या । पारयात् । शर्म । या । च ॥ráthāya ǀ nā́vam ǀ utá ǀ naḥ ǀ gṛhā́ya ǀ nítya-aritrām ǀ pat-vátīm ǀ rāsi ǀ agne ǀ
asmā́kam ǀ vīrā́n ǀ utá ǀ naḥ ǀ maghónaḥ ǀ jánān ǀ ca ǀ yā́ ǀ pāráyāt ǀ śárma ǀ yā́ ǀ ca ǁrathāya ǀ nāvam ǀ uta ǀ naḥ ǀ gṛhāya ǀ nitya-aritrām ǀ pat-vatīm ǀ rāsi ǀ agne ǀ
asmākam ǀ vīrān ǀ uta ǀ naḥ ǀ maghonaḥ ǀ janān ǀ ca ǀ yā ǀ pārayāt ǀ śarma ǀ yā ǀ ca ǁ1.140.12 Aṣṭaka 2.2.7.0
-
Ṛk 13
अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिंध॑वश्च॒ स्वगू॑र्ताः ।
गव्यं॒ यव्यं॒ यंतो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरंत ॥अभी नो अग्न उक्थम् इज् जुगुर्या द्यावाक्षामा सिन्धवश् च स्वगूर्ताः |
गव्यं यव्यं यन्तो दीर्घाहेषं वरम् अरुण्यो वरन्त ||abhī́ no agna ukthámíjjuguryā dyā́vākṣā́mā síndhavaśca svágūrtāḥ ǀ
gávyam yávyam yánto dīrghā́héṣam váramaruṇyó varanta ǁabhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ |
gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta ||अ॒भि । नः॒ । अ॒ग्ने॒ । उ॒क्थम् । इत् । जु॒गु॒र्याः॒ । द्यावा॒क्षामा॑ । सिन्ध॑वः । च॒ । स्वऽगू॑र्ताः ।
गव्य॑म् । यव्य॑म् । यन्तः॑ । दी॒र्घा । अहा॑ । इष॑म् । वर॑म् । अ॒रु॒ण्यः॑ । व॒र॒न्त॒ ॥अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्वऽगूर्ताः ।
गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त ॥abhí ǀ naḥ ǀ agne ǀ ukthám ǀ ít ǀ juguryāḥ ǀ dyā́vākṣā́mā ǀ síndhavaḥ ǀ ca ǀ svá-gūrtāḥ ǀ
gávyam ǀ yávyam ǀ yántaḥ ǀ dīrghā́ ǀ áhā ǀ íṣam ǀ váram ǀ aruṇyáḥ ǀ varanta ǁabhi ǀ naḥ ǀ agne ǀ uktham ǀ it ǀ juguryāḥ ǀ dyāvākṣāmā ǀ sindhavaḥ ǀ ca ǀ sva-gūrtāḥ ǀ
gavyam ǀ yavyam ǀ yantaḥ ǀ dīrghā ǀ ahā ǀ iṣam ǀ varam ǀ aruṇyaḥ ǀ varanta ǁ1.140.13 Aṣṭaka 2.2.7.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.