Sūkta 136
- Devatā देवता
- 1-5: Mitra, Varuṇa; 6: Mitra, Varuṇa, Indra, Agni, Aryaman, Bhaga; 7: Agni, Mitra, Varuṇa
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
Metres by ṛk
1st set of styles virāḍatyaṣṭiḥ (1, 3, 5, 6); nicṛdatyaṣṭiḥ (2); bhurigaṣṭiḥ (4); triṣṭup (7)
2nd set of styles atyaṣṭi (1-6); triṣṭubh (7)
-
Ṛk 1
प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्यां॑ ।
ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।
अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥प्र सु ज्येष्ठं निचिराभ्याम् बृहन् नमो हव्यम् मतिम् भरता मृऌअयद्भ्यां स्वादिष्ठम् मृऌअयद्भ्याम् |
ता सम्राजा घृतासुती यज्ञे-यज्ञ उपस्तुता |
अथैनोः क्षत्रं न कुतश् चनाधृषे देवत्वं नू चिद् आधृषे ||prá sú jyéṣṭham nicirā́bhyām bṛhánnámo havyám matím bharatā mṛḷayádbhyām svā́diṣṭham mṛḷayádbhyām ǀ
tā́ samrā́jā ghṛtā́sutī yajñéyajña úpastutā ǀ
áthainoḥ kṣatrám ná kútaścanā́dhṛ́ṣe devatvám nū́ cidādhṛ́ṣe ǁpra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛḷayadbhyāṃ svādiṣṭham mṛḷayadbhyām |
tā samrājā ghṛtāsutī yajñe-yajña upastutā |
athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe ||प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् ।
ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता ।
अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥प्र । सु । ज्येष्ठम् । निऽचिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्ऽभ्याम् । स्वादिष्ठम् । मृळयत्ऽभ्याम् ।
ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । यज्ञेऽयज्ञे । उपऽस्तुता ।
अथ । एनोः । क्षत्रम् । न । कुतः । चन । आऽधृषे । देवऽत्वम् । नु । चित् । आऽधृषे ॥prá ǀ sú ǀ jyéṣṭham ǀ ni-cirā́bhyām ǀ bṛhát ǀ námaḥ ǀ havyám ǀ matím ǀ bharata ǀ mṛḷayát-bhyām ǀ svā́diṣṭham ǀ mṛḷayát-bhyām ǀ
tā́ ǀ sam-rā́jā ǀ ghṛtā́sutī íti ghṛtá-āsutī ǀ yajñé-yajñe ǀ úpa-stutā ǀ
átha ǀ enoḥ ǀ kṣatrám ǀ ná ǀ kútaḥ ǀ caná ǀ ā-dhṛ́ṣe ǀ deva-tvám ǀ nú ǀ cit ǀ ā-dhṛ́ṣe ǁpra ǀ su ǀ jyeṣṭham ǀ ni-cirābhyām ǀ bṛhat ǀ namaḥ ǀ havyam ǀ matim ǀ bharata ǀ mṛḷayat-bhyām ǀ svādiṣṭham ǀ mṛḷayat-bhyām ǀ
tā ǀ sam-rājā ǀ ghṛtāsutī iti ghṛta-āsutī ǀ yajñe-yajñe ǀ upa-stutā ǀ
atha ǀ enoḥ ǀ kṣatram ǀ na ǀ kutaḥ ǀ cana ǀ ā-dhṛṣe ǀ deva-tvam ǀ nu ǀ cit ǀ ā-dhṛṣe ǁ1.136.1 Aṣṭaka 2.1.26.1Anuvāka 1.20.16
-
Ṛk 2
अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पंथा॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ ।
द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च ।
अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वयः॑ ॥अदर्शि गातुर् उरवे वरीयसी पन्था ऋतस्य सम् अयंस्त रश्मिभिश् चक्षुर् भगस्य रश्मिभिः |
द्युक्षम् मित्रस्य सादनम् अर्यम्णो वरुणस्य च |
अथा दधाते बृहद् उक्थ्यं वय उपस्तुत्यम् बृहद् वयः ||ádarśi gātúruráve várīyasī pánthā ṛtásya sámayaṃsta raśmíbhiścákṣurbhágasya raśmíbhiḥ ǀ
dyukṣám mitrásya sā́danamaryamṇó váruṇasya ca ǀ
áthā dadhāte bṛhádukthyám váya upastútyam bṛhádváyaḥ ǁadarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ |
dyukṣam mitrasya sādanam aryamṇo varuṇasya ca |
athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ ||अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ ।
द्यु॒क्षम् । मि॒त्रस्य॑ । सद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ ।
अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मिऽभिः । चक्षुः । भगस्य । रश्मिऽभिः ।
द्युक्षम् । मित्रस्य । सदनम् । अर्यम्णः । वरुणस्य । च ।
अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपऽस्तुत्यम् । बृहत् । वयः ॥ádarśi ǀ gātúḥ ǀ uráve ǀ várīyasī ǀ pánthāḥ ǀ ṛtásya ǀ sám ǀ ayaṃsta ǀ raśmí-bhiḥ ǀ cákṣuḥ ǀ bhágasya ǀ raśmí-bhiḥ ǀ
dyukṣám ǀ mitrásya ǀ sádanam ǀ aryamṇáḥ ǀ váruṇasya ǀ ca ǀ
átha ǀ dadhāte íti ǀ bṛhát ǀ ukthyám ǀ váyaḥ ǀ upa-stútyam ǀ bṛhát ǀ váyaḥ ǁadarśi ǀ gātuḥ ǀ urave ǀ varīyasī ǀ panthāḥ ǀ ṛtasya ǀ sam ǀ ayaṃsta ǀ raśmi-bhiḥ ǀ cakṣuḥ ǀ bhagasya ǀ raśmi-bhiḥ ǀ
dyukṣam ǀ mitrasya ǀ sadanam ǀ aryamṇaḥ ǀ varuṇasya ǀ ca ǀ
atha ǀ dadhāte iti ǀ bṛhat ǀ ukthyam ǀ vayaḥ ǀ upa-stutyam ǀ bṛhat ǀ vayaḥ ǁ1.136.2 Aṣṭaka 2.1.26.2Anuvāka 1.20.17
-
Ṛk 3
ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे ।
ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ ।
मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥ज्योतिष्मतीम् अदितिं धारयत्क्षितिं स्वर्वतीम् आ सचेते दिवे-दिवे जागृवांसा दिवे-दिवे |
ज्योतिष्मत् क्षत्रम् आशाते आदित्या दानुनस् पती |
मित्रस् तयोर् वरुणो यातयज्जनो ऽर्यमा यातयज्जनः ||jyótiṣmatīmáditim dhārayátkṣitim svárvatīmā́ sacete divédive jāgṛvā́ṃsā divédive ǀ
jyótiṣmatkṣatrámāśāte ādityā́ dā́nunaspátī ǀ
mitrástáyorváruṇo yātayájjano’ryamā́ yātayájjanaḥ ǁjyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive-dive jāgṛvāṃsā dive-dive |
jyotiṣmat kṣatram āśāte ādityā dānunas patī |
mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ ||ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत्ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे ।
ज्योति॑ष्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।
मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥ज्योतिष्मतीम् । अदितिम् । धारयत्ऽक्षितिम् । स्वःऽवतीम् । आ । सचेते इति । दिवेऽदिवे । जागृऽवांसा । दिवेऽदिवे ।
ज्योतिष्मत् । क्षत्रम् । आशाते इति । आदित्या । दानुनः । पती इति ।
मित्रः । तयोः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः ॥jyótiṣmatīm ǀ áditim ǀ dhārayát-kṣitim ǀ sváḥ-vatīm ǀ ā́ ǀ sacete íti ǀ divé-dive ǀ jāgṛ-vā́ṃsā ǀ divé-dive ǀ
jyótiṣmat ǀ kṣatrám ǀ āśāte íti ǀ ādityā́ ǀ dā́nunaḥ ǀ pátī íti ǀ
mitráḥ ǀ táyoḥ ǀ váruṇaḥ ǀ yātayát-janaḥ ǀ aryamā́ ǀ yātayát-janaḥ ǁjyotiṣmatīm ǀ aditim ǀ dhārayat-kṣitim ǀ svaḥ-vatīm ǀ ā ǀ sacete iti ǀ dive-dive ǀ jāgṛ-vāṃsā ǀ dive-dive ǀ
jyotiṣmat ǀ kṣatram ǀ āśāte iti ǀ ādityā ǀ dānunaḥ ǀ patī iti ǀ
mitraḥ ǀ tayoḥ ǀ varuṇaḥ ǀ yātayat-janaḥ ǀ aryamā ǀ yātayat-janaḥ ǁ1.136.3 Aṣṭaka 2.1.26.3Anuvāka 1.20.18
-
Ṛk 4
अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः ।
तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः ।
तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥अयम् मित्राय वरुणाय शन्तमः सोमो भूत्व् अवपानेष्व् आभगो देवो देवेष्व् आभगः |
तं देवासो जुषेरत विश्वे अद्य सजोषसः |
तथा राजाना करथो यद् ईमह ऋतावाना यद् ईमहे ||ayám mitrā́ya váruṇāya śáṃtamaḥ sómo bhūtvavapā́neṣvā́bhago devó devéṣvā́bhagaḥ ǀ
tám devā́so juṣerata víśve adyá sajóṣasaḥ ǀ
táthā rājānā karatho yádī́maha ṛ́tāvānā yádī́mahe ǁayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ |
taṃ devāso juṣerata viśve adya sajoṣasaḥ |
tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe ||अ॒यम् । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः ।
तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः ।
तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥अयम् । मित्राय । वरुणाय । शम्ऽतमः । सोमः । भूतु । अवऽपानेषु । आऽभगः । देवः । देवेषु । आऽभगः ।
तम् । देवासः । जुषेरत । विश्वे । अद्य । सऽजोषसः ।
तथा । राजाना । करथः । यत् । ईमहे । ऋतऽवाना । यत् । ईमहे ॥ayám ǀ mitrā́ya ǀ váruṇāya ǀ śám-tamaḥ ǀ sómaḥ ǀ bhūtu ǀ ava-pā́neṣu ǀ ā́-bhagaḥ ǀ deváḥ ǀ devéṣu ǀ ā́-bhagaḥ ǀ
tám ǀ devā́saḥ ǀ juṣerata ǀ víśve ǀ adyá ǀ sa-jóṣasaḥ ǀ
táthā ǀ rājānā ǀ karathaḥ ǀ yát ǀ ī́mahe ǀ ṛ́ta-vānā ǀ yát ǀ ī́mahe ǁayam ǀ mitrāya ǀ varuṇāya ǀ śam-tamaḥ ǀ somaḥ ǀ bhūtu ǀ ava-pāneṣu ǀ ā-bhagaḥ ǀ devaḥ ǀ deveṣu ǀ ā-bhagaḥ ǀ
tam ǀ devāsaḥ ǀ juṣerata ǀ viśve ǀ adya ǀ sa-joṣasaḥ ǀ
tathā ǀ rājānā ǀ karathaḥ ǀ yat ǀ īmahe ǀ ṛta-vānā ǀ yat ǀ īmahe ǁ1.136.4 Aṣṭaka 2.1.26.4Anuvāka 1.20.19
-
Ṛk 5
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।
तम॑र्य॒माभि र॑क्षत्यृजू॒यंत॒मनु॑ व्र॒तं ।
उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तं ॥यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः |
तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् |
उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ||yó mitrā́ya váruṇāyā́vidhajjáno’narvā́ṇam tám pári pāto áṃhaso dāśvā́ṃsam mártamáṃhasaḥ ǀ
támaryamā́bhí rakṣatyṛjūyántamánu vratám ǀ
uktháiryá enoḥ paribhū́ṣati vratám stómairābhū́ṣati vratám ǁyo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ |
tam aryamābhi rakṣaty ṛjūyantam anu vratam |
ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam ||यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः ।
तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् ।
उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः ।
तम् । अर्यमा । अभि । रक्षति । ऋजुऽयन्तम् । अनु । व्रतम् ।
उक्थैः । यः । एनोः । परिऽभूषति । व्रतम् । स्तोमैः । आऽभूषति । व्रतम् ॥yáḥ ǀ mitrā́ya ǀ váruṇāya ǀ ávidhat ǀ jánaḥ ǀ anarvā́ṇam ǀ tám ǀ pári ǀ pātaḥ ǀ áṃhasaḥ ǀ dāśvā́ṃsam ǀ mártam ǀ áṃhasaḥ ǀ
tám ǀ aryamā́ ǀ abhí ǀ rakṣati ǀ ṛju-yántam ǀ ánu ǀ vratám ǀ
uktháiḥ ǀ yáḥ ǀ enoḥ ǀ pari-bhū́ṣati ǀ vratám ǀ stómaiḥ ǀ ā-bhū́ṣati ǀ vratám ǁyaḥ ǀ mitrāya ǀ varuṇāya ǀ avidhat ǀ janaḥ ǀ anarvāṇam ǀ tam ǀ pari ǀ pātaḥ ǀ aṃhasaḥ ǀ dāśvāṃsam ǀ martam ǀ aṃhasaḥ ǀ
tam ǀ aryamā ǀ abhi ǀ rakṣati ǀ ṛju-yantam ǀ anu ǀ vratam ǀ
ukthaiḥ ǀ yaḥ ǀ enoḥ ǀ pari-bhūṣati ǀ vratam ǀ stomaiḥ ǀ ā-bhūṣati ǀ vratam ǁ1.136.5 Aṣṭaka 2.1.26.5Anuvāka 1.20.20
-
Ṛk 6
नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ ।
इंद्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भगं॑ ।
ज्योग्जीवं॑तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचं वरुणाय मीऌहुषे सुमृऌईकाय मीऌहुषे |
इन्द्रम् अग्निम् उप स्तुहि द्युक्षम् अर्यमणम् भगम् |
ज्योग् जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ||námo divé bṛhaté ródasībhyām mitrā́ya vocam váruṇāya mīḷhúṣe sumṛḷīkā́ya mīḷhúṣe ǀ
índramagnímúpa stuhi dyukṣámaryamáṇam bhágam ǀ
jyógjī́vantaḥ prajáyā sacemahi sómasyotī́ sacemahi ǁnamo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe |
indram agnim upa stuhi dyukṣam aryamaṇam bhagam |
jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi ||नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ ।
इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् ।
ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥नमः । दिवे । बृहते । रोदसीभ्याम् । मित्राय । वोचम् । वरुणाय । मीळ्हुषे । सुऽमृळीकाय । मीळ्हुषे ।
इन्द्रम् । अग्निम् । उप । स्तुहि । द्युक्षम् । अर्यमणम् । भगम् ।
ज्योक् । जीवन्तः । प्रऽजया । सचेमहि । सोमस्य । ऊती । सचेमहि ॥námaḥ ǀ divé ǀ bṛhaté ǀ ródasībhyām ǀ mitrā́ya ǀ vocam ǀ váruṇāya ǀ mīḷhúṣe ǀ su-mṛḷīkā́ya ǀ mīḷhúṣe ǀ
índram ǀ agním ǀ úpa ǀ stuhi ǀ dyukṣám ǀ aryamáṇam ǀ bhágam ǀ
jyók ǀ jī́vantaḥ ǀ pra-jáyā ǀ sacemahi ǀ sómasya ǀ ūtī́ ǀ sacemahi ǁnamaḥ ǀ dive ǀ bṛhate ǀ rodasībhyām ǀ mitrāya ǀ vocam ǀ varuṇāya ǀ mīḷhuṣe ǀ su-mṛḷīkāya ǀ mīḷhuṣe ǀ
indram ǀ agnim ǀ upa ǀ stuhi ǀ dyukṣam ǀ aryamaṇam ǀ bhagam ǀ
jyok ǀ jīvantaḥ ǀ pra-jayā ǀ sacemahi ǀ somasya ǀ ūtī ǀ sacemahi ǁ1.136.6 Aṣṭaka 2.1.26.6Anuvāka 1.20.21
-
Ṛk 7
ऊ॒ती दे॒वानां॑ व॒यमिंद्र॑वंतो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ ।
अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥ऊती देवानां वयम् इन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः |
अग्निर् मित्रो वरुणः शर्म यंसन् तद् अश्याम मघवानो वयं च ||ūtī́ devā́nām vayámíndravanto maṃsīmáhi sváyaśaso marúdbhiḥ ǀ
agnírmitró váruṇaḥ śárma yaṃsantádaśyāma maghávāno vayám ca ǁūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ |
agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca ||ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ ।
अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यं॒स॒न् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥ऊती । देवानाम् । वयम् । इन्द्रऽवन्तः । मंसीमहि । स्वऽयशसः । मरुत्ऽभिः ।
अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघऽवानः । वयम् । च ॥ūtī́ ǀ devā́nām ǀ vayám ǀ índra-vantaḥ ǀ maṃsīmáhi ǀ svá-yaśasaḥ ǀ marút-bhiḥ ǀ
agníḥ ǀ mitráḥ ǀ váruṇaḥ ǀ śárma ǀ yaṃsan ǀ tát ǀ aśyāma ǀ maghá-vānaḥ ǀ vayám ǀ ca ǁūtī ǀ devānām ǀ vayam ǀ indra-vantaḥ ǀ maṃsīmahi ǀ sva-yaśasaḥ ǀ marut-bhiḥ ǀ
agniḥ ǀ mitraḥ ǀ varuṇaḥ ǀ śarma ǀ yaṃsan ǀ tat ǀ aśyāma ǀ magha-vānaḥ ǀ vayam ǀ ca ǁ1.136.7 Aṣṭaka 2.1.26.7Anuvāka 1.20.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.