Ṛgveda · Maṇḍala 1 · Sūkta 140
Ṛk 1.140.2
Saṃhitā
अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ ।
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥
अभि द्विजन्मा त्रिवृद् अन्नम् ऋज्यते संवत्सरे वावृधे जग्धम् ई पुनः |
अन्यस्यासा जिह्वया जेन्यो वृषा न्य् अन्येन वनिनो मृष्ट वारणः ||
abhí dvijánmā trivṛ́dánnamṛjyate saṃvatsaré vāvṛdhe jagdhámī púnaḥ ǀ
anyásyāsā́ jihváyā jényo vṛ́ṣā nyányéna vaníno mṛṣṭa vāraṇáḥ ǁ
abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ |
anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ ||
Padapāṭha
अ॒भि । द्वि॒ऽजन्मा॑ । त्रि॒ऽवृत् । अन्न॑म् । ऋ॒ज्य॒ते॒ । सं॒व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒मिति॑ । पुन॒रिति॑ ।
अ॒न्यस्य॑ । आ॒सा । जि॒ह्वया॑ । जेन्यः॑ । वृषा॑ । नि । अ॒न्येन॑ । व॒निनः॑ । मृ॒ष्ट॒ । वा॒र॒णः ॥
अभि । द्विऽजन्मा । त्रिऽवृत् । अन्नम् । ऋज्यते । संवत्सरे । ववृधे । जग्धम् । ईमिति । पुनरिति ।
अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः ॥
abhí ǀ dvi-jánmā ǀ tri-vṛ́t ǀ ánnam ǀ ṛjyate ǀ saṃvatsaré ǀ vavṛdhe ǀ jagdhám ǀ īmíti ǀ púnaríti ǀ
anyásya ǀ āsā́ ǀ jihváyā ǀ jényaḥ ǀ vṛ́ṣā ǀ ní ǀ anyéna ǀ vanínaḥ ǀ mṛṣṭa ǀ vāraṇáḥ ǁ
abhi ǀ dvi-janmā ǀ tri-vṛt ǀ annam ǀ ṛjyate ǀ saṃvatsare ǀ vavṛdhe ǀ jagdham ǀ īmiti ǀ punariti ǀ
anyasya ǀ āsā ǀ jihvayā ǀ jenyaḥ ǀ vṛṣā ǀ ni ǀ anyena ǀ vaninaḥ ǀ mṛṣṭa ǀ vāraṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.140.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.05.00
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Jagatī Or Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.