Ṛgveda · Maṇḍala 1 · Sūkta 136
Ṛk 1.136.5
Saṃhitā
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।
तम॑र्य॒माभि र॑क्षत्यृजू॒यंत॒मनु॑ व्र॒तं ।
उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तं ॥
यो मित्राय वरुणायाविधज् जनो ऽनर्वाणं तम् परि पातो अंहसो दाश्वांसम् मर्तम् अंहसः |
तम् अर्यमाभि रक्षत्य् ऋजूयन्तम् अनु व्रतम् |
उक्थैर् य एनोः परिभूषति व्रतं स्तोमैर् आभूषति व्रतम् ||
yó mitrā́ya váruṇāyā́vidhajjáno’narvā́ṇam tám pári pāto áṃhaso dāśvā́ṃsam mártamáṃhasaḥ ǀ
támaryamā́bhí rakṣatyṛjūyántamánu vratám ǀ
uktháiryá enoḥ paribhū́ṣati vratám stómairābhū́ṣati vratám ǁ
yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ |
tam aryamābhi rakṣaty ṛjūyantam anu vratam |
ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam ||
Padapāṭha
यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः ।
तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् ।
उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥
यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः ।
तम् । अर्यमा । अभि । रक्षति । ऋजुऽयन्तम् । अनु । व्रतम् ।
उक्थैः । यः । एनोः । परिऽभूषति । व्रतम् । स्तोमैः । आऽभूषति । व्रतम् ॥
yáḥ ǀ mitrā́ya ǀ váruṇāya ǀ ávidhat ǀ jánaḥ ǀ anarvā́ṇam ǀ tám ǀ pári ǀ pātaḥ ǀ áṃhasaḥ ǀ dāśvā́ṃsam ǀ mártam ǀ áṃhasaḥ ǀ
tám ǀ aryamā́ ǀ abhí ǀ rakṣati ǀ ṛju-yántam ǀ ánu ǀ vratám ǀ
uktháiḥ ǀ yáḥ ǀ enoḥ ǀ pari-bhū́ṣati ǀ vratám ǀ stómaiḥ ǀ ā-bhū́ṣati ǀ vratám ǁ
yaḥ ǀ mitrāya ǀ varuṇāya ǀ avidhat ǀ janaḥ ǀ anarvāṇam ǀ tam ǀ pari ǀ pātaḥ ǀ aṃhasaḥ ǀ dāśvāṃsam ǀ martam ǀ aṃhasaḥ ǀ
tam ǀ aryamā ǀ abhi ǀ rakṣati ǀ ṛju-yantam ǀ anu ǀ vratam ǀ
ukthaiḥ ǀ yaḥ ǀ enoḥ ǀ pari-bhūṣati ǀ vratam ǀ stomaiḥ ǀ ā-bhūṣati ǀ vratam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.136.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.26.05
- Maṇḍala · Anuvāka · Ṛk
- 1.20.020
- Devatā देवता
- 1-5: Mitra, Varuṇa; 6: Mitra, Varuṇa, Indra, Agni, Aryaman, Bhaga; 7: Agni, Mitra, Varuṇa
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.